पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२९

← अध्यायः ०२८ पद्मपुराणम्
अध्यायः ०२९
वेदव्यासः
अध्यायः ०३० →

महादेव उवाच-
अथान्यत्संप्रवक्ष्यामि शृणु देवर्षिसत्तम ।
गोपीचंदनमाहात्म्यं यथादृष्टं श्रुतं मया १।
ब्राह्मणो वाथ वैश्यो वा शूद्रो वाप्यथवा द्विजः ।
गोपीचंदनलिप्तांगो मुच्यते ब्रह्महत्यया २।
तिलकं कुरुते यस्तु गोपीचंदनसंभवम् ।
मद्यपानादिदोषैस्तु मुच्यते नात्र संशयः ३।
गोपीचंदनलिप्तांगो वैष्णवो विष्णुतत्परः ।
सर्वदोषैः प्रमुच्येत यथा गंगांभसा पुनः ४।
ब्रह्महा मद्यपानी च स्वर्णस्तेयी तथैव च ।
गुरुतल्पगमो वाथ शूद्रो वाप्यथ वै द्विजः ५।
स सद्यो मुच्यते पापादाजन्मशतकारणात् ।
द्वादशतिलकं प्रोक्तं सर्वेषां वै विशेषतः ६।
वैष्णवानां ब्राह्मणानां कर्तव्यं भूतिमिच्छताम् ।
दंडाकारं ललाटे स्यात्पद्माकारं तु वक्षसि ७।
वेणुपत्रनिभं बाहुमूलेऽन्यद्दीपकाकृति ।
उच्चैश्चक्राणि चत्वारि बाहुमूले तु दक्षिणे ८।
नाममुद्राद्वयं नीचैः शंखमेकं तयोरपि ।
मध्ये ततः पार्श्वयोस्तु द्वे द्वे पद्मे च धारयेत् ९।
वामेऽपि चतुरः शंखान्नाममुद्रे च पूर्ववत् ।
चक्रमेकंगदे द्वे द्वे तयोरिति विभेदतः १०।
ललाटे च गदामेकां नाममुद्रां तथा हृदि ।
त्रीणित्रीणि विचित्राणि मध्ये शाखावुभावुभौ ११।
हृदि पार्श्वे स्तनादूर्ध्वं गदापद्मानि बाहुवत् ।
त्रीणि चत्वारि चक्राणि कर्णमूले द्वयोरधः १२।
एकमेकं तदन्येषु तिलकेषु च धारयेत् ।
संप्रदायजमुद्रां तु धार्या शिष्टानुसारतः १३।
यथारुच्यथवा धार्या न तत्र नियमा यतः ।
आचांडालाद्विशुद्ध्यंति तिलकस्यैव धारणात् १४।
चांडालादधिकं मन्ये वैष्णवानां हि निंदकम् ।
स च विष्णुसमो ज्ञेयो नात्र कार्या विचारणा १५।
वैष्णवो ब्राह्मणो यस्तु विष्णुध्यानेषु तत्परः ।
नांतरस्तस्य वै ज्ञेयः स वै विष्णुर्भवेदिह १६।
शंखचक्रधरो विप्रो वेदाध्ययनतत्परः ।
स वै नारायण इति वेदे चैव तु पठ्यते १७।
तप्तचक्रधरो विप्रः पंक्तिपावनपावनः ।
तस्य भक्तियुतो ब्रह्मन्महापापैः प्रमुच्यते १८।
तुलसीपत्रमालां वा तुलसीकाष्ठसंभवाम् ।
धृत्वा वै ब्राह्मणो भूयान्मुक्तिभागी न संशयः १९।
विष्णुरूपो यतो विप्रो वैष्णवः स इह स्मृतः ।
पंचत्वे यस्य तिलकं गोपीचंदनसंभवम् २०।
विमानं स समारुह्य याति विष्णोः परं पदम् ।
कलौ नारद वक्ष्यामि तिलकं गोपिचंदनम् २१।
ये कुर्वंति नरश्रेष्ठा न तेषां दुर्गतिः क्वचित् ।
शंखं चैव तथा चक्रं दक्षिणे चापि सव्यके २२।
हस्ते धृत्वा विशेषेण महापापैः प्रमुच्यते ।
मद्यपानरता ये च ये च स्त्रीबालघातकाः २३।
अगम्यागमका ये वै दृश्यंते भुवि वाडव ।
भक्तानां दर्शनादेव मुक्तिस्तेषां न संशयः २४।
संसारे तुच्छसारेस्मिन्कुतो वै वैष्णवा जनाः ।
अहं हि वैष्णवो जातो विष्णोर्भक्तिप्रसादतः २५।
काश्यां निवसतां ह्यत्र रामरामेति संजपन् ।
तेन पुण्यादियोगेन शिवो वै नात्र संशयः २६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे गोपीचंदनमाहात्म्यं नामैकोनत्रिंशोऽध्यायः २९।