← अध्यायः ०३० पद्मपुराणम्
अध्यायः ०३१
वेदव्यासः
अध्यायः ०३२ →

नारदउवाच-
देवदेव जगन्नाथ भक्तानामभयप्रद
व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि १
श्रीमहादेव उवाच-
सार्वभौमः पुरा ह्यासीद्धरिश्चंद्रो महीपतिः
तस्यतुष्टोऽददद्ब्रह्मा पुरीं कामदुघां शुभाम् २
सर्वरत्नमयीं दिव्यां बालार्कसदृशप्रभाम्
तत्र स्थितो महीपालो सप्तद्वीपां वसुंधराम् ३
पालयामास धर्मेण पिता पुत्रमिवौरसम्
प्रभूतधनधान्यस्तु पुत्रदौहित्रवान्नृपः ४
स पालयन्शुभं राज्यं परं विस्मयमागतः
न तादृशमभूत्पूर्वं राज्यं कस्य हि कर्हिचित् ५
न चेदृशं नरैरन्यैर्विमानमधिरोहितम्
कस्येह कर्मणो व्यष्टिर्येनाहं सुरराडिव ६
इति चिंतापरो भूत्वा विमानवरमास्थितः
ददर्श पार्थिववरो मेरुं शिखरिणां वरम् ७
तत्रास्ते च महात्मासौ द्वितीय इव भास्करः
आसीनं पर्वतवरे शैलपट्टे हिरण्मये ८
सनत्कुमारं ब्रह्मर्षिं ज्ञानयोगपरायणम्
दृष्ट्वा ह्यवातरद्राजा प्रष्टुकामोऽथ विस्मयम् ९
ववंदे चरणौ हृष्टस्तेनापि स च नंदितः
सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुंगवम् १०
भगवन्दुर्ल्लभा लोके संपच्चेयं यथा मम
कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि ११
तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि
सनत्कुमार उवाच-
शृणु राजन्प्रवक्ष्यामि पूर्ववृत्तस्य कारणम् १२
येन कृत्वा विशेषेण तव चानुग्रहोऽभवत्
त्वमासीः पूर्वजनुषि सुवैश्यः सत्यवाक्शुचिः १३
स्वं कर्म ते परित्यक्तं ततस्त्यक्तस्तु बांधवैः
सत्वं वृत्तिपरिक्षीणो भार्ययानुगतस्तथा १४
निर्गतः स्वजनांस्त्यक्त्वा परप्रेषणलिप्सया
न च प्रेषणदो ह्यासीत्काले दुर्भिक्षपीडितः १५
ततः कदाचिद्गहने सरश्चोत्फुल्लपंकजम्
दृष्ट्वा तत्र कृतो भावो गृह्णीवः पंकजानि वै १६
एतावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे
आस्थितौ नगरीं पुण्यां नाम्ना वाराणसीं शुभाम् १७
ततो विक्रयतः कश्चिनैव गृह्णाति पंकजम्
तन्मठान्निर्गतः कश्चित्तत्रैव प्रांगणे स्थितः १८
तत्र स्थाने प्रविशता श्रुतो वादित्रनिस्वनः
कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निस्वनः १९
इति पृष्टे तदा तूर्ये तेनोक्ते प्रस्थितोंतरम्
काशिराजस्तु विख्यात इंद्रद्युम्नस्तु पार्थिवः २०
तस्यास्ति दुहिता ख्याता नाम्ना चंद्रावती सती
उपोषिता महाभागा जयंतीमष्टमीं शुभाम् २१
तत्रागतोऽसौ वैश्यस्तु यत्र तिष्ठति सा शुभा
संतुष्टचित्तः स तदा हर्षस्तत्रागतो महान् २२
तत्र स्थाने त्वया दृष्टो देव वैतानिको विधिः
आदित्यसहितो यत्र पूज्यते भगवान्हरिः २३
तद्भक्त्या च त्वया पत्न्या सह पुष्पार्चनं कृतम्
शेषैस्तु प्रकरस्तत्र कृतः पुष्पमयस्तथा २४
तं दृष्ट्वा विस्मिता साह केनेहाभ्यर्चनं कृतम्
ज्ञात्वा तत्कर्मतत्सर्वं कृतं संरक्षणं तथा २५
ततस्तुष्टा तु सा तुभ्यं ददौ वित्तं बहुस्वयम्
त्वया वित्तं नो गृहीतं भोजनायानुमंत्रितः २६
न गृहीतं भोजनं च न च वित्तं त्वया तदा
आदित्यो विष्णुसंयुक्तः पूजितोऽसौ यथाविधि २७
ततः प्रभातसमये रक्षमाणस्तया सदा
विश्रंभयित्वा तान्सर्वान्निर्गतोऽसि यथेच्छया २८
तदेतदन्यजनुषि सुकृतं चार्जितं त्वया
पंचत्वं च त्वया प्राप्तं स्वीयकर्मानुयोगतः २९
तेन पुण्येन महता विमानमागमत्तदा
तत्फलं भुज्यते भूप पूर्वजन्मकृतं च यत् ३०
हरिश्चंद्र उवाच-
केनैव च विधानेन कस्मिन्मासे च सा तिथिः
कर्त्तव्या तन्ममाचक्ष्व अनुग्राह्योऽस्मि ते यदि ३१
सनत्कुमार उवाच-
शृणुष्वावहितो राजन्कथ्यमानं मया तव
श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप ३२
रोहिणी यदि लभ्येत जयंती नाम सा तिथिः
भूयोभूयो महाराज भवेज्जन्मनि कारणम् ३३
विधानमस्या वक्ष्यामि यथोक्तं ब्रह्मणा मम
यत्कृत्वा मुक्तपापस्तु विष्णुलोकं प्रगच्छति ३४
उपोषितस्ततः कृत्वा स्नानं कृष्णतिलैः सह
स्थापयेदव्रणं कुंभं पंचरत्नसमन्वितम् ३५
वज्रमौक्तिकवैडूर्य पुष्परागेंद्रनीलकम्
पंचरत्नं प्रशस्तं तु इति कात्यायनोऽब्रवीत् ३६
तस्योपरि न्यसेत्पात्रं सौवर्णं लक्षणान्वितम्
सौवर्णां विन्यसेत्तत्र यशोदां नंदगेहिनीम् ३७
ददमानां तु पुत्रस्य स्तनं वै विस्मिताननाम्
पिबमानं स्तनं मातुरपरं पाणिना स्पृशत् ३८
आलोक्य मातरं प्रेम्णा सुखयंतं मुहुर्मुहुः
सौवर्णं कारयेद्देवं यावच्छक्तिश्च विद्यते ३९
द्वि निष्कमात्रं कर्तव्यं यदि शक्तिश्च विद्यते
त्रिलोहेनैव कर्तव्यं सौवर्णेनाथवा पुनः ४०
तद्वच्च रोहिणीं कुर्यात्सौवर्णी राजतः शशी
अंगुष्ठमात्रस्तु शशी रोहिणी चतुरंगुला ४१
कर्णयोः कुंडले दद्यात्कंठाभरणकं गले
एवं कृत्वा तु गोविंदं मात्रासार्द्धं जगत्पतिम् ४२
क्षीरादिस्नपनं कृत्वा चंदनेनानुलेपयेत्
श्वेतवस्त्रयुगच्छत्रं पुष्पमालोपशोभितम् ४३
नैवेद्यैर्विविधैर्भक्षैः फलैर्नानाविधैरपि
दीपं च कारयेत्तत्र पुष्पमंडपशोभितम् ४४
गीतं नृत्यं च वाद्यं च कारयेद्भक्तिमान्बुधैः
एवं कृत्वा विधानं तु यथाविभवसारतः
गुरुं संपूजयेत् पश्चात्पूजां तत्र समापयेत् ४५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे जन्माष्टमीव्रतंनाम एकत्रिंशोऽध्यायः ३१