← अध्यायः ०४३ पद्मपुराणम्
अध्यायः ०४४
वेदव्यासः
अध्यायः ०४५ →

युधिष्ठिर उवाच-
फाल्गुनस्यासिते पक्षे किंनामैकादशीभवेत्
कथयस्व प्रसादेन वासुदेव ममाग्रतः १
श्रीकृष्ण उवाच-
नारदः परिपप्रच्छ ब्रह्माणं कमलासनम्
फाल्गुनस्यासिते पक्षे विजयानाम नामतः
तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः २
ब्रह्मोवाच-
शृणु नारद वक्ष्यामि कथां पापहराम्पराम्
यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम् ३
पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम्
जयं ददाति विजया नृपाणां वै न संशयः ४
पुरा रामो वनं यातो वर्षाण्येव चतुर्दश
न्यवसत्पंचवट्यां तु सहसीतः सलक्ष्मणः ५
तत्रैव वसतस्तस्य रामस्य विजयात्मनः
रावणेन हृता लौल्याद्भार्या सीता यशस्विनी ६
तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा
भ्रमन्जटायुषमथो ददर्श विगतायुषम् ७
कबंधो निहतः पश्चाद्भ्रमतारण्यमध्यतः
सुग्रीवेण समं तस्य सखित्वं समपद्यत ८
वानराणामनीकानि रामार्थंसंगतानि च
ततो हनुमता दृष्टा लंकोद्याने तु जानकी ९
रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम्
पुनः समेत्य रामेण सर्वं तत्र निवेदितम् १०
अथ श्रुत्वा रामचंद्रो वाक्यं चैव हनूमतः
सुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ११
सौमित्रेकेन पुण्येन तीर्यते वरुणालयः
अगाधो नितरामेष यादोभिश्च समाकुलः
उपायं नैव पश्यामि येनासौ सुतरो भवेत् १२
लक्ष्मण उवाच-
आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः
बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः १३
अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघव
अन्ये च ब्राह्मणास्तत्र बहवो रघुनंदन १४
तं पृच्छ गत्वा राजेंद्र पुराणमृषिपुंगवम्
इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् १५
जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम्
प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः १६
ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम्
केनापि कारणेनैव प्रविष्टो मानुषीं तनुम् १७
उवाच स ऋषिस्तुष्टः कुतो राम तवागमः १८
राम उवाच-
त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः
आगतोऽस्मि ससैन्योऽत्र लंकां जेतुं सराक्षसाम् १९
भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया
तमुपायं वद मुने प्रसादं कुरु सांप्रतम् २०
एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतः
रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः २१
उवाच सुप्रसन्नात्मा रामं राजीवलोचनम्
कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम् २२
कृतेन येन सहसा विजयस्ते भविष्यति
लंकां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि २३
एकाग्रमानसो भूत्वा व्रतमेतत्समाचर
फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत् २४
तस्या व्रतेन हे राम विजयस्ते भविष्यति
निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः २५
विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदः
दशम्यां दिवसे प्राप्ते कुंभमेकं तु कारयेत् २६
हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम्
स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम् २७
सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत्
तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम् २८
एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत्
निश्चलं स्थापयेत्कुंभं कंठमाल्यानुलेपनैः २९
पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः
गंधैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि ३०
कुंभाग्रे तद्दिनं राम नीयते सत्कथादिभिः
रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः ३१
प्रकाशयेद्घृतदीपमखंडव्रतहेतवे
द्वादशीदिवसे प्राप्ते मार्तंडस्योदये सति ३२
नीत्वा कुंभं जलोद्देशे नद्याः प्रस्रवणे तथा
तडागे स्थापयित्वा तं पूजयित्वा यथाविधि ३३
दद्यात्सदेवं तं कुंभं ब्राह्मणे वेदपारगे
कुंभेन सह राजेंद्र महादानानि दापयेत् ३४
अनेनविधिना राम यूथपैः सह संगतः
कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति ३५
इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा
कृते व्रते स विजयी बभूव रघुनंदनः ३६
प्राप्ता सीता जिता लंका पौलस्त्यो निहतो रणे
अनेनविधिना पुत्र ये कुर्वंति नरा व्रतम् ३७
इहलोकजयप्राप्तिः परलोकस्तथाक्षयः
एतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम् ३८
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम्
पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत् ३९
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे फाल्गुनकृष्णाविजयामाहात्म्यंनाम चतुश्चत्वारिंशोऽध्यायः ४४