पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४८

← अध्यायः ०४७ पद्मपुराणम्
अध्यायः ०४८
वेदव्यासः
अध्यायः ०४९ →

युधिष्ठिर उवाच-
वैशाखस्यासिते पक्षे किंनामैकादशी भवेत् ।
महिमानं कथय मे वासुदेव नमोऽस्तु ते १।
श्रीकृष्ण उवाच-
सौभाग्यदायिनी राजन्निहलोके परत्र च ।
वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी २।
वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा ।
पापहानिश्च भवति सौभाग्यप्राप्तिरेव च ३।
दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात् ।
लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी ४।
सर्वपापहरा नॄणां गर्भवासनिकृंतनी ।
वरूथिन्या व्रतेनैव मांधाता स्वर्गतिं गतः ५।
धुंधुमारादयश्चान्ये राजानो बहवस्तथा ।
ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः ६।
दशवर्षसहस्राणि तपस्तप्यति यो नरः ।
कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः ।
तत्तुल्यंफलमाप्नोतिवरूथिन्याव्रतंचरन् ७।
श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः ।
वांछितं लभते सोऽपि इहलोके परत्र च ८।
पवित्रा पावनी ह्येषा महापातकनाशिनी ।
भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम ९।
अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते ।
गजदानाद्भूमिदानं तिलदानं ततोऽधिकम् १०।
तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम् ।
अन्नदानात्परं दानं न भूतं न भविष्यति ११।
पितृदेवमनुष्याणां तृप्तिरन्नेन जायते ।
तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम १२।
धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम् ।
प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते १३।
तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम् ।
कन्यावित्तेन जीवंति ये नराः पापमोहिताः १४।
पुण्यक्षयं ते गच्छंति निरयं यातनामयम् ।
तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम् १५।
यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम् ।
सोऽन्यजन्मनि राजेंद्र ओतुर्भवति निश्चितम् १६।
कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलंकृताम् ।
तत्पुण्यसंख्यां नृपते चित्रगुप्तो न शक्नुयात् १७।
तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम् ।
कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा १८।
शाकं मधु परान्नं च पुनर्भोजन मैथुने ।
वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत् १९।
द्यूतं क्रीडां च निद्रां च तांबूलं दंतधावनम् ।
परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम् २०।
क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत् ।
कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम् २१।
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् ।
वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत् २२।
अनेन विधिना राजन्विहिता यैर्वरूथिनी ।
सर्वपापक्षयं कृत्वा दद्यात्प्रांतेऽक्षयां गतिम् ।
रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः २३।
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् ।
तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः २४।
क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम् ।
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते २५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे वैशाखकृष्णवरूथिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः ४८।