पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०५७
← अध्यायः ०५६ | पद्मपुराणम् अध्यायः ०५७ वेदव्यासः |
अध्यायः ०५८ → |
युधिष्ठिर उवाच -
नभस्यस्य सिते पक्षे किंनामैकादशी भवेत् ।
को देवः को विधिस्तस्य एतदाख्याहि केशव १।
श्रीकृष्ण उवाच-
कथयामि महीपाल कथामाश्चर्यकारिणीम् ।
कथयामास यां ब्रह्मा नारदाय महात्मने २।
नारद उवाच-
कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते ।
नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत् ।
एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ३।
ब्रह्मोवाच-
वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया ।
नातः परतरा लोके पवित्रा हरिवासरात् ४।
पद्मा नामेति विख्याता नभस्यैकादशी सिता ।
हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम् ५।
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् ।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति ६।
मांधाता नाम राजर्षिर्विवस्वद्वंशसंभवः ।
बभूव चक्रवर्ती स सत्यसंधः प्रतापवान् ७।
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान् ।
न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा ८।
निरातंकाः प्रजास्तस्य धनधान्यसमेधिताः ।
न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते ९।
स्वस्वधर्मे प्रवर्त्तंते सर्वे वर्णाश्रमास्तथा ।
कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः १०।
तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः ।
अथैकस्मिंश्च संप्राप्ते विपाकः कर्मणः खलु ११।
वर्षत्रयं तद्विषये न ववर्ष बलाहकः ।
तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः १२।
स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः ।
बभूव विषयस्तस्या भाग्येन दैवपीडितः ।
अथ प्रजाः समागम्य राजानमिदमब्रुवन् १३।
प्रजा ऊचुः -
श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया ।
आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः १४।
अयनं भगवतस्तस्मान्नारायण इति स्मृतः ।
पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः १५।
स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः ।
तदभावे नृपश्रेष्ठ क्षयं गच्छंति वै प्रजाः ।
तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत् १६।
राजोवाच-।
सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित् ।
अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम् १७।
अन्नाद्भवंति भूतानि जगदन्नेन वर्तते ।
इत्येवं श्रूयते लोके पुराणे बहुविस्तरे १८।
नृपाणामपचारेण प्रजानां पीडनं भवेत् ।
नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् १९।
तथापि प्रयतिष्यामि प्रजानां हितकाम्यया ।
इति कृत्वा मतिं राजा परिमेयपरिच्छदः २०।
नमस्कृत्य विधातारं जगाम गहनं वनम् ।
चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान् २१।
ददर्शाथ ब्रह्मसुतमृषिमांगिरसं नृपः ।
तेजसा द्योतितदिशं द्वितीयमिव पद्मजम् २२।
तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात् ।
नमश्चक्रेऽस्य चरणौ कृतांजलिपुटो वशी २३।
मुनिस्तमभिनंद्याथ स्वस्तिवाचनपूर्वकम् ।
पप्रच्छ कुशलं राज्ये सप्तस्वंगेषु भूपतेः २४।
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः ।
दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य संनिधौ २५।
प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम् २६।
राजोवाच-
भगवन्धर्मविधिना मम पालयतो महीम् ।
अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम् २७।
संशयच्छेदनायात्र आगतोऽहं तवांतिके ।
योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम् २८।
ऋषिरुवाच-
एतत्कृतयुगं राजन्युगानामुत्तमं मतम् ।
अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः २९।
अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः ।
विषये तव राजेंद्र वृषलोऽयं तपस्यति ३०।
एतस्मात्कारणाच्चैव न वर्षति बलाहकः ।
कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ३१।
राजोवाच-
नाहमेनं वधिष्यामि तपस्यंतमनागसम् ।
धर्मोपदेशं कथय उपसर्गविनाशनम् ३२।
ऋषिरुवाच-
यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम् ।
नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता ३३।
तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम् ।
सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ३४।
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः ।
इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः ३५।
भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत् ।
प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः ३६।
एवं व्रते कृते राजन्प्रववर्ष बलाहकः ।
जलेन प्लाविता भूमिरभवत्सस्यशालिनी ३७।
ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे ।
एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम् ३८।
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे ।
वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च ३९।
नमो नमस्ते गोविंद बुधश्रवणसंज्ञक ।
अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ४०।
भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः ।
पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ४१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम सप्तपंचाशत्तमोऽध्यायः५७।