पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७२

← अध्यायः ०७१ पद्मपुराणम्
अध्यायः ०७२
वेदव्यासः
अध्यायः ०७३ →

श्रीमहादेव उवाच-
ब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके ।
शूद्रा वाथ विशेषेण पठंत्यनुदिनं यदि १।
धनधान्यसमायुक्ता यांति विष्णोः परं पदम् ।
श्लोकं वा श्लोकमर्द्धं वा पादं पादार्द्धमेव वा २।
पठनान्मोक्षमाप्नोति यावदाभूतसंप्लवम् ।
विन्यासेन युतं देवि विष्णोर्नामसहस्रकम् ३।
ये पठंति नरश्रेष्ठास्ते यांति पदमव्ययम् ।
एककालं द्विकालं वा त्रिकालं वाथ यः पठेत् ४।
धनायुर्वर्धते तस्य यावदिंद्राश्चतुर्दश ।
पुत्रान्पौत्रांस्तथालक्ष्मी संपदं विपुलां लभेत् ५।
किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ।
विष्णोर्नामसहस्रं तु परं निर्वाणदायकम् ६।
पूजनं प्रथमं तस्य कृतं येन नरेण तु ।
संपूर्णं पूजिते विष्णौ तस्य पूजा च वार्षिकी ७।
व्यग्रत्वं च न कर्त्तव्यं पठने तु विशेषतः ।
यदि चेत्क्रियते पाठे ह्यायुर्वित्तं च नश्यति ८।
यावंति भुवि तीर्थानि जंबुद्वीपेषु सर्वदा ।
तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम् ९।
तत्रैव गंगा यमुना च वेणी गोदावरी तत्र सरस्वती च ।
सर्वाणि तीर्थानि वसंति तत्र यत्र स्थितं नामसहस्रकं तत् १०।
इदं पवित्रं परमं भक्तानां वल्लभं सदा ।
ध्येयं हि दासभावेन भक्तिभावेन चेतसा ११।
परं सहस्रनामाख्यं ये पठंति मनीषिणः ।
सर्वपापविनिर्मुक्तास्ते यांति हरिसंनिधौ १२।
अरुणोदयकाले तु ये पठंति जपंति च ।
आयुर्बलं च तेषां श्रीर्वर्द्धते च दिनेदिने १३।
रात्रौ जागरणे प्राप्ते कलौ भागवतो नरः ।
पठनान्मुक्तिमाप्नोति यावदिंद्राश्चतुर्दश १४।
एकैकेन तु नाम्ना वै हरौ तुलसिकारणात् ।
पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका १५।
मार्गे च गच्छमानास्तु ये पठंति द्विजातयः ।
न दोषा मार्गजास्तेषां भवंति किल पार्वति १६।
शृणु देवि प्रवक्ष्यामि माहात्म्यं केशवस्य तु ।
ये शृण्वंति नरश्रेष्ठास्ते पुण्याः पुण्यरूपिणः १७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे सहस्रनाममहिमानाम द्विसप्ततितमोऽध्यायः ७२।