पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०७५

← अध्यायः ०७४ पद्मपुराणम्
अध्यायः ०७५
वेदव्यासः
अध्यायः ०७६ →

महादेव उवाच-
गंडिकायास्तु माहात्म्यं वक्ष्ये देवि विधानतः ।
यथा गंगा तथा सा च कथिता नगनंदिनि १।
शालग्रामशिला यत्र जायते बहुधा तथा ।
माहात्म्यं चैव तस्याश्च कथितं मुनिसत्तमैः २।
अंडजा उद्भिजा यत्र स्वेदजाश्च जरायुजाः ।
यस्या दर्शनमात्रेण पुण्यरूपास्तु पार्वति ३।
उत्तरे सा तु संभूता गंडिका तु महानदी ।
संस्मृता संस्मृता नूनं पापं हंत्यगनंदिनि ४।
यत्र नारायणो देवो नित्यं तिष्ठति भूतिदः ।
शंखचक्रधरास्तस्य समीपे निवसंति ये ५।
ते मृत्युं समनुप्राप्य दिव्यरूपाश्चतुर्भुजाः ।
ऋषयस्तत्र तिष्ठंति देवाश्चैवं विशेषतः ६।
रुद्रा नागास्तथा यक्षा नात्र कार्या विचारणा ।
तस्याः समीपे ह्येकोऽयं स्थलो वै विष्णुरूपधृक् ७।
स्थलेऽस्मिन्वर्तते मूर्तिर्बहुरूपातिमुक्तिदा ।
चतुर्विंशतिभूतानां जातयः संति तत्र वै ८।
एका वै मत्स्यरूपा च कृष्णरूपातिमुक्तिदा ।
अन्या च या बुधैः प्रोक्ता स्थले वै विष्णुसंज्ञके ९।
कल्किनाम्नी तथा पुण्या कपिला या मयोदिता ।
अन्यास्तु विविधाकारा दृश्यंते बहुधा अपि १०।
तिष्ठंति मूर्त्तयः सर्वा नानारूपा ह्यनेकशः ।
सा गंगा महती पुण्या धर्मकामार्थमुक्तिदा ११।
यस्यां भूमौ हृषीकेशो नियमेन समन्वितः ।
वर्त्ततेऽद्यापि तत्रैव मया सह न संशयः १२।
भ्रूणहत्या बालहत्या गोहत्या च विशेषतः ।
यस्याः स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषात् १३।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवान्यजातयः ।
सर्वे ते वै विमुच्यंते दर्शनाद्गंडिकांबुनः १४।
इयं वेणी समा पुण्या पापिनां तु विशेषतः ।
मुच्यते ब्रह्महा यत्र इतरेषां तु का कथा १५।
सर्वदा सर्वकाले तु अहं गच्छामि पार्वति ।
तीर्थानां तीर्थराजोऽयं ब्रह्मणा भाषितः किल १६।
तत्र स्नानं च दानं च मुनिभिः परिकल्पितम् ।
आषाढे पुण्यकाले तु तत्र गच्छामि सुंदरि १७।
मासैकविधिना चैव स्नानं तत्र करोम्यहम् ।
तारकं तत्र विशदं जपामि तु निरंतरम् १८।
अतोऽहं वैष्णवो जातो विष्णुक्षेत्रे यतोगतः ।
विष्णुना निर्मितं पूर्वं क्षेत्रं तत्तु महत्तरम् १९।
वैष्णवानां च गतिदं पावनं परमं स्मृतम् ।
भवेऽस्मिन्मानुषे जन्म दुर्लभं देवि सर्वदा २०।
दुर्लभं गण्डिकातीर्थं विष्णुक्षेत्रं तु दुर्लभम् ।
अतो ह्याषाढमासे तु गंतव्यं द्विजसत्तमैः २१।
तत्र गत्वा विशेषेण शंखचक्रादिधारणम् ।
कर्त्तव्यं तु द्विजश्रेष्ठैः पवित्रं परमं स्मृतम् २२।
शंखतीर्थं तु वामे वै दक्षिणे चक्रचिह्नितम् ।
द्विजानां मुक्तिदं प्रोक्तं धारितव्यं प्रयत्नतः २३।
ब्राह्मणैश्च विशेषेण शंखचक्रादिधारणं ।
धृते सति महादेवि वैष्णवास्ते हि मानवाः २४।
न गण्डिका समं तीर्थं न व्रतं द्वादशीसमम् ।
न देवः केशवादन्यो भूयोभूयो वरानने २५।
गंडिकायास्तु माहात्म्यं ये शृण्वंति नरोत्तमाः ।
इहलोके सुखं भुक्त्वा विष्णुलोके हि यांति ते २६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे गंडिकातीर्थमाहात्म्यंनाम पंचसप्ततितमोऽध्यायः ७५।