पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९७

← अध्यायः ०९६ पद्मपुराणम्
अध्यायः ०९७
वेदव्यासः
अध्यायः ०९८ →

नारद उवाच-
ये देवैर्निर्जिताः पूर्वं दैत्याः पातालसंस्थिताः १।
ते हि भूमंडलं जाता निर्भयास्तमुपासितुम् ।
कदाचिच्छिन्नशिरसं राहुं दृष्ट्वा स दैत्यराट् ।
पप्रच्छ भार्गवं विप्रं केनेदं विहितं प्रभो २।
भार्गवस्तस्य शिरसश्छेदं राहोः शशंस ह ।
अमृतार्थं समुद्रस्य मथनं देवकारितम् ३।
रत्नापहरणं चैव दैत्यानां च पराभवम् ।
तच्छ्रुत्वा क्रोधरक्ताक्षः स्वपितुर्मथनं तदा ४।
स दूतं प्रेषयामास घस्मरं शक्रसंनिधौ ।
दूतस्त्रिविष्टपं गत्वा सुधर्मां प्राप्य सत्वरम् ५।
गर्वादखर्वमौलिस्तु देवेंद्रं वाक्यमब्रवीत् ।
दूत उवाच-
जलंधरोऽब्धितनयः सर्वदैत्यजनेश्वरः ६।
दूतोऽहं प्रेषितस्तेन स यदाह शृणुष्व तत् ।
कस्मात्त्वया मम पिता मथितः सागरोऽद्रिणा ७।
नीतानि सर्वरत्नानि तानि शीघ्रं प्रयच्छ मे ।
इति दूतवचः श्रुत्वा विस्मितस्त्रिदशाधिपः ।
उवाच घस्मरं घोरं भयरोषसमन्वितः ८।
ईश्वर उवाच-
शृणु दूत मया पूर्वं मथितः सागरो यथा ।
अद्रयो मद्भयाद्भीताः स्वकुक्षिस्थास्तथा कृताः ९।
अन्येऽपि मद्द्विषस्तेन रक्षिता दितिजास्तथा ।
तस्मात्तद्रत्नजातं तु मयाप्यपहृतं किल १०।
शंखोऽप्येवं पुरा देवानद्विषत्सागरात्मजः ।
ममानुजेन निहतः प्रविष्टः सागरोदरम् ११।
तद्गच्छ कथयस्वास्यसर्वं मथनकारणम् १२।
नारद उवाच-
इत्थं विसर्जितो दूतस्तदेंद्रेणागमद्गृहम् ।
तदिंद्रवचनं दैत्यराजायाकथयत्तदा १३।
तन्निशम्य तदा दैत्यो रोषात्प्रस्फुरिताधरः ।
उद्योगमकरोत्तूर्णं सर्वदेवजिगीषया १४।
तदोद्योगे सुरेंद्रस्य दिग्भ्यः पातालतस्तथा ।
दितिजाः प्रत्यपद्यंत शतशः कोटिशस्तथा १५।
अथ शुंभनिशुंभाद्यैर्बलाधिपतिकोटिभिः ।
गत्वा त्रिविष्टपं दैत्यो युद्धायाधिष्ठितोऽभवत् १६।
निर्ययुस्त्वमरावत्या देवा युद्धाय दंशिताः ।
पुरमावृत्य तिष्ठंति दृष्ट्वा दैत्यबलं महत् १७।
ततः समभवद्युद्धं देवदानवसेनयोः ।
मुशलैः परिघैर्बाणैर्गदापरशुशक्तिभिः १८।
तेऽन्योन्यं समधावेतां जघ्नतुश्च परस्परम् ।
क्षणेनाभवतां सेने रुधिरौघ परिप्लुते १९।
पतितैः पात्यमानैश्च गजाश्वरथपत्तिभिः ।
व्यराजत रणे भूमिः संध्याभ्रपटलैरिव २०।
तत्र युद्धे हतान्दैत्यान्भार्गवस्तूदतिष्ठयत् ।
विद्ययाऽमृतजीविन्या मंत्रितैस्तोयबिंदुभिः २१।
देवास्तत्र तथा युद्धे जीवयेदंगिरस्सुतः ।
दिव्यौषधीः समानीय द्रोणदेश्याः पुनः पुनः २२।
दृष्ट्वा देवांस्तथा युद्धे पुनरेव समुत्थितान् ।
जलंधरः क्रोधवशो भार्गवं वाक्यमब्रवीत् २३।
जलंधर उवाच-
मया देवा हता युद्धे उत्तिष्ठंति कथं पुनः ।
तव संजीवनीविद्या नैवान्यत्रेति विश्रुतम् २४।
भृगुरुवाच-
दिव्यौषधीः समानीय द्रोणाद्रेरंगिराः सुरान् ।
जीवयत्येष वै शीघ्रं द्रोणाद्रिं समपाहर २५।
नारद उवाच-
इत्युक्तः स तु दैत्येंद्रो नीत्वा द्रोणाचलं तदा ।
प्राक्षिपत्सागरे तूर्णं पुनरागान्महाहवम् २६।
अथ देवान्हतान्दृष्ट्वा द्रोणाद्रिमगमद्गुरुः ।
तावत्तत्र गिरींद्रं तं न ददर्श सुरार्चितः २७।
ज्ञात्वा दैत्यहृतं द्रोणं विषण्णो भयविह्वलः ।
आगत्य दूराद्व्याजह्रे श्वासाकुलितविग्रहः २८।
पलायध्वं पलायध्वं नायं जेतुं हि शक्यते ।
रुद्रांशसंभवो ह्येष स्मरध्वं शक्रचेष्टितम् २९।
श्रुत्वा तद्वचनं देवा भयविह्वलितास्तदा ।
दैत्यैस्तैर्वध्यमानास्ते पलायंत दिशो दश ३०।
देवान्विदारितान्दृष्ट्वा दैत्यः सागरनंदनः ।
शंखभेरीजयरवैः प्रविवेशामरावतीम् ३१।
प्रविष्टे नगरं दैत्ये देवाःशक्रपुरोगमाः ।
सुवर्णाद्रिगुहां प्राप्य न्यवसन्दैत्यतापिताः ३२।
ततश्च सर्वेष्वसुराधिकारेष्विंद्रादिकानां विनिवेशयत्तदा ।
शुंभादिकान्दैत्यवरान्पृथक्पृथक्स्वयं सुवर्णाद्रिगुहामगात्पुनः ३३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये अमरावतीविजयोनाम सप्तनवतितमोऽध्यायः ९७।