← अध्यायः ०९९ पद्मपुराणम्
अध्यायः १००
वेदव्यासः
अध्यायः १०१ →

नारद उवाच-
जालंधरस्तु तच्छ्रुत्वा कोपाकुलितविग्रहः
निर्जगामाशु दैत्यानां कोटिभिः परिवारितः १
गतस्तस्याग्रतः शुक्रो राहुर्दृष्टिस्थितोऽभवत्
मुकुटश्चापतद्भूमौ वेगात्प्रस्खलितस्तदा २
दैत्यसैन्यवृतैस्तत्र विमानानां शतैस्तदा
व्यराजत नभः पूर्णं प्रावृषीव बलाहकैः ३
तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः
अलक्षितत्वराजग्मुः शूलिनं ते व्यजिज्ञपन् ४
देवा ऊचुः
न जानासि कथं स्वामिन्देवा विज्ञापयंति भो
तदस्मद्रक्षणार्थाय जहि सागरनंदनम् ५
नारद उवाच-
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः
महाविष्णुं समाहूय वचनं चेदमब्रवीत् ६
ईश्वर उवाच-
जालंधरः कथं विष्णो न हतः संगरे त्वया
तद्भयाच्चापयातोऽसि त्यक्त्वा वैकुंठमात्मनः ७
भगवानुवाच-
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः
न मया निहतः संख्ये त्वमेनं जहि दानवम् ८
ईश्वर उवाच-
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया
देवैः सर्वैः स्वतेजोंशः शस्त्रार्थे दीयतां मम ९
नारद उवाच-
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा
तान्येकत्वं गतानीशो दृष्ट्वा तेजो महांस्तदा १०
तेनाकरोन्महादेवः सहसा शस्त्रमुत्तमम्
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ११
तेजःशेषेण च तदा वज्रं च कृतवान्हरः
तावज्जलंधरो दृष्टः कैलासतलभूमिषु १२
हस्त्यश्वरथपत्तीनां कोटीभिः परिवारितः
तं दृष्ट्वा हर्षिताः सर्वे देवा जग्मुर्यथागतम् १३
गणाश्च समनह्यंत युद्धायातित्वरान्विताः
नंदीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया १४
अवतेरुर्गणाः सर्वे कैलासाद्युद्धदुर्मदाः
ततः समभवद्युद्धं कैलासोपत्यका भुवि १५
प्रमथाधिपदैत्यानां घोरं शस्त्रास्त्रसंकुलम्
भेरीमृदंगशंखौघनिस्वनैर्वीरहर्षणैः १६
गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत
शक्तितोमरबाणौघैर्मुशलप्रासपट्टिशैः १७
व्यराजत नभः पूर्णमुल्काभिरिव संवृतम्
निहतैरथ नागाश्वैः सर्वा भूमिर्व्यराजत १८
वज्राहताश्चलशिरः शकलैरिव संवृता
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा १९
वसासृङ्मांस पंकाद्यैर्भूरगम्याभवत्तदा
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत् २०
युद्धे पुनः पुनश्चैव मृतसंजीवनी बलात्
तं दृष्ट्वा व्याकुलीभूत्वा गणाः सर्वे भयार्दिताः २१
शशंसुर्देवदेवेशं तत्सर्वं शुक्रचेष्टितम्
अथ रुद्रमुखात्कृत्या बभूवातीव भीषणा २२
तालजंघोदरी वक्रा स्तनापीडितभूरुहा
सा युद्धभूमिमासाद्य भक्षयंती महासुरान् २३
भार्गवं स्वकरे धृत्वा जगामांतर्हिताभवत्
विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यगणास्तदा २४
प्रम्लानवदना दर्पान्निजघ्नुर्युद्धदुर्मदाः
अथाभज्यत दैत्यानां सेना गणभयार्दिता २५
वायुवेगहता यद्वत्प्रकीर्णतृणसंहतिः
भग्नां गतभयात्सेनां दृष्ट्वा हर्षं गणा ययुः २६
निशुंभशुंभसेनान्यौ कालनेमिश्च वीर्यवान्
त्रयस्ते वारयामासुर्गणसेनां महाबलाः २७
मुंचतः शरवर्षाणि प्रावृषीव बलाहकाः
ततो दैत्यशरौघास्ते शलभानामिव व्रजाः २८
रुरुधुः खं दिशः सर्वा गणसेनामकंपयन्
गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः २९
वसंते किंशुकाभासा न प्राज्ञायत किंचन
पतिताः पात्यमानाश्च छिन्नाभिन्नास्तदा गणाः ३०
त्यक्त्वा संग्रामभूमिं ते सर्वेऽपि विमुखाभवन् ३१
ततः प्रभग्नं स्वबलं विलोक्य गजास्यनंदीश्वरकार्तिकेयाः
चिरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते ३२
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे दैत्यसेनावधोनाम शततमोऽध्यायः १००