पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११३

← अध्यायः ११२ पद्मपुराणम्
अध्यायः ११३
वेदव्यासः
अध्यायः ११४ →

श्रीकृष्ण उवाच।
पुरावंतीपुरे वासी विप्र आसीद्धनेश्वरः ।
ब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मतिः १।
रसकंबलचर्मादि विक्रयानृतवर्त्तनः ।
स्तेयवेश्यासुरापानद्यूतसंसक्तमानसः २।
देशाद्देशांतरं गच्छन्क्रयविक्रयकारणात् ।
माहिष्मतीं पुरीं यातः कदाचित्स धनेश्वरः ३।
महिषेण कृता पूर्वं तस्मान्माहिष्मतीभवत् ।
यस्यां वप्रतटाभाति नर्मदा पापनाशिनी ४।
कार्तिकव्रतिनस्तत्र नानाग्रामागतान्नरान् ।
स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास ह ५।
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् ।
ददर्श ब्राह्मणान्स्नातान्जपदेवार्चनेरतान् ६।
कांश्चित्पुराणं पठतः कांश्चित्तच्छ्रवणे रतान् ।
नृत्यगायनवादित्रविष्णुस्तवनतत्परान् ७।
विष्णुमुद्रांकितान्कांश्चिन्मालातुलसिधारिणः ।
ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः ८।
नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात् ।
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ९।
एवं मासं स्थितःसोऽथ कार्तिकोद्यापने विधौ ।
क्रियमाणे ददर्शासौ भक्तैर्जागरणं हरेः १०।
पौर्णमास्यां ततोऽपश्यद्विविधं पूजनादिकम् ।
दक्षिणा भोजनाद्यं च दीपदानं व्रतस्थितैः ११।
ततोऽर्कास्तमये चैवं दीपोत्सवविधिं तदा ।
क्रियमाणं ददर्शासौ प्रीत्यर्थं त्रिपुरद्विषः १२।
त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तु ।
अतस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवः ।
मम रुद्रस्य यः कश्चिदंतरं परिकल्पयेत् १३।
तस्य पुण्यक्रियाः सर्वा निष्फलाः स्युर्न संशयः ।
तत्र नृत्यादिकं पश्यन्बभ्राम स धनेश्वरः ।
तावत्कृष्णाहिना दष्टो विकलः स पपात ह ।
जनास्तंपति तं वीक्ष्य परिवव्रुः कृपान्विताः १४।
तुलसीमिश्रितैस्तोयैस्तन्मुखं सिषिचुस्तदा ।
अथ देहे परित्यक्ते तं बद्ध्वा यमकिंकराः १५।
बाध्यमानं कशाघातैर्निन्युः संयमिनीं रुषा ।
चित्रगुप्तस्तु तं दृष्ट्वा निर्भर्त्स्यावेदयत्तदा १६।
यमायतेन बाल्यात्तु कर्म यद्दुष्कृतं कृतम् ।
चित्रगुप्त उवाच।
नैवास्य दृश्यते किंचिदाबाल्यात्सुकृतं क्वचित् १७।
दुष्कृतं शक्यते वक्तुं शतवर्षैर्न भास्करे ।
पापमूर्तिरयं दुष्टः केवलं दृश्यते विभो १८।
तस्मादाकल्पमर्यादं निरये परिपाच्यताम् ।
श्रीकृष्ण उवाच।
निशम्येत्थं वचः क्रोधाद्यमः प्राह स्वकिंकरान् १९।
दर्शयन्नात्मनोरूपं कालाग्निसदृशप्रभम् ।
यम उवाच।
भो प्रेतापनयस्वैनं बध्यमानं स्वमुद्गरैः २०।
कुंभीपाके क्षिपस्वाशु तैलक्वथनशब्दिते ।
यावत्क्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ २१।
कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा ।
तद्दृष्ट्वा महदादश्चर्यं प्रेतपो विस्मयान्वितः २२।
वेगादागत्य तत्सर्वं यमायाकथयत्तदा ।
यमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् २३।
आः किमेतदिति प्रोच्य सम्यगेतद्विचारयत् ।
तावदभ्यागतस्तत्र नारदः प्रहसंस्त्वरन् २४।
यमेन पूजितः सम्यक्तं दृष्ट्वा वाक्यमब्रवीत् ।
नारद उवाच।
नैवायं निरयान्भोक्तुं क्षमः सवितृनंदन २५।
यस्मादेतस्य संजातं कर्म यन्निरयापहम् ।
यः पुण्यकर्मणां कुर्याद्दर्शनस्पर्शभाषणम् २६।
तत्षडंशमवाप्नोति पुण्यस्य नियतं नरः ।
असंख्यातैस्तुसंसर्गैः कृतवानेष यद्धरेः २७।
कार्तिकव्रतिभिर्मासं तस्मात्पुण्यांशभागयम् ।
परिचर्याकरस्तेषां संपूर्णव्रतपुण्यभाक् २८।
अतोऽस्योर्जव्रतोद्भूतपुण्यसंख्या न विद्यते ।
कार्त्तिकव्रतिनां पुंसां पातकानि महांत्यपि २९।
नाशयत्येव सर्वाणि विष्णुः सद्भक्तवत्सलः ।
अंते तन्नामभिस्तोयैस्तुलसीमिश्रितैस्त्वयम् ३०।
वैष्णवानुग्रही यस्मान्नरके नैव पच्यते ।
तस्मान्निहतपापोऽयं सद्गतिं यातुमर्हति ३१।
आर्द्रैः शुष्कैर्यथापापैर्निरये भोगसंनिधिः ।
प्राप्यते सुकृतैस्तद्वत्स्वर्गभोगस्य संनिधिः ३२।
तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौ ।
विलोक्य नरकान्सर्वान्पापभोगमवाप्नुयात् ३३।
श्रीकृष्ण उवाच।
इत्युक्त्वा गतवति नारदेऽथ सौरिस्तद्वाक्यश्रवणविबुद्ध तत्सुकर्मा ।
विप्रं तं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३।


टिप्पणी

तुलनीय-- स्कन्दपुराणम् २.४.२९.२