पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११७

← अध्यायः ११६ पद्मपुराणम्
अध्यायः ११७
वेदव्यासः
अध्यायः ११८ →

सूत उवाच।
इति सर्वं समाकर्ण्य सत्राजितसुता तदा ।
हरेर्वाक्यं महाभागा सत्या वचनमब्रवीत् १।
सत्योवाच।
कार्तिकस्य च माहात्म्यं न श्रुतं विस्तरात्प्रभो ।
सर्वेषामेव मासानां कार्तिकः प्रवरः कथम् २।
श्रीकृष्ण उवाच।
साधु पृष्टं त्वया सत्ये कार्तिकव्रतमादरात् ।
शौनकाय पुरा प्रोक्तं सूतेन सुमहात्मना ३।
सूत उवाच।
श्रूयतां तत्प्रवक्ष्यामि एतत्प्रश्नोत्तरं शुभम् ।
ईश्वरेण पुरा प्रोक्तं पृच्छते षण्मुखाय वै ४।
कार्तिकेय उवाच।
बहूनि पद्मनाभस्य रहस्यानि श्रुतानि च ।
यथा हि प्रोच्यमानानि वैष्णवेन त्वया प्रभो ५।
संसारसागरे प्राप्ता दुःखोरुलहरीवृते ।
तेषामुत्तारणार्थाय कथयस्व प्रयत्नतः ६।
कार्तिकस्य विधिश्चैव स्नानस्य वदतां वर ।
येन दुःखांबुधिं तात संतरिष्यंति मानवाः ७।
फलं वैष्णवधर्मस्य कथयस्व सुविस्तरम् ।
येन धर्मप्रभावेन पदं गच्छति वैष्णवम् ८।
दीपदानस्य माहात्म्यं मुनिपुष्पस्य सुव्रत ।
गोपीचंदनमाहात्म्यं तुलस्यास्तु तथा विभो ९।
मालतीपुष्पमाहात्म्यं वारिजानां तथा वद ।
धात्रीफलानां माहात्म्यं तथा दमनकस्य च १०।
केतकीपुष्पमाहात्म्यं नैवेद्यस्य परंतप ।
तीर्थोदकस्य माहात्म्यं माघस्नानफलं विभो ११।
फलं ब्रूहि सुरश्रेष्ठ ब्रह्मपत्रेषु भोजनात् ।
नीराजनफलं स्थाणो परदीपप्रवेधनात् १२।
पुष्करक्षेत्रमाहात्म्यं शूकरस्य तथा विभो ।
शालग्रामस्य माहात्म्यं स्वस्तिकस्य विधानकम् १३।
दानानां च फलं ब्रूहि परान्नस्य च वर्जनात् ।
मासोपवासस्य फलं खट्वाया मोक्षणाद्विभो १४।
दीपावल्याश्च माहात्म्यं प्रबोधिन्याश्च सुव्रत ।
पंचभीष्मस्यमाहात्म्यं कथयस्व सुविस्तरात् १५।
ईश्वर उवाच।
साधु पृष्टं त्वया वत्स लोकोद्धरणहेतवे ।
कथयामि न संदेहस्त्वत्समो नास्ति वैष्णवः १६।
सत्पुत्रेण त्वया वत्स तारितोऽहं न संशयः ।
निश्चला केशवे भक्तिस्त्वयि तिष्ठति सर्वदा १७।
नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः ।
ससागरमही दाने तत्पुण्यं लभते हि सः १८।
कार्तिकस्य च मासस्य कोट्यंशेनापि नार्हति ।
एकतः सर्वतीर्थानि सर्वदानानि चैकतः १९।
एकतो गोप्रदानानि सर्वे यज्ञाः सदक्षिणाः ।
एकतः पुष्करे वासं कुरुक्षेत्रे हिमालये २०।
एकतो मथुरातीर्थे वाराणस्यां च शूकरे ।
एकतः कार्तिको वत्स सर्वदा केशवप्रियः २१।
सूत उवाच।
इत्युक्त्वा मुनिशार्दूल पुनर्वाक्यं जगौ हरः ।
कार्तिकस्नानमाहात्म्यं कथयिष्ये सुविस्तरात् २२।
ईश्वर उवाच।
ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्रियं स्वयम् ।
द्वापरं वैश्यमित्याहुः शूद्रं कलियुगं स्मृतम् २३।
कलौ वत्स मनुष्याणां शैथिल्यं स्नानकर्मणि ।
तथापि कथयिष्यामि स्नानं कार्तिकमाघयोः २४।
यस्य हस्तौ च पादौ न वाङ्मनश्च सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलभाङ्नरः २५।
अश्रद्दधानः पापात्मा नास्तिकश्छिन्नमानसः ।
हेतुवादी च पंचैते न तीर्थफलभागिनः २६।
प्रातरुत्थाय यो विप्रस्तीर्थस्नायी सदा भवेत् ।
सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति २७।
स्नानं चतुर्विधं प्रोक्तं स्नानविद्भिः षडानन ।
वायव्यं वारुणं दिव्यं ब्राह्मं चेति तथा स्मृतम् २८।
वायव्यं गोरजः स्नानं वारुणं सागरादिषु ।
ब्राह्म्य ब्राह्मणमंत्रोक्तं दिव्यं मेघांबु भास्करम् २९।
स्नानानां चैव सर्वेषां विशिष्टं तत्र वारुणम् ।
ब्राह्मणः क्षत्रियो वैश्यो मंत्रवत्स्नानमाचरेत् ३०।
तूष्णीमेव हि शूद्रस्य स्त्रीणां चैव षडानन ।
बाला च तरुणी वृद्धा नरनारीनपुंसकाः ३१।
पापैः सर्वैः प्रमुच्यंते स्नानात्कार्तिकमाघयोः ।
स्नाता वै कार्तिके लोकाः प्राप्नुवंतीप्सितं फलम् ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीशिवषडाननसंवादे सप्तदशाधिकशततमोऽध्यायः ११७।