पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२६

← अध्यायः १२५ पद्मपुराणम्
अध्यायः १२६
वेदव्यासः
अध्यायः १२७ →

वसिष्ठ उवाच।
अधुना माघमाहात्म्यं प्रवक्ष्यामि नृपोत्तम ।
पृच्छते कार्तवीर्याय दत्तात्रेयेण भाषितम् १।
दत्तात्रेयं हरिं साक्षाद्वसंतं सह्य पर्वते ।
पप्रच्छ तं द्विजं गत्वा राजा माहिष्मतीपतिः २।
सहस्रार्जुन उवाच।
भगवन्योगिनां श्रेष्ठ सर्वे धर्माः श्रुता मया ।
माघस्नानफलं ब्रूहि कृपया मम सुव्रत ३।
दत्तात्रेय उवाच।
श्रूयतां नृपशार्दूल एतत्प्रश्नोत्तरं शुभम् ।
ब्रह्मणोक्तं पुरा ह्येतन्नारदाय महात्मने ४।
तत्सर्वं कथयिष्यामि माघस्नानफलं महत् ।
यथादेशं यथातीर्थं यथाविधि यथाक्रियम् ५।
अस्मिन्वै भारते वर्षे कर्मभूमौ विशेषतः ।
अमाघस्नायिनां नॄणां निष्फलं जन्मकीर्तितम् ६।
असूर्यं गगनं यद्वदचन्द्रमुडुमंडलम् ।
तद्वन्नाभाति सत्कर्म माघस्नानं विना नृप ७।
व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः ।
माघमज्जनमात्रेण यथा प्रीणाति केशवः ८।
न समं विद्यते किंचित्तेजः सौरेण तेजसा ।
तद्वत्स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ९।
प्रीतये वासुदेवस्य सर्वपापापनुत्तये ।
माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः १०।
किं रक्षितेन देहेन सुपुष्टेन बलीयसा ।
अध्रुवेणाप्यशुचिना माघस्नानं विना भवेत् ११।
अस्थिस्तंभं स्नायुबद्धं मांसक्षतज लेपनम् ।
चर्मावनद्धं दुर्गंधं पात्रं मूत्रपुरीषयोः १२।
जराशोकविपद्व्याप्तं रोगमंदिरमातुरम् ।
रजस्वलमनित्यं च सर्वदोषसमाश्रयम् १३।
परोपतापितापार्तं परद्रोहि परं विषम् ।
लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा १४।
दुष्पूरं दुर्धरं दुष्टं दोषत्रयसमन्वितम् ।
अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् १५।
निसर्गतोऽधर्मरतं तृष्णाशत समाकुलम् ।
कामक्रोध महालोभ नरकद्वार संस्थितम् १६।
क्रिमिविड्भस्मभवति परिणामे शुनां हविः ।
ईदृक्शरीरं व्यर्थं हि माघस्नानविवर्जितम् १७।
बुद्बुदाइव तोयेषु पूतिका इव जंतुषु ।
जायंते मरणायैव माघस्नानविवर्जिताः १८।
अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च ।
अब्रह्मण्यं हतं क्षेत्रमनाचारं हतं कुलम् १९।
सदंभश्च हतो धर्मः क्रोधेनैव हतं तपः ।
अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् २०।
गुर्वभक्ता हता नारी ब्रह्मचारी तया हतः ।
अदीप्तेऽग्नौ हतो होमो हता भुंक्तिरसाक्षिका २१।
उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
शूद्रभिक्षो हतो यागः कृपणस्य हतं धनम् २२।
अनभ्यासा हता विद्या हतो राजा विरोधकृत् ।
जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतम् २३।
असत्या च हता वाणी तथा पैशुन्यवादिनी ।
संदिग्धश्च हतो मंत्रो व्यग्रचित्तो हतो जपः २४।
हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः ।
अश्रद्धया हतं सर्वं कृतं यत्पारलौकिकम् २५।
इहलोको हतो नॄणां दरिद्राणां यथा नृप ।
मनुष्याणां तथा जन्म माघस्नानं विना हतम् २६।
मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ ।
कथं पापैः प्रमुच्येत कथं स त्रिदिवं व्रजेत् २७।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ।
माघस्नायी विपापः स्यात्तत्संसर्गी च पंचमः २८।
माघमासे रटंत्यापः किंचिदभ्युदिते रवौ ।
ब्रह्मघ्नं वा सुरापं वा कंपंतं तं पुनीमहे २९।
उपपापानि सर्वाणि पातकानि महांत्यपि ।
भस्मीभवंति सर्वाणि माघस्नानोद्यतं नरम् ३०।
कंपंति सर्वपापानि माघस्नानसमागमे ।
नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ३१।
एवं क्रोशंति पापानि दृष्ट्वा स्नानोद्यतं नरम् ।
पावका इव दीप्यंते माघस्नानैर्नरोत्तमाः ३२।
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चंद्रमाः ।
आर्द्रशुष्कं लघुस्थूलं वाङ्मनः कर्मभिः कृतम् ३३।
माघस्नानं दहेत्पापं पावकः समिधो यथा ।
प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ३४।
स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे ।
निष्पापास्त्रिदिवं यांति पापिष्ठा यांति शुद्धताम् ३५।
संदेहो नात्र कर्तव्यो माघस्नाने नराधिप ।
सर्वेऽधिकारिणो माघे विष्णुभक्तौ यथा नृप ३६।
सर्वेषां स्वर्गदो माघः सर्वेषां पापनाशनः ।
एष एव परो मंत्रो ह्येतदेव परं तपः ३७।
प्रायश्चित्तं परं चैतन्माघस्नानमनुत्तमम् ।
नृणां जन्मांतराभ्यासान्माघस्नाने मतिर्भवेत् ३८।
अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा नृप ।
संसारकर्दमालेप प्रक्षालन विशारदम् ३९।
पावनं पावनानां च माघस्नानपरं नृप ।
स्नांति माघे न ये राजन्सर्वकामफलप्रदे ४०।
कथं ते भुंजते भोगांश्चंद्रसूर्यग्रहोपमान् ।
शृणु राजन्महाश्चर्यं माघस्नानप्रभावजम् ४१।
कुब्जिका नाम कल्याणी ब्राह्मणी भृगुवंशजा ।
बालवैधव्यदुःखार्ता तपस्तेपे सुदुस्तरम् ४२।
विंध्यपादे महाक्षेत्रे रेवाकपिलसंगमे ।
तत्र सा व्रतिनी भूत्वा नारायणपरायणा ४३।
सदाचारवती नित्यं नित्यं संगविवर्जिता ।
जितेंद्रिया जितक्रोधा सत्यवागल्पभाषिणी ४४।
सुशीला दानशीला च देहशोषणशालिनी ।
पितृदेवद्विजेभ्यश्च दत्वा हुत्त्वा तथानले ४५।
षष्ठे काले च सा भुङ्क्ते ह्युंच्छवृत्तिः सदा नृप ।
कृच्छ्रातिकृच्छ्र पाराक तप्तकृच्छ्रादिभिर्व्रतैः ४६।
पुण्यान्नयति सा मासान्नर्मदायाश्च रोधसि ।
एवं तया तपस्विन्या वल्कलिन्या सुशीलया ४७।
सुमहासत्त्वशालिन्या धृति संतोषयुक्तया ।
षष्टिर्माघास्तया स्नाता रेवाकपिलसंगमे ४८।
ततः सा तपसा क्षीणा तस्मिंस्तीर्थे मृता नृप ।
माघस्नानजपुण्येन तेन सा वैष्णवे पुरे ४९।
उवास प्रमुदा युक्ता चतुर्युगसहस्रकम् ।
सुंदोपसुंदनाशाय पश्चात्पद्मभवात्पुनः 6.126.५०।
तिलोत्तमेति नाम्ना सा ब्रह्मलोकेऽवतारिता ।
तेन पुण्यस्यशेषेण रूपस्यैकायनं ययौ ५१।
अयोनिजाबलारत्नं देवानामपि मोहिनी ।
लावण्यहृदनी तन्वी साभूदप्सरसां वरा ५२।
निपुणस्य विधेः स्रष्टुर्नूनमाश्चर्यकारिणी ।
तामुत्पाद्य विधाता वै तुष्टोऽनुज्ञां तदा ददौ ५३।
एणशावाक्षि गच्छ त्वं दैत्यनाशाय सत्वरम् ।
ततः सा ब्रह्मणो लोकाद्वीणामादाय भामिनी ५४।
गता पुष्करमार्गेण यत्र तौ देववैरिणौ ।
तत्र स्नात्वा तु रेवायाः पवित्रे निर्मले जले ५५।
परिधायांबरं रक्तं बंधूककुसुमप्रभम् ।
रणद्वलयिनीचारु सिंजन्मेखलनूपुरा ५६।
लोलमुक्तावलीकंठी चलत्कुंडलशोभना ।
माधवी कुसुमापीडा कंकेली विटपे स्थिता ५७।
गायंती सुस्वरं सापि पीडयंती तु वल्लकीम् ।
मूर्च्छयंती स्वरषट्कं सुस्निग्धं कोमलं कलम् ५८।
इत्थं तिलोत्तमा बाला तिष्ठंत्यशोककानने ।
दृष्ट्वा दैत्यभटैरिंदोः कलेव सुखदा हृदि ५९पु।
तां दृष्ट्वा विस्मितै राजन्सानंदैः सैनिकैर्भृशम् ।
त्वरमाणैरदृष्ट्वैव गत्वा सुंदोपसुंदयोः ६०।
कथिता संभ्रमेणैव वर्णयित्वा पुनः पुनः ।
हे दैत्यौ न विजानीमो देवी वा दानवी नु किम् ६१।
नागांगनाथ वा यक्षी स्त्रीरत्नं सर्वथा तु सा ।
युवां रत्नभुजौ लोके रत्नभूता हि साबला ६२।
वर्तते नाति दूरेऽग्रे अशोके शोकहारिणी ।
गत्वा तां पश्यतं शीघ्रं मन्मथस्यापि मोहिनीम् ६३।
इति सेनापतीनां तौ श्रुत्वा वाचं मनोहराम् ।
चषकं सीधुनस्त्यक्त्वा विहाय जलसेचनम् ६४।
उत्तमस्त्रीसहस्राणि त्यक्त्वा तस्माज्जलाशयात् ।
शतभारायसीं क्रूरां कालदंडोपमां गदाम् ६५।
भिन्नाभिन्नां गृहीत्वा तु जवेनाभिप्लुतं गतौ ।
यत्र शृंगारसज्जा सा हंतुं चंडीव संस्थिता ६६।
राजन्संधुक्षयंतीव दैत्ययोर्मन्मथानलम् ।
स्थित्वा तस्याः पुरो जाल्मौ तद्रूपेणविमोहितौ ६७।
विशेषान्मधुनामत्तावूचतुस्तौपरस्परम् ।
भ्रातर्विरम भार्येयं ममास्तु वरवर्णिनी ६८।
त्वमेवार्य त्यजैतां मे भार्यां तु मदिरेक्षणाम् ।
इत्याग्रहेण संरब्धौ मातंगाविव सोन्मदौ ६९।
अन्योन्यं कालनिर्दिष्टौ गदया जघ्नतुस्तदा ।
परस्परप्रहारेण गतासू पतितौ भुवि ७०।
तौ मृतौ सैनिकैर्दृष्ट्वा कृतः कोलाहलो महान् ।
कालरात्रिसमा केयं हा किमेतदुपस्थितम् ७१।
एवं वदत्सु सैन्येषु दैत्यौ सुंदोपसुंदकौ ।
पातयित्वा गिरेः शृंगे ह्रादिनीव त्तिलोत्तमा ७२।
प्रस्थिता गगनं शीघ्रं द्योतयंती दिशो दश ।
देवकार्यं ततः कृत्वा आगता ब्रह्मणः पुरः ७३।
ततस्तुष्टेन देवेन विधिना सानुमोदिता ।
स्थानं सूर्यरथे दत्तं तव चंद्रानने मया ७४।
भुंक्ष्व भोगाननेकांस्त्वं यावत्सूर्योंबरे स्थितः ।
इत्थं सा ब्राह्मणी राजन्भूत्वा चाप्सरसां वरा ७५।
भुंक्तेद्यापि रवेर्लोके माघस्नानफलं महत् ।
तस्मात्प्रयत्नतो राजन्श्रद्दधानैः सदा नरैः ७६।
स्नातव्यं मकरादित्ये वांच्छद्भिः परमां गतिम् ।
नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन ७७।
नाक्षीणं पातकं कंचिन्माघे मज्जति यो नरः ।
तुलयंति न तेनात्र यज्ञाः सर्वे सदक्षिणाः ७८।
माघस्नानेन राजेंद्र तीर्थे चैव विशेषतः ।
न चान्यत्स्वर्गदं कर्म न चान्यत्पापनाशनम् ७९।
न चान्यन्मोक्षदं यस्मान्माघस्नानसमं भुवि ८०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे माघमाहात्म्ये वसिष्ठदिलीपसंवादे माघस्नानप्रशंसायां सुंदोपसुंददैत्यवधोनाम षड्विंशत्यधिकशततमोध्यायः १२६।