पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३६

← अध्यायः १३५ पद्मपुराणम्
अध्यायः १३६
वेदव्यासः
अध्यायः १३७ →

पार्वत्युवाच।
साभ्रमत्यपि यान्देशान्नंदिकुंडाद्विनिःसृता ।
गच्छंती पावयामास कान्कान्देशान्वदस्व मे ।
चकार कानि तीर्थानि विलंघ्यार्बुदपर्वतम् १।
सूत उवाच।
इति तत्रोदिते देव्या महादेवः स विश्वराट् ।
उवाच वचनं तां वै पार्वतीं विश्वमोहिनीम् २।
महादेव उवाच।
नंदिकुंडात्प्रथमतः तीर्थात्परमपावनात् ।
कपालमोचनं तीर्थं मुनिभिः संप्रकारितम् ३।
सर्वतेजोधिकं तीर्थं पावनात्पावनं परम् ।
अत्र मया परित्यक्तं कपालं ब्रह्मसंज्ञकम् ४।
कपालमोचनं तीर्थमतो जातं हि पार्वति ।
पावनं सर्वभूतानां प्रकटं लोकविश्रुतम् ५।
कपालकुंडमाख्यातं तत्तीर्थं तीर्थराजकम् ।
यत्र देवास्तथा नागा गंधर्वाः किंनरादयः ६।
निवसंति महात्मानस्तीर्थे वै निर्मले शुभे ।
त्रैलोक्ये विश्रुतं तीर्थं दानदं मुक्तिदायकम् ७।
तत्र स्नात्वा शुचिर्भूत्वा कपालेशं प्रपूजयेत् ।
उपोष्य रजनीमेकां कृत्वा ब्राह्मणभोजनम् ८।
तत्रापि वस्त्रदानेन अग्निहोत्रफलं लभेत् ।
तस्मिंस्तीर्थे तु यः कश्चिद्दर्शनव्रतमास्थितः ९।
संत्यज्य देहमात्मानं शिवलोकं व्रजेद्ध्रुवम् ।
अस्मिंस्तीर्थे पुरा स्नानात्सौदासो ब्रह्महत्यया १०।
मोचितो विमलं ज्ञानं प्राप्तवान्वै सुरेश्वरि ।
भागीरथ्यान्वये जातः सुदासाख्यो महाबली ११।
तस्य पुत्रो मित्रसहः सौदासेति च विश्रुतः ।
वसिष्ठशापतः प्राप्तः सौदासो राक्षसीं तनुम् १२।
साभ्रमत्यां कृतस्नानो विमुक्तः शापजादघात् ।
अत्र गंगा च यमुना गोदावरी सरस्वती १३।
नंदितीर्थे वसंत्येताः पवित्राः पुण्यदाः सदा ।
गोदानं भूमिदानं च शय्यादानं तथैव च १४।
कन्यादानं विशेषेण कर्तव्यं ज्ञानिभिर्नरैः ।
एतद्दानसमं प्रोक्तं साभ्रमत्यावगाहनम् १५।
यत्र वै सकलान्येव पतितानीह भूतले ।
वारिणा स्पर्शमात्रेण शुद्धत्वं यांति तान्यपि १६।
अत्र श्राद्धं प्रकुर्वाणो नरो वै भक्तितत्परः ।
पितरस्तस्य संतुष्टा गच्छंति परमं पदम् १७।
एतदाख्यानकं दिव्यं ये शृण्वंति नराः सदा ।
सर्वपापविनिर्मुक्ता विष्णोः सायुज्यमाप्नुयुः १८।
कर्मणा मनसा वाचा ये स्तुवंति महेश्वरम् ।
न तेषां विद्यते दुःखं यावदाभूतसंप्लवम् १९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमा।
महेश्वरसंवादे नंदितीर्थमहिमानाम षट्त्रिंशाधिकशततमोऽध्यायः १३६।