पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४५

← अध्यायः १४४ पद्मपुराणम्
अध्यायः १४५
वेदव्यासः
अध्यायः १४६ →

श्रीमहादेव उवाच।
ततो गच्छेः महत्तीर्थे संगमेश्वरमुत्तमम् ।
यत्र हस्तिमती पुण्या साभ्रमत्या हि संगता १।
शापं कौडिन्यमुनितः प्राप्य शुष्काभवन्नदी ।
बहिश्चर्येति नाम्ना वै लोके ख्यातिमुपागता २।
तत्तीर्थं संप्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतम् ।
सर्वपापहरं पुण्यं त्रैलोक्ये चापि विश्रुतम् ३।
यत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति ४।
शृणु देवि प्रवक्ष्यामि एतच्छापस्य कारणम् ।
यथैह शुष्करूपा हि जाता शापस्य कारणात् ५।
यत्र साभ्रमती पुण्या गंगा नाम महानदी ।
तत्र हस्तिमती नाम गंगया सह संगता ६।
तत्रारब्धं च मुनिना तपो वै परमं महत् ।
एवं बहुगते काले ऋषिणा परमात्मना ७।
आराधितो हृषीकेशो नारायणनिरंजनः ।
तस्यास्तटे तु देवेशि वर्षाणि च बहून्यपि ८।
गतानि च विशेषेण मुनेस्तस्य तु पार्वति ।
कदाचिद्दैवयोगाच्च वर्षाकालः समागतः ९।
नदी तत्र तु संपूर्णा कालयोगेन सुव्रते ।
तत्कौंडिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि १०।
रात्रौ दुःखं महज्जातं हाहेति करुणो रुदन् ।
किं कर्तव्यमिति ध्यायन्नतिचिंतापरोऽभवत् ११।
आश्रमो हि महादिव्यो ऋषिणैव समायुतः ।
स गतो वारियोगेन हस्तिमत्यां सुरोत्तमे १२।
फलानि चैव मूलानि पुस्तकानि बहून्यपि ।
तानि तस्यां गतान्येव वारियोगेन सुंदरि १३।
स कौंडिन्यो ऋषिश्रेष्ठः शशाप तां नदीं किल ।
उदकेन विना त्वं च भविष्यसि कलौ युगे १४।
एवं स दत्त्वा वै शापं हस्तिमत्या महेश्वरि ।
गतोऽसौ विप्रप्रवरो विष्णुलोकं सनातनम् १५।
अद्यापि वर्तते तीर्थं संगमेश्वरसंज्ञकम् ।
यं दृष्ट्वा मुच्यते पापी ब्रह्महत्यादि पातकात् १६।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे सोमेश्वरतीर्थमहिमानाम पंचचत्वारिंशदधिकशततमोऽध्यायः १४५।