पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५२

← अध्यायः १५१ पद्मपुराणम्
अध्यायः १५२
वेदव्यासः
अध्यायः १५३ →

महादेव उवाच।
तीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तटे स्थितम् ।
बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम् १।
तपस्विधारितं तीर्थं विबुधानां समाश्रयम् ।
तत्र कन्या तपस्तेपे परमं सुदृढव्रता २।
कन्या कण्वमुनेः साध्वी रूपेणाप्रतिमा भुवि ।
बाला बालावती नाम कुमारी ब्रह्मचारिणी ३।
व्रतं चचार सावित्र्या नियमैर्बहुभिर्युता ।
भर्ता मे भास्करो भूयादिति निश्चित्य भामिनि ४।
समास्तस्य समाक्रांता दश साभ्रमतीतटे ।
चरंत्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान् ५।
तस्यास्तु तेन व्रतेन तपसा व्रतचर्यया ।
भक्त्या च भगवान्प्रीतः परया भक्तिसंपदा ६।
आजगामाश्रमपदं देवदेवो दिवाकरः ।
आस्थाय रूपं विप्रर्षेः प्रविष्टस्तु महामनाः ७।
सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम् ।
वानप्रस्थविधानेन पूजयामास तं द्विजम् ८।
उवाच रविभक्ता सा कल्याणी तं तपोधनम् ।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ९।
सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना ।
सूर्यभक्तास्मि ते पाणिं दास्यामि न कथंचन १०।
व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन ।
सूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः ११।
इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्य ताम् ।
उवाच नियमस्थां तां सांत्वयन्निव भास्करः १२।
उग्रं चरसि कल्याणि तपः परमदुष्करम् ।
यदर्थं च समारंभस्तव बाले तथैव तत् १३।
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति ।
देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च १४।
इमानि पंच सुभगे बदराणि प्रतीच्छ मे ।
दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ १५।
अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहाय ताम् ।
स्थितोऽसौ नातिदूरेण इंद्रग्रामे महायशाः १६।
स्थित्वा जिज्ञासया भावं तस्याश्च ब्राह्मणो रविः ।
बदराणामुपवनं कारयामास भास्करः १७।
ततः सा प्रयता बाला प्रांजलिर्विगतश्रमा ।
पाकाय बदराणां सा पावकं समधिश्रयत् १८।
अपचत्परमा देवि बदराणि महाप्रभा ।
तस्याः पचंत्याः सुमहान्कालोऽगाच्च सुरेश्वरि १९।
भस्मपुंजो महान्जातो दिनं च क्षयमन्वगात् ।
हुताशनेन दग्धस्तु महान्वै काष्ठसंचयः २०।
पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने ।
ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया २१।
दग्ध्वा दग्ध्वा पुनः पादौ उपर्या धार्यतेऽनघे ।
अथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः २२।
ततः संदर्शयामास कन्यायै रूपमात्मनः ।
उवाच परमप्रीतस्तां कन्यां सुदृढव्रताम् २३।
सूर्य उवाच।
प्रीतोऽस्मि बाले भक्त्या ते तपसा व्रतचर्यया ।
यस्मादभिमतः कामो बाले संपद्यतां तव २४।
अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवत्स्यसि ।
इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् २५।
बालाप इति विख्यातं साभ्रमत्यास्तटे स्थितम् ।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा २६।
बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिः ।
रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति २७।
सूर्यलोकमवाप्नोति नात्र कार्या विचारणा ।
सूर्यवारेऽथ संक्रांतौ सप्तम्यां तु विशेषतः २८।
विषुवत्ययने चापि चंद्रसूर्यग्रहेऽपि च ।
स्नात्वा संतर्पयेद्देवान्पितॄनथ पितामहान् २९।
गुडधेनुं ततो दद्याद्ब्राह्मणेभ्यो गुडोदनम् ।
करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम् ३०।
ये कुर्वंति नरास्ते वै सूर्यलोके वसंति वै ।
रक्तां धेनुं नरो दद्यादेकं चैव धुरंधरम् ३१।
स यज्ञफलमाप्नोति न नरो निरयं व्रजेत्।
व्याधितो मुच्यते रोगात्बद्धो मुच्येत बंधनात् ।
तीर्थेऽस्मिन्पिंडदानेन तृप्तिं यांति पितामहाः ३२।
महादेव उवाच।
तथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधने ।
श्रूयतां यत्पुरावृत्तं व्यासेन कथितं महत् ३३।
पुरात्र महिषो वृद्धो जरया जर्जरीकृतः ।
अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत् ३४।
स निदाघे जलं पातुं जगाम च महानदीम् ।
दैवात्पंके निमग्नोऽसौ ततो मृत्युवशं गतः ३५।
प्लवितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतः ।
कान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत् ३६।
संस्मृत्य च स्ववृत्तांतं प्रभावं तीर्थजं महत् ।
आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः ३७।
स तत्र स्थापयामास देवदेवं महेश्वरम् ।
अत्र तीर्थे नरः स्नात्वा संपूज्य महिषेश्वरम् ३८।
रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते ।
साभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत् ३९।
प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत् ।
दत्तं द्विजेंद्रेषु हुतं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात् ४०।
गोभूतिलाः कांचनवस्त्रधान्यं शय्यासनं वाहनछत्रदानम् ।
यं यं वांछयते कामं तं तं प्राप्नोति मानवः ४१।
श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतः ।
बालापेंद्रं इदं तीर्थं पुण्यपापहरं सदा ४२।
यं दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तु ।
यत्र माहिषनामेति श्वेताख्यं पुण्यदं महत् ४३।
यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यते ।
गोदावर्यां कृते स्नाने यत्फलं लभते नरः ४४।
तत्फलं लभते देवि अत्र तीर्थे न संशयः ४५।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे बालापेंद्रं तीर्थंनामद्विपंचाशदधिकशततमोऽध्यायः १५२।