← अध्यायः १६८ पद्मपुराणम्
अध्यायः १६९
वेदव्यासः
अध्यायः १७० →

महेश उवाच
ततःपरं देवनदी वार्त्रघ्नी संगमात्किल
प्रविष्टा भद्रया सार्द्धं सागरं वरुणालयम् १
समुद्रोऽपि तया तावदागम्य प्रियकाम्यया
साभ्रमत्यानुरागेण कृतवान्प्रियमेलनम् २
भद्रा वापि सुभद्रा या वयस्या सा नदी पुरा
सहायमकरोन्मार्गे साक्षात्श्रीरूपधारिणी ३
तयोस्तुसंगमः पुण्यः सागरस्योत्तरे तटे
तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः ४
नमस्कृत्य वराहाय वारुणं स्थानमाप्नुयात्
प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम् ५
जित्वा वै दानवान्सर्वान्देवानां परिपंथिनः
देवो यज्ञवराहश्च संक्षोभ्य मकरालयम्
क्रीडित्वा सुचिरं कालं कर्दमालेन निर्ययौ ६
पार्वत्युवाच
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम्
निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात् ७
महादेव उवाच
अंतर्भू क्रीडितमिदं वराहस्य हरेः पुरा
तत्सर्वं कथयिष्यामि शृणु त्वं नगनंदिनि ८
योऽयं वै भगवान्साक्षाद्धृतवान्सूकरं वपुः
देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः ९
धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम्
तत्र तीर्थं महज्जातं वराहाख्यं तु सुंदरि १०
तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः
अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे
विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत् ११
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर
खंडे वाराहतीर्थंनामैकोनसप्तत्यधिकशततमोऽध्यायः १६९