पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७१

← अध्यायः १७० पद्मपुराणम्
अध्यायः १७१
वेदव्यासः
अध्यायः १७२ →

महादेव उवाच।
संगमस्य समीपे तु सत्तीर्थं लोकविश्रुतम् ।
आदित्याख्यं परं तस्मान्न भूतं न भविष्यति १।
यस्य वै दर्शनं कार्यं स्नानं वै पुष्करेण तु ।
पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः २।
तत्र श्राद्धं च दानं च कुर्युर्वै मानवाः सदा ।
इदमादित्यकं तीर्थं पवित्रं पापनाशनम् ३।
दर्शनात्पुण्यदं तीर्थं महापातकिनामपि ४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे सत्तीर्थमाहात्म्यंनामैकसप्तत्यधिकशततमोऽध्यायः १७१।