← अध्यायः १८० पद्मपुराणम्
अध्यायः १८१
वेदव्यासः
अध्यायः १८२ →

श्रीभगवानुवाच
अथ ते वर्णयिष्यामि सप्तमाध्यायगौरवम्
यदाकर्ण्य सुधापूर पूर्तिर्भवति कर्णयोः १
अस्ति पाटलिपुत्राख्यं दुर्गमुत्तुङ्गगोपुरम्
तत्राभूद्ब्राह्मणो नाम शंकुकर्णो दयार्णवः २
वैश्यवृत्तिं समासाद्य धनमर्जितवान्बहु
पितॄन्नतर्पयामास पूजयामास नो सुरान् ३
पार्थिवान्भोजयांश्चक्रे धनार्जनपरायणः
तुरीयपाणिग्रहणं मंगलार्थं गृहांतरे ४
तनुजैर्बंधुभिः सार्धं संप्रतस्थे कदाचन
रजन्यां धर्मकल्पायां निद्रालोस्तस्य दोस्तले ५
दशति स्म समागत्य दंदशूकः कुतश्चन
स दष्टमात्रोऽसाध्यात्मा मणिमंत्रौषधादिभिः ६
क्षणैः कतिपयैरेव गतासुरभवत्ततः
पिचुमंददलैर्नालैरवगुंठितविग्रहम् ७
तमारोप्य तरुस्कंधे सूनवो गृहमाययुः
ततः कालेन बहुना ततो जातः सरीसृपः ८
तद्वासनानिबद्धात्मा जन्मपूर्वमनुस्मरन्
वंचयित्वा सुतानेतान्पूरयामि गृहाद्बहिः ९
आत्मनः कोटिसंख्याकं यत्रास्ते स्थापितं वसु
ततो नारायणबलिश्रद्धया परयान्विताः १०
कृतवंतः परे तस्य सूनवो हि द्विजन्मनः
एकदा स्वप्नमागत्य पीडितः सर्पजन्मना ११
अभाषयन्मनोवृत्तं पुत्राणामग्रतः पिता
ततस्ते प्रातरुत्थाय परं विस्मयमोहिताः १२
इतरेतरमाख्याय पर्यंतस्ते निरंकुशाः
एकस्तत्रपितृस्नेहादुद्धर्तुमपि वांछति १३
अन्यो द्रविणलोभेन निहंतुं सर्पमीहते
इतरस्तु पितृस्नेहरसमोहितमानसः १४
किंवा अहिमयो न स्याच्छोचन्रोदिति केवलम्
मध्यमस्तु ततः पुत्रो वंचयित्वा सहोदरौ १५
केनापि छद्मनोत्थाय जगाम निजमालयम्
ततः शनैः समाहूय गृहिणीं गुणशालिनीम् १६
कुद्दालहस्तो निरगाद्यत्रास्ते पन्नगः पिता
तेनाविदितवित्तेन चिह्नैर्निश्चित्य तत्वतः १७
स्थानमागत्य तं हंतुं वल्मीकं लोभबुद्धितः
भार्ययोत्सार्य ते मृत्स्ना स्वयं तेन च खन्यते १८
निखन्यमानादत्युग्रो वल्मीकादहिरुत्थितः
ततो गरलगंडूषैर्निर्गतैरतिदुःसहैः १९
गिरः स कथयांचक्रे फणी फूत्कारमारुतैः २०
अहिरुवाच
कस्त्वं किमर्थमायातः कथं वा खन्यते बिलम्
केन वा प्रहितो मूढ तदाख्याहि ममाग्रतः २१
पुत्र उवाच
पुत्रस्तेऽहं शिवो नाम हेमग्रहणकौतुकी
आगतो रात्रलब्धस्य स्वप्नस्य तु सुविस्मितः २२
शिव उवाच
इत्थमाकर्ण्य पुत्रस्य गिरं लोकविगर्हिताम्
वक्तुमारभत स्पष्टं हसन्नुच्चैः फणी तदा २३
सर्प उवाच
यदिपुत्रोऽसि मे तूर्णं मामुन्मोचय बंधनात्
निक्षेपार्थाय संजातं पन्नगं पूर्वजन्मनः २४
पुत्र उवाच
पितः कथं ते मुक्तिः स्यादित्याचक्ष्व ममाग्रतः
परित्यक्त्वाखिलं लोकमागतोस्मि यथा निशि २५
पितोवाच
न तीर्थानि न दानानि न तपांसि न चाध्वराः
मामुन्मोचयितुं पुत्र प्रभवंति च सर्वथा २६
गीतानां सप्तमाध्यायमंतरेण सुधामयम्
जंतोर्जरामृत्युदुःखनिराकरणकारणम् २७
सप्तमाध्यायिनं विप्रं मदीये श्राद्धवासरे
भोजय श्रद्धया पुत्र तेन मुक्तिर्न संशयः २८
अन्यानपि द्विजान्वत्स वेदविद्याविशारदान्
संभोजय यथाशक्ति परमश्रद्धयान्वितः २९
इत्याकर्ण्य पितुर्वाक्यमुरगत्वमुपेयुषः
ते सर्वे सूनवो कुर्वन्यथादिष्टं ततोऽधिकम् ३०
शंकुकर्णस्ततः श्रीमानुत्सृज्य तनुमौरगीम्
कृत्वा विभागं पुत्राणां दिव्यंदेहमुपाददे ३१
विभज्य दत्तं पित्राय द्रव्यं तत्कोटिसंख्यया
तेन ते सूनवः सर्वे मुमुदुः साधुवृतयः ३२
वापीकूपसरोयज्ञदेवप्रासादहेतवे
अन्नशालां ततः कुर्वन्पुत्रास्ते धर्मबुद्धयः ३३
सप्तमाध्याय जपतो मुक्तिभाजोभवंस्ततः
षष्ठमिष्टतमं ज्ञात्वा निर्वाणार्पितदृष्टयः ३४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये एकाशीत्यधिकशततमोऽध्यायः १८१

भगवद्गीतायाः सप्तमोध्यायःसम्पाद्यताम्