पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९१

← अध्यायः १९० पद्मपुराणम्
अध्यायः १९१
वेदव्यासः
अध्यायः १९२ →

ईश्वर उवाच-
षोडशाध्यायसामर्थ्यं कथितं शृणु सांप्रतम् ।
स्पष्टं सप्तदशाध्यायमहिमांभोनिधिं शिवे १।
खड्गबाहोः सुतस्यैव भृत्यो दुःशासनोऽभवत् ।
तं गजं धर्तुमागत्य गजात्प्राप्तो यमक्षयम् २।
तद्वासनानिबद्धात्मा गजयोनिमवाप्य च ।
गीता सप्तदशाध्यायं श्रुत्वा प्राप्तः परं पदम् ३।
देव्युवाच ।
दुःशासनो गजत्वं च प्राप्य मुक्त इति श्रुतम् ।
तदेव वद कल्याण विस्तरेण मम प्रभो ४।
ईश्वर उवाच-।
स्थितः कश्चन दुर्मेधा मंडलीककुमारकैः ।
बहुमूल्यं पणं कृत्वा गजमारूढवांस्ततः ५।
गत्वा कतिपयान्येव पदानि जनवारितः ।
नाम्ना दुःशासनो मूढः प्रौढवाक्यमुदीरयन् ६।
ततो निशम्य तद्वाक्यं क्रोधांधः सिंधुरोऽभवत् ।
न्यपतच्च स्खलत्पादः कंपमानकुमारकैः ७।
ततो निपतितं किंचिदुच्छ्वसंतं गजो रुषा ।
ऊर्द्ध्वमुन्मूलयांचक्रे कृतांतकनिरंकुशः ८।
गतासोरपि रोषेण तस्यास्थ्न्यां च गणं गजः ।
विकीर्णवान्पृथक्कृत्वा मत्तो दंतावलस्ततः ९।
ततः कालेन संप्रेत्य गजयोनिमवाप सः ।
महांतं कालमनयत्सिंहलद्वीपभूपतेः १०।
मैत्री गरीयसी सार्द्धं खड्गबाहुमहीभुजा ।
ततोऽयं जलमार्गेण प्रापितो वारुणो मतः ११।
जयदेवेन खड्गबाहोः प्रीत्या नीतो महीभुजा ।
जातिं स्मरन्स्वकीयां स पश्यन्बंधून्सहोदरान् १२।
दुःखेन महतास्तोकान्दिवसानत्यवाहयत् ।
उवास खड्गबाहोश्च गृहे तूष्णीमनिर्दिशन् १३।
स कदाचित्तु संतुष्टः समस्याश्लोकपूरणे ।
कस्मैचित्कवये प्रादात्तमुपायन हस्तिनम् १४।
शतेन तेन कविना रोगोपद्रवभीरुणा ।
मालवक्षोणिपालस्य विक्रीतश्चैत्यकुंजरः १५।
कियत्यपि गते काले पाल्यमानोऽपि यत्नतः ।
मुमूर्षुरभवत्तत्र कुंजरो दुर्जरज्वरः १६।
न जिघ्रति पयः शीतं नादत्ते कवलं गजः ।
स्वपित्यपि न सौख्येन मुंचत्यश्रूणि केवलम् ।
ततो हस्तिपकाख्यातं वृत्तांतमवनीपतिः १७।
आकर्ण्य स समायातो यत्रास्ते ज्वरितो गजः ।
स चावलोक्य भूपालं जगद्विस्मयकारिणीम् १८।
वाचमूचे गजः सम्यग्विसृष्टज्वरवेदनः ।
राजन्नशेषशास्त्रज्ञ राजनीतिपयोनिधे १९।
निर्जितारातिसंघात मुरारिचरणप्रिय ।
किमौषधैरलं वैद्यैः किं धानैः किं नु जापकैः २०।
गीतासप्तदशाध्यायजापकं द्विजमानय ।
तेनायं मामको रोगः शाम्यत्यत्र न संशयः २१।
यथादिष्टं गजेनासौ तथा चक्रे नराधिपः ।
ततो गजत्वमुत्सृज्य मुक्तो दुःशासनोऽभवत् २२।
तेन विप्रेणाभिमंत्र्य जले क्षिप्ते तदुत्तमे ।
अथ दिव्यं समारूढं विमानमवनीपतिः २३।
तं दुःशासनमद्राक्षीत्पाकशासनतेजसम् २४।
राजोवाच।
किं जातीयः किमात्मा त्वं किं वृत्त इति मे वद ।
केन वा कर्मणा जातो गजः कथमिहागतः २५।
पृष्टो राज्ञा विमुक्तोऽसौ विमानस्थः स्थिराक्षरम् ।
वृत्तं यथा यदाचख्यौ निजं दुःशासनः क्रमात् २६।
गीतासप्तदशाध्यायं जपन्मालवभूपतिः ।
नरवर्माभवन्मुक्तः कालेनाल्पीयसा ततः २७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकनवत्यधिकशततमोऽध्यायः १९१ ।