पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९३

← अध्यायः १९२ पद्मपुराणम्
अध्यायः १९३
वेदव्यासः
अध्यायः १९४ →

पार्वत्युवाच-
देवदेव महादेव सर्वज्ञ सकलार्थद ।
कृपां मयि परां कृत्वा यत्पृच्छे तद्वदस्व मे १।
श्रुतं च गीतामाहात्म्यं बह्वाश्चर्यकथायुतम् ।
तेन मे भक्तिरुत्पन्ना श्रोतुं कृष्णकथां पराम् २।
पुराणेषु तु सर्वेषु श्रीमद्भागवतं परम् ।
यत्र प्रतिपदं कृष्णो गीयते बहुधर्षिभिः ।
तन्माहात्म्यं यथातत्वं सेतिहासं वदाधुना ३।
ईश्वर उवाच-।
नैमिषे सूतमासीनमभिवाद्य महामतिम् ।
कथामृतरसास्वादकुशलः शौनकोऽब्रवीत् ४।
शौनक उवाच ।
अज्ञानध्वांतविध्वंसि कोटिजन्माघनाशनम् ५।
श्रीमद्भागवताख्यानं सूताख्याहि रसायनम् ।
भक्तिज्ञानविरागाढ्यो विवेको वर्द्धते कथम् ६।
माहामोहनिरासश्च वैष्णवैः क्रियते कथम् ।
इह घोरे कलौप्रायो जीवश्चासुरतां गतः ७।
क्लेशाक्रांतस्य तस्याथ शोधने किं रसायनम् ।
श्रेयसां यद्भवेच्छ्रेयः पावनानां च पावनम् ८।
कृष्णप्रीतिकरं यच्च साधनं तद्वदाधुना।
चिंतामणिं लोकसुखं सुरेंद्रास्पदसंपदम् ९।
प्रयच्छति गुरुः प्रीतो वैकुंठं चातिदुर्लभम् १०।
सूत उवाच-।
प्रीतोऽहं ते द्विजश्रेष्ठाः कथयिष्ये यथाश्रुतम् ।
सारात्सारतरं यच्च संसारभयनाशनम् ११।
भक्तिप्रवर्द्धकं यच्च कृष्णसंतुष्टिहेतुकम् ।
तन्मे कथयतः साधो सावधानतया शृणु १२।
कालव्यालमुखालीढ जगत्त्राणविधायकम् ।
श्रीमद्भागवतं शास्त्रं कलौ कृष्णेन भाषितम् १३।
एतस्मादपरं किंचिन्मनः शुद्धिकरं नहि ।
जन्मांतरकृतैः पुण्यैर्लभ्यते साधुभिस्तु तत् १४।
राज्ञः परीक्षितो मोक्षं ज्ञात्वा कमलसंभवः ।
तोलयामास शास्त्राणि पुराणानि महांति च १५।
श्रीमद्भागवतं तत्र गरीयो भुवि संगतम् ।
श्रीमद्भागवती वार्ता सुराणामपि दुर्लभा १६।
इति संचित्य बहुशो मुनयः साधवोऽमलाः ।
मेनिरे भगवद्रूपं श्रीमद्भागवतं क्षितौ १७।
पठनाच्छ्रवणाद्यस्य नरो याति हरेः पदम् ।
वर्षेण श्रवणं तस्य बहुसौख्यप्रदायकम् १८।
मासेन भक्तिराभास्यं लभते द्विजसत्तम ।
सप्ताहेन श्रुतं चैतत्सर्वथा मुक्तिदायकम् १९।
किं बहूक्तेन वै साधो श्रीमद्भागवताऽमृतम् ।
नित्यं सद्भिः प्रपातव्यं कृष्णलीलाप्रकाशकम् २०।
सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ।
ब्रह्मणः श्रुतपूर्वाय सप्ताहश्रवणे विधिः २१।
शौनक उवाच-।
पितुर्लब्ध्वा वरं ज्ञानं श्रीमद्भागवताभिधम् ।
नारदो लोकतत्वज्ञः सर्वदा ह्यटते महीम् २२।
कुत्र तैः संगमो जातो नारदस्य महात्मभिः ।
श्रुतो देवर्षिणा यत्र सप्ताहश्रवणे विधिः २३।
सूत उवाच-।
अत्र ते वर्णयिष्यामि भक्तियुक्तं कथानकम् ।
यत्पुरा ब्रह्मरातेन मह्यं प्रोक्तं दयालुना २४।
एकदा तु विशालायामुपविष्टमधोमुखम् ।
नारदं सनकाद्यास्ते ददृशुर्दीनमानसम् २५।
तं दृष्ट्वा चिंतयानं तु देवर्षिर्भ्रातरं स्वकम् ।
पप्रच्छुर्विस्मयाविष्टा मुनयस्तत्वचिंतकाः २६।
कुमारा ऊचुः-।
किं त्वं चिंतयसे ब्रह्मन्नतिदीन इवातुरः ।
तवेत्थं मुक्तिसंगस्य नोचितं वद कारणम् २७।
नारद उवाच-।
अहं पृथ्व्यां समायातो ज्ञात्वा सर्वोत्तमोत्तमाम् ।
तीर्थैर्नानाविधैर्युक्तां पुण्यदैः पुण्यरूपिणीम् २८।
पुष्करे च प्रयागे च काश्यां गोदावरीतटे ।
हरिक्षेत्रे कुरुक्षेत्रे श्रीरंगे सेतुबंधने २९।
एतेष्वन्येषु तीर्थेषु भ्रममाण इतस्ततः ।
नापश्यं कुत्रचिच्छर्म मनः संतोषकारकम् ३०।
कलिना धर्ममित्रेण धरेयं बाधिताऽधुना ।
सत्यं शौचं दया दानं नास्ति कुत्रापि भूतले ३१।
उदरंभरिणो लोका वराकाः कूटसाक्षिणः ।
मंदाः सुमंदमतयो महापाखंडसंश्रयाः ३२।
स्त्रीप्रधानगृहस्थाश्च वर्णिनो व्रतवर्जिताः ।
वानप्रस्थाः पुरावासा न्यासिनो भोगतत्परा ३३।
कन्याविक्रयिणो लोभात्कृषिकर्मपरायणाः ।
भ्रष्टाचारा दंभिनश्च स्वेच्छाचारनिदर्शिनः ३४।
आश्रमा यवनै रुद्धास्तीर्थानि सरितो ह्रदाः ।
देवतायतनान्यत्र दुष्टैरुच्छेदितानि च ३५।
योगी सिद्धोऽथवा ज्ञानी सत्क्रियोऽत्र न दृश्यते ।
कलिदावानलेनाद्य साधनं भस्मतां गतम् ३६।
अट्टशूला जनपदाः शिवशूला द्विजातयः ।
कामिन्यः केशशूलिन्यो दृश्यंते भुवि सर्वतः ३७।
एकदाहमनुप्राप्तो यमुनायास्तटं शुभम् ।
दृष्टं वृंदावनं तत्र यत्र लीला हरेरभूत् ३८।
तत्र यच्चाद्भुतं दृष्टं श्रूयतां तन्मुनीश्वराः ।
एका तु तरुणी तत्र निषण्णाखिन्नमानसा ३९।
द्वौ वृद्धौ पतितौ पार्श्वे निःश्वसंतावचेतनौ ।
शुश्रूषंती प्रबोधंती रुदती च तयोः पुरः ४०।
दृष्टा दिशो निरीक्षंती रक्षितारमिवात्मनः ।
वीज्यमाना बहुस्त्रीभिर्बोध्यमाना मुहुर्महुः ४१।
दृष्ट्वा दूराद्गतश्चाऽहं कौतुकेन तदंतिकम् ।
मां दृष्ट्वोत्थाय सा बाला वचनं चेदमब्रवीत् ४२।
बालोवाच-।
भो साधोऽत्र क्षणं तिष्ठ मम चिंतामपाकुरु ।
पुंसां च दर्शनं भद्र सर्वाघौघनिवारणम् ।
पुण्येन प्राक्तनेनैव दर्शनं तव जायते ४३।
अतो मे मानसं दुःखं च्छेत्तुमर्हसि मानद ।
नारद उवाच ।
एवमुक्तस्तया चाहं कृपया स्निग्धमानसः ।
अपृच्छंतां वरारोहां कौतुकेन समाकुलः ४४।
का त्वमेतौ च कौ भद्रे काश्चेमाः पद्मलोचनाः ।
आख्याहि मत्पुरः सर्वं तव दुःखस्य कारणम् ४५।
इति पृष्टा मया सा तु बाला दुःखितमानसा ।
प्रोवाच निखिलं दुःखमात्मनो दुःखकारणम् ४६।
बालोवाच-।
अहं भक्तिरिति ख्याता एतौ मे तनयौ वरौ ।
ज्ञानवैराग्यनामानौ कालयोगेन जर्जरौ ४७।
गंगाद्याः सरितश्चेमा मम सेवार्थमागताः ।
एताभिः सेविता नित्यं सत्कारेणापि नारद ४८।
न च श्रेयो लभे किंचित्क्षीणाऽहं सर्वतो मुने ।
ममपूर्वं तु वृत्तातं शृणु ब्राह्मणसत्तम ४९।
येनाऽहं दुःखिता जाता न लभे शर्म कुत्रचित् ।
उत्पन्ना द्रविडे चाहं कर्णाटे वृद्धिमागता 6.193.५०।
स्थिता किंचिन्महाराष्ट्रे गुर्जरे जीर्णतां गता ।
तत्र घोरकलेर्योगात्पाखंडैः खंडितांगका ५१।
दुर्बलाहं चिरं जाता पुत्राभ्यां सह मंदताम् ५२।
वृंदावनमिदं प्राप्ता दैवयोगेन नारद ।
जाता हं तु पुनर्बाला नवीनेव सुरूपिणी ५३।
इमौ तु शयितावत्र सुतौ मे क्लिष्टमानसौ ।
अतिवृद्धौ परित्यज्य गंतुं नाहं क्षमाधुना ५४।
अहं बाला कथं जाता सुतौ मे जरठौ कुतः ।
त्रयाणामेकभावानां वैपरीत्यं कुतोऽभवत् ५५।
घटते जरठा माता बालकौ तनयाविति ।
अतः शोचामि चात्मानं विस्मयाविष्टमानसा ५६।
यदि त्वं वेत्सि धर्मज्ञ कृपालो दीनपालक ।
वद सर्वं यथातत्वं कारणं चात्र यद्भवेत् ५७।
एवं पृष्टस्तया चाहं क्षणं चैव विमृश्य तु ।
अवोचं भक्तिमाभाष्य क्लिष्टां कालेन भूयसा ५८।
ज्ञानेनाहं प्रपश्यामि वृत्तं सर्वं तवानघे ।
मा विषादं कुरु प्राज्ञे हरिः शं ते करिष्यति ५९।
सर्वसत्वहरो बाले युगोऽयं दारुणः कलि ।
लुप्तोऽनेन सदाऽचारो योगमार्गस्तपांसि च ६०।
जनाश्चाघा (द्या) सुरायंते शाठ्यदुष्कृतकारिणः ।
संतो ह्यस्मिन्सुदुःखार्ता असंतो हृष्टमानसाः ६१।
दृश्यते धीरचित्तस्तु पंडितोऽपि न कोऽपि च ।
अस्पृश्य नवलोक्येयं दुष्टभाराकुलाधरा ६२।
अन्वब्दं क्रमतो जातो मंगलं हीयतेऽन्वहम् ।
न त्वां तव सुतौ चेमौ कोऽपि पश्यति भामिनि ६३।
यूयं तु रागबहुलैस्त्यक्ता जर्जरतां गताः ।
वृंदावनस्य संयोगाद्बालात्वमभवः पुनः ६४।
धन्यं वृंदावनं चेदं भक्तिर्यत्राभवन्नवा ।
अत्रेमौ ग्राहकाभावान्नवीनत्वं न चागतौ ६५।
किंचिदात्मसुखेनेह प्रसुप्ताविति लक्ष्यते ।
भक्तिरुवाच-।
कथं परिक्षिता राज्ञा स्थापितोद्य शुचिः कलि ।
दयापरेण हरिणा ह्यधर्मः किमुपेक्षितः ६६।
एनं मे संशयं छिंधि त्वद्वाचा सुखितास्म्यहम् ।
तस्या वचः समाकर्ण्य भूयोऽहमवदं द्विजाः ६७।
यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।
यदा मुकुंदो भगवान्क्ष्मां त्यक्त्वा स्वपदं गतः ६८।
कलिस्तद्दिनमारभ्य प्रवृत्तः सत्यबाधकः ।
दृष्टो दिग्विजये राज्ञा दीनवच्छरणं गतः ६९।
न हतोऽस्य गुणद्रष्टा सर्वसाधारणं त्विदम् ।
यत्फलं तपसा नैति न योगे न समाधिना ७०।
तत्फलं लभते धीमान्कलौ केशवकीर्तनात् ।
एतादृशं कलिं दृष्ट्वा सारात्सारफलप्रदम् ७१।
विष्णुरातः स्थापितवान्कलिजानां हिताय च ।
कुकर्माचरणात्सारः सर्वतो निर्गतोऽधुना ७२।
पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा ।
विप्रैर्भागवतीवार्त्ता गेहे गेहे जने जने ७३।
कारिता धनलोभेन कथासारस्ततो गतः ।
अत्युग्रभूरिकर्माणो नास्तिका दांभिका जनाः ७४।
तिष्ठंति सर्वतीर्थेषु तीर्थसारस्ततो गतः ।
कामक्रोधमहालोभतृष्णाव्याकुलचेतसः ७५।
समारभंते कर्माणि कर्मसारस्ततो गतः ।
मनसश्चाजयाल्लोभाद्दंभात्पाखंडसंश्रयात् ७६।
शास्त्रानभ्यसनाच्चैव ध्यानयोगफलं गतम् ।
पंडितास्ते कलत्रेषु रमंते महिषा इव ७७।
पुत्रोत्पादनदक्षाश्च न दक्षा मुक्तिसाधने ।
न हि वैष्णवता कुत्र संप्रदायपुरःसराः ७८।
देवनिंदापराः सर्वे साधुनिंदापरायणाः ।
अयं तु युगधर्मोऽस्ति दीयते कस्य दूषणम् ७९।
अतस्त्वं पुंडरीकाक्षं स्मृत्वा सौख्यमवाप्स्यसि ८०।
एवं मयोक्तं वचनं श्रुत्वा सा विस्मयं गता ।
उवाच वचनं भूयो मां प्रशस्य द्विजोत्तमाः ८१।
भक्तिरुवाच-।
देवर्षे त्वं तु धन्योऽसि मद्भाग्येन समागतः ।
साधूनां दर्शनं लोके सर्वसिद्धिप्रदायकम् ८२।
सुखोपायो यथा मे स्यात्तथादिश मुनेऽधुना ।
सर्वज्ञस्य तव ब्रह्मन्न साध्यं किमपीह वै ८३।
अजयदजितमायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ।
ध्रुवपदमुपयातो यत्कृपातो ध्रुवो वै तमहमरणभूतं ब्रह्मपुत्रं नतास्मि ८४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे भागवतमाहात्म्ये त्रिनवत्यधिकशततमोऽध्यायः १९३ ।