← अध्यायः १९५ पद्मपुराणम्
अध्यायः १९६
वेदव्यासः
अध्यायः १९७ →

सूत उवाच-
अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम्
निजलोकं परित्यज्य भुवमभ्यगमद्धरिः १
वनमाली घनश्यामः पीतवासाः किरीटधृक्
कांचीकलापपर्यस्तो लसन्मकरकुंडलः २
त्रिभंगललितश्चारु कौस्तुभेन विराजितः
कोटिमन्मथ लावण्यो हरिचंदन चर्चितः ३
परमानंद चिन्मूर्तिर्मधुरो मुरलीधरः
आविवेश स्वभक्तानां हृदयान्यमलानि च ४
वैकुंठवासिनो ये च वैष्णवाः शांतमानसाः
गूढरूपाः समायाताः श्रवणाय हरेः कथाः ५
तदा जयजयेत्युच्चैः शब्दोऽभूत्कंबुशब्दयुक्
येनामंगलमत्युग्रं कलिजं प्रलयं गतम् ६
तत्रस्थानां जनानां च दृष्ट्वा गेहात्मविस्मृतिम्
नारदोऽध्यात्मतत्वज्ञः कुमारान्प्रत्युवाच ह ७
नारद उवाच-
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योद्य विलोकितो मया ८
मूढाः शठा ये पशुपक्षिणोऽपि तेपि प्रयांत्येव गतिं पराख्यात्
अतो नृलोकेन तु शास्त्रमन्यच्चित्तस्य शुध्यै विहितं पवित्रम् ९
अघौघविध्वंसि कृतार्थतावहं कलौ युगे दोषनिधौ कुमाराः
के केन शुध्यंति वदंतु मह्यं सप्ताहयज्ञेन कथामयेन १०
कृपालुभिर्लोकहितोभवद्भिः प्रकाशितं कोऽपि नवीनमार्गः
कुमारा ऊचुः
ये मानवाः पापकृतः सुदुष्टाः सदा दुराचाररताः समत्सराः ११
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन हरिं व्रजंति ते १२
सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमवर्णबाह्याः
ये दांभिका जीवविहिंसकाश्च सप्ताहयज्ञेन हरिं व्रजंति ते १३
पंचोग्रपापाश्च्छलकारिणश्च क्रूराः पिशाचा इव निर्दयाश्च
ब्रह्मस्वपुष्टा व्यभिचारिणश्च सप्ताहयज्ञेन हरिं व्रजंति ते १४
कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वंति शठा हठेन ये
नीचाः कृतघ्ना मलिना दुराशयाः सप्ताहयज्ञेन हरिं व्रजंति ते १५
सूत उवाच-
अथैवं तुष्टचित्तेऽथ नारदे देवपूजिते
प्रसन्नास्ते कुमाराश्च पुनरूचुश्च नारदम् १६
कुमारा ऊचुः
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम्
यस्य श्रवणमात्रेण पापहानिः प्रजायते १७
तुंगभद्रा तटे पूर्वं पत्तने कोहलाभिधे
वर्णाश्रमाचारयुते धनधान्यसमाकुले १८
आत्मदेव इति ख्यातस्तत्रासीद्दिवजसत्तमः
वेदविद्याविधिप्राज्ञो नित्यकर्मपरायणः १९
तत्प्रिया धुंधुली नाम नित्यं स्वीयहिते रता
स्ववाक्यस्थापनाचापि सुंदरी सुकुलोद्भवा २०
पूर्वकर्मविपाकेन प्रायशो बहुजल्पिनी
शूरा च गृहकृत्येषु क्रूरा च कलहप्रिया २१
एवं निवसतोस्तत्र दंपत्योर्निरपत्ययोः
व्यतिक्रांतं वयश्चापि पंचाशद्वर्षसंमितम् २२
अथ तौ दुःखितौ जातौ निरपत्यौ गृहेस्थितौ
संतानोत्पत्तये ताभ्यां दत्तं चापि धनादिकम् २३
गोभूहिरण्यवासांसि दत्तान्यपि बहूनि च
न पुत्रो नापि दुहिता जायते पूर्वकर्मणा २४
स चैकदा तु निर्विण्ण आत्मदेवो द्विजोत्तमः
गृहं त्यक्त्वा गतोऽरण्यमानपत्येन दुःखितः २५
यत्र तत्र भ्रमन्भ्रांतो दुःखाकुलितमानसः
क्षुत्क्षामस्तृट्परीतश्च दैवात्प्राप्तो जलाशयम् २६
जलं पीत्वा ततस्तस्मिंस्तडागे स द्विजोत्तमः
वृक्षच्छायां समाश्रित्य निषण्णस्तत्र नारद २७
अथ तत्र तदैवागात्कश्चित्सिद्धो भ्रमन्महीम्
जलं पीत्वा तडागे तु सोऽपि तत्रैव चागतः २८
तं दृष्ट्वा न्यासिनं शांतमात्मदेव उदारधीः
सत्कृत्योत्थाय तत्पादौ जग्राह स्वगुरोरिव २९
उपविष्टौ ततस्तौ द्वौ कृतप्रश्नौ परस्परम्
सुस्निग्धमानसौ भूत्वा गुरुशिष्याविवाश्रमे ३०
अथ तं स यतिर्दृष्ट्वा श्वसंतं दुःखितांतरम्
पप्रच्छ करुणासिंधुरात्मदेवं पुरः स्थितम् ३१
सिद्ध उवाच-
का ते चिंता द्विजश्रेष्ठ दुःखाय हृदि वर्तते
तां समाचक्ष्व धर्मज्ञ परितापप्रदायिनीम् ३२
तच्छ्रुत्वा वचनं तस्य सिद्धस्य सुमहात्मनः
आत्मदेव उवाचाथ स्वस्य दुःखस्य कारणम् ३३
आत्मदेव उवाच-
किं ब्रवीमि मुने दुःखं संचितं पूर्वकर्मणा
मदीयाः पूर्वजास्तोयं कवोष्णमुपभुंजते ३४
मद्दत्तं नैव गृह्णंति पितरो देवता बलिम्
तेन दुःखेन निर्विण्णः प्राणांस्त्यक्तुमिहागतः ३५
धिग्जीवितं प्रजाहीनं गृहं चैव धनं कुलम्
पाल्यते या मया धेनुः साऽपि वंध्यात्वमेति ह ३६
यो मयारोपितो वृक्षः सोपि वंध्यत्वमागतः
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ३७
कुमारा ऊचुः
इत्युक्त्वा स रुरोदोच्चैस्तत्पुरो दुःखपीडितः
यदा तदा यतेश्चित्ते करुणाभूद्गरीयसी ३८
ललाटाक्षरमालां च दृष्ट्वा ज्ञात्वा स योगवान्
आत्मदेवं द्विजं प्राज्ञः पुनरूचे सविस्तरम् ३९
सिद्ध उवाच
शृणु विप्र मया तेऽद्य प्रारब्धमवलोकितम्
सप्तजन्मावधि प्राप्तिः पुत्रस्य न च दृश्यते ४०
मुंचाग्रहं प्रजाहेतोर्बलिष्ठा कर्मणो गतिः
विवेकं तु समासाद्य सुखी भव महामते ४१
एवमुक्तं समाकर्ण्य सिद्धस्य द्विजसत्तमः
प्रजाशाबद्धचित्तस्तु सिद्धं प्राहातिदुःखितः ४२
विप्र उवाच-
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि
नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ४३
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत्स तपोधनः
संततेः सगरो दुःखमवापांगः प्रजापतिः ४४
चित्रकेतुर्गतः कष्टं विधिलेखविमार्ज्जनात्
अतस्त्वमपि धर्मज्ञ यदि पुत्रं लभेरपि ४५
सुतेन न सुखीभूयाः दैवं हि बलवत्तरम्
इत्युक्त्वा द्विजवर्याय स सिद्धः साधुसंमतः ४६
ददावेकं फलं तस्मै प्राग्रहेण सुतार्थिने
इदं फलं मया तुभ्यं दत्तं पुत्राप्तये द्विज ४७
भार्यायै देहि पुत्रस्ते भविष्यति न संशयः
सत्यं शौचं दया दानमेकभक्तं तु भोजनम् ४८
वर्षावधि स्त्रिया कार्यं तेन शुद्धो भवेत्सुतः
एवमुक्त्वा ययौ योगी विप्रः स्वगृहमागतः ४९
दत्त्वा पत्न्यै फलं तत्तु सिद्धोक्तमवदच्च ह
अथ सा धुंधुली क्रूरा स्ववाक्यस्थापनोत्सुका 6.196.५०
स्वसख्यै प्राह तत्सर्वं पत्योक्तं सिद्धभाषितम्
यद्यहं भक्षये चेदं फलं सिद्धेन चार्पितम् ५१
गर्भो मम भवेत्तर्हि कथं चाहं सहाम्यहम्
स्वल्पं भक्ष्यमशक्तिश्च गमने गृहकर्मणि ५२
तिर्यक्चेदागतो गर्भो तदा मे मरणं भवेत्
प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे
मंदयां मयि सर्वस्वं ननांदा संहरेत्सदा ५३
चिंता मे समनुप्राप्ता किं करोमि शुचिस्मिते
सा तद्वचनमाकर्ण्य स्नेहभंगभयाद्दिवज ५४
एवमेवेति तां प्राह प्रीत्या प्रहसितानना
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ५५
पत्या पृष्टे फलं भुक्तं भुक्तं चेति तयेरितम्
एकदा भगिनी तस्याः स्वेच्छया तद्गृहं गता ५६
तदग्रे कथितं सर्वं चिंतेयं महती हि मे
किं करोमि सगर्भोऽहं त्वं प्रब्रूहि यथातथम् ५७
साब्रवीन्मम गर्भोस्ति तुभ्यं दास्ये प्रसूतितः
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ५८
तं बालं पोषयिष्यामि त्वद्गृहे चैव नित्यदा
फलं धेनोः प्रयच्छाद्य परीक्षार्थं शुभानने ५९
इत्युक्त्वा सा ययौ गेहमात्मनो हृष्टमानसा
धुंधुल्यापि यथोद्दिष्टं तद्भगिन्या तथा कृतम् ६०
अथ प्रसूय सा बालं धुंधुल्यै चार्पयद्द्रुतम्
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः६१
लोकस्य सुखमुत्पन्नमात्मदेव प्रजोदयात्
दत्त्वा दानं द्विजाग्रेभ्यो जातकर्म चकार च ६२
गीतवादित्रनिर्घोषो गृहे तस्यातिमङ्गलम्
बभूव हर्षमापन्न आत्मदेवो महामतिः ६३
अथ सा प्राह भर्त्तारं दुग्धं मेस्तनयोर्नहि
पालयिष्ये कथं बालं सद्यः सूतं प्रभोऽधुना ६४
मत्स्वसुश्च प्रसूताया मृतो बालः पुराभवत्
तामानीय गृहे रक्षसार्भकं पोषयिष्यति ६५
इति श्रुत्वा वचस्तस्या धुंधुल्या द्विजसत्तमः
तथैव कृतवान्भ्रांतरात्मदेवो मुदान्वितः ६६
धुंधुकारीति नामास्य कृतं मात्रा यथार्थतः
स्तन्येन पोषमाप्नोति नित्यं मातृष्वसुः सुतः ६७
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम्
सर्वांगसुंदरं दिव्यं निर्मलं कनकप्रभम् ६८
दृष्ट्वा प्रसन्नस्तं विप्रः संस्कारान्स्वयमादधे
तं दिदृक्षव आयाता जनाः सर्वेऽतिविस्मिताः ६९
आत्मदेवस्य विप्रस्य महाभाग्योदयेन च
धेन्वा बालः प्रसूतश्च देवरूपोऽतिकौतुकम् ७०
न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः
गोकर्णः तं सुतं दृष्ट्वा गोकर्णेत्येवचाभ्यधात् ७१
कियत्कालेन संप्राप्तौ तारुण्यं तावुभावपि
गोकर्णः पंडितो ज्ञानी धुंधुकारी महाखलः ७२
स्नानशौचक्रियाहीनो भक्ष्याभक्षी क्रुधाप्लुतः
चौरः सर्वजनद्वेषी दुष्टचांडालसंगतः ७३
क्रीडतो ह्यर्भकान्धृत्वा बलात्कूपे निपातयेत्
एवं वेश्याप्रसंगेनानयद्द्रव्यं क्षयं पितुः ७४
पिता कृपणवत्तस्य शुचा निःस्वो रुरोद ह
अनपत्यः सुखी नित्यं कुपुत्रो दुःखदायकः ७५
सिद्धेनोक्तं वचः सत्यमनुभूतं मयाधुना
क्व गच्छामि क्व तिष्ठामि को मे दुःखं निवारयेत् ७६
प्राणांस्त्यक्ष्ये जले वह्नौ भृगोर्वापि पते ह्यहम्
इत्येवं चिंतयानं तमधोमुखमुपागतः ७७
गोकर्णो जनकं ज्ञानी बोधयामास तत्वतः
गोकर्ण उवाच-
असारस्तात संसार दुःखमोहप्रदो नृणाम् ७८
कः सुत किं धनं कस्य का जाया कः पतिः पितः
मोहेन बद्धो दीनात्मा लोकः क्लिश्यति नान्यथा ७९
न चेंद्रस्य सुखं किंचिन्न सुखं चक्रवर्तिनः
विरक्तस्य सुखं तात मुनेरेकांतशीलिनः ८०
मुंचाज्ञानं प्रजारूपं मोहं नरककारणम्
निर्द्वंद्वो निरभीमानो व्रज त्यक्त्वाखिलं वनम् ८१
ततस्तद्वाक्यमाकर्ण्य गोकर्णं स द्विजोऽब्रवीत्
द्विज उवाच-
यत्कर्त्तव्यं वने साधो तन्ममाचक्ष्व विस्तरात् ८२
मोहपाशनिबद्धं हि शठं कृपणमानसम्
संसारगर्ते पतितं मामुद्धर दयानिधे ८३
पितुरित्थं वचः श्रुत्वा गोकर्णो ज्ञानपंडितः
उवाच दीनं निर्विण्णं पितरं हृष्टमानसः ८४
गोकर्ण उवाच-
मांसास्थिरक्तनिकरे स्वशरीरकेऽस्मिन्स्वत्वं त्यजाशु ममतां वनिता सुतादौ
पश्यानिशं जगदिदं क्षणभंगनिष्ठं ज्ञानी विरागरसिको भव भक्तिनिष्ठः ८५
धर्मं भजस्व सततं त्यज लोकधर्मान्संसेव्य साधुपुरुषान्जहि कामतृष्णाम्
अन्यस्य दोषगुण चिंतनमाशु मुक्त्वा विष्णोः कथारसमथो नितरां पिब त्वम् ८६
कुमारा उचुः-
एवं सुतोक्तविदितानुभवो निरीहस्त्यक्त्वा गृहं स्थिरमतिर्गतषष्टिवर्षः
नित्यं हरिप्रियजनानुगतो महात्मा दुष्प्रापमाप च पदं स हरेर्वनस्थः ८७

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे श्रीभागवत माहात्म्ये षण्णवत्यधिकशततमोऽध्यायः १९६