पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९८

← अध्यायः १९७ पद्मपुराणम्
अध्यायः १९८
वेदव्यासः
अध्यायः १९९ →

कुमारा ऊचुः-
अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् ।
येन भागवतं सिद्ध्येत्पुंसां कृष्णार्पितात्मनाम् १।
दैवज्ञं शास्त्रकुशलं समाहूय धनांशुकैः ।
समभ्यर्च्य मुहूर्तं तु प्राक्पृच्छेद्भक्तिमान्नरः २।
स वदेद्यं मुहूर्तं तु तत्रारंभः प्रशस्यते ।
नभोनभस्येषोर्जाश्च सहः शुचिसमन्विताः ३।
मासाः श्रेष्ठाः कथारंभे पूर्णा चापि तिथिः शुभा ।
भौमार्किवर्जिता वारा भानि ध्रुव मृदूनि च ४।
शुभे योगे शुभे लग्ने प्रारंभः शस्यते सदा ।
नित्यायां च कथायां तु पुराणानां मुनीश्वर ५।
द्वादशीं वर्जयेत्प्राज्ञः सूतसूतकसंभवात् ।
श्रीमद्भागवतस्यापि सप्ताहेनैव केऽपि च ६।
न निषेधोस्ति देवर्षे प्राहुरेवं पुराविदः ।
श्रीभागवतसप्ताहो महायज्ञः स्मृतो बुधैः ७।
अतो निमंत्रणं कार्यं वैष्णवानां समंततः ।
सतां समाजो भविता सप्ताहं वैष्णवोत्तमाः ८।
आगंतव्यमतश्चात्र वैष्णवैः श्रवणार्थिभिः ।
समागतानां तेषां तु निवासं परिकल्पयेत् ९।
तीर्थे वापि वने वापि ग्रामे वापि प्रयत्नतः ।
संशोधितायां भूम्यां तु मंडपं परिकल्पयेत् १०।
कदलीस्तंभसंयुक्तं चतुर्दिक्षु ध्वजान्वितम् ।
उच्चमासनमप्युक्तं वक्तुस्तस्याग्रतो मुने ११।
आपार्श्वद्वयमुक्तानि श्रोतॄणामासनानि च ।
उदङ्मुखो भवेद्वक्ता समाजेस्मिन्विदांवरः १२।
वेदशास्त्रार्थतत्वज्ञो वैष्णवो ब्राह्मणोत्तमः ।
दृष्टांतकुशलो धीरो वक्ता कार्योऽतिनिस्पृहः १३।
सर्वसंदेहहर्त्तापि कार्यो वक्ता न चैव हि ।
वक्तुः पार्श्वे सहायार्थं स्थाप्योऽन्य पंडितः सुधीः १४।
श्रोतॄणां संशयच्छेत्ता ज्ञानांबोधविधायकः ।
कथाविघ्नविघातार्थं गणेशं प्राक्प्रपूजयेत् १५।
ततो दुर्गां हरं विष्णुं ब्रह्माणं भास्करं द्विजान् ।
संपूज्य विधिवद्भक्त्या तर्पयेद्देवताः पितॄन् १६।
मुख्यः श्रोता ततः पश्चात्पूजयेत्पुस्तके हरिम् ।
ततः प्रदक्षिणीकृत्य द्रव्यवस्त्रफलानि च १७।
धृत्वांजलौ पुस्तकस्थं हरिं संप्रार्थयेन्मुने ।
त्वं भागवतलोकेस्मिन्स्वयं कृष्णो व्यवस्थितः १८।
समाश्रितो मया नाथ मुक्त्यर्थं भवसागरे ।
मनोरथो मदीयोऽयं सर्वथा सफलस्त्वया १९।
निर्विघ्नेन प्रकर्तव्यो दासोऽहं तव केशव ।
इत्युच्चार्य मुने द्रव्यं पुस्तकाग्रे समर्प्यतु २०।
वक्तारं प्रार्थयेच्चापि नमस्कुर्वन्कृतांजलि ।
शुकरूपद्विजश्रेष्ठ सर्वशास्त्रविशारद २१।
श्रीभागवतव्याख्यानादज्ञानं मे विनाशय ।
इति संप्रार्थ्य वक्तारं वरयेत्पंच वाडवान् २२।
द्वादशाक्षरमंत्रस्य जपार्थं मुनिसत्तम ।
गीतवाद्यविधिज्ञांश्च संपूज्यार्थांशुकादिभिः २३।
स्थापयेत्कीर्तनार्थं तु कथांते विधिवन्मुने ।
यस्तु जाया धनागार पुत्रचिंतां व्युदस्य च २४।
शृणुयादेकचित्तस्तु स समग्रं फलं लभेत् ।
सूर्योदयं समारभ्य सार्द्धत्रिप्रहरांतकम् २५।
पठित्वार्थः प्रकर्त्तव्यो वाक्यमध्यायमेव वा ।
मध्याह्ने घटिकायुग्मं विरमेदपि नारद २६।
कथाऽवसाने कर्त्तव्यं कीर्तनं केशवस्य च ।
उपवासः प्रकर्त्तव्यः श्रोतृभिस्तत्फलेप्सुभिः २७।
तदशक्तो हविष्यान्नं सकृत्स्वल्पं समाहरेत् ।
जलेनापि फलेनापि दुग्धेन च घृतेन वा २८।
केवलेनैव कर्त्तव्यं निर्विघ्नं धारणं तनोः ।
सप्ताहव्रतिनां पुंसां नियमान्शृणु नारद २९।
विष्णुदीक्षाविहीनानां नाधिकारोऽत्र कीर्तितः ।
ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ३०।
समाचरेन्नित्यमेव सप्ताहे मुनिसत्तम ।
द्विदलं मधु तैलं च परान्नं चेक्षुजं रसम् ३१।
भावदुष्टं क्रियादुष्टं जह्यात्पर्युषितं व्रती ।
पलांडुलशुनं हिंगुं मूलकं गृंजनं तथा ३२।
नालिकां चैव कूष्मांडं नरो नाद्यात्कथाव्रती ।
कामं क्रोधं मदं लोभं दंभं मात्सर्यमेव च ३३।
मोहं द्वेषं तथा हिंसां नैव कुर्यात्कथाव्रती ३४।
वेदवैष्णवविप्राणां गुरु गोव्रतिनां तथा ।
स्त्री राजमहतां चापि निंदां जह्यात्कथाव्रती ३५।
सत्यं शौचं दयामौनमार्जवं विनयं तथा ।
मनः प्रसन्नतां चापि बुधः कुर्यात्कथाव्रती ३६।
श्रीकामस्तनयार्थी च जयकामश्च मोक्षधीः ।
शृणुयाद्वै भागवतं निष्कामः श्रीहरिं लभेत् ३७।
सप्तमे दिवसे कुर्याल्लंघनं तत्समाप्तिके ।
वक्तुश्च पूजा कर्त्तव्या गोभूस्वर्गं वरादिभिः ३८।
प्रसाद तुलसीं मालां श्रोतृभ्यः प्रतिदापयेत् ।
उत्सवश्च तथा कार्यो गीतवाद्यविशारदैः ३९।
गीतार्थं शृणुयाच्चापि परेऽहनि विचक्षणः ।
प्रतिश्लोकं च जुहुयाद्गायत्र्या वा यथाविधि ४०।
पायसं मधुसर्पिश्च तिलांस्तंडुलकान्यवान् ।
शर्करां च प्रियालं च द्राक्षां वाताम खर्जुरौ ४१।
अंभोजानि च कर्पूरं चंदनागुरुणीपुरम् ।
लवंगं बिल्वपत्राणि सहस्रं च पृथक्पृथक् ४२।
विघ्नस्य च विघातार्थं न्यूनाधिक्यनिवृत्तये ।
आत्मनः पूततार्थं च पठेन्नामसहस्रकम् ४३।
द्वादशाष्टादशाथापि श्रद्धयाह्यधिकांस्तथा ।
पायसेनाशयेद्विप्रान्स्वर्णं धेनुश्च दक्षिणा ४४।
व्रतसिद्ध्यर्थमप्यत्र प्रौष्ठपद्यामथापि वा ।
स्वर्णसिंहं विनिर्माय तस्य पृष्ठे निधाय च ४५।
श्रीमद्भागवतं वक्त्रे लेखयित्वा समर्पयेत् ।
एवं कृते विधाने तु सर्वपापनिवारणम् ४६।
भवेच्छ्रोतुः सुफलदं श्रीमद्भागवतं श्रुतम् ।
धर्मकामार्थमोक्षाणां साधनं भक्तिदायकम् ४७।
न कार्यं विद्यते लोके यदनेन न सिध्यति ।
ततो भागवतं लोके पुराणेभ्योऽधिकं मतम् ४८।
दोषाष्टादशनिर्मुक्तो वाचकः परिकीर्तितः ।
द्वात्रिंशदपराधैर्हि मुक्तो श्रोता मतो बुधैः ४९।
श्रीमद्भागवतं नाम पुराणं कामदं नृणाम् ।
तथापि श्रवणं चास्य निष्कामस्यैव भक्तिदम् 6.198.५०।
श्रीमद्भागवताभिधः सुरतरुस्तारांकुरः सज्जनिः स्कंधैर्द्वादशभिस्ततः प्रविलसद्भक्त्यालवालोदयः ।
द्वात्रिंशत्त्रिशतं च यस्य विलसच्छाखाः सहस्राण्यलं पर्णान्यष्टदशेष्टदोतिसुलभो वर्वर्ति सर्वोपरि ५१।
इति ते कथितं सर्वं कृतं चापि तवेप्सितम् ।
ज्ञानवैराग्यभक्तीनां तारुण्यं लोकमोक्षदम् ५२।
सूत उवाच-
इत्युक्ता ते कुमारास्तु कृष्णांघ्रिसुधयाप्लुताः ।
विरेमुर्भगवद्भक्ता दीनोद्धरणतत्पराः ५३।
तद्वाक्यं तु समाकर्ण्य नारदो भगवत्प्रियः ।
प्रेमगद्गदया वाचा तानुवाच कृतांजलिः ५४।
नारद उवाच-
धन्योस्म्यनुगृहीतोस्मि भवद्भिः करुणापरैः ।
यद्भागवतसप्ताहान्निकटे दर्शितो हरिः ५५।
एवं ब्रुवति वै तस्मिन्नारदे वैष्णवोत्तमे ।
पर्यटंस्तं समायातस्तत्र योगेश्वरः शुकः ५६।
द्विरष्टवर्षाकृतिरंबुजाक्षो व्यासात्मजो ज्ञानपयोधिचंद्रः।
कथावसाने निजलाभतुष्टो हृदानिशं भागवतं पठंश्च ५७।
दृष्ट्वा सदस्यास्तमथोरुतेजसंसद्यःसमुत्थाय वरासनं ददुः ।
स चोपविष्टः सुखमासने यदा तदाविरासीद्धरिरब्जलोचनः ५८।
भवो भवान्या कमलासनः सुतैस्तत्रागतः कीर्तनदर्शनाय च ।
सुरेशमुख्यास्त्रिदशा विमानकैः समागतास्तैरभवद्वृतं नभः ५९।
प्रह्लादस्तालधारीतरलगतितया ह्युद्धवः कांस्यधारी वीणाधारी सुरर्षिः स्वरकुशलतया रागकर्ताऽर्जुनोऽभूत् ।
इंद्रो मार्दंगिकोऽभूज्जयजय सुवचः प्रावदंस्ते कुमाराः सद्भावस्य प्रवक्ता निरतिशयगुणोव्यासपुत्रो बभूव ६०।
ननर्त्त मध्ये त्रिकमेव तत्र ज्ञानादिकानां नवरूपयुक्तम् ।
अलौकिकं कीर्त्तनकं समीक्ष्य प्रसन्नचेता हरिरित्युवाच ६१।
मत्तो वरं भागवता वृणीध्वं प्रीतात्कथाकीर्त्तनतो भृशं वः।
श्रुत्वाथ तद्वाक्यमतिप्रसन्ना प्रेमार्द्रचित्ता हरिमूचिरे ते ६२।
कुमारा ऊचुः-
सप्ताहयज्ञेन वितायतेन सद्यः प्रसन्नो भविता मुरारे ।
कलौयुगे घोरतरे नराणां स्वल्पायुषां विघ्नशताकुलानाम् ६३।
एवं वरं विश्वविधानपालनप्रणाशहेतोर्भवतोखिलात्मनः ।
वृणीमहेऽन्यो न मनोरथो विभो भवत्पदांभोजनिषेविणां हि नः ६४।
एवमस्त्विति चैवोक्त्वा तत्रैवांतर्दधे हरिः ।
नारदः सुप्रसन्नात्मा कुमारानभ्यवादयत् ६५।
ततस्ते सनकाद्याश्च भृग्वाद्याश्च शुकादयः ।
प्रययुः स्वाश्रमान्हृष्टाः पीत्वा तच्च कथामृतम् ६६।
भक्तिः सुताभ्यां सहिता नारदेन प्रवर्तिता ।
भूमंडले समस्तेऽस्मिस्तदा प्रभृति शौनक ६७।
शिव उवाच-
आख्यानं महदाकर्ण्य प्रीतात्मा शौनकः प्रिये ।
पर्यपृच्छत्पुनः सूतं सर्वसंदेहभंजनम् ६८।
शौनक उवाच-।
शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।
सुरर्षये कदा ब्राह्मैरेतदाख्याहि मानद ६९।
सूत उवाच-
श्रीकृष्णनिर्गमात्त्रिंशद्वर्षावधिगते कलौ ।
भाद्रशुक्लनवम्यां वै कथारंभं शुकोऽकरोत् ७०।
परीक्षिच्छ्रवणांते तु गते वर्षशतद्वये ।
शुचिशुक्लनवम्यां तु गोकर्णोकथयत्कथाम् ७१।
कलौ सहस्रमब्दानामधुना प्रगतं द्विज ।
परीक्षितो जन्मकालात्समाप्तिं नीयतां मखः ७२।
ईश्वर उवाच-
इति श्रुत्वा वचस्तस्य शौनको मुनिसत्तमः ।
पूर्णं चकार तं यज्ञं सहस्रपरिवत्सरम् ७३।
ब्राह्मं पाद्मं वैष्णवं च कौर्म्यं मात्स्यं च वामनम् ।
वाराहं ब्रह्मवैवर्त्तनारदीयं भविष्यकम् ७४।
आग्नेयमर्द्धं वै सूताच्छुश्रुवुर्लोमहर्षणात् ।
एतानि तु पुराणानि द्वापरांते श्रुतानि हि ७५।
शौनकाद्यैर्मुनिवरैर्यज्ञारंभात्पुरैव हि ।
यदा तु तीर्थयात्रायां वलदेवः समागतः ७६।
नैमिषं मिश्रिकं नाम समाहूतो मुनीश्वरैः ।
तत्र सूतं समासीनं दृष्ट्वा त्वध्यासनोपरि ७७।
चुक्षुभे भगवान्रामः पर्वणीव महोदधिः ।
आषाढशुक्लद्वादश्यां पारणाहनि पार्वति ७८।
पूर्वार्द्धयामवेलायां भावित्वात्कृष्णमायया ।
मुग्धो दर्भकरो रामः प्राहरल्लोमहर्षणम् ७९।
ततो मुनिगणाः सर्वे हाहाकारपरायणाः ।
बभूवुर्नगजेत्यर्थं शोकदुःखाकुलांतराः ८०।
ऊचुश्च रामं लोकेशं विनयेन क्षमापराः ।
ऋषय ऊचुः-
रामराम महाबाहो भवता लोककारिणा ८१।
अजानतेवाचरिता हिंसा ब्रह्मवधाधिका ।
व्यासशिष्यो ह्ययं साक्षात्पुराणर्षिर्महातपाः ८२।
अस्मै ह्यध्यासनं दत्तमस्माभिर्यज्ञकर्मणि ।
अष्टादशपुराणानां वाचकाय कृतक्षणैः ८३।
कथायां जगदीशस्य दीर्घमायुश्च मानद ।
तद्भवांल्लोकरक्षार्थं धर्मसेतुप्रवर्तकः ८४।
आविर्भूतो जगन्नाथो निग्रहानुग्रहक्षमः ।
इत्युक्त्वा मुनयस्ते तु बलदेवाग्रतः प्रिये ८५।
तूष्णीं बभूवुः सहसा स्मरंतो नियतेर्बलम् ।
ततः प्रोवाच भगवान्रामः शत्रुनिषूदनः ८६।
विप्रान्संप्रीणयंस्तांस्तु लोकवेदपथानुगः ।
श्रीराम उवाच-
विप्राः शृणुत भद्रं वः कोपं त्यक्त्वा सुदूरतः ८७।
यदहं वेद्मि भवतामभीष्टं कार्यसिद्धिदम् ।
अस्य पुत्रो महाज्ञानी भविष्यति वरान्मम ८८।
भवतामीप्सितं सर्वं शास्त्रं वै कथयिष्यति ।
यदर्थमहमाहूतस्तच्च कार्य्यं समुच्यताम् ८९।
ईश्वर उवाच-
इति श्रुत्वा वचस्ते तु रामस्य सुमहात्मनः ।
बल्वलस्य वधार्थाय प्रेरयामासुरीश्वरम् ९०।
ततः स बल्वलं हत्वा प्रसाद्य मुनिपुंगवान् ।
प्रणिपत्याभ्यनुज्ञातस्तीर्थयात्रामुपागमत् ९१।
तीर्थयात्रां गते रामे शौनकाद्या मुनीश्वराः ।
लौमहर्षणिमाहूय सत्कृत्य नगनंदिनि ९२।
तत्पदे स्थापयामासुः शेषं संकीर्तनाय वै ।
आग्नेयोत्तरमाहात्म्यं श्रीमद्भागवतांतकम् ९३।
पुराणसप्तकं सार्द्धं शुश्रुवुर्हृष्टमानसाः ।
दशसप्तपुराणानि कृत्वा सत्यवतीसुतः ९४।
नाप्तवान्मनसस्तोषं भारतेनापि भामिनि ।
ज्ञात्वास्य हृदयं खिन्नं नारदो देवदर्शनः ९५।
समाजगाम भगवान्व्यासस्याश्रममुत्तमम् ।
तं दृष्ट्वा वासवीसूनुः सत्कृत्यासनपूर्वकम् ९६।
नारदं पूजयामास विधिदृष्टेनकर्मणा ।
अथ तं नारदः प्राह किं भवान्क्लिष्टमानसः ९७।
ध्यायते तत्समाचक्ष्व सर्वं संदेहकारणम् ।
इति पृष्टः स मुनिना पराशर सुतोऽब्रवीत् ९८।
ब्रह्मन्किं कारणं चेतो मोहे जाने न तत्त्वहम् ।
भवान्विज्ञानकुशलो ज्ञात्वा तत्प्रब्रवीतु मे ९९।
एवं विज्ञापितस्तेन नारदोऽध्यात्मकोविदः ।
उवाच परमं तत्वं यदुक्तं विधिनात्मने 6.198.१००।
नारद उवाच-
शृणु पाराशरे मत्तः कारणं येन वै तव ।
असंपन्नं मनो भाति शास्त्रयोनेरपि प्रभोः १०१।
त्वयावतीर्य लोकेस्मिन्वेदा व्यस्ता विभागशः ।
कृतानि च पुराणानि सेतिहासानि चानघ १०२।
यत्र सर्वस्त्रयी धर्मो वर्णाश्रमनिवासिनाम् ।
निर्दिष्टो वीक्ष्य कालेन नृणामल्पायुषां कलौ १०३।
यत्राधिकारः सर्वेषां दृश्यते श्रवणादिषु ।
स्त्री शूद्र द्विजबंधूनां साधूनां साधुसंगमः १०४।
धर्मादयो यथाशश्वद्वर्णितास्तेषु वै त्वया ।
प्राधान्येन तथा नैव वर्णितो महिमा हरेः ।
सर्वधर्मक्रियाशून्ये कलौ दोषनिधौ मुने १०५।
न गतिः पापकर्तॄणां विना कृष्णकथाऽमृतम् ।
एष एव गुणो ह्यस्मिन्घोरे कलियुगे नराः १०६।
यत्कृष्णकीर्तनेनैव मुच्यंते कर्मबंधनात् ।
यज्ञो दानं तपः कर्म ज्ञानं ध्यानं कृतादिषु १०७।
सिद्धिदं च तथा ब्रह्मन्नामकीर्त्तनकं कलौ ।
अतो वै कलिजातानामुद्धारार्थं नृणां भवान् १०८।
श्रीमद्भागवतं नाम पुराणं वर्णयत्वलम् ।
येन प्रवर्तितेनांग भवतो मानसं ध्रुवम् १०९।
तोषमेष्यति लोकाश्च प्राप्स्यंति कृतकृत्यताम् ११०।
ईश्वर उवाच-
एवमादिश्य स मुनिर्व्यासायामिततेजसे ।
ययौ यादृच्छिकः शश्वद्गायन्हरिगुणान्प्रिये १११।
नारदे तु गते पश्चाद्व्यासः सर्वार्थदर्शनः ।
चकार संहितामेतां श्रीमद्भावतीं पराम् ११२।
पैलादींश्चतुरो वेदानध्याप्य विधिपूर्वकम् ।
पुराणसंहिताः सर्वाः सूताय प्रत्यपादयत् ११३।
श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमितम् ।
शुकमध्यापयामास विरतं लोकवेदतः ११४।
सा संहिता भागवती लोमहर्षणसूनुना ।
श्रुता कथयतो राज्ञे औत्तरेयाय वै शुकात् ११५।
शौनकादिऋषिभ्यस्तु तेन प्रोक्ता यथार्थतः ।
वरीवर्त्ति पुराणानामुपरीयं नगात्मने ११६।
अस्यां संलग्नचित्तानां नृणामन्यत्र नो रतिः ।
जायते मानसे कृष्णो नंदसूनुश्चकास्ति च ११७।
यत्तु पृष्टं त्वया भद्रे लोकनिस्तारहेतवे ।
श्रीभागवतमाहात्म्यं मह्यं संकीर्त्तयेति ह ११८।
तत्सर्वं च मया तुभ्यं निर्दिष्टं गणपांबिके ।
नानेतिहाससहितं भक्तिमुक्तिप्रदायकम् ११९।
यः शृणोति नरो भक्त्या माहात्म्यं पठतेऽपि च ।
अनुमोदनेन वा सोपि लभते परमां गतिम् १२०।
द्विजोऽधीत्याप्नुयाद्वेदान्क्षत्रियस्तु लभेज्जयम् ।
धनं वैश्यस्तथाशूद्रः श्रुत्वैव लभते गतिम् १२१।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रीमद्भागवतमाहात्म्ये अष्टनवत्यधिकशततमोऽध्यायः १९८।