पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०२

← अध्यायः २०१ पद्मपुराणम्
अध्यायः २०२
वेदव्यासः
अध्यायः २०३ →

देवल उवाच-
शृणुष्व भो महाप्राज्ञ दिलीपस्य महीपतेः ।
कथां दिव्यां विचित्रां च शृणुतां पापनाशिनीम् १।
वैवस्वतमनोर्वंशे दिलीपो भूभुजां वरः ।
आसीत्प्राचीनबर्हिस्तु स्वायंभुवमनोरिव २।
स तु धर्मभृतां श्रेष्ठो धर्मेण प्रतिपालयन् ।
महीं महीपतिर्लोकान्गुणैराद्धैररंजयत् ३।
मगधाधिपतेः पुत्री महिषी तस्य भूपतेः ।
सुदक्षणाख्यया ख्याता शचीवासीद्दिवस्पतेः ४।
गते महति काले तु महिष्यां नाभवत्सुतः ।
दध्याविति निजस्वांते स सम्राट्कोशलाधिपः ५।
रत्नाकरसुमेर्वादि नगरत्नैर्विराजितम् ।
धृतं भूवलयं दोषो भूषायै नाप्रजस्य मे ६।
वर्गत्रयी यथाकालं सेविता न विरोधिता ।
तथापि मेऽनपत्यस्य न सौख्यं विद्यते हृदि ७।
यज्ञैराराधितो विष्णुरिंद्राद्याश्च सुरोत्तमाः ।
दीर्घिकारामकूपाश्च कारिताः सर्वतो भुवि ८।
गोभूहिरण्यवासोभिः षड्रसान्वितभोजनैः ।
विप्रा अतिथयश्चैव भक्त्या संतोषिता मया ९।
वृत्यर्थं पृथिवीपालानुद्धृत्य युधि धर्मतः ।
धनेन महता कोशो मया हि बहुलीकृतः १०।
उन्मार्गगामिनो मत्ता निजधर्मविलंघिनः ।
विमुखः पितृदेवेभ्यो दंड्यास्ते दंडिता मया ११।
पंचपर्वसु वैष्णव्यां रवौ पित्र्ये च कर्मणि ।
दशम्यैकादशीतिथ्योर्न स्त्रीसेवा कृता मया १२।
ऋतुकालावधौ स्नातां स्वस्त्रियं नाहमत्यजम् ।
अनृतावपि तद्योग्ये काले चेत्प्रार्थितस्तया १३।
तदा तस्यां सकामिन्यां सकामं रमितं मया ।
एवं धर्मार्थकामा मे यथाकालं निषेविताः १४।
महिष्यां केन दोषेण जायते मे न संततिः ।
अतीतानागतज्ञानो वसिष्ठो गुरुरेव नः १५।
कथयिष्यति तं दोषं यन्मे पुत्रो न जायते ।
देवल उवाच-
इत्यालोच्य स भूपालो गमिष्यन्नाश्रमं गुरोः ।
मंत्रिष्वारोपयामास कोशलामृद्धिकोशलाम् १६।
अथ प्रजासृजं देवं पूजयित्वाश्रमं गुरोः ।
प्रतस्थाते पुत्रकामौ दंपती तौ शुभेऽहनि १७।
कतिचिद्वासरैर्मार्गमुल्लंघ्यैकरथे स्थितौ ।
तौ दंपती गुरोः सायमाश्रमं प्रापतुः शुभम् १८।
वैश्वदेवांत संप्राप्तातिथिसत्कारकृन्मुनिम् ।
हुताशनहुतद्रव्यप्रसरद्धूममालया १९।
पवित्रयंतमात्मस्थान्मुनीनागंतुकानपि ।
मृगैर्दूर्वाप्रतानौघप्रपूर्णोदरमंथरम् २०।
अभ्यागच्छद्भिरभितो मंडपं स मृगीगणैः ।
वासवृक्षमिलत्पक्षिकुलकोलाहलाकुलम् २१।
परस्परविनिर्मुक्तवैरव्याघ्रमृगादिकम् ।
जपध्यानपरर्षीणां क्षणश्रांतश्रुतिध्वनिम् २२।
अनध्ययनकालोत्थ क्रीडारक्तकुमारकम् ।
तस्मिन्वसिष्ठमद्राष्टां दंपती तौ कृतक्रियम् २३।
बृस्यां निषणमव्यग्रमरुंधत्योपसेवितम् ।
स ववंदे गुरोः पादौ महिषी सा च तत्स्त्रियः २४।
आशिषा गुरुरप्येनं युयोजारुंधती च ताम् ।
अतिथिं तमथाभ्यर्च्य मधुपर्कादिभिर्गुरुः २५।
अर्हणैरर्हतां श्रेष्ठो वसिष्ठ इति पृष्टवान् ।
वसिष्ठ उवाच-
भो भो भूमिभृतां श्रेष्ठ राज्ये कुशलमस्ति ते २६।
कुले च कच्चिल्लोके च निजधर्मानुवर्त्तिनि ।
धर्मेण पालिता कच्चित्वया वीरवसुंधरा २७।
संवर्द्धयति ते कोशं धर्मधीरिव सात्विकी ।
तव जानपदा राजन्पौराश्च स्थितिमात्मनः २८।
सारवंतो विमुंचंति कच्चिन्नांबुधयो यथा ।
स्नेहेन साहचर्येण सहवासतया प्रभो २९।
लक्ष्मीनारायणायेते कच्चित्ते पुरदंपती ।
काम्यव्रतानि राजेंद्र प्रजानां नगरे तव ।
फलंति वांछितं कच्चिद्धरिचंदनवद्दिवि ३०।
देवल उवाच-
पृष्ट्वैवं स मुनिश्रेष्ठो वसिष्ठो मुनिपुंगवः ।
योगप्रभावोपनतैर्नृपं भोज्यैरभोजयत् ३१।
अरुंधतीच तां राज्ञीं बह्वादरसमन्विता ।
नानाव्यंजनपक्वान्नैरभोजयदुदारधीः ३२।
कृतभोजनमासीनं स्वस्थः स्वस्थं मुनिर्नृपम् ।
पुनः पप्रच्छ संगृह्य पाणिना पाणिमानतम् ३३।
वसिष्ठ उवाच-
सप्तांग संयुतं राज्यं निजधर्मरतप्रजम् ।
प्रीतबंधुजनामात्यं शस्त्रास्त्रविधिवद्भटम् ३४।
वश्यमित्रं हृतामित्रं कृष्णार्चापरमानसम् ।
यस्यास्ति नृपते राज्यं स्वर्गराज्येन तस्य किम् ३५।
इक्ष्वाकुवंशराजानः पुत्रानुत्पाद्य धार्मिकाः ।
राज्यं च तेषु विन्यस्य प्रपन्नास्तपसि प्रभो ३६।
त्वं युवा दृष्टपुत्रास्यो नाधिकारी तपोविधौ ।
किमर्थमागतो ह्यत्र राज्यं त्यक्त्वा तथाविधम् ३७।
राजोवाच-
ब्रह्मन्नाहं तपः कर्तुमागतस्तावकाश्रमे ।
स्वर्गकामनया त्यक्त्वा राज्यमत्र तथाविधम् ३८।
ब्रह्मन्सत्यमिदं चोक्तं भवता यत्तपोवनम् ।
राज्यमारोप्य पुत्रेषु प्राप्ता इक्ष्वाकुवंशजाः ३९।
न तैस्त्यक्तं महीराज्यमिदं स्वर्गगतैरपि ।
तन्मूर्तिरस्यां विमनास्तिष्ठति ह्येव संततिः ४०।
यथा बाल्यं गतं तात यौवनं च समागतम् ।
यास्यत्यदोपि च तथा जराप्येष्यति निश्चितम् ४१।
जरसोऽनतरं मृत्युः पुरुषस्य न संशयः ।
मृत्युंगते मयि ब्रह्मन्विनातनयसंभवम् ४२।
कस्येदं जगतीराज्यं भविष्यति गुरो वद ।
तस्मादपत्यहीनस्य राज्येऽपि मम तिष्ठतः ४३।
ममत्वं विद्यते नात्र पुरस्तात्तदभावतः ।
वर्गत्रयस्य वै सम्यक्संवेत्ता त्वं गुरो मम ४४।
केन दोषेण मे पुत्रो जायते न तपोनिधे ।
ध्यानेन दोषमालोक्य तं गुरो कथयाशुमे ४५।
तस्य प्रतिक्रियां कुर्यां श्रुत्वा संतानलब्धये ।
देवल उवाच-
इत्याकर्ण्य वसिष्ठस्तु वचस्तस्य महीपतेः ४६।
उवाच संततिस्तंभहेतुं वीक्ष्य समाधिना ।
वसिष्ठ उवाच-
त्वं पुरा राजशार्दूल संसेव्य सुरनायकम् ४७।
स्नातामिमां वधूं स्मृत्वा चलितो निजमंदिरम् ।
गच्छतस्त्वरया तात संतानोत्कंठितस्य ते ४८।
आसीत्सुरतरोर्मूले कामेधनुः स्थिता पथि ।
उत्पादिता त्वया तस्याः पूज्यांघ्रिरजसोऽतिरुट् ४९।
प्रदक्षिणनमस्कारसदाचारमकुर्वता ।
साऽशपत्त्वामतिक्रोधात्पुत्रो नोत्पत्स्यते तव ५०।
मम संतानशुश्रूषां यावत्त्वं न करिष्यसि ।
गच्छंस्त्वमृतुदानाय त्वरया सुतकामुकः ५१।
तन्मना नाश्रृणोः शापं नयंताक्षनिनादतः ।
तस्याः सुतासुतां धेनुं नंदिनीं ससुतां मम ५२।
आराधयानया वध्वा सार्द्धं सा दास्यते सुतम् ।
देवल उवाच-
इत्युक्तवति तत्रर्षौ वसिष्ठे सा तु नंदिनी ५३।
तपोवनात्समायाता वत्सस्नेहस्नुतस्तनी ।
तां दृष्ट्वा हृष्टहृदयो वसिष्ठो मुनिपुंगवः ।
उवाच भूपतिं भूयो दर्शयित्वा च नंदिनीम् ५४।
वसिष्ठ उवाच-
राजन्समागता ह्येषा स्मृतमात्रशुभाह्वया ।
अतो विद्धि समीपस्थां कार्यसिद्धिमिहात्मनः ५५।
आराधितानुगत्येयं त्वयारण्ये तथाश्रमे ।
वध्वा प्रसादात्ते पुत्रं दास्यते नात्र संशयः ५६।
यथानाभिभवेदेनां जंतुः कश्चिद्वनोद्भवः ।
तथा चारय राजेंद्र वने हिंस्रो धनुर्द्धर ५७।
देवल उवाच-
तथेति लघुवादिने नृपतये स्नुषायै च सक्षपाशयनहेतवे सदुटजं ददौ तापसः ।
स तत्र सहभार्यया समधिशय्यदर्भास्तृतां महीमगमयन्निशां नियतमानसो विश्पतिः ५८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्व्यधिकद्विशततमोध्यायः २०२।