पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१५

← अध्यायः २१४ पद्मपुराणम्
अध्यायः २१५
वेदव्यासः
अध्यायः २१६ →

सौभरिरुवाच-
युधिष्ठिरेदमाकर्ण्य नारदस्य वचः शुभम् ।
शिबिरौशीनरो राजा विनीतस्तमुवाच ह १।
शिबिरुवाच-
मुने मया तु माहात्म्यं श्रुतं मधुवनस्य वै ।
त्वन्मुखात्किंतु संदेहो ह्येकोस्ति मम मानसे २।
येन धर्मात्मना सर्वे तारिता निजबांधवाः ।
जन्मद्वयकृता ह्यासीत्स कथं स्वैरिणीसुतः ३।
एतदाचक्ष्व भगवन्सर्वस्वं वेत्सि तत्त्वतः ।
अतीतं वर्त्तमानं च भविष्यमपि नारद ४।
नारद उवाच-
एकदा मुनयः सर्वे हरिद्वारे समागताः ।
दशम्यां ज्येष्ठशुक्लस्य युक्तायां सर्वपर्वभिः ५।
तत्र ते विधिवत्स्नात्वा कृत्वा च स्वक्रियां शुभाम् ।
हिमाचलस्य पृष्ठे तु स्वस्थचित्ता उपाविशन् ६।
तारात्मजो बुधस्तत्र मुनिसंगे समागतः ।
र्सौदर्यभरसंयुक्तः स्मरो मूर्त्त इवापरः ७।
तं समागतमालोक्य समुत्तस्थुर्मुनीश्वराः ।
तेनाभिवंदिता मूर्ध्ना पुनस्ते समुपाविशन् ८।
बुधस्यादरमालोक्य विहितं मुनिपुंगवैः ।
मुनिपुत्रः स पप्रच्छ पितरं स्वमिति प्रभो ९।
मुनिपुत्र उवाच-
कोऽयं तात समायातः सौंदर्येणापरः स्मरः ।
व्यासादिभिर्मुनिवरैर्भृशं तस्यादरः कृतः १०।
नारद उवाच-
इत्याकर्ण्य स धर्मात्मा स्वस्य पुत्रस्य भाषितम् ।
बभाषे मुनिशार्दूलः पुत्रं निर्बंधसंयुतम् ११।
पितोवाच-
बृहस्पतेः सुरगुरोः सुतस्तारोदरोदोद्भवः ।
बुद्धिमान्बुधनामायं शशिवंशकरः परः १२।
पुत्र उवाच-
किं त्वया कथितं तात निःसंबंधपरं वचः ।
बृहस्पतेः सुतो यस्तु स कथं शशिवंशकृत् १३।
जज्ञे न सूयया तात विधुरत्रेर्मुनीश्वरात् ।
तस्यवंशस्य कर्त्तायं कथं सुरगुरोः सुतः १४।
एष मे मानसे तात संशयो वर्तते महान् ।
तमपाकुरु विप्रेंद्र संदिहानस्य मे शिशोः १५।
पितोवाच-
पुरा बृहस्पतेर्भार्या तारानाम यशस्विनी ।
चंद्रेणापहृता तात बलाद्बलवता तदा १६।
अपहृत्य तदा नीता स्वगृहं विधिना गुरोः ।
भार्या सा तु तया सार्द्धं रमितं तेन वै चिरम् १७।
तस्मागर्भोऽभवत्तात कालेन कियता तदा ।
ततो बृहस्पतिर्भार्या निजां तां समयाचत १८।
चंद्रमापि मदाविष्टो न ददौ बलदर्पितः ।
ततो बृहस्पतिस्तात देवैः शक्रादिभिः सह १९।
सन्नद्धो योद्धुमारेभे समं बलवदिंदुना ।
सहायार्थं विधोः शुक्रः समं दितिजदानवैः २०।
समागतस्तदा तात तस्मिन्रणसमुद्यमे ।
ततस्तारानिमित्तं वै युद्धं प्रावर्त्ततोल्बणम् २१।
करिष्यते सर्वजनैः प्रधानं तारकामयम् ।
तस्मिन्युद्धे महाभीमे हता देवाश्च दानवाः २२।
न कस्यचिज्जयस्तात बभूव न पराजयः ।
ततः समागतो ब्रह्मा संनिवार्योल्बणं रणम् २३।
ददौ बृहस्पतेस्तारां बोधयित्वा निशापतिम् ।
बृहस्पतिस्तु तां वीक्ष्य तारां गर्भवतीं तदा ।
क्रुद्धो विरिंचेः प्रत्यक्षं समाजे देवदैत्ययोः २४।
बृहस्पतिरुवाच-
शृणुष्व मामकं वाक्यं तारे तरललोचने ।
कस्यायं ध्रियते गर्भो भवतेंदोर्ममाथवा २५।
पितोवाच-
एवं मुहुर्मुहुः पृष्टा सा च लज्जावती शुभा ।
यदा न कथयामास किंचित्तात तदग्रतः २६।
तदायं पश्यतां तेषां देवानां च सुरद्विषाम् ।
उत्पन्नस्तामुवाचेदं जननीं च रुषान्वितः २७।
बुध उवाच-
कस्मान्न कथ्यते दुष्टे मदीयो जनकस्त्वया ।
लज्जां विहाय संपश्य शापस्य मम वैभवम् २८।
पितोवाच-।
इत्युक्त्वा जलमादाय यदा शप्तुं समुद्यतः ।
तदा सा मंदमाहेदं पिता तव सुधाकरः २९।
इत्युक्ते च तया साध्व्या चंद्र स्वःतनयं बुधम् ।
अमुं गृहीत्वा सानंदं जगाम निजमंदिरम् ३०।
बृहस्पतिस्तु तां तारां गृहीत्वा स्वगृहं ययौ ।
ब्रह्मा देवाश्च दैत्याश्च तेपि स्वं स्वं गृहं ययुः ३१।
एतत्ते सर्वमाख्यातं यस्त्वं मां परिपृष्टवान् ।
बृहस्पतिस्त्रियां जातो यथायं चंद्रवंशकृत् ३२।
नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं जहासोच्चैर्मुनेः सुतः ।
उवाच च स्वपितरं कुंडोऽयं स्वैरिणीसुतः ३३।
उवाच च पिता पुत्रं हा पुत्रेदं न भण्यताम् ।
सर्वसत्वांतरज्ञोऽयं शप्स्यते त्वां त्वदुक्तवित् ३४।
नारद उवाच-
इत्युक्ते तेन मुनिना चांद्रिर्ज्ञात्वा तदीरितम् ।
सर्वेषां शृण्वतां प्राह मुनीनामिति भूपते ३५।
बुध उवाच-
शृण्वंतु मुनिशार्दूला भवंतो मम भाषितम् ।
यदि साध्वथवा साधु विचारयत मा चिरम् ३६।
भवतां तत्वबुद्धीनां दर्शनार्थमिहागतः ।
कृतवान्कस्यचिन्नाहमपराधं मनागपि ३७।
असूयया किमर्थं मामवजानंति दुर्मदाः ।
स्वजन्मसफलत्वाय भवद्दर्शनलालसः ३८।
स्वभाव एव दुष्टानां साधूनपि निरेनसः ।
उद्वेजयंति यत्क्वापि मिष्टवाचः पिका इव ३९।
दुःस्वभावं न मुंचंति दुष्टाः सत्संगमादपि ।
गंगाबुसंगमेनापि क्षारतामिव नीरधिः ४०।
अहो व्याधस्य दुष्टत्वं मुनिवृत्तीन्यतो मृगान् ।
वने मृगचरान्हंति निजगानविदोऽपि सः ४१।
मत्स्यैः किमपराद्धं हि धीवराणां दुरात्मनाम् ।
यज्जले चरतस्तीर्थे घ्नंति तत्प्रकृतिर्हि सा ४२।
साधवोऽपि न मुंचंति स्वभावं दुष्टसंगताः ।
वृता विषाग्नियुक्सर्पैः श्रीखंडा इव शीतताम् ४३।
परोदयेपि नृत्यंति किं स्वपक्षस्य साधवः ।
यथोन्मना मुनिवरा वारिवाहस्य बर्हिणः ४४।
धारयंति परार्थे हि निजांगमपि साधवः ।
पितृदेवमनुष्याणामर्थे मत्पितृवत्कलाः ४५।
निजोदयस्तु साधूनां स्वच्छस्यानंदहेतवः ।
यथा कुमुदपुष्पाणां मत्पितुः शीतलत्विषः ४६।
नारद उवाच-
इत्युदीर्य वचः क्रोधाद्बुधस्तं मुनिबालकम् ।
शशापेति त्वमप्याशु कुंडो भव महीतले ४७।
एवमाकर्ण्य तं शापं पिता बुधविसर्जितम् ।
स्वपुत्रं पातयामास तदंघ्र्योः क्षम्यतामिति ४८।
उवाच च न जानाति बालोऽयं तव वैभवम् ।
नोचितं क्रोधकरणमस्मिन्बाले भवादृशैः ४९।
कुतश्चित्कारणात्साधोः क्रुद्धस्य प्रकृतिक्षमा ।
हुताशनप्रतप्तस्य शीतत्वमिव चांबुनः ५०।
अतः क्षमां विधायाशु विधेह्यस्मिन्ननुग्रहम् ।
बाले विवेकरहिते क्षमासारा हि साधवः ५१।
नारद उवाच-
इत्युक्तस्तेन मुनिना शीतांशुतनयस्तदा ।
क्रोधं तत्याज शांतात्मा चक्रे तस्मिन्ननुग्रहम् ५२।
बुध उवाच-
अयं तव मुने बालः कुंडत्वं प्राप्य भूतले ।
दत्तयज्ञोपवीतः सँल्लप्स्यसे हि निजास्पदम् ५३।
एवं स मुनिपुत्रो वै बुधशापान्नृपोत्तम ।
कुंडत्वं प्राप्तवान्भूमौ पितरो येन तारिताः ५४।
इदं पवित्रं माहात्म्यं श्रुत्वा मधुवनस्य वै ।
समस्तमश्वमेधस्य फलं प्राप्नोति मानवः ५५।
ये नरा धारयंत्यस्य माहात्म्यस्यार्थमुत्तमम् ।
हृदये यत्र तत्तेषां विषयैर्नाभिभूयते ५६।
ये पठिष्यंति माहात्म्यं श्रोष्यंति च महाधियः ।
देहांते विष्णुसालोक्यं गमिष्यंति न संशयः ५७।
इदमनिशपवित्रं तुभ्यमावर्णितं मे मधुवनसुचरित्रं श्रीपतेः प्रीतिकारि ।
कलिकलुषकलापच्छेदने दक्षमक्षोत्पथगमननिरासे कारणं पुण्यमूर्तौ ५८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मधुवनवर्णनोनाम पंचदशाधिकद्विशततमोऽध्यायः २१५।