पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१७
← अध्यायः २१६ | पद्मपुराणम् अध्यायः २१७ वेदव्यासः |
अध्यायः २१८ → |
राजोवाच-
वर्णितं मे त्वया साधो माहात्म्यं बदरीभवम् ।
यं निशम्य मनो याति मम निर्मलतां मुने १।
एतदद्भुतमाहात्म्यं शक्रप्रस्थाख्यमुत्तमम् ।
सकलं मुनिशार्दूलचतुवर्गप्रदायकम् २।
भुवि नातः परं तीर्थं वतिरश्चातमपि मुक्तिदम् ।
श्रेष्ठं सकलपापघ्नं दर्शनादेव नारद ३।
एतदंतर्गतस्यास्य हरिद्वारस्य नारद ।
माहात्म्यं श्रोतुमिच्छामि त्वत्तः संतोषकारकात् ४।
मामुद्धर मुने दीनमविद्याकामकर्म्मभिः ।
वर्णनेनास्य तीर्थस्य शक्रप्रस्थगतस्य वै ५।
नारद उवाच-
आकर्णय महाभाग वर्णयामि तवाग्रतः ।
हरिद्वारस्य माहात्म्यमश्वमेधफलप्रदम् ६।
अत्रैकः श्वपचः पापः यथास्वर्गतिमाप्तवान् ।
तत्तेऽहं कथयाम्यद्य शृणुष्वैकमनाः प्रभो ७।
धर्मक्षेत्रे कुरुक्षेत्रे कालिग इति विश्रुतः ।
श्वपचः पापकर्म्मा वै वसति स्म पुराद्बहिः ८।
पंचषड्वर्षदेशीयान्बालान्नगरवासिनाम् ।
प्रसह्य वंचयित्वा च वने नीत्वा जघान सः ९।
तेषामलंकारमयं रजतं हेमवन्नृपः ।
रत्नादिकं च कायस्थं हत्वा तान्जगृहेऽधमः १०।
विवेश साधुनिलये रात्रौ धनजिहीर्षया ।
पथिकान्धनमालक्ष्य स जघ्ने निर्जनं वने ११।
कुरुक्षेत्रे समायाता एकदा रविपर्वणि ।
नानादिग्भ्यो जना राजन्नानादान जिहीर्षया १२।
तस्मिन्यथाविधि स्नात्वा रविपर्वणि भूपते ।
दानं दत्त्वा यथावच्च लोकाः स्वान्स्वान्गृहान्ययुः १३।
एकः कश्चिद्विशां श्रेष्ठो धनेन महता यतः ।
पश्चात्सर्वजनेभ्यस्तु चचाल स्वगृहंप्रति १४।
अश्ववारः पदातीनां विंशतिं पुरतो दधत् ।
कालिगः स महापापस्तमनुप्रस्थितः श्रियै १५।
कतिचिद्वसतीर्गत्वा सह तेन विशाधमः ।
सॐऽत्यजस्तद्धनं हर्तुं न लेभे समयं नृप १६।
बलेनापि गृहीतुं न क्षमोऽभूत्तस्य सश्रियम् ।
वैश्यस्तु जनविंशत्या संयुक्तस्तु स एकलः १७।
अत्रागतः स पापात्मा वैश्यस्यार्थेन पार्थिव ।
निशीथे शिबिरं तस्य धनं हर्त्तुं समाविशत् १८।
एकेन तस्य वैश्यस्य जनेन स तु लक्षितः ।
प्रविशन्नेव पापात्मा ददता प्रहरं स्वकम् १९।
तमालक्ष्य समीपस्थं स जनः प्रहरप्रदः ।
उभयोः पादयोराजन्स्वपन्नेव गृहीतवान् २०।
तौ गृहीत्वा जनानन्यान्बोधयन्प्रहरप्रदः ।
हस्तेनैव तु पापेन चौरेणाघातितो हि सः २१।
श्रुत्वा पलायमानस्तु गृहीतोऽन्यैर्जनैस्तदा ।
गृहीतारं पुनर्हत्वा सहसा स पलायितः २२।
एकेन केनचिद्राजन्सेवकेन धनुर्भृता ।
दूरादेव शरेणाशु धावन्स निहतोऽधमः २३।
हतमात्रः शरेणाशु तत्याज स च जीवितम् ।
चौरेण निहतौ राजन्वैश्यस्यानुचरावुभौ २४।
ते त्रयो वरयानानि गणानीतानि भूपते ।
समारुह्य दिविस्थित्वा वैश्यमेतद्बभाषिरे २५।
कालिगवैश्यानुचरा ऊचुः ।
भो भो वैश्यपते साधो तीर्थमेतदनुत्तमम् ।
इंद्रप्रस्थे हरिद्वारं शिवकृत्पापिनामपि २६।
वयं त्रयः सुतीर्थेऽस्मिन्नपमृत्युगता अपि ।
गच्छामस्त्रिदिवं वैश्य सांप्रतं शिवमस्तु ते २७।
श्रीनारद उवाच-
इत्युक्त्वा ते ययुः स्वर्गं शिवे शिवकृतां पदम् ।
यत्रेच्छया हि लभ्यंते भोग्यवस्तून्यनेकशः २८।
अथ रात्रौ व्यतीतायां प्रातरत्र विशांवरः ।
स्वभृत्यदेहयोः कृत्वा दाहमस्थीन्यपातयत् २९।
तीर्थेऽत्र पात्यमानेषु भृत्यौ तावस्थिषु प्रभो ।
स्वर्गात्पुनरिहायातौ तं वैश्यमिदमूचतुः ३०।
भृत्या ऊचतुः ।
भो भो वैश्यपते साधो तीर्थेऽत्र मरणाद्भुवि ।
पापानामपि जंतूनां स्वर्गप्राप्तिर्न संशयः ३१।
स्थले मृतस्य जंतोश्चेत्पतंत्यस्थीनि वारिणि ।
तीर्थस्यास्य तदा वैश्य सत्यलोके स्थितिर्भवेत् ३२।
स्थले मृताभ्यामावाभ्यामस्थिपातेन वारिणि ।
संप्राप्ता ब्रह्मणो लोके स्थितिराब्रह्मसंस्थिते ३३।
स्थले मृतस्य चौरस्यापेतुरस्थीनिनांबुनि ।
यतोऽत स विशांनाथ तस्थौ वृंदारकालये ३४।
तस्यापि देहमन्विष्य तीर्थेस्मिन्नाशु पातय ।
यथासोऽपि सुरश्रेष्ठ प्राप्नुयान्नौ गतिं पराम् ३५।
उपकारः सदाकार्यः परेषामपि साधुभिः ।
अपकारो न मंतव्यः कृतो भृशमसज्जनैः ३६।
नारद उवाच-
इत्युक्त्वा तौ महाभागौ गतौ हरिपुरं प्रति ।
हरिद्वारस्य तीर्थस्य सलिलेनास्थिपातनात् ३७।
स वैश्यस्तु महाभागस्तस्य चौरस्य विग्रहम् ।
दग्धुमन्वेषयामास न लब्धं तत्तु भूपते ३८।
पुनरावृत्य तत्रैव सर्वतीर्थशिरोमणौ ।
हरिद्वारे महाराज स सस्नाविति वांच्छया ३९।
अहमुत्पाद्य सत्पुत्रान्धर्म्मार्जितधनेन च ।
संतोष्य विप्रान्बंधूंश्च विष्णुमाराध्य सेवया ४०।
त्वय्येव मरणं प्राप्य गच्छामि हरिमंदिरम् ।
तीर्थराज नमस्तुभ्यमेतत्कर्तव्यमस्ति ते ४१।
इति कामनया राजन्स वैश्यस्तत्र कामदे ।
तीर्थे स्नात्वा गतः सर्वैर्भृत्य्स्वं समगाद्गृहम् ४२।
तत्र गत्वा सपत्न्यां तु पुत्रानुत्पाद्य बुद्धिमान् ।
धर्मोपार्जितवित्तेन तोषयामास बांधवान् ४३।
भक्त्या परमया राजन्नाराध्य कमलापतिम् ।
तीर्थेऽस्मिन्मरणं प्राप्तो यतो वैकुंठमाप्नुयात् ४४।
इति वै वर्णितो राजंस्तीर्थस्य महिमा तव ।
हरिद्वारस्य पुण्यस्य श्रवणेऽस्य फलं शृणु ४५।
तिलद्रोणस्य दानेन माघे यत्फलमाप्नुयात् ।
जनस्तत्फलमाप्नोति शृण्वन्माहात्म्यमस्य तु ४६।
गोपीचंदन दानेन ब्रह्मपत्रेषु भोजनात् ।
यत्फलं तन्महिम्नोऽस्य श्रवणादेव कार्तिके ४७।
जागरे च प्रबोधिन्यां प्रहरे पश्चिमे नृप ।
यत्फलंन्तन्महिम्नोऽस्य तीर्थस्याकर्णनाद्भवेत् ४८।
हरिद्वारस्य सदृशं शक्रप्रस्थगतस्य वै ।
न तीर्थं पृथिवीलोके चतुर्वर्गफलप्रदम् ४९।
इतिं श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे इंद्रप्रस्थमाहाम्त्ये हरिद्वारवर्णनंनाम सप्ताधिकद्विशततमोऽध्यायः २१७ ।