पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३४

← अध्यायः २३३ पद्मपुराणम्
अध्यायः २३४
वेदव्यासः
अध्यायः २३५ →

पार्वत्युवाच-
भगवञ्छ्रोतुमिच्छामि द्वादश्याश्च विधानकम् ।
विष्णोः पूजाविधानं च कर्त्तव्यं तत्र वै प्रभो १।
एकादश्याः प्रभावं च सर्वपापहरंनृणाम् ।
आचक्ष्व विस्तरेणैव मयि प्रीत्या महेश्वर २।
महादेव उवाच-
शृणु देवि प्रवक्ष्यामि द्वादश्याश्च विधानकम् ।
तस्याः स्मरणमात्रेण संतुष्टः स्याज्जनार्दनः ३।
एकादश्यां तु प्राप्तायां समुपोष्येह मानवः ।
सर्वपापविनिर्मुक्ता यांति विष्णोः परम्पदम् ४।
सप्तजन्मार्जितं पाप ज्ञानतोऽज्ञानतः कृतम् ।
क्षणादेव लयं याति द्वादश्यां हरिपूजनात् ५।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ६।
धर्म्मदा ह्यर्थदा चैव कामदा मोक्षदा किल ।
सर्व्वकामदुघा नॄणां द्वादशी वरवर्णिनी ७।
एकादशी समं किंचित्पापत्राणं न विद्यते ।
एकादशीसमंकिचिद्व्रतं नास्ति शुभेक्षणे ८।
एकादशीं परित्यज्य यो ह्यन्यद्व्रतमाचरेत् ।
स करस्थं महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ९।
एकादशेंद्रियैः पापं यत्कृतं भवति प्रिये ।
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् १०।
रटंतीह पुराणानि भूयोभूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ११।
अभक्ष्यं सर्वदा प्रोक्तं किं पुनः शुक्लकृष्णयोः ।
वर्णानामाश्रमाणां च सर्वेषां वरवर्णिनी १२।
एकादश्युपवासस्तु कर्त्तव्यो नात्र संशयः ।
एकादश्यां च प्राप्तायां मातापित्रोर्मृतेऽहनि १३।
द्वादश्यां तु प्रदातव्यं नोपवासदिने क्वचित् ।
गर्हितान्नं न वाश्नंति पितरश्च दिवौकसः १४।
एकादश्यां न भोक्तव्यं सुरां वा न पिबेत्क्वचित् ।
ब्राह्मणं नैव हन्यात्तु सममेतत्त्रयं मतम् १५।
तस्मादेकादशीं शुद्धामुपवासं समाचरेत् ।
अवस्थात्रितये यस्तु यत्नो वाक्कायकर्म्मभिः १६।
दशमीमिश्रितां तां तु प्रयत्नेन विवर्ज्जयेत् ।
अरुणोदयवेलायां दशमीमिश्रिता भवेत् १७।
तां त्यक्त्वा द्वादशीं शुद्धामुपोष्येहाविचारयन् ।
कलायां विद्यमानायां सूर्य्यस्योदयनं प्रति १८।
त्रयोदश्यां तथा देवि द्वादशी परिविद्यते ।
तथा च द्वादशी शुद्धा ह्युपवासे विधीयते १९।
अरुणोदयवेलायां कृत्यं सर्वं समाचरेत् ।
कलायामपि द्वादश्यां पारणं तत्र चोदितम् २०।
शुद्धामेकादशीं चापि त्यजेदत्र न संशयः ।
कलाप्येकादशी यत्र द्वादश्यामुदिते रवौ २१।
सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद्द्विजः ।
एवं विधिं विनिश्चित्य समुपोष्यं हरेर्द्दिनम् २२।
सायमाद्यंतयोरह्नोः सायंप्रातस्तु मध्यमे ।
तत्रोपवासं कुर्वीत त्यक्त्वा भुक्तिचतुष्टयम् २३।
दशम्यामेकभक्तस्तु नारीसंगमवर्जितः ।
अवनीतल्पशायी च परेऽहनि वसेच्छुचिः २४।
धात्रीफलानुलिप्तांगः स्नानं संध्यां समाचरेत् ।
उपवासपरो भूत्वा रात्रौ संपूजयेद्धरिम् २५।
पाखंडिनं विकर्मस्थं पतितं श्वपचं तथा ।
नावलोकेन्न संभाषेन्न स्पृशेत्तत्र वैष्णवः २६।
अवैष्णवस्तु यो विप्रः स पाषण्डः प्रकीर्तितः ।
शिखोपवीतत्यागी च विकर्मस्थ इतीरितः २७।
महापापोपपापाभ्यां युक्तः पतित उच्यते ।
अंत्यजः श्वपचः प्रोक्तो वेदैस्तत्र सुनिर्णयः २८।
रात्रौ संपूज्य देवेशं जागरं च समाचरेत् ।
गंधैः पुष्पैस्तथा दीपैर्वस्त्रैराभरणैः शुभैः २९।
जपैस्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः ।
ततः प्रभातसमये तुलसीमिश्रितैर्जलैः ३०।
स्नात्वा सम्यग्विधानेन संतर्प्य पितृदेवताः ।
पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ३१।
कोमलैस्तुलसीपत्रैः पुष्पैश्चैव सुगंधिभिः ।
दीपान्नीराजयेत्तत्र वारमष्टोत्तरं शतम् ३२।
शतपत्रकृतां मालां ताभ्यां सम्यङिनवेदयेत् ।
धूपं दीपं च नैवेद्यं तांबूलं च समर्प्पयेत् ३३।
शर्करासहितं दिव्यं पायसान्नं समर्पयेत् ।
कर्पूरेण च संयुक्तं तांबूलं च निवेदयेत् ३४।
प्रदक्षिणे नमस्कारं कृत्वा भक्त्या समन्वितः ।
आज्येन जुहुयाद्वह्नौ शतमष्टोत्तरं तथा ३५।
प्रत्यृचं पुरुषसूक्तेन लक्ष्मीसूक्तेन पायसम् ।
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीतवाग्यतः ३६।
पुराणादि प्रपाठेन क्षपयेत्तद्दिनं महत् ।
क्षितिशायी ब्रह्मचारी तस्यामेव निशि स्वपेत् ३७।
एवं संपूज्यमानं स द्वादश्यां कमलापतिः ।
क्षणात्प्रसन्नो भगवान्सर्वाभीष्टप्रदो ध्रुवम् ३८।
इत्येतत्कथितं देवि द्वादशीव्रतमुत्तमम् ।
किमन्यच्छ्रोतुकामासि तद्वक्तव्यं ब्रवीम्यहम् ३९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे द्वादशीमाहात्म्यंनाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः २३४ ।