पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २३७
← अध्यायः २३६ | पद्मपुराणम् अध्यायः २३७ वेदव्यासः |
अध्यायः २३८ → |
श्रीरुद्र उवाच-
हिरण्यक हिरण्याक्षौ काश्यपेयौ महाबलौ ।
दितिपुत्रौ महावीर्य्यौ सर्व्वदैत्यपती उभौ १।
नाम्ना तौ जयविजयौ श्वेतद्वीपे हरिं गतौ ।
तस्मिन्प्रविष्टयोगीन्द्रान्सनकादीन्महाबलौ २।
वारयामासतुर्देवि हरिसंदर्शनोत्सुकान् ।
तैः प्रशप्तौ महावीर्य्यौ द्वारपालौ सुरोत्तमौ ३।
सनकादय ऊचुः-
उत्सृज्य तत्पृथिव्यां च यातौ देवस्य किंकरौ ।
रुद्र उवाच-
इति शापं तयोर्दत्त्वा तत्र तस्थुर्मुनीश्वराः ४।
देवस्तमर्थं ज्ञात्वा च तानाहूय च तावपि ५।
तौ चोत्थायाब्रवीत्तत्र भगवान्भूतभावनः ।
भगवानुवाच-
कृतवंतौ महावीर्य्यावपराधं महात्मनाम् ६।
नातिक्रमणीयमिदं भवद्भ्यां द्वारपालकौ ।
दासत्वं सप्तजन्मानि युवां भक्तौ ममानघौ ७।
अमित्रतस्तथा त्रीणि जन्मानि भजतोऽपि वा ।
रुद्र उवाच-
इत्युक्तौ तौ महावीर्य्यावब्रूतां परमेश्वरम् ८।
जयविजयावूचतुः ।
चिरकालं महीं गंतुं न समर्थौ स्व मानद ।
तस्माद्वैराय जन्मानि विद्धि वां च व्रजावहे ९।
देवत्व यैव निहतो प्राप्स्यावो भवदंतिकम् ।
रुद्र उवाच-
इत्युक्त्वा द्वारपालौ तौ पूर्वं जातौ महाबलौ १०।
कश्यपस्य महावीर्य्यौ दितिगर्भे महासुरौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षः कनिष्ठकः ११।
उभौ तौ लोकविख्यातौ महावीर्य्य बलोद्धतौ ।
अप्रमाणशरीरः स हिरण्याक्षो महोद्धतः १२।
उत्पाट्य बाहुसाहस्रैः पृथिवीं समहीधराम् ।
ससागरां द्वीपयुतां सर्व्वप्राणिसमन्विताम् १३।
उत्पाट्य शिरसा कृत्वा प्रविवेश रसातलम् ।
ततो देवगणाः सर्वे चुक्रुशुर्भयपीडिताः १४।
शरणं प्रययुर्देवं नारायणमनामयम् ।
ततस्तदद्भुतं ज्ञात्वा शंखचक्रगदाधरः १५।
वाराहरूपमास्थाय विश्वरूपं जनार्दनः ।
अनादिमध्यांतवपुः सर्वदेवमयो विभुः १६।
विश्वतः पाणिपच्चक्षुर्महादंष्ट्रो महाभुजः ।
दंष्ट्रैकया तु तं दैत्यं जघान परमेश्वरः १७।
संचूर्णितमहागात्रो ममार दितिजाधमः ।
पतितां धरणीं दृष्ट्वा दंष्ट्रयोद्धृत्य पूर्ववत् १८।
संस्थाप्य धारयामास शेषे कूर्म्मवपुस्तदा ।
तं दृष्ट्वा देवताः सर्व्वे क्रोडरूपं महाहरिम् ।
तुष्टुवुर्म्मुनयश्चैव भक्तिनम्रात्ममूर्त्तयः १९।
देवा ऊचुः-
नमो यज्ञवराहाय नमस्ते शतबाहवे ।
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे २०।
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे ।
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे २१।
भूतात्मने नमस्तुभ्यमृग्वेदवपुषे तथा ।
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः २२।
ॐकाराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे ।
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च २३।
नमस्ते वेदवेदाङ्ग सांगोपांगाय ते नमः ।
गोविंदाय नमस्तुभ्यमनादिनिधनाय च २४।
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे ।
श्रीभूलीलाधिपतये जगत्पित्रे नमोनमः २५।
रुद्र उवाच-
इत्यादि स्तुतिभिः स्तुत्वा देवं वाराहरूपिणम् ।
अर्च्चयामासुरात्मेशं गंधपुष्पादिभिर्हरिम् २६।
समर्च्यमानस्तैर्देवैस्तेषामिष्टं वरं ददौ ।
गंधर्वैरप्सरोभिश्च गायमानो मुदा हरिः २७।
महर्षिभिः स्तूयमानस्तत्रैवांतरधीयत ।
एभिः स्तुत्वा नरो भक्त्या प्रातरुत्थाय भक्तिमान् २८।
ईप्सितांल्लभते भूमिं चिरं सस्यफलान्विताम् ।
एतत्ते सर्वमाख्यातं वाराहवैभवं हरैः ।
नारसिंहं तथा वक्ष्ये शृणु देवि वरानने २९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
वराहावतारकथनंनाम सप्तत्रिंशदधिकद्विशततमोऽध्यायः २३७ ।