पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ११

← अध्यायः १० पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ११
वेदव्यासः
अध्यायः १२ →

व्यास उवाच-
जैमिने विधिना येन पूजितव्यो हरिः सदा ।
तमहं वच्मि विप्रर्षे शृणु वत्स समाहितः १।
कल्य उत्थाय पर्यंकाद्गृहीत्वा पात्रमंभसाम् ।
बहिर्देशं व्रजेत्प्राज्ञः शीर्षमाच्छाद्य वाससा २।
तत्रोदीच्यां दिशि मौनी यज्ञसूत्राणि कर्णयोः ।
कृत्वोपविष्टः प्राज्ञस्तु मलमूत्रं विसर्जयेत् ३।
देवतायतने मार्गे गोष्ठेषु चत्वरेषु च ।
रथ्यायां कृष्टभूमौ च दर्भमूले तथांगणे ४।
तटिनी पुलिने चैत्त्यवृक्षमूले तथा वने ।
तडागवापीगर्भेषु मलमूत्रं च न त्यजेत् ५।
रविं चंद्रमसं चैव द्विजान्गाश्च दिशो दश ।
मलमूत्रं त्यजेद्यावत्तावत्प्राज्ञो न पश्यति ६।
खनितां मूषिकाद्यैश्च बिलाभ्यंतरवर्तिनीम् ।
फालकृष्टां मृदं चैव न गृह्णीयाच्छौचहेतवे ७।
जलाज्जलं समानीय शौचं कुर्याद्विचक्षणः ।
पादं जलेषु वै दत्वा न शौचं कुरुते बुधः ८।
दक्षिणाभिमुखो रात्रौ कुर्यात्प्राज्ञो बहिःक्रियाम् ।
शिरः प्रावृत्य वस्त्रेण ततः शौचं समाचरेत् ९।
मृत्तिकैका प्रदातव्या लिंगे तिस्रस्तु वै गुदे ।
सप्त सव्ये करे प्राज्ञैर्हस्तयोरुभयोर्दश १०।
पादयोः षट्प्रदातव्या मृत्तिका च विचक्षणैः ।
कृतशौचक्रियः प्राज्ञः कुर्याद्दंतस्य धावनम् ११।
जिह्वपामार्जनं चैव दशनाच्छादनादिभिः ।
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा १२।
न दंतधावनं कुर्यात्कुर्याच्चेन्नारकी भवेत् ।
मध्यमानामिकाभ्यां च वृद्धांगुष्ठेन च द्विज १३।
दंतस्य धावनं कुर्यान्न तर्जन्या कदाचन ।
अश्वत्थवटवृक्षाणां धात्र्या कैथिकया बुधः १४।
न दंतधावनं कुर्यात्तथेंद्रस्यसुरस्य च ।
नित्यं क्रियाफलं तस्य सर्वमेव विनश्यति १५।
यः स्नानसमये कुर्याज्जैमिने दंतधावनम् ।
निराशाः पितरो यांति तस्य देवाः सुरर्षयः १६।
दंतस्य धावनं कुर्याद्यो मध्याह्नापराह्णयोः ।
तस्य पूजां न गृह्णंति देवताः पितरो जलम् १७।
स्नानकाले पुष्करिण्यां यः कुर्याद्दंतधावनम् ।
ततो ज्ञेयः स चांडालो यावद्गंगां न पश्यति १८।
भगवत्युदिते सूर्ये यः कुर्याद्दंतधावनम् ।
तद्दंतकाष्ठं पितरो भुक्त्वा गच्छंति दुःखिनः १९।
उपवासदिने विप्र पितृश्राद्धदिने तथा ।
न तत्फलमवाप्नोति दंतधावनकृन्नरः २०।
प्रभाते मार्जयेद्दंतान्वाससा रसनां तथा ।
कुर्याद्द्वादश विप्रेंद्र कल्लोलानि जलैर्बुधः २१।
उपवासे पितृश्राद्धे विधिनाऽनेन जैमिने ।
दंतधावनकृन्मर्त्यः संपूर्णं लभते फलम् २२।
अनेन विधिना कृत्वा दीर्घदर्शी बहिः क्रियाम् ।
ततो निजगृहं गत्वा रात्रिवस्त्रं परित्यजेत् २३।
ततो देवगृहद्वारे चोपविष्टो बुधः शुचिः ।
स्मरेन्नारायणं देवमनंतं परमेश्वरम् २४।
रामश्यामतनो विष्णो नारायण दयामय ।
जनार्दन जगद्धाम पापं मे हर केशव २५।
पीतांबरधरानंत पद्मनाभ जगन्मय ।
वामन प्रणतस्येश विभो त्वं शरणं भव २६।
दामोदर यदुश्रेष्ठ श्रीकृष्ण करुणार्णव ।
कमलेक्षण देवेंद्र वासुदेव कृपां कुरु २७।
गरुडध्वज गोविंद विश्वंभर गदाधर ।
शंखपाणे चक्रपाणे पद्महस्त हरापदः २८।
लक्ष्मीविलास वैकुंठ हृषीकेश सुरोत्तम ।
पुरुषोत्तम कंसारे कैटभारे भयं हर २९।
श्रीपते श्रीधर विभो श्रीद श्रीकर माधव ।
परंब्रह्म परंधाम शरणं मे भवाव्यय ३०।
इत्थं कृत्वा द्विजश्रेष्ठ श्रीविष्णुस्मरणं बुधः ।
बद्धांजलिरिति ब्रूते प्रविश्य निलयं गतः ३१।
ईश्वर श्रीपते कृष्ण देवकीनंदन प्रभो ।
निद्रां मुंच जगन्नाथ प्रभातसमयोऽभवत् ३२।
अथोस्थितमिव प्राज्ञः पर्यंके देवकीसुतम् ।
निद्रां त्यक्त्वा सलक्ष्मीकं चिंतयेन्निज चेतसा ३३।
ततः कृतच्छदं दिव्यं पात्रं च जलपूरितम् ।
मुखप्रक्षालनार्थाय दद्यात्कृष्णाय वैष्णवः ३४।
ईश्वरं वर्तनार्थाय सेवंते सेवका यथा ।
तथैव मतिमंतोपि सेवंते परमेश्वरम् ३५।
यस्तु सेवकरूपेण सेवते जगदीश्वरम् ।
अचिरेणैव विप्रर्षे तस्य सिध्यति वांछितम् ३६।
यथेश्वरस्य सभयाः सेवां कुर्वंति चेटकाः ।
प्राज्ञास्तथैव सेवंते सर्वदैव हरिं प्रभुम् ३७।
निजेच्छयानया विष्णुं निर्भयः पूजयेन्नरः ।
कुसेवकः स एवास्ति तदा नहि भवेद्द्विज ३८।
अतएव द्विजश्रेष्ठ त्वरया कमलापतेः ।
कर्त्तव्या सर्वदा सेवा पुंसा कैवल्यमिच्छुना ३९।
निर्माल्यं रात्रिवस्त्रं च गंधं पर्युषितं तथा ।
हरेरुत्तारयेदंगात्प्रभाते वैष्णवो जनः ४०।
ततो देवालये तस्मिन्स्वयमेव हि मार्जयेत् ।
कुर्याच्छनैःशनैः प्राज्ञः संमार्जन्या परिष्क्रियाम् ४१।
यावंतो निलयात्तस्माद्गच्छंति रेणवो बहिः ।
तावन्मन्वंतरशतं तिष्ठेद्विष्णुगृहे नरः ४२।
यस्तु संमार्जनं कुर्याद्ब्रह्महापि हरेर्गृहे ।
सोपि याति परं धाम किमन्यैर्बहुभाषितैः ४३।
तथोपलेपनं कुर्यादूर्णकैर्गोमयैर्द्विज ।
तस्मिन्विष्णुगृहे प्राज्ञः स्मरेन्नारायणं प्रभुम् ४४।
यस्तूपलेपनं कुर्यात्केशवस्य च मंदिरे ।
तस्य पुण्यमहं वच्मि संक्षेपाच्छृणु जैमिने ४५।
रजांसि तत्र यावंति विनश्यंति द्विजोत्तम ।
तावत्कल्पसहस्राणि तिष्ठेद्विष्णुगृहे सुखी ४६।
संमार्जनं विष्णुगृहे जनः कृत्वोपलेपनम् ।
लभते परमं धाम किं पूजाफलवित्प्रभोः ४७।
देव राज विरोधेन न शक्नोति यदा स्वयम् ।
तदा विष्णुगृहे चापि धर्मपत्नीं नियोजयेत् ४८।
अथवा तनयं भक्तं सुचरित्रं तथात्मनः ।
भ्रातरं भगिनीं वापि देवागारे नियोजयेत् ४९ ।
हरेः सपर्यावस्तूनि सप्तधा शुद्धवारिभिः ।
प्रक्षालयेत्त्रिधा वापि स्वयमेवातियत्नतः ५० 7.11.50।
अम्लेन ताम्रपात्राणि कांस्यपात्राणि भस्मना ।
वह्निना लोहपात्राणि शुध्यंति नात्र संशयः ५१।
धनाढ्यो लोहपात्रस्थैर्यः स्नापयति वारिभिः ।
नारायणं जगन्नाथं तस्य तुष्टो न केशवः ५२।
अज्ञानाद्वापि चेत्तर्हि गंगास्नानेन शुद्ध्यति ।
संपदि ब्राह्मणश्रेष्ठ कर्त्तव्यो नियमः सदा ५३।
विपत्त्यां नियमो नास्ति शास्त्रेष्विति विनिश्चयः ।
यत्नात्प्रक्षालितः शङ्खो यदा भूमिं स्पृशेत्पुनः ५४।
तदा स शङ्खो विप्रेंद्र शतधौतेन शुध्यति ।
इत्थं प्रक्षाल्य यत्नेन पूजाद्रव्याणि चक्रिणः ५५।
गृहीत्वा स्नानवस्तूनि स्नानार्थं सरसीं व्रजेत् ।
अकृत्वा स्नानकर्माणि गृहमायाति यः पुनः ५६।
तस्मिन्दिने पितृगणस्तस्य नाप्नोति तर्पणम् ।
स्नानार्थं भोजनार्थं वा गच्छतो विघ्नकृद्भवेत् ५७।
यस्तु मोहाद्द्विजश्रेष्ठ स नूनं नारकी भवेत् ।
स्नानार्थं सरसीं गत्वा मलमूत्रं करोति यः ५८।
पितरस्तस्य विण्वमूत्रभोजिनः स्युर्न संशयः ।
ततः कृत्वा विधानेन स्नानं च तर्पणादिकम् ५९।
स्वकीयं गृहमागच्छेत्स्मरेन्नारायणं बुधः ।
ततश्च प्रांगणे विप्र प्रक्षाल्य चरणद्वयम् ६०।
प्रविशेद्देवतागारं शुचिर्ब्राह्मणसत्तमः ।
अप्रक्षालितपादो यः प्रविशेन्निलयं जनः ६१।
संवत्सरकृतं पुण्यं तस्य नश्यति तत्क्षणात् ।
स्नानं कृत्वा समागत्य प्रांगणेषु विचक्षणः ६२।
तस्मात्प्रक्षाल्य चरणौ प्रविशेद्देवतागृहम् ।
उपविश्य पादयुग्मं बुधः सव्येन पाणिना ६३।
यत्नात्प्रक्षालयेद्विप्र तथा पाणिद्वयं पुनः ।
पादेन पादं विप्रेंद्र तथा दक्षिणपाणिना ६४।
यश्च प्रक्षालयेन्मूढस्तं लक्ष्मीस्त्यजति ध्रुवम् ।
अथोपविष्टो मतिमान्केशवार्चनमारभेत् ६५।
अनन्यमानसो भूत्वा सर्वकामफलप्रदम् ।
मृगचर्मासने शुद्ध व्याघ्रचर्मासनेऽपि वा ६६।
वस्त्रासने केवले च तथा कुशमयासने ।
पुष्पासने चोपविष्टः पूजयेत्कमलापतिम् ६७।
काष्ठासने द्विजो विद्वान्न कुर्य्याद्विष्णुपूजनम् ।
विष्णुना त्वं धृता पृथ्वि सर्वेलोकास्त्वया धृताः ६८।
अतः सर्वसहे देहि वस्तुं मे स्थानमुत्तमम् ।
इत्युक्त्वासनमास्तीर्य वसेन्नारायणार्चकः ६९।
दक्षिणाभिमुखो भूत्वा न कुर्याद्विष्णुपूजनम् ।
शङ्खे कृत्वा तु पानीयं मंत्रपूतं सुवासितम् ७०।
स्नापयेत्कमलाकांतं कमलासहितं प्रभुम् ।
शङ्खेन स्नापयेद्यस्तु भगवंतं जनार्दनम् ७१।
तत्फलं तस्य वक्ष्यामि शृणु विप्रेंद्र जैमिने ।
विप्र गो स्त्री भ्रूणहत्या सुरापानादिपातकैः ७२।
विमुक्तो याति वैकुंठं भुंक्ते हि सकलं सुखम् ।
यदि दृष्ट्वा हृषीकेशं पूजयेन्मानवो द्विज ७३।
लभते तत्तदेवाशु प्रसादात्कमलापतेः ।
शंखाभावे तु विप्रेंद्र सुगंधितोयकं बुधः ७४।
कृत्वा च तुलसीं पात्रे स्नापयेत्केशवं बुधः ।
ततो देवं स्नापयित्वा संस्थाप्य च वरासने ७५।
सुगन्धैश्चंदनैस्तस्य कुर्यात्सर्वांगलेपनम् ।
तुलसीकाष्ठपंके च चक्रिणो देहपालनम् ७६।
यः करोति जनस्तस्य प्रसन्नः सततं हरिः ।
तुलसीपत्रमालेयं निजगन्धसुखप्रदा ७७।
दीयते ते जगन्नाथ सुप्रीतो भव सर्वदा ।
मंत्रेणानेन विप्रेंद्र तुलसीपत्रमालया ७८।
अलंकृतो महाविष्णुः प्रसन्नो न ददाति किम् ।
ततस्तु वैदिकैर्मंत्रैः कर्तव्यं स्वस्तिवाचनम् ७९।
दिग्बंधनं च कर्तव्यं मंत्रैः पौराणिकैर्बुधैः ।
कृष्णो रक्षतु पूर्वस्यामाग्नेय्यां देवकीसुतः ८०।
याम्यां रक्षतु दैत्यारिर्नैरृत्यां मधुसूदनः ।
विदिक्षु रक्षतु श्रीमानूर्ध्वं च श्रीधरः प्रभुः ८१।
अधो रक्षतु विश्वात्मा कूर्ममूर्तिः कृपामयः ।
ये विघ्नकारकाः सर्वे पूजाकाले भवंति ह ८२।
दूरं गच्छंतु ते सर्वे हरिनामास्त्रताडिताः ।
इत्थं दिग्बंधनं कृत्वा ततः प्रह्वः कृतांजलि ८३।
वक्ष्यमाणेन मंत्रेण संकल्पं कुरुते दृढम् ।
मयारब्धामिमां पूजां देवदेव जनार्दन ८४।
सिंद्धिं प्रापय निर्विघ्नां प्रसीद परमेश्वर ।
ततस्तु कृतसंकल्पो वैष्णवः सर्वतत्ववित् ८५।
अंगन्यासादिकं कृत्वा ध्यायेन्नारयणं हृदा ।
नवीनमेघसंकाशं पुंडरीकनिभेक्षणम् ८६।
पीतांबरधरं देवं स्मितचारुतराननम् ।
कदंबपुष्पमालाभिर्भूषितं सुमहाभुजम् ८७।
बर्हिबर्ह(?)श्रेणिबद्धशिखंडधृतकुंडलम् ।
वंशी मधुरनादेन मोहयंतं दिशो दश ८८।
आवृतं गोपनारीभिश्चारुवृंदावने स्थितम् ।
एवं संचिंत्य देवेशं गोविंदं सर्वकामदम् ८९।
ततश्चावाहनं कुर्याद्भक्तिभावेन वैष्णवः ।
आवाहिताय कृष्णाय चतुर्वर्गप्रदायिने ९०।
पाद्यार्घ्याचमनीयानि तत्र दद्याद्विचक्षणः ।
कोमलैस्तुलसीपत्रै रम्यैर्वा कुसुमैर्बुधः ९१।
पूजयेत्सर्वदेवेशं श्रीकृष्णं देवकीसुतम् ।
नमो मत्स्याय कूर्माय वराहाय नमोनमः ९२।
नमोऽस्तु हरये तुभ्यं वामनाय नमोनमः ।
नमो रामाय रामाय रामाय बलिने नमः ९३।
नमो बुद्धाय शुद्धाय सकृपाय नमोनमः ।
नमोस्तु कल्किने तुभ्यं नमस्ते बहुमूर्त्तये ९४।
नारायणाय कृष्णाय गोविंदाय च शार्ङ्गिणे ।
दामोदराय देवाय देवदेवाय ते नमः ९५।
हृषीकेशाय शांताय व्योमपादाय वै नमः ।
नमोस्तु पद्मापतये नमस्ते पद्मचक्षुषे ९६।
अनंताय नमस्तुभ्यं गदाहस्ताय वै नमः ।
तार्क्ष्यध्वजाय वै तुभ्यं नमस्ते चक्रपाणये ९७।
पद्महस्ताय वै तुभ्यमच्युताय नमो नमः ।
नमो दैत्यारये तुभ्यं सर्वकामप्रदायिने ९८।
माधवाय सुरेशाय विष्णवे परमात्मने।
किरीटिने कुण्डलिने नमोऽस्तु हरये सदा ९९।
नमो भगवते तुभ्यं वाहनं गरुडाह्वयम् ।
ॐनमो गरुडायेति मंत्रेणैव विचक्षणः १०० 7.11.100।
नमः शंखाय चक्राय गदायै च नमोनमः ।
नमः पद्माय खड्गाय नंदकाय नमोनमः १०१।
इति संपूज्य देवेशं सदारं च सवाहनम् ।
सायुधं च ततो मंत्रं जपेदष्टाक्षरं बुधः १०२।
निजभक्त्या ततो जप्त्वा मंत्रमष्टाक्षरं बुधः ।
गोविंदाय ततो दद्यान्नानानैवेद्यमुत्तमम् १०३।
धूपं दीपं च तांबूलं देवदेवाय विष्णवे ।
अन्यान्यप्युपहाराणि प्रदद्याद्वैष्णवो जनः १०४।
यस्तु धूपं द्विजश्रेष्ठ चंदनागरुवासितम् ।
दद्यान्मुरारये तस्य द्रुतं सिध्यति वांछितम् १०५।
धूपं यच्छति यो विप्र हरये घृतवासितम् ।
स गच्छेद्विष्णुभवनं विमुक्तः पापकोटिभिः १०६।
नारायणाय यो धूपं दद्याद्गुग्गुलुवासितम् ।
स याति परमं धाम दुर्ल्लभं यत्सुरैरपि १०७।
घृतेन दीपं यो दद्यात्तिलतैलेन वा पुनः ।
निमेषात्सकलं तस्य पापं हरति केशवः १०८।
कर्पूरवासितं यस्तु तांबूलं चक्रपाणये ।
दद्यात्तस्य द्विजश्रेष्ठ मुक्तिर्भवति जैमिने १०९।
यस्तु यच्छति तांबूलं खदिरेण समन्वितम् ।
इह भुक्त्वाखिलान्भोगानंते याति हरेः पदम् ११०।
षष्ठी मधुरिकायुक्तं तथा जातिफलादिभिः ।
तांबूलं हरये दत्वा स्वर्गमाप्नोति मानवः १११।
शङ्खे कृत्वा तु पानीयं कुर्याद्विष्णुप्रदक्षिणाम् ।
वक्ष्यमाणेन मंत्रेण जैमिने वैष्णवो जनः ११२।
जनार्दन जगद्बंधो शरणागतपालक ।
त्वद्दासदासदासत्वं दासस्य देहि मे प्रभो ११३।
मंत्रेणानेन यः कुर्यान्नारायणप्रक्षिणाम् ।
तस्य पुण्यफलं वच्मि संक्षेपाच्छृणु जैमिने ११४।
ब्रह्महत्यादिपापानि यानि यानि महांति च ।
तानि तानि प्रणश्यंति प्रदक्षिणपदे पदे ११५।
यावत्पादं नरो भक्त्या गच्छेद्विष्णुप्रदक्षिणे ।
तावत्कल्पसहस्राणि विष्णुना सह मोदते ११६।
हरिप्रदक्षिणे यावत्पदं गच्छेच्छनैः शनैः ।
पदेपदेऽश्वमेधस्य फलं प्राप्नोति मानवः ११७।
प्रदक्षिणीकृत्य सर्वं संसारे यत्फलं भवेत् ।
हरिं प्रदक्षिणीकृत्य तस्मात्कोटिगुणं फलम् ११८।
अंगं प्रदक्षिणीकृत्य यस्तु नारायणाग्रतः ।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ११९।
न लंघयेत्सोमसूत्रं धीमाञ्शंभुप्रदक्षिणे ।
लंघयित्वा यदा विप्र सा पूजा निष्फला भवेत् १२०।
प्रदक्षिणा कारतया वारैकं यो हरिं व्रजेत् ।
जन्मजन्मनि विप्रेंद्र सार्वभौमो भवेद्ध्रुवम् १२१।
यस्तु वारद्वयं विप्र कुर्याद्विष्णुप्रदक्षिणाम् ।
ऐंद्रं पदमवाप्नोति त्रिदिनेनात्र संशयः १२२।
विष्णुप्रदक्षिणं यस्तु कुर्याद्वारद्वयं जनः ।
विमुक्तः सकलैः पापैः प्रविशेन्माधवीं तनुम् १२३।
भ्रामयेत्सोदकं शङ्खं केशवोपरि जैमिने ।
अंते देवालयं गत्वा सभवेत्सुरवंदितः १२४।
प्रणमेद्दंडवद्भूमौ सप्तधा यस्तु केशवम् ।
पातकं तच्छरीरस्थं भस्मीभवति तत्क्षणात् १२५।
शिरस्यंजलिमाधाय प्रणमेद्यो जनार्दनम् ।
तस्मै लक्ष्मीपतिर्विष्णुर्ददाति परमं पदम् १२६।
भूमौ निपात्य सर्वांगं हरिं प्रणमतां नृणाम् ।
पुण्यप्रभावं विप्रर्षे वदतो मे निशामय १२७।
यावद्भूरेणुभिर्नृणां भूषितं स्यात्कलेवरम् ।
तावत्कल्पसहस्राणि तिष्ठंति हरिसंनिधौ १२८।
ततः केशवनिर्माल्यं वैष्णवेभ्यः प्रदीयते ।
वैष्णवांस्तान्प्रवक्ष्यामि शृणु सत्तम जैमिने १२९।
शुकः सूतस्तथा व्यासो नारदः कपिलो मुनिः ।
प्रह्लादश्चांबरीषश्च तथाक्रूरोद्धवावपि १३०।
बिभीषणो हनूमांश्च तथैवान्येऽपि वैष्णवाः ।
निर्माल्यं वासुदेवस्य गृह्णंतु सर्वकामदम् १३१।
इत्युक्त्वा विष्णुनिर्माल्यं निक्षिपेद्भुवि वैष्णवः ।
ततस्तु हरिनिर्माल्यं स्वयं गृह्णाति भक्तितः १३२।
मस्तके दृश्यते यस्य हरिनिर्माल्यमुत्तमम् ।
स विज्ञेयो द्विजश्रेष्ठ साक्षादेव हरिः स्वयम् १३३।
दुर्लभं विष्णुनैवेद्यं निर्माल्यं पापनाशनम् ।
गृह्णंति त्रिदशाः सर्वे मनुष्याणां च का कथा १३४।
जैमिने तुलसीपत्रं यस्तु जिघ्रति वैष्णवः ।
तस्य देहांतरस्थं हि सर्वं पापं विनश्यति १३५।
तुलसीपत्रगंधस्तु प्रविशेद्यस्य नासिकाम् ।
आपदस्तच्छरीरस्थाः सद्यो गच्छंति संक्षयम् १३६।
तुलसीछदनघ्राणमाघ्राय योऽभिनंदति ।
तस्यालये भवेन्नित्यमानंदो द्विजसत्तम १३७।
स्तवैः स्तुत्वा जगन्नाथं कमलाप्रियमच्युतम् ।
कृतांजलिस्ततः प्राज्ञ इमं मंत्रमुदीरयेत् १३८।
नारायण जगद्रूप गच्छ धाम जगत्पते ।
गच्छ देव निजस्थानं प्रसन्नो भव सर्वदा १३९।
येयं स्वशक्त्या देवेंद्र तव पूजा कृता मया ।
अच्छिद्रास्तु जगन्नाथ त्वत्प्रसादाज्जगन्मय १४०।
ततः पादोदकं प्राज्ञो महाविष्णोः परात्मनः ।
समस्तपातकध्वंसि गृह्णीयाद्भक्तिभावतः १४१।
कणमात्रं वहेद्यस्तु विष्णोः पादोदकं शुभम् ।
स स्नातः सर्वतीर्थेषु जैमिने सत्यमुच्यते १४२।
स्पृशेत्पादोदकं विष्णोर्गंगास्नानफलं भवेत् ।
गांगेयं सलिलं विप्र विष्णुपादोदकं यतः १४३।
अकालमरणं नास्ति नास्ति व्याधिभयं तथा ।
यः स्पृशेत्पादसलिलं केशवस्य महात्मनः १४४।
पापव्याधिविनाशार्थं विष्णुपादोदकौषधम् ।
पापिनोऽपि नरास्ते च पिबंतु प्रतिवासरम् १४५।
विष्णुपादोदकं विप्र यः पिबेद्वैष्णवो जनः ।
पातकं तच्छरीरस्थं क्षणादेव तु नश्यति १४६।
यथौषधेन देहस्थं हन्यते देहिनो भृशम् ।
तथैव पातकं सर्वं विष्णुपादोदकेन च १४७।
विष्णुपादोदकं शुद्धं तुलसीपत्रसंयुतम् ।
यो वहेच्छिरसा विप्र तस्य पुण्यं वदाम्यहम् १४८।
ब्रह्महत्यादिभिः पापैर्विमुक्तो विष्णुरूपधृक् ।
अंते विष्णुपुरं गत्वा विष्णुना सह मोदते १४९।
मेरुप्रमाण हेमानि दत्वा भवति यत्फलम् ।
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् १५० 7.11.150।
अश्वकोटिप्रदानेन तत्फलं प्राप्यते जनैः ।
सप्तद्वीपां महीं दत्वा द्विजेभ्यो यत्फलं लभेत् १५१।
तत्फलं लभते मर्त्यो विष्णुपादोदकं स्पृशन् ।
अश्वमेधसहस्राणि कृत्वा भवति यत्फलम् १५२।
विष्णुपादोदकं स्पृष्ट्वा तद्भवेदधिकं फलम् ।
दीर्घिकाशतदानेन यत्पुण्यं परिकीर्तितम् १५३।
तस्मादप्यधिकं पुण्यं लभेत्पादोदकं स्पृशन् ।
बहुनात्र किमुक्तेन संक्षेपादुच्यते मया १५४।
विष्णुपादोदकस्पर्शान्मुक्तो भवति मानवः ।
भूयोभूयोपि विप्रेंद्र सुदृढं कथ्यते मया १५५।
पुनर्न लभते जन्म स्पृशन्पादोदकं हरेः ।
विष्णुनैवेद्यशेषं यः सर्वपापविनाशनम् १५६।
योऽश्नाति भक्तिभावेन स गच्छेत्परमं पदम् ।
दुर्लभं विष्णुनैवेद्य भुंजते द्विजसत्तम १५७।
देहं त्यजति पापानि ब्रह्महत्यामुखान्यपि ।
भुंजतो हरिनैवेद्यं दासीव वशगा भवेत् १५८।
मुक्तिभूमिः सुरश्रेष्ठ दैवतैरपि दुर्लभा ।
संपूज्य कमलाकांतं किंचिन्नैवेद्यमत्यजन् १५९।
अचिरेणैव तं विष्णुर्नयति स्वां तनुं प्रति ।
नैवेद्यस्य महाविष्णोर्गुणं किं कथयाम्यहम् १६०।
यद्भुंजतः केशवोऽपि स्यादधीनो द्विज प्रभो ।
अनेन विधिना विप्र प्रतिमासे जनार्दनम् १६१।
विधिहीनामपि श्रेष्ठां पूजां श्रीकमलापतेः ।
यः कुर्याद्भक्तिभावेन सोऽपि स्यात्केशवप्रियः १६२।
विधिज्ञो विधिना विष्णुमभ्यर्च्य यत्फलं लभेत् ।
यथोक्तविधिना विप्र नैवेद्यैर्बहुभिः प्रभो १६३।
पूजितोऽपि न तुष्टः स्याद्यदि भक्तिर्न तिष्ठति ।
यस्य वै यावती भक्तिर्देवदेवे जनार्दने १६४।
तावदेव फलावाप्तिस्तस्य नास्त्यत्र संशयः ।
अभक्त्याया हरेः पूजा क्रियते भुवि मानवैः १६५।
सा पूजा ब्राह्मणश्रेष्ठ पूजाकाले भवेत्किल ।
ज्ञानमूलं हरेर्भक्तिर्भक्तिमूलं जगत्पतेः १६६।
पूजा मोक्षद्रुमोत्पत्तौ मूलमाराधनं हरेः ।
अल्पमात्रमपि प्राज्ञ श्रद्धया कुरुते हि यत् १६७।
तदक्षयं भवेत्सर्वं श्रद्धायुक्ताखिला क्रिया ।
भक्त्या यः पूजयेद्विष्णुं वारिमात्रमपि द्विज १६८।
संस्थानं लभते विष्णोर्यतो भक्तवशो हरिः १६९।
असारमेतद्भुवनं समस्तं सारं हरेः पूजनमेव विप्र ।
तस्मान्मनुष्यो निजमंगलैषी भक्त्या यजेत्कृष्णमनंतमूर्तिम् १७०।
इति श्रीपद्मपुराणे क्रियायोगसारे हरिपूजाविधिर्नाम एकादशोऽध्यायः ११।