पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः १६

← अध्यायः १५ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

व्यास उवाच-
भूय एव द्विजश्रेष्ठ महाविष्णोः परात्मनः ।
ब्रवीमि शृणु माहात्म्यं सर्वदुःखविनाशनम् १।
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चान्येन्त्यजास्तथा ।
हरिभक्तिं प्रपन्ना ये ते कृतार्था न संशयः २।
हरेरभक्तो विप्रोऽपि विज्ञेयः श्वपचाधिकः ।
हरिभक्तः श्वपाकोऽपि विज्ञेयो ब्राह्मणाधिकः ३।
स कथं ब्राह्मणो यस्तु हरिभक्तिविवर्जितः ।
स कथं श्वपचो यस्तु भगवद्भक्तिमानसः ४।
अव्याजेन यदा विष्णुः श्वपाकेनापि पूज्यते ।
तदा पश्येत्तमप्येवं चतुर्वेदद्विजाधिकम् ५।
पुरासीच्चक्रिको नाम शबरो लोककर्षकृत् ।
सुजातिवृत्तिहीनश्च युगे द्वापरसंज्ञके ६।
विप्रवादी जितक्रोधः परहिंसाविवर्जितः ।
दयालुर्द्दम्भहीनश्च पितृमातृपरायणः ७।
न कृतो वैष्णवोलापो मोक्षशास्त्रं न च श्रुतम् ।
तथापि जाता तच्चित्ते हरिभक्तिरचञ्चला ८।
हरे केशव गोविन्द वासुदेव जनार्दन ।
इत्यादीनि स्मरन्नित्यं स च नामानिचक्रिणः ९।
वन्यं फलं च यत्किञ्चित्प्राप्नोति द्विजसत्तम ।
आदौ ददाति तद्वक्त्रे निजे शबरवंशजः १०।
तन्माधुर्यं ततो ज्ञात्वा वक्त्रान्निष्कास्य तत्पुनः ।
ददाति हरये भक्त्या सुप्रीतः प्रतिवासरम् ११।
उच्छिष्टं वाप्यनुच्छिष्टं द्वयमेव न वेत्ति सः ।
निजजातिस्वभावो हि सततं मूर्घ्नि वर्तते १२।
कदाचित्स द्विजश्रेष्ठ काननाभ्यंतरे भ्रमन् ।
फलमेकं प्राप्य पक्वं प्रियालस्येति शाखिनः १३।
अथासौ हर्षितस्तस्य फलमप्राप्य चक्रिकः ।
स संरंभेण ज्ञात्वा वै निजवक्त्रांतरे ददौ १४।
स ददौ तत्फलं यावन्निजवक्त्रांतरे द्विज ।
प्रविवेश गलं तावत्तत्फलं शृणु जैमिने १५।
तावत्सव्येन हस्तेन गलरन्ध्रं बबंध सः ।
यत्नाद्विधृत्य सव्येन पाणिना सकलं द्विज १६।
चक्रिकश्चिन्तयामास हरिभक्तिपरायणः ।
फलमेतद्यदा तस्मै न ददामि मुरारये १७।
न जातः कोऽपि संसारे तदाहमिव पातकी ।
हरिं संचिंत्य बहुधा स चकार मतिं ततः १८।
तथापि तत्फलं तस्य न निष्क्रांतं गलाद्द्विज ।
हरेरेकांतभक्तोऽसौ छित्त्वा परशुना गलम् १९।
आनीय तत्फलं पक्वं ददौ देवाय विष्णवे ।
तत्सन्निधिं समायातस्तमेव हृदि चिंतयन् २०।
रुधिरोक्षितसर्वाङ्गः पतितः क्षितिमण्डले ।
तं दृष्ट्वा भगवान्विष्णुर्गतासुं व्यथितोऽभवत् २१।
एतस्य सदृशो भक्तो मम कोऽपि न विद्यते ।
यतो निजगलं छित्त्वा मम संतोषणं कृतम् २२।
यथा भक्तिमताऽनेन सात्विकं कर्म वै कृतम् ।
यद्दत्वानृण्यमाप्नोति तथा वस्तुकिमस्ति मे २३।
धन्योऽयमतिधन्योऽयं धन्योऽयं नात्र संशयः ।
प्राणानपि परित्यज्य ममसंतोषणं कृतम् २४।
ब्रह्मत्वं वा शिवत्वं वा चक्रित्वं वापि दीयते ।
तदाप्यानृण्यमेतस्य भक्तस्य न हि गम्यते २५।
इत्युक्त्वात्यंत संतुष्टो भगवान्गरुडध्वजः ।
स्वहस्तकमलेनास्य ततो मस्तकमस्पृशत् २६।
तद्धस्तकमलस्पर्शाच्छबरोऽसौ गतव्यथः ।
समुत्तस्थौ महासत्वो नारायणपरायणः २७।
व्यास उवाच-
ततोऽस्य भक्तश्रेष्ठस्य निजवस्त्रेण केशवः ।
पुत्रस्येव पिता गात्ररजः प्रोक्षितवान्द्विज २८।
चक्रिकस्तं समालोक्य मूर्तिमंतं जनार्दनम् ।
वाचा मधुरयाऽस्तौषीत्प्रह्वमस्तः कृताञ्जलिः २९।
चक्रिक उवाच-
गोविन्द केशव हरे जगदीश विष्णो जानामि यद्यपि न ते स्तुतियोगवाक्यम् ।
स्तोतुं तथापि रसना मम वांछति त्वां स्वामिन्प्रसीद हर दोषमिमं प्रवृद्धम् ३०।
त्यक्त्वा भवंतमखिलेश्वरचक्रपाणे अन्यं यजंति मनुजा जगतीह ये वै ।
मूढास्त एव दुरितप्रकरैकधाम सानुग्रहस्त्वमसि मय्यपि देव यस्मात् ३१।
जानाति देव भवतो भवनैकनाथ भक्त्यैव यद्यपि नृणांभवबंधहर्त्रीम् ।
एकांतपापशबरान्वयलब्धजन्मा विष्णोस्तथापि भगवान्मयि सुप्रसन्नः ३२।
यस्य प्रभो तव मनोज्ञ करारविंदं स्पर्शं चतुर्मुखमुखा अपि देववृन्दाः ।
न प्राप्नुवंति विदितस्य मयाद्य लब्धं त्वत्तो न कोऽपि सदयो निजसेवकेषु ३३।
येन त्वया भगवता त्रिदशाद्यवैरी कंसासुरो निमिसुतः कृतसर्वपापः ।
सेन्द्रामरप्रकरमर्त्यहिताय पूर्वं तस्मै नमः परममंगलदाय तुभ्यम् ३४।
येन त्वयातिबलिना यमलार्जुनौ तौ देवोत्तमेन निहतौ वसुदेवजेन ।
दुष्टश्च कालयवनो युधि धेनुकश्च तस्मै नमोऽस्तु नवमेघनिभाय तुभ्यम् ३५।
श्रीकृष्णदामोदरभो ह्यनंत येन त्वयामरपतेरचला विभूतिः ।
पूर्वं कृता भगवता परमेश्वरेण तस्मै नमोऽस्तु यदुवंशपराय तुभ्यम् ३६।
पारिजातो हृतो येन विजितोऽखंडलस्त्वया ।
लीलाजित महेशाय तस्मै तुभ्यं नमोनमः ३७।
कृत्वा वृकोदरं हेतुं जरासंधो निपातितः ।
बाणासुरस्य निहता बाहवो ये त्वया हताः ३८।
शिशुपालो हतो येन तस्मै नित्यं नमोनमः ।
भूमेरपहृतो भारस्त्वया येन महात्मना ३९।
क्षत्त्रियान्मायया हत्वा तस्मै नित्यं नमोनमः ।
व्यास उवाच-
इति तेन स्तुतो विष्णुश्चक्रिकेन महात्मना ४०।
उवाच परमप्रीतो वरं वृण्विति जैमिने ।
चक्रिक उवाच-
परं ब्रह्म परं धाम परमात्मन्कृपामय ४१।
पश्यामि त्वामहं साक्षाद्वरैः किमपरैर्द्विज ।
न ध्याता भवतो मूर्तिः पूजा च न कृता तव ४२।
नैवेद्यैर्दिव्यपुष्पैश्च दिव्यधूपैः प्रदीपकैः ।
न ते स्मृतानि नामानि कदाचिद्भवतो मया ४३।
त्वत्पादसलिलं स्वामिन्विधृतं न हि मूर्द्धनि ।
न भुक्तं तव नैवेद्यं त्वद्व्रतं न मया कृतम् ४४।
तथाप्यहमपश्यं त्वां किं करोम्यपरैर्वरैः ।
शबरान्वयजन्मास्मि सर्वधर्मबहिष्कृतः ४५।
तथापि पादपद्मं ते दैवतैरपि दुर्ल्लभम् ।
तदेवाद्य मया प्राप्तं वरैः किमपरैर्मम ४६।
तथापि कमलाकांत वरदित्सुर्यदा भवान् ।
त्वयि तिष्ठतु मे चित्तं न मज्जेत्त्वदनुग्रहात् ४७।
श्रीभगवानुवाच-
वचनाऽमृतवर्षेण त्वदीयेन महाशय ।
संप्राप्य महतीं तुष्टिं मया सेवकपापिना ४८।
यदिदं वत्स मे दत्तं त्वया कमलमुत्तमम् ।
अनेनात्यंततुष्टोऽस्मि भक्तिं गृह्णामि हर्षितः ४९।
व्यास उवाच-
इत्युक्त्वा भगवान्विष्णुर्भक्तिग्राही दयामयः ।
तमालिंगितवान्भक्तं चतुर्भिर्दीर्घबाहुभिः ५० 7.16.50।
श्रीभगवानुवाच-
तुष्टोऽस्मि भवतो भक्त्या वत्स चक्रिकसत्तम ।
यदिदं वत्स मे दत्तं क्षिप्रं भवति निश्चितम् ५१।
भूयोऽपि तं महाभक्तमालिङ्ग्य परमेश्वरः ।
तत्रैवांतर्द्दधे विप्र विश्वात्मा विश्वपालकः ५२।
स चक्रिकोऽतिसंतुष्टो हरिभक्तिपरायणः ।
पुत्रदारादिकं त्यक्त्वा जगाम द्वारकां पुरीम् ५३।
तत्र चैवं समासाद्य कृपया कमलापतेः ।
आयुषोऽन्ते ययौ मोक्षं देवानामपि दुर्ल्लभम् ५४।
तस्माद्भक्तवशो देवो भक्तिमात्रेण तुष्यति ।
न च स्तोत्रैर्न वित्तैश्च न तपोभिर्जपेन च ५५।
फलं यद्यपि चोच्छिष्टं दत्तं तेन द्विजोत्तम ।
तथापि तुष्टवान्विष्णुर्ज्ञात्वा भक्तिमचञ्चलाम् ५६।
तस्मान्नारायणो देवः संसारेऽस्मिन्मुमुक्षुभिः ५७।
ये यजंति दृढया किल भक्त्या वासुदेवचरणांबुजयुग्मम् ।
वासवादिविबुधप्रवरेज्यं ते व्रजन्ति मनुजाः किल मोक्षम् ५८।
इति श्रीपद्मपुराणे क्रियायोगसारे षोडशोऽध्यायः १६ ।