पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः २०

← अध्यायः १९ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

व्यास उवाच-
विष्णुपूजाफलं विप्र संक्षेपात्कथितं मया ।
इदानीं वच्मि दानानि निशामय समाहितः १।
दानं तपो द्वयोर्मध्ये दानमेकं परं स्मृतम् ।
तपसा पापमित्युक्तं न पापो दानकर्मणि २।
तपः कृतयुगे श्रेष्ठं त्रेतायां ध्यानमेव च ।
सपर्या द्वापरे श्रेष्ठा दानं श्रेष्ठं कलौ युगे ३।
तस्मात्कलियुगे दानं प्रीतये कमलापतेः ।
कर्तव्यं सततं प्राज्ञैरिच्छद्भिः परमं पदम् ४।
कलया कलया चन्द्र कलां संवर्द्धते तथा ।
दानस्य सा गतिः प्रोक्ता तपसश्च मनीषिभिः ५।
पलादपि द्विजश्रेष्ठ कर्तव्यो वित्तसंग्रहः ।
संचितं तु धनं प्राज्ञो दानकर्मणि संक्षिपेत् ६।
धने स्थितोपि यो मर्त्यो नाश्नाति न ददाति यः ।
दरिद्र सः च विज्ञेयो दानभोगविवर्जितः ७।
वित्तं केन सहायाति याति तेन तु को द्विज ।
आयाति तत्पुरा दत्तमिह पंचत्वमागते ८।
दत्वा दत्वा सदा दानं मानवा ये दरिद्रति ।
न ते दरिद्रा विज्ञेयाः परलोके महेश्वराः ९।
धनं रक्षंति कार्पण्याद्ये ते ज्ञेयाः सुदुःखिताः ।
अंते त्यक्त्वा च तत्सर्वं निराशा यांति जैमिने १०।
परलोके द्विजश्रेष्ठः साधुसद्बलवर्जितः ।
निर्द्धने बंधुहीने च नादत्तमुपतिष्ठते ११।
स्तोकं स्तोकं च विप्रेन्द्र भक्तिश्रद्धासमन्वितः ।
नित्यं देयानि दानानि वैष्णवैर्निजभक्तितः १२।
सर्वेषामेव दानानामन्नदानं द्विजोत्तम ।
जलदानं च तत्वज्ञैरतिश्रेष्ठं प्रकीर्तितम् १३।
विनान्नेन न तिष्ठंति प्राणा देहेषु देहिनाम् ।
अन्नदः प्राणदो ज्ञेयः प्राणदः सकलप्रदः १४।
तस्मात्समस्तदानानामन्नदो लभते फलम् ।
अन्नदानसमं दानं जलदानं च जैमिने १५।
विना तोयेन नान्नं स्यादतस्तोयं प्रदीयते ।
क्षुधा तृषापि विप्रेन्द्र द्वे तुल्ये तु प्रकीर्तिते १६।
तस्माद्दत्वा च तोयं च श्रेष्ठं प्रोक्तं मनीषिभिः ।
जीवनं जीवनं नॄणां जीवनं न च जीवनम् १७।
अतो जीवनरक्षार्थं जीवनं प्राज्ञ उत्सृजेत् ।
अन्नं तोयं च विप्रेन्द्र दत्तं येन महीतले १८।
तेन सर्वाणि दानानि कृतानि नात्र संशयः ।
अन्नदानस्य माहात्म्यं जलदानस्य वै शृणु १९।
बभूव हास्तिनपुरे कुबेर इव वित्तवान् ।
तस्मिन्नेव पुरे वेश्या बभूव सुरसुंदरी २०।
ख्याता रतिविदग्धेति सर्वलक्षणसंयुता ।
तत्र क्षेमंकरी नाम ब्राह्मणी श्रेष्ठवंशजा २१।
समस्तगुणसम्पन्ना विधवासीद्द्विजात्मजा ।
सा ब्राह्मणी द्विजश्रेष्ठ जारानुरक्तमानसा २२।
निषिद्धं कर्म कुर्वंती त्यक्त्वा यात्यविवेकताम् ।
तया संनिहिता विप्र वेश्यापि ब्राह्मणी च सा २३।
चकार सख्यं स्नेहेन वेश्यावृत्तिमुपेत्य सा ।
सा वेश्या ब्राह्मणी चापि द्वेऽप्येकत्र दिने दिने २४।
पापानि चक्रतुः प्रीत्या असंख्यातानि जैमिने ।
ततो रतिविदग्धा सा वृद्धभावमुपागता २५।
ब्राह्मणी चापि विप्रेन्द्र दुःशीलात्यंतपापिनी ।
कदाचिद्वारमुख्या सा जरंती तां निजां सखीम् २६।
प्राहेति विस्मिता विप्र वचनं विनयान्विता ।
रतिविदग्धोवाच -
सखि त्वया सहानेकं दारुणं पातकं कृतम् २७।
अद्यापि पातके दृष्टिर्महती वर्तते मम ।
सौन्दर्यं च बलं चैव सर्वं मे जरया हृतम् २८।
इत्थमस्वास्थ्यकृन्नित्यमाशां त्यक्तुं न शक्यते ।
स्थावरं सुमहत्प्राप्तं कृतपातकया मया २९।
समागतमिवैतर्हि समीक्ष्य मरणं गतम् ।
उपार्जितेन पापेन यानि वित्तानि वै मया ३०।
रक्षिष्यंत्यनपत्यायां मृतायां मयि तानि के ।
तस्मात्सर्वाणि वित्तानि अन्यायोपार्जितानि च ३१।
दातुमिच्छामि विप्रेभ्यो यदि त्वं मन्यसे सखि ।
ब्राह्मण्युवाच-
मया यावन्ति वित्तानि पश्येति संचितानि च ३२।
असत्पात्रेषु दत्तानि तानि सर्वाणि नित्यशः ।
तस्मादहं धनैर्हीना किं दास्यामि द्विजातये ३३।
अस्ति चेद्यदि वित्तं ते दानमाशु तदा कुरु ।
तस्या एवं वचः श्रुत्वा सा वेश्यात्यंतहर्षिता ३४।
वित्तेन सकलेनैव अन्नदानं चकार ह ।
हरिशर्मा च विप्रेन्द्रो धनवानतिभक्तितः ३५।
पूजयामास सततं भगवंतं जनार्दनम् ।
जितेन्द्रियो जितक्रोधो हिंसादम्भविवर्जितः ३६।
प्रीतये कमलाभर्तुः स तेपे सुमहत्तपः ।
गंधपुष्पैश्च बलिभिर्घृतधूपैः प्रदीपकैः ३७।
पूजयामास देवेशं नित्यमेव जनार्दनम् ।
धनवानपि विप्रोऽसौ वित्तस्य क्षयशंकितः ३८।
पिपीलिकामूषिकाश्च तथान्येऽपि च जंतवः ।
कृपणस्य द्विजश्रेष्ठ गृहे नित्यं बुभुक्षिताः ३९।
उपार्जितं धनं सर्वं स्वयमेव दिनेदिने ।
बुभुजे ब्राह्मणश्रेष्ठ दानकर्मविवर्जितः ४०।
सुहृदां ब्राह्मणानां च बांधवानां कदापि सः ।
चकार न च संभाषामर्थप्रार्थनशंकया ४१।
विगणय्य स्ववित्तानि सुबहूनि निजालये ।
मत्वा श्रेष्ठमिवात्मानं मोदतेऽसौ द्विजोत्तम ४२।
कदाचित्प्राप्तकालोऽसौ ब्राह्मणोऽत्यंतवित्तवान् ।
गणिका ब्राह्मणी सा च एककाले मृता द्विज ४३।
अथ दूताः समायातास्तान्नेतुमतिभीषणाः ।
धर्मराजस्य देवस्य पाशमुद्गरपाणयः ४४।
ते च चण्डादयो दूतास्तान्समादाय जैमिने ।
ययुर्धर्मपुरं सद्यो दुर्गमेन पथा ततः ४५।
चण्ड उवाच-
आनीतो हरिशर्मा च वेश्या च ब्राह्मणी च सा ।
तवाज्ञया जीवितेश पश्यैतान्पुरतः स्थितान् ४६।
तान्समालोक्य जीवेशः प्रहस्य द्विजसत्तम ।
चित्रगुप्तमिति प्राह सर्वकार्यविचक्षणम् ४७।
यम उवाच-
एतेषां सर्वकार्याणि शुभदान्यशुभानि च ।
मूलाद्विचारय प्राज्ञ चित्रगुप्त महामते ४८।
यमादेशात्ततस्तेषां चित्रगुप्तो विचक्षणः ।
सर्वं विचारयामास शुभकर्माशुभं तथा ४९।
चित्रगुप्त उवाच-
देवाकर्णय वक्ष्यामि पुण्यं च पातकं तथा ।
इयं वेश्या ब्राह्मणी च हरिशर्मा चकार यत् ५० 7.20.50।
एषा रतिविदग्धाख्या गणिकाति दुराशया ।
चकार यानि पापानि वक्तुं तानि न शक्यते ५१।
अन्यायोपार्जितैर्वित्तैरखिलैरेव सूर्यज ।
अन्नदानं चकारेयं गणिका गतयौवना ५२।
अन्नदानप्रभावेण यातनागृहवासदैः ।
त्यक्तेयं पातकैः सर्वैः कोटिजन्मार्जितैरपि ५३।
अन्नदानं महाराज ये कुर्वंति जनाः क्षितौ ।
ते पापिनोऽपि गच्छंति तद्विष्णोः परमं पदम् ५४।
यावन्त्यन्नानि यच्छंति मानवाः क्षितिमण्डले ।
तावंत्यो ब्रह्महत्याश्च तस्य नश्यंत्यसंशयः ५५।
अन्नानि यच्छतां त्यक्त्वा शरीराणि च पातकम् ।
गृह्णतामेव पात्राणि सहसा याति सूर्यज ५६।
तस्मात्पापिनामन्नानि न गृह्णंति विचक्षणाः ।
मोहाद्गृह्णंति ये मूढास्त एव पापभागिनः ५७।
शुभकर्माशुभं वापि वेश्यायाः कथितं प्रभो ।
ब्राह्मण्याः शृणु कर्माणि शुभानि चाशुभानि च ५८।
इयं क्षेमंकरी नाम ब्राह्मणी शुद्धवंशजा ।
भद्रकीर्तिप्रिया सर्वं चकार दुरितं प्रभो ५९।
त्यक्त्वा निजाश्रमाचारं निजयौवनगर्विता ।
बभूवात्यंतपापिष्ठा जारसंगमलोलुपा ६०।
कदाचिच्छैशवे राजन्खेलंती शिशुभिः सह ।
रथ्यायां खननं चक्रे चतुष्कोणसमन्वितम् ६१।
तस्मिन्नेव दिने मेघ उदकानि ववर्ष च ।
पूरितं तज्जलैः खातं तया विनिर्मितं प्रभो ६२।
ततो मध्याह्नसमये गौरेकस्तृषितो नृप ।
अपिबत्तत्र पानीयं तापितस्तपनातपैः ६३।
तेनैव सर्वपापानि विनष्टानि महांति वै ।
तस्याः सूर्यसुत प्राज्ञ जलदानप्रभावतः ६४।
विमुक्ताः सकलैः पापैर्व्रजेन्नारायणालयम् ।
कृतपापा हि देवेश ब्राह्मणीयं दुराशया ६५।
विमुक्ता सकलैः पापैर्जलदानप्रभावतः ।
अयं विप्रो महाभक्तो देवदेवस्य चक्रिणः ६६।
ततोऽस्योपरि जीवेश प्रभुरेकोऽच्युतः स्मृतः ।
व्यास उवाच-
चित्रगुप्तस्य तद्वाक्यं समाकर्ण्य स दंडभृत् ६७।
तां वेश्यां ब्राह्मणीं चापि ववंदे ब्राह्मणं च तम् ।
दिव्यैः सुवर्णालंकारैर्वस्त्रैर्नानाविधैस्तथा ६८।
तेषां पूजां यमः श्रुत्वा कुटुंबिनां च जैमिने ।
उवाच प्रहसन्वाक्यं सुप्रीतो मृदुलाक्षरम् ८९।
यम उवाच-
यूयं सर्वे महात्मानो विनष्टाखिलपातकाः ।
समस्तसुखदं स्थानं गच्छत श्रीपतेः प्रभोः ७०।
तानारोप्य ततो दिव्ये यमः कांचननिर्मिते ।
राजहंसयुते स्थाने प्रेषयामास चक्रिणः ७१।
ततो दिव्यरथारूढाः सर्वाभरणभूषिताः ।
पुरं भगवतो जग्मुस्ते सर्वे गतपातकाः ७२।
गणिका ब्राह्मणी सा च विनष्टाखिलकल्मषा ।
सान्निध्यं प्राप्य देवस्य तस्थौ विप्र चिरं सुखम् ७३।
हरिशर्माणमालोक्य समायांतं जनार्द्दनः ।
ददौ वरासनं तस्मै स्नेहात्कनकनिर्मितम् ७४।
पाद्यार्घ्याचमनीयैश्च तमभ्यर्च द्विजोत्तमम् ।
वरासनोपविष्टं च पप्रच्छेति मुदा हरिः ७५।
श्रीभगवानुवाच-
द्विजन्म कुशलं ब्रूहि मद्भक्तप्रवरोऽसि यत् ।
चिरं मे मंदिरं तिष्ठ सर्वोपद्रववर्जिते ७६।
ब्राह्मण उवाच-
त्वां स्मृत्वापीक्षितो देव लभते कुशलं प्रभो ।
त्वत्सान्निध्यं मया प्राप्तं कुशलं किमतः परम् ७७।
व्यास उवाच-
एतस्य वचनं श्रुत्वा भगवान्प्रणयोदितम् ।
दत्तवान्निजसारूप्यं प्रीतस्तस्मै द्विजन्मने ७८।
ददौ तस्मै सुखं सर्वं दुर्ल्लभं कमलापतिः ।
आहारमात्रं न ददौ तत्कार्पण्यं स्मरन्प्रभुः ७९।
दिनद्वयांतरे विप्रो निराहारः क्षुधाकुलः ।
प्रोवाच विष्णुं देवेशं विनयावनतः स्थितः ८०।
ब्राह्मण उवाच-
प्रभोप्राप्तंतवस्थानमनेकतपसांफलैः ।
अत्रापि क्षुधया नित्यं विफलोऽस्मि कथं प्रभो ८१।
देवकन्या गणैर्दिव्यैः संप्राप्तनवयौवनैः ।
श्वेतचामरवातेन मंचेष्वपि निवीजितः ८२।
सुगंधानां प्रसूनानां महास्रग्भिरलंकृतः ।
चंदनैर्लिप्तसर्वांगो राजश्रेष्ठ इव प्रभो ८३।
चार्वङ्गीभिः कामिनीभिर्नित्यं मत्पुरतः प्रभो ।
गीतेन नृत्यते चापि नारायण तवाज्ञया ८४।
वासवाद्याः सुराः सर्वे रजांसि मम पादयोः ।
शिरः किरीटशोभीनि नित्यमेव वहंति वै ८५।
देवदेवर्षयश्चापि मुनयश्च जगत्पते ।
स्तुवंति मां स्तवैर्नित्यं किंकरा इव सर्वदा ८६।
चतुर्बाहुरहं श्यामः शङ्खचक्रगदाब्जभृत् ।
प्रफुल्लपुण्डरीकाक्षः पीतवासाः सुकुण्डलः ८७।
स्वर्णयज्ञोपवीती च किरीटी कुण्डली तथा ।
दृश्ये त्वमिव देवाद्यैर्द्वितीयो गरुडध्वजः ८८।
सुखान्येतानि दत्तानि दुर्ल्लभानि त्वया प्रभो ।
ददासि कथमाहारं न मह्यं परमेश्वर ८९।
क्षुधाग्निना च सुमहच्छरीरं मम दह्यते ।
यथैव ज्वलितो वृक्षः कोटरस्थेन वह्निना ९०।
सुखमेतत्त्वया दत्तं हरे मह्यं न रोचते ।
प्रज्वलज्जठराग्नौ तु विह्वलाङ्गाय केशव ९१।
कर्मणा मनसा वाचा त्वां विना जगदीश्वरम् ।
न पूजितो मया कश्चिद्देवदेव गणार्चितः ९२।
स्वप्नेनापि जगन्नाथ तस्य भक्तिः कृता नहि ।
आहारं केन दोषेण ददासि नहि मे प्रभो ९३।
व्यास उवाच-
अथासौ भगवान्विष्णुः कौतुकी समुवाच तम् ।
गच्छ ब्राह्मण भद्रं ते ब्रह्माणं प्रति सत्वरम् ९४।
इति श्रुत्वा वचो विप्रः शीघ्रं ब्रह्माणमाययौ ।
ब्रह्मा तं प्रति प्रोवाच कार्पण्यं तस्य दर्शयन् ९५।
ब्रह्मोवाच-
दुःखादुपार्जितं कर्म दीयते यन्न भूसुरे ।
स्वयं न भुंजते तच्च नष्टमेव न संशयः ९६।
कारणं तव दुःखस्य सर्वमेव मयोदितम् ।
गच्छ ब्राह्मण भद्रं ते निःसंदेहोयमागतः ९७।
ब्राह्मण उवाच-
निजकर्मविपाकोऽयं त्वत्प्रसादाच्छ्रुतोऽखिलः ।
इदानीं ब्रूहि दानानि कानि देयानि मानवैः ९८।
ब्रह्मोवाच-
बहूनि संति दानानि तानि वक्तुं न शक्यते ।
संक्षेपात्कथ्यते विप्र निशामय समाहितः ९९।
भूमिदानं द्विजश्रेष्ठ सर्वदानोत्तमोत्तमम् ।
कृतं पुण्यात्मना येन स ज्ञेयः सर्वदानकृत् १०० 7.20.100।
गोचर्ममात्रं भूमिं यो ददाति द्विजसत्तम ।
स गच्छेत्परमं स्थानं विमुक्तः सर्वपातकैः १०१।
भूमिं सस्यसमेतां यो दरिद्राय द्विजातये ।
ददाति ब्राह्मणश्रेष्ठ तस्य पुण्यं निशामय १०२।
सर्वपापविनिर्मुक्तो नारायणपुरं व्रजेत् ।
तत्र भुंक्ते सुखं सर्वं यावदिंद्राश्चतुर्दश १०३।
भूयो भूमिं समासाद्य सार्वभौमो नृपो भवेत् ।
चिरं भुक्त्वा महीं कृत्स्नां नरो नारायणो भवेत् १०४ ।
यस्माद्भूमिर्द्विजैर्ग्राह्या त्यक्त्वा दानशतान्यपि ।
भूमिदो भूमिनेता च द्वावपि स्वर्गगामिनौ १०५।
मंदबुर्द्धिर्द्विजो यस्तु भूमिदानं परित्यजेत् ।
प्रतिजन्मनि विप्रेन्द्र स भवेदतिदुःखितः १०६।
अन्येभ्योऽपि समादाय भूमिदानं य आचरेत् ।
तस्य विष्णुरति प्रीतो ददाति परमं पदम् १०७।
ग्रामं यच्छति यो विप्र दरिद्राय द्विजातये ।
दापयत्यपि वा तस्य पुण्यं वापि निशामय १०८।
यावंतो रेणवो भूमौ यावंतो वृष्टिबिंदवः ।
मन्वंतराणि तावंति विष्णुलोके वसेत्सुधीः १०९।
धेनुं पयस्विनीं यस्तु सवत्सां यच्छति द्विज ।
तस्य ब्रवीम्यहं पुण्यमाकर्णय महात्मनः ११०।
सप्तद्वीपां महीं दत्वा ससस्यां यत्फलं लभेत् ।
तत्फलं लभते मर्त्यो धेनुं यच्छन्द्विजातये १११।
ददाति वृषभं यस्तु ब्राह्मणाय कुटुंबिने ।
विमुक्तः पातकै रुद्रै रुद्रलोकं स गच्छति ११२।
तस्य यावंति रोमाणि शरीरे वृषभस्य च ।
तावत्कल्पसहस्राणि रुद्रेण सह मोदते ११३।
यस्तु वेदविदे धेनुं दद्यादुभयतोमुखीम् ।
न तस्य पुनरावृत्ती रुद्रलोकात्कदाचन ११४।
वृषं तिलसमायुक्तं कृष्णं यस्तु प्रयच्छति ।
स रुद्रभवने तिष्ठेद्द्विजेन्द्र तिलसंख्यया ११५।
तिलप्रमाणमपि च स्वर्णं दद्याद्द्विजातये ।
स याति विष्णुभवनं कुलकोटिसमन्वितः ११६।
यो भक्त्या रजतं यच्छेद्दरिद्राय द्विजातये ।
चंद्रलोकं समासाद्य सुधापानं करोति सः ११७।
हीरकं मौक्तिकं चापि प्रवालं च मणिं तथा ।
यो ददाति द्विजश्रेष्ठ शक्रलोकं स गच्छति ११८।
अश्वदानं द्विजश्रेष्ठ यः करोति महाशयः ।
गन्धर्वराजराजत्वं स प्राप्नोति न संशयः ११९।
ददाति वारणं यस्तु युवानं दोषवर्जितम् ।
देवराज्ये विभागी स भवेदिन्द्र इव द्विज १२०।
नरदोलां च यो दद्याद्ब्राह्मणाय सदक्षिणाम् ।
सोऽपीन्द्रपदमासाद्य वसेत्कल्पचतुष्टयम् १२१।
शालिग्रामशिलादानं यो ददाति द्विजातये ।
तस्य पुण्यं प्रवक्ष्यामि समासेन शृणु द्विज १२२।
सप्तद्वीपां महीं दत्वा सशैलवनकाननाम् ।
यत्फलं तच्च लभते शालग्रामशिलाप्रदः १२३।
तुलापुरुषदानेन यत्फलं प्राप्यते नरैः ।
शालग्रामशिलां यच्छंस्तस्मात्कोटिगुणं लभेत् १२४।
शालग्रामशिला येन प्रदत्ता द्विजसत्तम ।
नूनं तेन प्रदत्तानि भुवनानि चतुर्दश १२५।
तुलापुरुषदानं यः प्रकरोति नरोत्तम ।
दिवि दिव्यांबरधरश्चिरं स च महीपतिः १२६।
जननीजठरे भूयस्तस्य जन्म न विद्यते ।
ददाति यस्तु वै कन्यां सालंकारां नरोत्तमः १२७।
स गच्छेद्विष्णुभवनं पुनरावृत्तिवर्जितः ।
यः कन्याविक्रयं मूढो मोहात्प्रकुरुते नरः १२८।
स गच्छेन्नरकं घोरं पुरीषह्रदसंज्ञकम् ।
विक्रीतायाश्च कन्याया यः पुत्रो जायते द्विज १२९।
स चांडाल इव ज्ञेयः सर्वधर्मबहिष्कृतः ।
कन्याविक्रयिणः पुंसो मुखं पश्येन्न शास्त्रवित् १३०।
पश्येदज्ञानतो वापि कुर्याद्भास्करदर्शनम् ।
यत्किंचित्क्रियते कर्म कन्याविक्रयिणः पुरः १३१।
शुभं तत्सकलं कर्म गच्छेद्विफलतां द्विज ।
कन्याविक्रयिणो नास्ति नरकान्निष्कृतिः पुनः १३२।
कन्यादानकृतो नास्ति स्वर्गादागमनं पुनः ।
बहुनात्र किमुक्तेन संक्षेपेण ब्रवीमि ते १३३।
हीरकक्षितिकन्यानां फलं स्याच्च शताधिकम् ।
उपानहं चातपत्रं यस्तु यच्छति भूतले १३४।
शृणु तस्य तु वै पुण्यं संक्षेपेण ब्रवीमि ते ।
इह वर्षशतं जीवेत्सर्वसंपत्समन्वितः १३५।
मृतः शक्रपुरं प्राप्य शतकल्पचतुष्टयम् ।
ददाति नूतनं वस्त्रं स याति परमां गतिम् १३६।
वस्त्रं पुरातनं यच्छेद्धेनुं च रजतीं तथा ।
कन्यां रजस्वलां यस्तु स सदा नरकं व्रजेत् १३७।
फलदो मानवो विप्र गच्छति त्रिदशालयम् ।
भुंक्ते कल्पसहस्राणि फलं तत्रामृतोपमम् १३८।
शाकप्रदो याति विप्र शंभोर्भगवतः पदम् ।
तत्र कल्पद्वयं भुंक्ते पायसं दुर्ल्लभं सुरैः १३९।
दुग्धदो दधिदश्चैव घृतदस्तक्रदस्तथा ।
प्राप्नोति वै सुधापानं पुरो भगवतो हरेः १४०।
पुष्पदो मनुजो विप्र गन्धदश्च सुरालयम् ।
तिष्ठेद्युगसहस्राणि पुष्पगन्धविभूषितः १४१।
शय्यादानं द्विजश्रेष्ठ यः करोति द्विजोत्तम ।
स ब्रह्मलोकमागत्य पर्यंकशयनश्चिरम् १४२।
दीपदः पीठदश्चैव सर्वपापविवर्जितः ।
दिव्यसिंहासनस्थश्च जलदीपावलीवृतः १४३।
तांबूलदो नरो राजन्भुवि भुंक्तेऽखिलं शुभम् ।
दिवि देवाङ्गनाक्रोडे सुप्तस्तांबूलमत्ति वै १४४।
विद्यादानं द्विजश्रेष्ठ यः करोति नरोत्तम ।
संप्राप्य संनिधिं विष्णोस्तिष्ठेद्युगशतद्वयम् १४५।
ततो ज्ञानं समासाद्य तत्रैव द्विजसत्तम ।
प्राप्नोति दुर्ल्लभं मोक्षं प्रसादात्कमलापतेः १४६।
अनाथं ब्राह्मणं यस्तु पाठयत्यतिदुःखितम् ।
स याति विष्णुभवनं पुनरावृत्तिदुर्ल्लभम् १४७।
कुलीनोऽपि द्विजश्रेष्ठो न भाति विद्यया विना ।
तस्माद्दिवजं पाठयंतः प्रयांति परमं पदम् १४८।
भुवि प्रत्यक्षदेवोऽपि ब्राह्मणो देवताश्रयः ।
सर्ववर्णगुरुर्नैव विद्याहीनो विराजते १४९।
संसारे यानि दानानि संति हेमादिकानि च ।
तानि तेन प्रदत्तानि ब्राह्मणो येन पाठितः १५० 7.20.150।
कुर्यात्पुस्तकदानं यो नरो भक्तिसमन्वितः ।
तस्य पुण्यं द्विजश्रेष्ठ संक्षेपात्ते वदाम्यहम् १५१।
तत्राक्षराणि यावंति पत्रे पत्रे च पुस्तके ।
प्रत्यक्षरे लभेत्पुण्यं कपिलाकोटिदानजम् १५२।
यावद्दिनं पुस्तकं तत्प्रपठंति द्विजातयः ।
तावन्मन्वंतरं तिष्ठेद्वैकुंठे पुस्तकप्रदः १५३।
एवमादीन्यनेकानि संति दानानि भूसुर ।
सम्यग्वक्तुं जगत्यस्मिन्कः शक्तो द्विशतैरपि १५४।
ब्रह्महत्यादि पापानि क्रियंते यानि मानवैः ।
हन्यंते तानि पापानि तस्माद्दानं समाचरेत् १५५।
आत्मपुण्येन यद्दानं दीयते च त्रिभिर्जनैः ।
यावद्द्रव्यं फलं तस्मात्तस्य दानस्य लभ्यते १५६।
प्रीतये कमलाभर्तुर्यद्दानं दीयते जनैः ।
तस्यकोटिगुणं पुण्यं लभते नात्र संशयः १५७।
तस्मान्नारायणप्रीतिहेतवे मतिमान्नरः ।
दानं समाचरेद्विप्र भक्तिकर्मसमन्वितः १५८।
तपसोऽपि परं दानं निरुक्तं तत्वदर्शिभिः ।
अतो यत्नादपि प्राज्ञो दानकर्मसमाचरेत् १५९।
दानं तपो द्वे अपि यः प्रकरोति नरोत्तमः ।
तस्य तुल्यो जगत्यस्मिन्विद्यते न हि भूसुर १६०।
इति श्रीपद्मपुराणे क्रियायोगसारे सर्वदानमाहात्म्यंनाम विंशोऽध्यायः २० ।