पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/विषयानुक्रमणिका

अथ पाद्मपुराणस्थक्रियायोगसारखण्डस्थविषयानुक्रमणिका ।

१ - सूतशौनकसंवादे कलिकालीनलोकोद्दिधीर्षया प्रश्ने जैमिनिव्याससंवादवर्णनम्, व्यासेन जैमिनये क्रियायोगसारवर्णनोपक्रमवर्णनम। श्लो० ३८ ।।

२-- भगवद्रक्तिवर्णने सृष्ट्यादिवर्णनम् ब्रह्मकृतविष्णुस्तुतिः, भगवता ब्रह्मणे वैष्णवलक्षणकथनम्। श्लो० १११ ।।

३-- गंगाद्वारमाहात्म्यवर्णने मनोभद्रराजपुत्रयोर्वृत्तांतवर्णनम्, तत्र गृध्रेणागत्य तयोः पूर्वजन्मवृत्तांतवर्णनम्। श्लो० ९८ ।।

४- प्रयागमाहात्म्यं प्रणिधिवैश्यवृत्तांतवर्णनम्, तत्र धनप्रशंसा, प्रणिधिवैश्यभार्या प्राप्तिकामस्य कस्यचिच्छ्वपचस्य प्रयागे स्नानात्प्रणिधिवैश्यरूपावाप्तिः, विष्णो राज्ञया पद्मावत्या एकाकारपतिद्वयेन सह षैकुंठगमनम्, तत्र पद्मावतीविष्णुदूत संवादे बृहद्ध्वजराशसभीमकेशराजपत्न्योर्वृत्तांतः। श्लो० ११४।। ।

५-- विक्रमराजपुत्रमाधववृत्तांतवर्णनम्, माधवस्य मृगयार्थं वने गतस्य चंद्रकलादर्शनम्, चंद्रकलया प्लक्षद्वीपस्य गुणाकरराजपुत्री सुलोचनावृत्तांतवर्णनम्, चंद्रकलावचनान्माधवस्य श्रेष्ठहयमारुह्य जलधिमुल्लंघ्य प्लक्षद्वीपं गत्वा तत्र गंधिनीगृहेऽवस्थितिकरणम्, मालापुष्पेषु निजकार्यं विलिख्य गंधिनीद्वारा सुलोचनायै सांगुलीयमालाप्रेषणम्, सुलोचनयाराजपुत्रवृत्तांतं पठित्वा स्वप्राप्तिसंकेतं विलिख्य प्रेषणम्, स्नानव्याजेन गंधिनीगृहमागत्य तत्र माधवदर्शनम्, सुलोचनाया यक्षप्रद क्षिणासंकेतकाले माधवस्य निद्राप्राप्तिः, प्रचेष्टेन तयोः संकेतं विज्ञाय तस्मिन्काले तस्याः सुलोचनाया हरणम् सुलोचनया प्रचेष्टं प्रति वचनेन वंचनम्, प्रचेष्टस्य तत्करकंकणं गृहीत्या स्वगृहं प्रति गमनम्, सुलोचनाया गंगासागरसंगमे गमनम्, तत्र सुषेणराजसभायां पुरुषवेषं विधाय सुलोचनाया गमनम्, तत्र वीरवरनाम्ना प्रसिद्धिकरणपूर्वकं तस्य सेवाकरणवर्णनम् श्लो० २०४ ।। ।

६- तत्र वीरवरेण भीमनादनामकगंडकनाशनम्, गंडकस्य गंगासागरतीर्थे देहापाताद्दिव्यरूपावाप्तिः, वीरवरपृष्टेन गंडकेन स्वकीयपूर्वजन्मवृत्तांतं वर्णयित्वा स्वर्गमनम्, राज्ञा सुषेणेन वीरवरेण गंडको हत इति श्रुत्वा तस्मै ज-यन्तीनाम स्वकन्यादानम्, जयंत्या सह वीरवरवेषधारिण्याः सुलोचनायास्तपःकरणम्, गंगायां तनुत्यागोद्यतस्य प्रचेष्टस्य वीरवराज्ञया कारायां स्थापनम्, गुणाकरेण राज्ञाकन्याहरणं दृष्ट्वा तत्कृते शोककरणम, विद्याधरस्य सुलोचनाप्राप्तये गंगाब्धिसंगमे तनुत्यागोद्यतस्य वीरवरेण निवारणम, तस्य तत्रैव स्थितिः, माधवस्य निद्रोत्थितस्य शोकपूर्वकं तदर्थं गंगासागरसंगमे तनुत्यागोद्यतस्य-वीरवरेण सह संभाषणम, पश्चात्तं प्रति तनुत्यागान्निवर्त्यांतःपुरं गत्वा स्त्रीवेषं विधा-यात्मनो दर्शनम्, माधवेन तया सह गांधर्वविवाहकरणम्, तेन सह सुलोचनायाः सुषेणसभां प्रति गमनम्, सुषेणेन माधवाय विवाहविधिना जयंतीकन्यादानम्, तत्र माधवस्य किंचित्कालं स्थितिः, प्रचेष्टस्य दोषं विचार्य निरसनम्, माधवस्य सांसारिकभोगानुपभुज्य विरागोत्पत्तौ विश्वकर्मतः शिलामयीं वि-प्णुमूर्तिं निर्माय तद्भक्तिकरणम्, माधवकृतविष्णुस्तुतिवर्णनम, माधवस्य मोक्ष-प्राप्तिवर्णनम्। श्लो० २०४ ।।

७-- गंगामाहात्म्यवर्णने धर्मस्वब्राह्मणवृत्तातवर्णनम्, तत्र धर्मस्वेन गंगाजलं गृहीत्वा पथि गच्छता बलीवर्दविषाणविदारितस्य कालकल्पस्य मरणं दृष्ट्वा तस्योपरि गंगाजलसेचनम्, अग्रे गत्वा यमदूतनिरीक्षणम्, तैः सह धर्मस्वस्य संवादः, यमदूतैर्निजवृत्तांतनिवेदनम्, विष्णुदूतसंवादवर्णनपूर्वकगंगामाहात्म्यवर्णनम्, धर्मस्वेन गंगास्तोत्रकरणम्, गंगयाविर्भूय धर्मस्वाय वरप्रदानम्, धर्मस्वस्य मोक्षप्राप्तिः। श्लो० १२८ ।।

८- गंगामाहात्म्यवर्णने शक्रप्रियाया पद्मगंधाया वृत्तांतवर्णनम्, गंगायामस्थिपतनात्तस्याः शक्रप्रियत्वकथनम्। श्लो० ११० ।।

९-- गंगामाहात्म्यवर्णने यात्राविधिवर्णनम्, तत्र सत्यधर्मराजविजयाराज्ञ्योर्वृत्तांतवर्णनम्, तयोर्भेकत्वप्राप्तौ सर्पेण भक्षणेपि गंगानामग्रहणमात्रेण मुक्तिवर्णनम्। श्लो० १६१ ।।

१०-- विष्णुपूजामाहात्म्यवर्णनम्, तत्र पूजाविधानवर्णनम्, तत्रार्यावर्तस्थसुवर्णभूपचरित्रवर्णनम्, वेश्यादत्तंभूपतच्चंपकपुष्पं निरीक्ष्येश्वरार्पणबुद्ध्या विमुंचतः मरणसमये विष्णुदूतैः सुवर्णस्य वैकुंठं प्रतिनयनम्। श्लो० ७८ ।।

११-- विप्णुपूजाविधिवर्णनम्। श्लो० १७० ।।

१२-- फाल्गुनादिवैशाखांतमासेषु श्रीकृष्णपूजाविधिमाहात्म्यवर्णनम्, अश्वत्थमाहात्म्यवर्णने धनंजयनामब्राह्मणवृत्तांतवर्णनम्। श्लो० १२० ।।

१३- ज्येष्ठादिकार्तिकांतमासेषु भगवत्पूजाविधिमाहात्म्यवर्णनम्, कार्तिके पद्मपुष्पमाहात्म्यवर्णने प्रजानामकब्राह्मणवृत्तांतवर्णनम्। श्लो० १६९ ।।

१४-- मार्गशीर्षादिमाघांतमासेषु भगवत्पूजाविधिमाहात्म्यवर्णनम्। श्लो० ४३ ।।

१५-- भगवन्नाममाहात्म्यवर्णने परशुवैश्यपत्न्या जीवंत्याख्यायाश्चरित्रवर्णनम्, शुकपाठितरामनामप्रभावात्तस्या मुक्तिः,सर्वनामापेक्षया रामनाम्नो महत्त्ववर्ण-नम्। श्लो० १०७ ।।

१६-- हरिभक्तिमाहात्म्यवर्णने चक्रिकनामकशबरवृत्तांतवर्णनम्, तस्य हरये मुखस्थफलसमर्पणतीव्रभक्त्या हरिप्रसादान्मुक्तिप्राप्तिवर्णनम्। श्लो. ५८ ।।

१७-- भगवद्रक्तिमाहात्म्यवर्णने भद्रतनुब्राह्मणवृत्तांतवर्णनम्, तत्र तस्य वेश्या-रक्तत्वम, वेश्योपदेशेन वैराग्योत्पत्तौ मार्कण्डेयं प्रति शरणगमनम्, मार्कण्डेयेन दांतसमीपे तस्य प्रेषणम्, दांतेन भद्रतनोर्मोहादिलक्षणवर्णनम्, विष्णोरष्टोत्तरशतनामकथनं च, दांतानुज्ञया भद्रतनुना हरिभक्तिकरणाद्धरेः प्रादु-र्भावः, भद्रतनुना भगवत्स्तुतिकरणम्, भगवता भद्रतनोः सख्यकरणम्, दांतेन गुरुणा भद्रतनोर्भर्त्सनायां कृतायां भद्रतनुना दांताय गुरवे भगवतो दर्शन-करणम्, भक्तिफलार्थं देवकृतभारतवर्षप्रशंसा। श्लो० २६५ ।।

१८- पुरुषोत्तमजगन्नाथक्षेत्रमाहात्म्यवर्णनम्, कृष्णबलरामसुभद्रादर्शनमहिमा। श्लो० ५५।।

१९-- भगवदर्थे वस्तुसमर्पणमाहात्म्यवर्णने दस्युवृत्तेरुर्वीशुब्राह्मणस्य वृत्तांतवर्णनम्, विष्णुनैवेद्यमाहात्म्यवर्णने सर्वजनिनामकब्राह्मणवृत्तांतवर्णनम्, सर्व-जनिना स्वप्ने विष्णुं दृष्ट्वा स्तोत्रकरणम्, भगवता सर्वजनेः पूर्वजन्मवृत्तान्तवर्णनम्, भगवता सर्वजनये स्वस्य रोषकराणां तोषकराणां च वर्णनम्, हरिपूजाकर्तृ-माहात्म्यवर्णनम्। श्लो० ११७ ।।

२०-- दानमाहात्म्यवर्णने हास्तिनपुरस्थ रतिविदग्धावेश्या क्षेमंकरीब्राह्मणी हरिशर्मब्राह्मणानां वृत्तांतवर्णनम्, दानप्रभावात्तेषामुत्तमलोकावाप्तिः, हरिशर्मणोन्नदानाभावात्क्षुत्प्राप्तौ विष्णुना तस्य ब्रह्मसमीपे प्रेषणम्, ब्रह्मणा तस्मै विविधदानमाहात्म्यवर्णनम्। श्लो० १६० ।।

२१-- ब्रह्मणा हरिशर्मणे विविधदानपात्रवर्णनम्, ब्राह्मणपादोदकमाहात्म्यवर्णने भद्रक्रियब्राह्मणचरणोदकस्पर्शात्कस्यचिच्छुनो मुक्तिवर्णनम, तैन शुना भद्रक्रि-यायाऽऽत्मनः पूर्वजन्मवृत्तान्तवर्णनम्. तत्र राजनीतिवर्णनम्, ब्रह्माज्ञया भद्रक्रियस्य दीक्षितं पुत्रं प्रति स्वप्न आविर्भूय दानानुज्ञाकरणम्, दीक्षितेन पुत्रेणान्नजलदानाद्भद्रक्रियस्य मुक्तिः, अन्नजलदानमाहात्म्यवर्णनम्। श्लो० १३४ ।।

२२-- एकादशीमाहात्म्यवर्णनम्. तत्र पापपुरुषांगविभागवर्णनम्, विष्णुनैकादशी निर्माय यमलोकस्थपापिजनोद्धरणम्, पापपुरुषायैकादशीदिने निवासायान्नरूपस्थलदानम्, एकादशीव्रतस्य सर्वव्रतापेक्षया श्रेष्ठत्ववर्णनम्, संक्षेपेणैकादशीव्रतविधिवर्णनम्। श्लो० १४८ ।।

२३-- एकादशीव्रतमाहात्म्यवर्णने कोचरशनामकभूपतिसुप्राज्ञानामक तत्पत्न्योर्वृत्तान्तवर्णनम्, तत्र शौरिब्राह्मणपृष्टया सुप्राज्ञा राज्ञ्या तस्मै स्वस्या राज्ञश्च पूर्वजन्मवृत्तांतवर्णनम्, पूर्वजन्मनि वेश्यायाः सुप्राज्ञाया जारस्य च कोचरशस्यैकादशीप्रभावाद्यमलोकं गत्वा यमेन सत्कारकरणम्, यमलोकस्थसुकृतिदु-ष्कृतिजनानुभूतसुखदुःखावस्थावर्णनम्, कोचरशसुप्राज्ञयोरेकादशीव्रतप्रभावाद् वैकुंठावाप्तिवर्णनम्। श्लो० १७८ ।।

२४- तुलसीवृक्षधात्रीवृक्षमाहात्म्यवर्णनम् ६७ ।।

२५- तुलसीमाहात्म्यवर्णने पवित्रब्राह्मणानपत्यब्राह्मणयोश्चरित्रवर्णनम्, तयोर्गृहे लोमशमुनेरागमनम्, ताभ्यां तस्यातिथ्यसत्कारकरणम्, लोमशेनातिथिसपर्या-गाहात्म्यकथनं, तत्र ज्ञानभद्रयोगिवृत्तांतवर्णनम्, लोमशस्य पुरो बिलान्निर्ग-त्यागच्छतः कस्यचिन्मूषिकस्य पवित्रेण घातनम्, तदा लोमशेन तस्य मुखे कर्णयोः शीर्षे च तुलसीस्पर्शनम्, तेन तस्य मूषिकस्य मोक्षप्राप्तिः। श्लो० ८७ ।।

२६-- कलियुगे वर्तमानानां जनानामवस्थावर्णनम्, कलौ मनःशुद्ध्या भगवते सर्वकर्मसमर्पणवर्णनम्, पद्मपुराणमाहात्म्यवर्णनम् ५५ ।।

इति क्रियाखंडस्थ विषयानुक्रमणिका संपूर्णा ।। ७ ।।