॥ अथ तृतीयोऽङ्कः ॥

(ततः प्रविशतश्चेट्यौ)

प्रथमा-सहि कहिं तुमम् ? (सखि क्व त्वम् ?)

द्वितीया-उज्जाणमझ्झघरवासिणो कस्स वि राअकुमारस्स परिअरणकिदे णिउत्ताए भट्टदारिआसहीए भमरिआए पिअसही महुव्वदा णिउत्ता णिरन्तरं अरुणस्स णिदेशआरिणी होहिति । अहं ताए पस्सवट्टिणी होम्मि । दाणिं ताए णिदेस्सादो घणसारमि अमदमिस्सचन्दणं गण्हिअ तत्थ गच्छेमि । तुमं उण कहिम् ? ।

 (उद्यानमध्यगृहवासिनः कस्यापि राजकुमारस्य परिचरणकृते नियुक्तया भर्तृदारिकासख्या भ्रमरिकया प्रियसखी मधुव्रता नियुक्ता 'निरन्तरमरुणस्य निदेशकारिणी भ'वेति । अहं तस्याः पार्श्ववर्तिनी भवामि । इदानीं तस्या निदेशात् घनसारमृगमदमिश्रं चन्दनं गृहीत्वा तत्र गच्छामि । त्वं पुनः क ? )

प्रथमा-अहं उज्जाणवसन्तमण्डपगताए भमरिआए अन्तेउरठ्ठिदं चित्तपडं आणेहिति पेसिदा तं गण्हिअ तत्थ गच्छेमि ।

 (अहं उद्यानवसन्तमण्डपगतया भ्रमरिकया ‘अन्तःपुरस्थितं चित्रपटमान'येति प्रेषिता तं गृहीत्वा तत्र गच्छामि ) ।

द्वितीया-कस्स किदे? (कस्य कृते ?)

प्रथमा-भट्टदारिआ कस्सिं वि तरुणम्मि अणुरता जीमूआदो विरदा अ अहिअं चिन्ताउलत्ति मण्णे । ताए आसासणकिदे सही एदं आणेदिति तक्केमि ।

 (कस्मिन्नपि भर्तृदारिका तरुणेऽनुरक्ता जीमूताद्विरता चाधिकं चिन्ताकुला इति मन्ये । तस्या आश्वासनकृते सखी एतमानयतीति तर्कयामि ) ।

द्वितीया-सो राअकुमारो हि सरिसो भट्टदारिआए । (स राजकुमरो हि सदृशो भर्तृदारिकायाः)

प्रथमा-इमस्सिं लिहिदो किं सो भवे ? (अस्मिन्लिखितः किं स भवेत्) । (इति चित्रपटं दर्शयति) ।

द्वितीया-(वीक्ष्य) एत्थ सो एव्व । (अत्र स एव)
प्रथ-मम्महो खु एत्थ लिहिदो । (मन्मथः खल्वत्र लिखितः)

द्विती-णो वट्टइ इमस्स करे इच्छुचाओ (नो वर्ततेऽस्य करे इक्षुचापः)

प्रथ-किं केसवो ?(किं केशवः ?) ।

द्विती-णो दीसइ हत्थे चक्कम् (नो दृश्यते हस्ते चक्रम्)

प्रथ-अत्थि खु हत्थे चक्कम् (अस्ति खलु ह्स्ते चक्रम्)

द्विती-सा चक्करेहा खु । (सा चक्ररेखा खलु)

प्रथ-अच्चरिअं फुष्फबाणमेतहीणो एसो मअणो । चक्काउहमेत्तहीणो माहवो ।

(आश्चर्यं पुष्पबाणमात्रहीन एष मदनः । चकायुधमात्रहीनो माधवः ।)

द्विती-अह्माणं भाअहेअं एव्व इमिणा रूपेण उवट्टिदम् ।

(अस्माकं भागधेयमेवानेन रूपेणोपस्थितम्) ।

प्रथ-तुमं केण वि उवाएण तं महाभाअं एदाए पुरो करेहि ।

(त्वं केनाप्युपायेन तं महाभागं एतस्याः पुरः कुरु) ।

द्विती-अत्थु, गच्छेम (अस्तु गच्छावः) ।

॥ प्रवेशकः ॥

 (ततः प्रविशति वयस्यानुगतो भास्करः)

भास्क- जीमूते विमुखोऽपि भूपतिरसौ दाक्षिण्यमालम्बते

कासारो यदनर्पणे हृदय किं तां द्रष्टुमुत्कण्ठसे ?।
उत्कण्ठामथवा भजस्व तरुणीचेतोऽवगन्तुं यतः
पुंसो यस्य वपुस्तदीयहृदयं प्रीणाति धन्योऽत्र सः ॥

अरुणः--(स्वगतम्) अभ्यधायि खलु मधुव्रतया साम्प्रतनुद्यानमण्डपमधिवसति पद्मिनीति । ततस्तां करोमि वयस्यनेत्रयोरतिथिम् । (प्रकाशं) सखे समन्तात्पश्यावः प्रमदावनश्रियम् । (परिक्रामतः) |

भास्क-सखे !

जग्ध्वा तृणाङ्कुरचयं हरिणाः प्रियाभिः
पीत्वा पयोऽतिविमलं विचरन्ति हृष्टाः ।
छायासु चम्पकपटीरमुखद्रुमाणां ।
जानन्ति जातु नहि कञ्चन तापमेते ॥

(प्रविश्य) चेटी-अज्ज इदो अदूरे वट्टइ कवि पदुमिणि सा दस्सणिज्जा ।  (आर्य ! इतः अदूरे वर्तते कापि पद्मिनी । सा दर्शनीया) ।

अरु-हञ्जे, सा केन पथा अधिगन्तव्या ?

चेटी-इदो उभअपस्सविलसंतपूअतरुवेल्लिअनंबूललदामणोहराए पदवीए गन्तव्वम् ।

 (इतः उभयपार्श्वविलसत्पूगतरुवेल्लितताम्बूललतामनोहरया पदव्या गतव्यम्) (इति निर्दिश्य निष्क्रान्ता)

भास्क--सखे ! चञ्चद्भालसुधांशुसन्निभदलश्रेणीनिकामस्फुरत्-

ताम्बूलीपरिरब्धपूगविटपिप्रद्योतिपार्श्वद्वया
चेतो मे हरतीयमत्र पदवी क्रीडावनान्तस्थली-
सीमन्ताकृतिरुज्ज्वला रतिपतेर्लीलाविहारक्षमा
गभीरतरतो हृदात्प्रसृतमत्र कुल्यान्तरे
निरन्तरमिदं विशत्तरुतलालवालं जलम्
विभाति परितो वनान्तरतले स्वतश्श्यामले
रजोभिरमलैस्मितै: रचितरङ्गवल्ली यथा

अरु-

दूरतो लसति शाद्वलो दृशोः कोमलोऽत्र पशुवर्गरक्षितः
पञ्चबाणविहृतिक्षमा कुथा श्यामलेव परितस्समास्तृता

भास्क--पश्य पश्य !

पचेलिमफलैर्हृद्यैर्भासते लिकुचावलिः
कुचैरभिनवोत्पन्नैः कुमारीणामिवावलिः

अरु-

फलेन लिकुचावलेः स्मृतिपथं नवोढाकुचौ
प्रवेश्य शुभदाडिमीफलभरेण मध्यास्तनौ
वनी विरहिणां मनो व्यथयति प्रगल्भाङ्गना-
पयोधरघटौ फलैरहह नालिकेरोद्भवैः

भास्क-(निरूप्य)

कुसुमनिकरदीव्यद्वीरुदाच्छाद्यमाना
विटपितटविचञ्चत्पञ्जरान्तस्थितानाम्
शुकपिकमुखनानापत्रिणां हृद्यवाचां
ततिभिरुपवनान्तर्भासते भद्रशाला

अरु-तत्र दृश्यते कापि युवतिः सह सहचर्या ।

भास्क-सखे मार्गान्तरेण गत्वा वृक्षान्तरितौ जानीवः क्रमादेते । (उभौ परिक्रम्य तथा स्थितौ)

( प्रविशति मकरिकया सह पद्मिनी)

पद्मि-हला, कहं विणोदो मए मअणसरतावनप्ताए? (कथं विनोदो मम मदनशरतापतत्प्तायाः)

भास्क

शरीरविसरद्रुचा विजितचारुचामीकरा
सुरालयकचाकचिक्षमकुचा पयोभृत्कचा ।
सुशारदनिशाधिपक्षतिविशारदस्वानना
दृशा कृतकुशेशयावमतिरेति शातोदरी
हृदि न वहतु सत्यामुर्वशीगर्वलेशं
त्यजतु झटेिति रम्भा विभ्रामारम्भमस्याम् |
व्रजतु विरतिमेव स्वावलेपाद्रतिस्सा
युवतिषु गणनीया मेनका मे न कापि ॥

अरु-सखे ! कासारसंभवां पद्मिनीमेनां मन्ये ।

भास्क-कः संशयः ।

अम्भोनीलीचिकुरनिकरा मीननेत्रा मृणाली-
बाहुद्वन्द्वा सरसिजकरा चक्रवाकस्तनीयम् ।
कम्बुग्रीवा द्युतिभरजलस्रोतसा पूर्यमाणा
मन्ये धात्रा मदनसरसी केलये निर्मितेति ॥

भ्रम-स हि! उपविसामो । (सखि ! उपविशावः) । (उभे उपविशतः) ।

भ्रम-स हि ! एदं चित्तपडं पेख्खंती विणोदेहि अत्ताणअम् ।

 ( सखि एतं चित्रपटं प्रेक्षमाणा विनोदयात्मानम्) । (इत्यर्पयति पटम्)
भास्क-सखे ! को वा लिखितश्चित्रपटे ।

अरु-अस्या हृदयदयित एव स्यात् ।

भास्क--को वा महाभागो हृदयदयितोऽभूदस्याः ?

पद्मि -(चित्रं प्रति) तुमं एव्व महाभाओ तिहुवणे । (त्वमेव महाभागस्त्रिभुवने) ।

अरु-ददात्युत्तरं पद्मिनी ते ।

भास्क-वयस्य ! जीमूताय दास्यति कासारस्सारसाक्षीमेनामिति श्रूयते ।

पद्मि-महाभाअ जणओ मं जदि जीमूदस्स वितरस्सइ सञ्जो ण जीविदं धारइस्सम् ।

 (महाभाग जनको मां यदि जीमूताय वितरिष्यति सद्यो न जीवितं धारयिष्यामि) ।

अरु-वयस्य ! किं सुधाकरं विना विभावरी कामयते धूमकेतुम् ?

भ्रम-मा चिन्तेहि, जीमूअवसं ण गमिस्ससि, जदो सो राअकुमारो एत्त समाअदो सुणीअदी । (मा चिन्तय, जीमूतवशं न गमिष्यसि, यत: स राजकुमारः अत्र समागतः श्रूयते ।)

भास्क–स को नाम राजकुमारः ? ।

पद्मि-(चित्रं प्रति) तुमं एव्व लोअपदीवो (त्वमेव लोकप्रदीपः) ।

अरु-सखे ! भवानयिञ्च किं परोक्षमुचितमालपाव इति प्रतिजानाथे स्म ।

पद्मि-तुह हि !--(तव खलु !) ।

मुहं राआचन्दं परिहसइ णेत्तं जलरुहं
भुओ सुण्डादण्डं दसणवसणं विद्दुमफलम् ।
गलो सङ्घाआरं करअलजुअं पल्लवदलं
णहो जोण्हं जाणू मुउरअलसोहं पिअतम ॥
[मुखं राकाचन्द्रं परिहसति नेत्रं जलरुहं
भुजश्शुण्डादण्डं दशनवसनं विद्रुमफलम् ।
गलश्शङ्खाकारं करतलयुगं पल्लवदलं
नखो ज्योत्स्नां जानू मुकुरतलशोभां प्रियतम ॥ ]

भास्क-सखे ! को नाम तादृशः ।

भ्रम-(चित्रं प्रति) तुमं एव्व सरिसो सहीए । (त्वमेव सदृशस्सख्याः) ।

अरु-मया भणितव्यं भ्रमरिकेयमभाणीत् ।

भास्क-सखे ! मामेव किं मन्यसे चित्रविन्यस्तम्?

अरु-न शङ्का मम ।

भास्क-(स्वगतम्) यदीयमाकृतिः पद्मिनीमनोहरा, ततः को नाम युवा भास्करादन्यः ।

(प्रकाशम्) अम्भोरुहेण वदन विततान वेधा

नीलोत्पलेन नयनं स्तबकेन कौचित् ।
दन्तांश्च कुन्दमुकुलैरधरं जपाभि-
र्नोचेत्कथं मम लगेदिह चित्तभृङ्गः ॥

पद्मि-हला, चित्तपडदस्सणप्पहुदि (चित्रपटदर्शनप्रभृति)

परुसो परद्दुदणादो पवणो मन्दो पवाइ अच्चुण्णो ।
जोह्वा आदवसरिसी किं कादव्वं सहेमि णो दावम् ॥
(परुषः पत्मृतनादः पवनो मन्दः प्रवाति अत्युष्णः ।
ज्योत्स्ना आतपसदृशी किं कर्तव्यं सहे न तापम् ॥)

भास्क- यस्मिन्नियं वहति मानसमीदृशेन

प्रेम्णा भृतं हरिणलक्ष्मणि रोहिणीव ।
दामोदरेऽर्णवसुतेव शशाङ्कचूडे
दाक्षायणीव स हि पुण्यवदग्रगण्यः ॥

भ्रम-(चित्रं प्रति) तुमं एव्व पुण्णलोअग्गगणणिज्जो । तहा णो जदि कहं एव्वं तुमस्सिं एदाए हिअअं पच्चुत्तं भवे ।

 (त्वमेव पुण्यलोकाग्रगणनीयः । तथा नो यदि कथमेवं त्वय्येतस्या हृदयं प्रत्युप्तं भवेत् ) ।

पद्मि-भो मअण ! दुल्लअजणणिमित्तं मं किं पीडेसि,? अहवा जेण सरेण णिहओ विरहिजणो सज्जो लोअन्तरं गच्छेत् तं ममस्सिं मुंचेहि ।

 (भो मदन ! दुर्लभजननिमित्तं मां किं पीडयसि ? । अथवा येन शरेण निहतो विरहिजनो सद्यः लोकान्तरं गच्छेत् , तं मयि मुञ्च) ।

भ्रम-भअवंतसारदाणंदसंदिट्टमग्गेण देविं लच्छिं जदि आरहेसि किं दुल्लहो सो दयिदो ।

 (भगवच्छारदानन्दसन्दिष्टमार्गेण देवीं लक्ष्मीं यद्याराधयसि किं दुर्लभस्स दयितः) ।

भास्क-सखे ! मनोरथो मे पल्लवित इव । यतोऽस्मद्गुरोशारदानन्दस्य प्रसादपात्रमेषापि । किञ्च दर्शनप्रभृति सुदत्याः स्फुरति मे वामेतरलोचनम् । अपि च ।

साधारणीह गमने चरतां विमार्गे
सद्योङ्गना शशिमुखी सुपयोधराभा ।
ताराबलाविलसिता पुरतो ममासी-
त्स्वीयात्पदान्मयि विनिस्सरति प्रयातुम्[१]

पद्मि-हला ! पाओ जीमूदो मं (हला ! पापो जीमूतो माम्-) (इत्यर्धोक्ते मूर्च्छति) ।

भ्रम-हला ! समस्ससिहि । (समाश्वसिहि) ।

भास्क- मूर्च्छानिमीलिताक्षी स्तब्धाङ्गी वाचि मुद्रिता सुदती ।

मुकुलितपद्मा भ्रमरारवरहितेवाब्जिनी निबातस्था ॥

(पद्मिनीं निषिञ्चति हिमवारिणा भ्रमरिकरः)

पद्मि-(आश्वस्य) हला ! किं जीवेसि मं मन्दभाइणिं जीविदणिरासं ? ।

(किं जीवयसि मां मन्दभागिनीं जीवितनिराशाम् ?) ।

भ्रम-सहि ! तुमं विणा कहं मह जीवणम् ? (सखि ! त्वां विना कथं मम जीवनम् ?) ।

पद्मि-केवलं अत्तणो सुहं अहिलसन्तो मं पीडेसि ! । (केवलमात्मनस्सुखमभिलषन्ती मां पीडयसि !)

भास्क-सखे ! अतिक्रामति सुभ्रुवो विरहसन्तापः । तथाहि,

सख्या तापनिवारणाय करयोरग्रे मृणालीलता
विन्यस्ता वलयीकृता हरिमणीक्लृप्तेव संदृश्यते ।
शय्याऽम्भोजदलैः कृताऽऽतपभरम्लानेव सञ्जायते
धूमो देहनिषेचनप्रसृमरप्रालेयतोयादपि ॥ पद्मि-हला ! एत्थ विणोदकिदे आअदं मं अहिअं पीडेइ उज्जाणं कण्णकठिणेहिं कोइलणादेहिं ण अणदुद्दस्सेहिं पुप्फणि अरेहिं, देहताक्करेहिं सुरहिवादेहिं वि ।

 (अत्र विनोदकृते आगतां मां अधिकं पीडयति उद्यानं कर्णकठिनैः कोकिलनादैर्नयनदुर्दर्शैः पुष्पनिकरैः देहतापकरैः सुरभिवातैरपि) ।

भास्क-सत्यमेतत् !

पुष्पेपोस्तरवारिसञ्चयरुचिं चूतद्रुमे पल्लवो
धत्तेऽयं स्तबको नवोऽत्र नलकाभां नालिकेरद्रुषु ।
तत्रैवाकलनीयवृत्तगुलिकाशोभाञ्च धात्रीफलं
सज्जेष्वासधुरामगस्त्यमुकुलं भल्लश्रियं कैतकम् ॥

अरु-(ऊर्ध्वमवलोक्य) सखे ! किमिदं धूमधूसरितं गगनं लक्ष्यते ।

भास्क-(विलोक्य) पश्य ! मायाकल्पितं व्योमयानं आपतति ।

अरु-सखे ! पद्मिनीविप्रलम्भाय समुत्पतितमेतदिति मन्ये ।

भास्क-तत् त्वरितं निवेशनाच्छरासनमानय ।

अरु-तथा । (इति निष्क्रान्तः) ।

(आकाशे यन्त्रयानारुढो हिमान्या सह तुहिनमण्डलः) ।

तुहि-प्रिये ! दृश्यते पद्मिनीयमुद्याने । भवती भवतु अवहितचित्ता, यावदेतामपहरामि । (धरण्यमवरुह्य)

हिमानी- होदु (भवतु) ।

पद्मि- हला ! कोवि पुरिसो अत्थिमालाभूसणभीसणो तुवरिअं गअणादो अहिधावइ ।

 (कोऽपि पुरुषोऽस्थिमालाभूषणभीषणस्त्वरितं गगनादभिधावति) ।

भ्रम-हद्धि हद्धि । (हा धिक्, हा धिक्) ।

पद्मि-दाणिं में को णाहो रख्खिस्सदि ? । (इदानी मां को नाथो रक्षिष्यति ?)

(इति पलायिते)

भास्क- कः पद्मिनीं गुणवतीं परिभावयितुं भुवीह शक्नोति ।

तां भास्करे निकामं रक्षितुकामे विरोधिनां भीमे ? ॥

(इति निवारयति तुहिनमण्डलम्)

भ्रम-हला ! मा धावेहि । समाअदो सो महाणुहावो तुमं रख्खिदुम् ।
(मा धाव! समगतस्स महानुभावस्त्वां रक्षितुम्) ।

पद्मि-(परावृत्य पश्यति)

भास्क- वित्रस्तमुग्धहरिणीनयनां भयेन

तां कम्पमानकुचकुम्भयुगां प्रियां मे ।
सम्पश्यतो हृदयमप्यभियातिमेनं
श्रृङ्गारवीररसयोः समुपैति काष्ठाम् ।

तुहि-किं मां रुणत्सि ? पश्य मे प्रतापम् ।

भास्क-तुच्छ ! किं जल्पसि दीनजनमात्रदुस्सहप्रसर ?

पद्मि– हला ! इदो परं णत्थि भअम् । तदो रुक्खन्तरे लीणाओ पेक्खम्मो दइदविलसिदम् ।

(इहः परं नास्ति भयम् । ततो वृक्षान्तरे लीने प्रेक्षावहे दयितविलसितम्) ।

भ्रम-दिट्टिए दिट्टो महाप्पहाओ! । (दिष्टा दृष्ट्योमहाप्रभावः ?) (इति पादपान्तर्हिते स्थिते)

हिमा-हद्धि ! हे । को वि बालो मह दइदं अहिंक्खिवइ । (हा धिक् ! कोऽपि बालो मम दयितमधिक्षिपति) ।

तुहि-रे जाल्म, किं कथयसि ?

उद्वेजयामि जनतां यदि सम्प्रवृत्तो
भूमीभृतोऽत्र महतोऽपि तिरस्करोमि ।
पीडामतीव जनयामि च विप्रयोगि-
चित्तेषु कोऽस्ति सदृशी भुवनत्रये मे[२] ? ॥

हिमा-मन्द ! पिओ मे किं तुमं विमुञ्चे ? । (मन्द! प्रियो मे किं त्वां विमुञ्चेत् ?) ।

पद्मि-हला ! मम किदे पियस्स किं वि भवेत्ति वाउलंहि । (हत्य ! मम कृते प्रियस्य किमपि भवेदिति व्याकुलाऽस्मि) ।

भ्रम-न किं वि भवे । (न किमपि भवेत्)

भास्क - रे [३]कापालिकापशद ! लोकाधरमात्रव्रणकारिन् । नाथवियुक्ताबलाजनहिंसक ! हसन्तीवञ्चितप्रभाव ! तिष्ठ पुरतो मे ।

[४]करप्रतापः प्रकटीभवेच्चेत् कश्शक्नुयाद्धीरतरोऽपि सोढुम् ।
तमोमयोऽग्रे मम भास्करस्य स्थातुं भवादृक्कतमोऽतितुच्छः ? ॥

पद्मि-(सहर्षम्) हला ! आकिदिसरिसो से पहावो । (हला ! आकृतिसदृशोऽस्य प्रभावः) ।

हिमा-हा ! किं एदं अच्चाहिदं । (हा! किमेतदत्याहितम् ।

(प्रविश्य)

अरु--सखे ! गृह्यतां [५]स्वधर्मः (इति ददाति चापम्) ।

भास्क–(आदाय तमानमयन्) । हतक ! पश्य, लभस्व भास्कराभिगमनफलम् ।

हिमा-णाह ! मा साहसं करेहि (नाथ ! मा साहसं कुरु) ।

पद्मि-अच्चरिअम् । (आश्चर्यम्) ।

अरुयावच्छरासनमसौ विनमय्य वेगात्

तीक्ष्णस्वगोनिकरमत्र किरत्यमन्दम् ।

हिमा-हा ! पिअ, किं गदोऽसि विवख्खवसम् ? (हा ! प्रिय, किं गतोऽसि विपक्षवशम्)।

पद्मि-सहि ! दइदो दाणिं भीमो विअ । (सखि ! दयित इदानीं भीम इव) ।

अरु- तावत् पलायनपरो न्यपतद्विभिन्नः

पापस्स वज्रनिहतः शिखरीव भूमौ ॥

पद्मि-(सामोदम्) हला ! संवुतो दाणिं एसो मह जीविअदाई। (संवृत्त इदानीमेष मम जीवितदायी) ।

हिमा-हा ! णाह ! असरणं मं उज्झिअ किं गदोऽसि लोअन्तरम्  (हा नाथ ! अशरणां मां उज्झित्वा किं गतोऽसि लोकान्तरम् । (इति रोदिति ।)

पद्मि-हला ! संभावेम णाहम् । (हला संभावयाव नाथम्) । (इति भास्करमुपसरतः ।)

हिमा-(सकोपम्) मुद्धे, पदुमिणि ! तुह किदे म्ह णाहो जदो मिच्चुं गदो तदो जहाक्हं वि तुमं ओहरिअ संहरिस्सम् । (मुग्धे पद्मिनि ! तव कृते मम नाथो यतो मृत्युं गतः ततो यथाकथमपि त्वामपहृत्य संहरिष्यामि)।

भास्क–किम् प्रलपसि ?। (इति गृह्णाति बाणम्)।

पद्मि-अज्ज, इत्थिआ खु ! । (आर्य स्त्री खलु !) ।

हिमा–(यन्त्रयानेन पलायमाना निष्क्रान्ता) ।

भास्क-(चापमवरोपयन्) सखे ! सफलमासीदिहाभिगमनम् ।

अरु–लब्धं भक्ता रमणीजनरक्षणपुण्यम् ।

भास्क-सर्व शारदानन्दमहिम्ना ।

पद्मि-(अप) सहि ! कहिदव्वं कहेहि । (सखि! कथयितव्यं कथय) ।

भ्रम-अज्ज ! तुए जीविदं पाविदा मह पिअसही कं दे पच्चुपआरं करिस्सदि। (आर्य, त्वया जीवितं प्रापिता मम प्रियसखी कं ते प्रत्युपकारं करिष्यति) ।

अरुणः-यत्कन्यकाजनेन महोपकारिणो यूनः कुलीनस्य करणीयं तत्करोतु तव प्रियसखी ।

(इति भास्करहस्ताच्चापं आदाय मन्दमपसरति) ।

भ्रम-सहि ! संभमादो तत्त णिख्खित्तं चित्तपडं गहिस्सम् ।

(सखि संभ्रमात्तत्र निक्षिप्तं चित्रपटं ग्रहीष्यामि)। (इत्यपसरति) ।

पद्मि-(स्वयमपि गन्तुमिव प्रवर्तते) ।

भास्क-भद्रे ! मा भैषीः । (इत्युपसरति) ।

पद्मि-(सलज्जमपसरतीव) ।

भास्क-(अनुसृत्य गृह्णाति वसनाञ्चलम्) ।

(नेपथ्ये कलकलः)

पद्मि -अज्ज ! आअच्छदि विअ मं रविखदुं तुहिणमण्डलादो चउरङ्गसेना । तदो मं मुंचेहि ।

(आर्य ! आगच्छतीव मां रक्षितुं तुहिनमण्डलात् चतुरङ्गसेना । ततो मां मुञ्च) ।

(इति निष्क्रान्ता)

भास्क -(मदनबाधां निरूपयन्)

विसृज मयि यथेच्छं मन्मथ त्वं पृषत्कान्
त्वयि कथमपराधो दैवमेवाद्य वाच्यम् ।
त्वरितममृतवापीं द्राङ्मिमंक्षाऽवतीर्णे
मयि हेि तिरयति स्म त्यक्तकारुण्यमेनाम् ॥

(सानुस्मरणम्) प्रयान्त्या तया मयि समाविष्कृतोऽनुरागः ।

तथाहि--

गत्वा पदानि कतिचित्कमलायताक्षी
नेत्नातिवर्तिपदसन्निहितैकपादा ।
आसिञ्चति स्म वलिनं गलमारचय्य
तादृक्कटाक्षसुधया प्रणयादियं माम् ॥

भवतु भावज्ञं सखायमुपगम्य केनाप्युपायेन लब्धप्रियतमाभूयोदर्शनो भविष्यामि ।

(इति निष्क्रान्ताः सर्वे)
॥ इति पद्मिनीपरिणये पद्मिनीभास्करावलोकनं नाम तृतीयोऽङ्कः ॥

  1. विमार्गे चरतां विटानाम् । पक्षिपथचारिणाञ्च । साधारणी स्वर्गवंश्या नभोरूपयुवतिश्च । प्रयाणकाले वेश्याभिगमनं शुभनिमित्तमिति प्रसिद्धम् । ताराबली हारविशेषः नक्षत्रपंक्तिश्च ।
  2. भूमीमृतः गिरिन् राज्ञश्च । विप्राश्च योगिनश्च, तेषां चित्तेषु ।
  3. कापालिकत्वात्, ब्राह्मणयोगिपीडाकरत्वम् । विप्रयोगिनो विरहिणश्च । लोकेऽधराः, अपकृष्टः । लोकस्य दन्तच्छदश्च । हसन्ती हासकारिणी वनिता, हसन्तिकायन्त्रश्च ।
  4. करः किरणः, हस्तश्च । तमोमयः जडः, ध्वान्तरूपश्च ।
  5. स्वधर्मः = निजचापः, हिमनिवारणरूपश्च ।