॥श्रीवेङ्कटेशपरब्रह्मणे नमः ॥

॥ श्रीपद्मिनीपरिणयाख्यं प्रकरणम् ॥

श्रीसुन्दरराजमहाकविविरचितम्।

प्रथमोऽङ्कः

गीर्वाणावलये सुधां वितरितुं दैत्यान् विमोह्याङ्गना-
रूपं प्राप्तवतः पुराणपुरुषस्यालोकयन्त्या मुहुः ।
सभ्रूभङ्गमपाङ्गवीक्षणभवानङ्गागमप्रक्रियं
वक्त्रेन्दुं कलशाम्बुराशिदुहितुर्मन्दस्मितं पातु वः ॥
अपि च,

दशवदननगर्यां स्निग्धगन्धद्रुक्लृप्तात्
भवनवलभिवर्गाद्वालसङ्क्रान्तवह्नेः ।
उदितसुरभिधूमौर्वासयन् व्योमभामा-
कचततिमतिवीरः पातु कश्चित्प्लवङ्गः ॥ २ ॥

 (नान्द्यन्ते) सूत्रधारः-(पुरोऽवलोक्य) अहो ! भगवत्या गोदामिधायाः कैटभपरिपन्थिप्रणयिन्यः संमिलन्ति नानादिगन्तनिवासिनः सज्जनाः मज्जनमहोत्सवसिषेविषया विषयान्तरमुत्सृज्य । (सौत्सुक्यम् अञ्जलिं बद्ध्वा)

श्री धन्विनव्यपुरवासिनि देवि गीदे!
श्रीशार्ङ्गिदिव्यगुणसूक्तिधृतप्रमोदे ! ।
त्वन्मज्जनोत्सवभवे विभवे न धत्ते
कस्सज्जनः कुतुकमम्ब निलिम्पवन्द्ये ॥

 (आकाशे श्रोत्रं दत्त्वा) किमादिश्यते साधुपरिषदा ? रे रे! कुशीलव !

हस्तविन्यस्तहौणोक्ति पुस्तकैरावृते जनैः ।
इह सद्रूपकं प्रत्नं द्रष्टुमिच्छा वृथा हि नः ॥ इति ॥

 न वृथा भवतामिच्छा । विद्यत एवाभिनवं सत्प्रकरणम् । किं ब्रूथ ! कुतूहलिनःस्मः तदवलोकन इति । (सहर्षम्) अचिरादभ्यस्तस्य अभिनवरूपकप्रयोगस्य सफलतासम्पादनाय रसिकपरिषदममिलषतो मम प्रतिपद्यते विधिरनुकूलताम् । (नेपथ्याभिमुखमालोक्य) इतस्तावत् भावः । (प्रविश्य)

मारिषः--एषोऽस्म ।

सूत्रधारः-भाव ! पश्यतु भवान् नानादेशेभ्यः समागतानिह महानुभावान् ।

मारिषः-आर्य! अदृष्टचरो भवत्येतावान् क्वचन साधुसमागमः ।

सूत्रधारः -भाव ! श्रूयतामत्र कारणम् ।

पङ्क्त्याऽभियोज्य रमणीयतराण्यनांसि
तन्वन्ति केऽपि पुरतोऽग्निजलप्रयोगम् ।
आरुह्य तानि जनता घटिकाभिरेव
काभिश्चिदद्य बहुयोजनदूरमेति ॥

मारि-इतोऽपि किमपि विचित्रम् !

एकः क्वचिद्वासि सद्मनि भाजनेषु
सद्रावकेषु निहितामिह लोहतन्त्रीम् ।
सन्ताडयत्यधिकदूरगतोऽपि सद्यः
पुत्रप्रसूतिमवगम्य ददाति बीजम् ॥

सूत्र-भाव ! कृतमप्रकृतेन । अस्ति कुतूहलं परिषदो नूतनप्रयोगे ।

मारि-(स्मृतिमभिनयति)

सूत्र-किन्नावगाहते स्मृतिपथं नवं रूपकम् ?

मारि-अथ किम् ।

सूत्र-अस्ति किल ? दक्षिणकेरलेषु स्यानन्दूरपुरम्......

मारि-अहह ! तत् भगवत: पद्मनाभाभिख्यस्य परमात्मनः भोगशयनभूमिः खलु ? (सानुस्मरणमञ्जलिं बद्ध्वा)

श्रीपद्मनाभ ! कमनीयतराञ्जनाभ !
भक्तावनाभयरतेन्दुसमाननाभ ! ।
न त्वां विना भवति मे शरणं भवन्तं
नत्वा जनः किमिह वा शुचमेत्यमुत्र ॥ सूत्र-तत्र सञ्चितसुकृता वञ्चिमहीपतयः सुमतयः सन्ततं निवसन्ति खलु ?

मारि-अथ किम् ।

सूत्र-तत्र

मत्या धृत्या शुभकवितया विद्यया देवभक्त्या
लक्ष्म्या चोञ्चैरुपचिततया प्राप्य षाण्मातुरत्वम् ।
शक्तिं विभ्रद्विमतविजये ख्यापयन्नाम नैजं
राजोत्तंसो जयति धरणौ श्रीविशाखो यशस्वी ॥
तदीयं भुजमालम्ब्य वर्तते पाण्ड्यमण्डले ।
इलत्तूराख्यनगरी कविरत्नावलीखनिः ॥

मारि-- विदितं तन्नगरम् । यत्र खलु श्रीवैखानसकुलतिलकायमानवरदराजनन्दन:, कृष्णाम्बिकागर्भशुक्तिमुक्तामणिः, सुन्दरराजशर्मा श्रीरामसन्देशहरप्रसादलब्धप्रतिभाभासुरः प्रकाशतेतराम् ।

सूत्र-स हि महितं श्रीरामभद्रविजयाभिख्य चम्पूप्रबन्धं वैदर्भीवासुदेव हनूमद्विजयाभिधाननाटकयुगलञ्च निर्माय पश्चादुत्पाद्येतिवृत्तं पद्मिनीपरिणयाभिधानं प्रकरणं ग्रथयन् अस्मासु न्यस्तवान् रसिकपरिषदि प्रयोक्तव्यमिति ।

मारि-स्मारितोऽस्मि भवता साधु । आर्य ! केऽपि नूतनान् प्रबन्धान् नाद्रियन्त इति शङ्का मामाकुलयति ।

सूत्र-अत्र विषये कविना तेन कश्चिदुपन्यासः कृतः ।

मारि-कथम् ?

सूत्र--

" ये पूर्वासु च नूतनासु कृतिषु स्वारस्यमात्रं समं
गृह्णीयू रसिका न तान् प्रति वचः किं[] वाच्यमास्ते मम ।
ईर्ष्यातोऽभिनवप्रबन्धविमुखा ये सन्ति ते नाधिकाः
तादृक्षस्य च भाविनः कृतिरियं ग्राह्यैव पूर्वत्वतः ॥"

मारि-उपपन्नम् । सूत्र-सम्प्रति सम्प्रतिपन्नं सर्वमस्माकं साधु । तथाहि--

“ तद्रूपकं मृदुपदग्रथितं गभीरं
प्रत्यग्रवस्तु निखिलैश्च रसैः समग्रम् ।
एषा च साधुपरिषद्विदुषी कवित्वे
तौर्यत्निके च भरतस्य वयं विवर्ताः" ।

 तत् त्वर्यताम् ।

मारि-आर्य ! कयापि चिन्तया किञ्चिदस्वस्थमिव मे मनः ।

सूत्र-सा का सारविषया यदि, निगद्यताम् ।

मारि-सारविषयैव । सरसहृदयो नाम सखा मे विदितः खलु । तद्दुहितरं सुमनोभिख्यां द्युतिमन्नाम्नि तरुणे स्वयमनुरक्तां दुर्वृत्तः चरमवयसि वर्तमानोऽपि कश्चित्कामयते लब्धुं जलानुषङ्गी । तत्र सर्वां धुरं मयि न्यस्यति वयस्यः ।

सूत्र- अस्त्येव सुमनोद्युतिमतोस्सङ्घटने विधेरानुकूल्यम्, यतो भक्तं तत्र लग्नकीकृतवान् सरसहृदयः । भवांश्चावधत्ते ।

“प्रसन्नेनापि विधिना प्रत्यक्षीभूयते नहि ।
किन्तु तत्कार्यघटनानिपुणः प्रेर्यते जनः ॥

(नेपथ्ये)

साधु कुशीलव ! साधु ।

नियुङ्क्ते मां न चेद्धाता पद्मिन्या भास्करस्य च ।
संयोजने सदा चिन्ता किं भवेदीदृशी मम ॥

मारि-- कोऽयमेवं ब्रवीति ?

सूत्र-किं तन्न जानासि । मम वैमात्रेयः कनीयान् शारदानन्दयोगीन्द्रस्य भूमिकां धारयन् व्याहरन्नेवं प्रविशति रङ्गभुवम् । तदावां पद्मिनी भास्करश्च भूत्वा प्रविश्य दर्शयावः स्वचातुरीमभिनयकलायाम् । (इति निष्क्रान्तौ)

॥ प्रस्तावना ॥

(ततः प्रविशति सशिष्यः शारदानन्दः)

शार– वत्स ! काशस्तम्ब ।

"यावन्निगृह्य करणं विषयप्रवृत्ते-
श्चेतः समाहितमहं कलये कथञ्चित् ।
तावत्क्वचित्प्रविशति श्रमसाधनीये
कार्ये सुहृत्प्रणयसंभृतमेतदाशु" ॥

काश- किं नाम तत् ?

शार- अस्ति उदयधरो नाम महीभृत्प्रवरः ।

काश- स प्रथते खलु !

[]यःसूर्याकलनेन लोकविदितख्यातिः समस्तोन्नतो
धीरो नोज्झितपूर्वकल्पितपदः स्वान्तर्गुहायां हरिम् ।
बिभ्राणादुदितो यतो नयनयोः श्रीभास्कराख्यस्सुत-
स्साफल्यं तनुते श्रिया तनुभृतां भाग्यं यथा मूर्तिमत्" ॥

शार- तस्य महानुभावस्य सदृशी भार्या सम्पादयितव्येति ।

काश- तस्य सदृशी क्व लभ्येत ?

शार – अस्त्येव ।

काश- जिज्ञासे तादृशीम्

शार- []वर्तते कासारो नाम विमलान्तःकमलतया श्रिततापहारी प्रजापालकः । तदात्मभवा । पद्मिनीति विनीतिमतिसौन्दर्यवसतिः ।

काश- यद्येवं कोऽत्र विचारहेतुः ?

शार- विद्यते तयोस्सङ्घटने प्रत्यूहबाहुल्यम् ।

काश- कथमिव ?

शार-

"जीमूतो नाम दुर्दान्तो वपुषा समलीमसः ।
अपि विच्युततारुण्यस्तरुणीं तामभीप्सति" ॥

काश- तत्र कासारः कीद्दशः । शार-अनभिमततदपेक्षोऽपि कृतज्ञतया पुरा तत्कलितमुपकारं स्मरन् दाक्षिण्यमवलम्बते तस्मिन् ।

काश-किमियदेव ।

शार-किञ्च, मत्तेभको नाम कश्चिन्निर्निमितबद्धवैरः पद्मिनीमपहर्तुं काङ्क्षति कासारमाविलीकृत्य । अपि च, तस्य सुहृदस्मद्विरामं प्रतीक्षमाणः स्वोदयाय तुहिनमण्डलो नाम कापालिकः सहचर्या हिमान्या सदा निसर्गसिद्धपद्मिनीप्रतीपशीलः प्रथते ।

काश- अहो चिन्तानिमित्तमदभ्रमार्यस्य । कयापि विधया सङ्घटयितुं तौ प्रवर्तते भवान् ।

शार – सर्वथाऽस्माभिः लक्ष्मीं सन्निधाप्य तस्या मनोरथस्साध्यः ।

काश

भवत्प्रसादसम्प्राप्तलक्ष्मीसान्निध्यनिर्मला ।
पद्मिनी भास्करं प्राप्य चिरं विजयतां भुवि ॥

शार - अन्यदिदमाकर्ण्यताम् । कासारस्यात्मजः कुमुदाकरः कामयते कौमुदीम्, भास्कराल्लब्धैर्वसुभिर्वर्धितस्य सुधाकरस्य राज्ञस्सुताम् ।

काश - किमस्ति तत्रापि विरोधः ।

शार - तामाकम्य वर्तते मत्तेभकः स्वपुत्रकृते ।

काश - भगवन्, अनयोः सदृशयोः पद्मिनीभास्करयोः कौमुदीकुमुदाकरयोश्च युगपत् कथं संयोजनसम्भव इति तर्कयामि ।

शार - सर्वं दुर्घटमपि घटेत देव्या दुग्धसिन्धुदुहितुः प्रसादात् । तत्कासारमुपसरावः । (इति निष्क्रान्तौ)।

॥ शुद्धविष्कम्भः ॥

(ततः प्रविशति अनुकूलनाम्ना सचिवेन सह कासारः)

कासारः - भोः मन्त्रिन् !

कन्यापितृत्वमिह सन्ततमातनोति
चिन्तां जनस्य महतीमिति यद्वदन्ति
जानामि सत्यमिदमद्य पतिं सदृक्षं
वत्साऽप्नुयात्कथमिति व्यथितो विचारात्

अनुकूलः - स्वामिन् !
यदि सन्तं सुता लब्ध्वा भर्तारं नन्दति स्वयम् ।
जनकस्य सुखं तादृक् न पुत्रशतवत्तया

कासारः - असति जामातरि जायते पुरुषस्य या व्यथा सा न शक्यते परिच्छेत्तुम् । तथाहि ।

जामाता यदि दुर्मतिः शुभवधूलाभावधि प्रश्रयं
श्वश्र्वां च श्वशुरे प्रदर्श्य तदनु प्राप्तेप्सितो दर्पितः
ताभ्यां स्वीयसुतातिवत्सलतया सम्भावितो मन्यते
स्वं वित्ते धनदं मतौ सुरगुरुं रूपे प्रसूनायुधम्


हन्त! दुर्मेधसो जामातरो मातरमिव सम्भावनीयां श्वश्रूं स्वभुजिष्यामिव पितरमिव पूज्यं पूज्यं क्रीतदासमिव ताभ्यां दुहितृप्रेम्णा दीयमानंयौतकमधमर्णगृहीतं धनमिवावजानते ।

(नेपथ्ये)

साहु साहु ! (साधु साधु) ।

कासा - सखा मम खलु समभिनन्दति अस्मद्वचः ।

 (प्रविश्य विदूषकः) वअस्स, जं कहिदं तुंहेहिं तं सवं मए अणुहूदम् । (वयस्य यत्कथितं युष्माभिस्तत् सर्वं मया अनुभूतम् ।

कासा - सखे कथमिव ।

विदूषकः - विवाहपेज्जन्तं मह चरणेसु णिपतन्तो दुग्मई जामाआ तदो मह घरभोअणपीवरसरीरो वि मह पच्चख एव्व ‘अये भिखुअपुत्ति, दासीए पुत्ति, मूढजोणिजादे, किं तुए तादघरादो आणीदं रण्डेत्ति मह कण्णं अहिख्खिवइ । किं वित्थरेण, अण्णदो संपादेदुं अख्खमो मह घरादो एव सव्वं इत्थिआघणत्तणेण आणेदव्वं मणाइ । तस्स सव्वं वि दुण्णअं सहेमि वच्चाए को वि सुगुणो दोहित्तो होस्सदिति पच्चासाए ।

 (विवाहपर्यन्तं मम चरणयोः निपतन् दुर्मतिः जामाता ततो मम गृहभोजनपीवरशरीरोपि मम प्रत्यक्षमेव, अये भिक्षुकपुत्रि, दास्याः पुत्रि, मूढयोनिजाते, किं त्वया तातगृहादानीतं, रण्डे इति मम कन्यामधिक्षिपति । किं विस्तरेण । अन्यतस्संपादयितुमक्षमः मम गृहादेव सर्वं स्त्रीधनत्वेनानेतव्यं मन्यते । तस्य सर्वमपि दुर्णयं सहे, वत्सायां कोऽपि सुगुणो दौहित्रो भविष्यतीति प्रत्याशया) । कासा- अलमप्रस्तुतेन । भो मन्त्रिन्! किं विसृष्टो निखिलनृपालबालप्रतिच्छन्दग्रहणाय चित्रशिल्पी ।

अनु- तस्य प्रत्यागमनसमयोऽपि अतिवर्तते (प्रविश्य दौवारिकः) जेदु देव्वो, ससिस्सो सारआणंदो पडिहारभूमिं गओ ।


(जयतु देवः । सशिष्यश्शारदानन्दः प्रतिहारभूमिं गतः)।

कासा- प्रवेश्यतां सोपचारम् ।

दौवारिकः- तह (इति निष्क्रम्य पुनः प्रविश्य) इदो इदो महाजोई । (तथा । इत इतो महायोगी) ।


(प्रविशति सशिष्यश्शारदानन्द:)

कासारः - उत्थाय प्रणमति ।

शारदानन्दः- विजयस्व धर्मात्मन् !

कासा- उपविश्यताम् ।

शार- (उपविश्य) अपि कुशलम्?

कासा- भगवन् ! भवदाशीर्गोचरतया सर्वेऽत्र कुशलिनः स्मः ।

चिन्तातपातपो[]च्छुष्यदात्मनः पुरतो मम
भवदीयप्रसादोऽसावमृतासारतां गतः

अनु- भगवन्! प्रतिपालयामहे किमपि विज्ञापयितुकामा भवद्दर्शनम्।

शार - प्रायो विदित एवास्माभिस्सर्वोऽप्युदन्तः । अधुना कीदृशी जीमूतदुश्चेष्टा ।

कासा - यादृश्यस्मान् अहर्दिवमाकुलयेत् ।

शार - किं साक्षादभ्यर्थितोऽसि तेन कन्याम् ।

कासा - तदेवावशिष्यते ।

अनु - तदपि श्वः परश्वो वा भविष्यतीति मन्ये, यतस्तदमात्यस्य पुरोवातस्य पत्रिका तादृशी मया लब्धा ।

शार - स्वयमेवागमिष्यति किं जीमूतः ? अनु- नहि । प्रथमं तन्नियुक्तः पुरोवातः ।

शार- कीदृशी मत्तेभः ?

कासा- हतकः सहानुगैः मामाकुलीकृत्य पद्मिनीमपहर्तुं प्रतीक्षते समयम् ।

शार-आस्तामेतत् । भद्रायाः पद्मिन्या हृदयं कुत्रानुषजति ।

कासा- स्फुटं तन्नावगम्यते । (प्रविश्य दौवारिकः) किअहत्थो णाम चित्तलेहओ समअं पडिवाळेदि । (कृतहस्तो नाम चित्रलेखकः समयं प्रतिपालयति)

कासा- प्रविशतु ।

दौवा- (निष्क्रान्तः)

शार- स को नाम ?

अनु–नृपतिकुमारप्रतिच्छन्दग्रहणाय नियुक्तपूर्वः । (प्रविशति कृतहस्तः स्वहस्तन्यस्तचित्रपटनिकरः । प्रणमति सर्वान् ) ।

अनु-किमाचरितनिदेशोऽसि ?

कृत-अथ किम् ।

शार- किं केवलं नृपाणां कुमारा गृहीतरूपाश्चित्रे । आहोस्वित् तत्स्वसारश्च ?

कृत– द्विविधान्यपि न्यस्तानि चित्रे नृपत्यपत्यानि ।

शार– राजन्! चित्रावलोकाय तव पुत्रावपि समानीयेताम् ।

कासा- (अनुकूलमुखं प्रेक्षते) ।

अनु-अयमहमेवानेष्यामि तौ । (इति निष्क्रम्य पुनस्ताभ्यां सह प्रविशति) ।

कुमुदाकरः- (स्वगतम्) अहो मम चेतः शारदानन्दसन्दर्शनेन प्रसीदति ।

पद्मिनी- (स्वगतम्) दीसइ चित्तपडणिअरो । (दृश्यते चित्रपटनिकरः)

(उभौ पितरं योगिनश्च प्रणमतः)

शारदा-–

श्रेयांसमावुत्तमवाप्य भद्र भजस्व हर्ष कुमुदाकर त्वम् ।
प्रजावतीमेत्य सुजातशोभां भद्रे प्रमोदस्व च पद्मिनि त्वम् ॥

कासा- (अपवार्य) भगवन् ।

जामातुः प्रथमं प्रार्थ्यः स्नुषाया वा गुणो नृणाम् ।
इति सन्तर्कयश्चित्ते .......... निश्चयम् ॥

शारदा- रे कृतहस्त ! नृपतिकुमारान् आरात् पद्मिनीनयन्नपथं प्रवेशय ।

कृत– भर्तृदारिके, दृश्यताम् ।

अयं कलावान् सकलाभिनन्द्यो राजा मनोजोत्सवदानदक्षः ।

पद्मिनी- दस्सणिज्जो । दस्सेहि अवरं वि । (दर्शनीयः । दर्शयापरमपि) ।

कृत- अयं तु भौमो रिपुभावमेति यस्याधिमन्तर्विदधीत तस्य ।

पद्मिनी- एसो अह्माणं सआ मित्तभावं एव्व गच्छेउ ।

(एषोऽस्माकं सदा मित्रभावमेव गच्छतु)

कृत-

अयं बुधो नाम स राजपुत्रो यन्मित्रभावं लभते तनोति ।
तस्यार्थलाभादिकमेष जीवो दृष्ट्यैव धत्ते शुभभावपुष्टिम् ॥

पद्मिनी- एदे महव्वाणं वरा । तदो । (एते महात्मनां वराः । ततः)

कृत-

एष प्रतीतः कविनामधेयो यस्यानुकूल्यं भजतेऽत्र भावे ।
तस्याखिलान्यातनुते सुखानि निहन्ति सर्व विपरीतभावे ॥
एष इव कलत्रसुखं दातुं नान्यः प्रभवति ।

पद्मिनी- को एसो अवरो ? (क एषोऽपरः)

कृत- एष सौरिर्नाम ।

येषां दुःखे प्रवर्तेत तैस्सद्य.... ।
आराधनीयः क्षेमाय व्यथयेत्तानपूजितः ॥

पद्मिनी- किं अण्णो अथ्थि दट्टव्वो (किमन्योऽस्ति द्रष्टव्यः) ?

कृत- सन्ति बहवः ।

शार- (अपवार्य) अये कृतहस्त, अलमपरैः प्रदर्श्यतां भास्करः ।

कृत-

उदयधरतनूजो दृश्यतां पद्मवक्त्रे
हृदयरतिकरो यस्तेजसा नेत्रभाजाम्
तरुणमपि तमांसि प्रेक्ष्य विध्वंसयन्तं ।
यमिह दधति वृद्धाश्चाञ्जलिं शुद्धभावाः ॥

पद्मिनी- वीक्ष्य (स्वगतम्) किं मअणो एसो ? तस्स वि एआरिसी सोहा णो सुदा । अहवा तस्स वि तादो पुरिसोत्तमो अणेण रूपेण सम्पत्तो ?  (किं मदन एषः । तस्याप्येतादृशी शोभा न श्रुता । अथवा तस्यापि तातः पुरुषोत्तमोऽनेन रूपेण संप्राप्तः) । (इति चिन्तयन्ती स्थिता )

कासा- (अपवार्य) स्वामिन्!

अन्यान् निरीक्ष्य वदनं विनिवर्तयन्ती
वत्साऽधुना तमिह भास्करमीक्षमाणा ।
चित्रेऽपि हन्त विकसन्नयनारविन्दा
साक्षाद्विलोक्य भगवन्नथ कीदृशी स्यात् ॥

शार- स्पष्टोऽभूदाशयोऽस्याः ।

कृत- सन्ति बहवोऽन्ये नृपकुमाराः पटेषु ।

पद्मि- इदो वरं णिवकण्णिआओ दस्सणिज्जाओ । (इत परं नृपकन्यकाः दर्शनीयाः)

शार- (अपवार्य) राजन् !

भास्करे सदृशे लग्नं पद्मिन्या हृदयं स्वयम् ।
नेतुमन्यत्र कश्शक्तो जानक्या इव राघवे ॥

कासा– कृतहस्त ! दर्श्यन्तां नृपतिकुमार्यः ।

कृत- भद्र !

कृतिकामेति विख्याता कृत्तिवासःप्रियाद्युतिः ।
एषा पुरुषसिंहस्य शंसत्युदयमुच्चगा ।।

कुमुदाकरः- पश्यामि । ततः ।

कृत-

दृश्यतां चारुरूपेयं विश्रुता रोहिणीच्छविः ।
यथाऽस्यां राजहृदयं न तथाऽन्यत्र रज्यति ॥

कासु-रज्यतु नाम कामम् । कृत-(स्वगतम्) रोहिणीच्छविं दृष्ट्वापि समुल्लासममुपेयुषोऽस्य चित्तं किं लगेन्मृगशिरो द्युतौ वा परासु मनोहरासु अपि आर्द्राशोभाप्रभृतिषु वा । ततः कौमुदीमेव दर्शयामि । (प्रकाशम्)

कल्याणी क्षीरवाराशिकन्यकासोदरी दृशः ।
गोचरीक्रियतामेषा प्रकृत्या विमला त्वया ॥

कुमु-(वीक्ष्य) (स्वगतम्)

सौन्दर्यदुग्धजलधिं कुतुकात् प्रमथ्य सारं तदीयमखिलं जलजासनः किम् ।
गृह्णन्ससर्ज जगतां नयनोत्सवाय चित्तेन संप्रणिहितेन निकाममेताम् ? ॥

शार-(अपवार्य) राजन् !

कौमुद्यालोकसंभृतविकासः कुमुदाकरः ।
कै कोल्लासलालाक्षिभ्रमरो राजतेतराम् ॥

कासा-भगवन् !

अभीप्सन् हरिणाक्रान्तसल्लकीपल्लवावलिम्।
चलपत्रदलश्रेणीं सुलभां कलभोऽस्यति ॥


शार-(अपवार्य) राजन् !
दिष्ट्या भवदुक्त्या कुमुदाकरस्य कौमुदी सुलभैवेति ज्ञायते
<ref>श्लेषार्थः. हरिणाकान्त-सिंहाकान्त, हरिणेन-एणेन आक्रान्त, इति ।<ref>हरिणेनाक्रान्तायाः सल्लकीपल्लवावलेः प्राप्तिः सुशका खलु कलभस्य ।

कृत-विद्यन्ते परा राजकुमार्यः ।
कुसु-द्रष्टव्या एव यद्यवकाशः ।
कासा-दिष्ट्या लब्धोऽवकाशः कौमुदीदर्शनावधि ।

कुसु-(लज्जां नाटयति) ।
शार-भद्रे ! तव किमस्ति परेषामपि पार्थिवनन्दनानां दर्शनेऽवकाशः ?
पद्मिनी-अज्ज ! अहं किं अतणो पहवेमि ? (आर्याहं किमात्मनः प्रभवामि)
शार-तव कः पुनः प्रभवति ।
पद्मिनी-गुरुअणो । (गुरुजन:) ।
शार--उदयधरात्मजे हृदयप्रवर्तनं विना अन्यत्र तव गुरुजन एव प्रभवति ।

पद्मिनी-(मुखं नमयति)

शार--(अपवार्य) राजन् ! विदितौ भवत्तनुजयोः प्रणयभाजनजनौ ।

कासा--(अपवार्य) भगवन् !

जीमूतकः प्रयतते स्वयमाप्तुमेतां
मत्तेभकः स च जिहीर्षति निर्निमित्तम् ।
सा कौमुदी त्वहह तस्य वशं गताऽऽसीत्
पुत्रौ मनोरथमिमौ कथमाप्नुतां तम् ॥

शार

यद्यानुकूल्यं विधिराप्नुयात् ते जीमूततः कश्चन वज्रपातः ।
मत्तेभकं नाशयतु क्षणात् तं जीमूतकं हन्तु []हरिः प्रचण्डः ॥

कासा-सर्वस्य भव्यस्य निदानं भवदाशीर्नः ।

(नेपथ्ये)

राजन्! विजयस्व, विजयस्व !
जीमूतकस्य विगमादिह भास्करोऽय-
मत्युन्नतं पदमवाप्य विराजमानः ।
तां पद्मिनीं विकसितां कलयत्यमन्दं
मत्तेभकोऽपि परिधावति तापतप्तः ॥

शार-कोऽयमस्मदनुकूलं व्याहरति ?

कासा-एष वन्दी विज्ञापयति माध्याह्निकसमयम् ।

शार-भद्रेयमुपश्रुतिः ।

कासा-सर्वं भवत्प्रसादात् ।

शार-भदौ, इह विहरतमव्याकुलौ । (तथेति तौ परिक्रामतः) ।

शार–राजन् ! पश्य पुत्रौ ।

नेत्रं विकासि दुहितुस्तव भास्करेण
कृष्टं पटस्थितिजुषा प्रतिकर्षतीव ।
लज्जा सुधाकरसुताकृतिलग्नमक्षि
हीस्ते सुतस्य तु समुद्धरतीव यत्नात् ॥

॥ उभौ निष्कान्तौ ॥

शार--रे कृतहस्त ! कौमुदीभास्करयोः प्रतिच्छन्द्वद्वयं शुद्धान्तं नीयताम् ।

कृत--तथा (इति निष्क्रान्तः) ।

शार--राजन् ! त्वरयति मां कश्चित् कार्यावेगः ।

कासा--यद्यर्हामि श्रोतुं, शुश्रूषे ।

शार--उदयधरश्चिरादधीतानेकविद्यं भास्करं भवान् अस्त्रकलाकुशलं कलयत्विति मां अभ्यर्थयते । ततस्तं निजान्तेवासिनं विधाय तत्प्रार्थनां सार्थीचिकीर्षामि ।

कासा–-स्वामिन् ! स महाभागः श्रीमान् भक्ता कथञ्चिदत्रानीतो यदि प्रतिच्छन्दालोकसफलीभूतयोर्लोचनयोर्विहितामसूयां श्रवणयुगस्य शमयितुकामोऽस्मि तत्सूक्तिमाधुरीप्रापणेन ।

शार--(स्वगतम्) अस्मदाशयमनुरुन्धे कासारप्रार्थना । (प्रकाशम्) पूरयिष्यते मनोरथस्ते ।

कासा--समागमिष्यति यदि पुरोवातः भणितव्यमुपदेष्टव्यमत्र भवता ।

शार--(कर्णे) (एवं वक्तव्यमिति कथयति ।)

कासा--(स्वगतम्) महान्तमुपायमन्तर्निधाय स्वयमेवमयं ब्रवीति । (प्रकाशम्) यथा रोचते गुरवे ।

शार--अनुकूल ! सज्जीकर्तव्या पुरोवातस्य सम्भावनासामग्री ।

अनु--यथाऽऽदिशति भवान् । (इति निष्कान्तास्सर्वे)

॥ इति श्रीपद्मिनीपरिणये प्रथमोऽङ्कः ॥

  1. किं किमपि ।
  2. अस्य श्लोकस्य विशेषार्थः । सूरीणां सूर्यस्य चाकलनम् सूर्याकलनम् । पदम् व्यवसितम् । स्थानश्च ।
  3. अर्थविशेषः अन्तःकमलम् - हृदयारविन्दम्, अन्तर्वेिद्यमानं जलश्च ।
  4. तपातपः ग्रीष्मसम्बन्धी आतपः ।
  5. 'शिखी हरिश्च' इत्यपि पाठः ।