परमार्थसारः (योगराजव्याख्यासहितः)

परमार्थसारः (योगराजव्याख्यासहितः)
[[लेखकः :|]]




ओं नमश्चिदात्मपरमार्थवपुषे ॥

अथ

परमार्थसारः

श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्ताचार्यविरचितः ।

श्रीमद्योगराजाचार्यकृतविवृत्युपेतः ।



चिद्घनोऽपि जगन्मूर्त्या श्यानो यः स जयत्यजः ।
स्वात्मप्रच्छादनक्रीडाविदग्धः परमेश्वरः ॥ १ ॥

योऽयं व्यधायि गुरुणा युक्त्या परमार्थसारसंक्षेपः ।
विवृतिं करोमि लघ्वीमस्मिन्विद्वज्जनार्थितो योगः ॥ २ ॥

इह शिवाद्वयशासने देहादिप्रमातृताप्राधान्यस्वसंकल्पसमुत्थशङ्कातङ्कालस्यसंशयादिरूपविघ्नौघप्रसरप्रध्वंसपूर्विकां शास्त्रनिष्पत्तिं मन्यमानः परिमितप्रमातृताधस्पदीकारेण चिदानन्दैकघनस्वात्मदेवतासमावेशशालिनीं समस्तशास्त्रार्थसंक्षेपगर्भां प्रथमतस्तावत्परमेश्वरप्रवणतां परामृशति ।

परं परस्थं गहनादनादिमेकं निविष्टं बहुधा गुहासु ।
सर्वालयं सर्वचराचरस्थं त्वामेव शंभुं शरणं प्रपद्ये ॥ १ ॥

त्वां सर्वप्रमातृस्फुरत्तासारं स्वात्मदेवतारूपमेव शंभुमनुत्तरश्रेयःस्वभावं सत्तात्मकं शरणं त्रातारं त्वत्समावेशसमापत्तये संश्रये । एवकारः शंभुं स्वात्मदेवताकारमेव प्रपद्ये न पुनर्मायान्तश्चारिणं कञ्चिद्भिन्नं देवमित्यन्ययोगं व्यवच्छिनत्ति । अन्यच्च किंभूतं परं पूर्णं चिदानन्देच्छाज्ञानक्रियाशक्तिनिर्भरमनुत्तरस्वरूपं तथा परस्थं गहनातिति गहनान्मायाभिधानात्तत्त्वात्परस्मिन्पूर्ण एव शिवादिविद्यातत्त्वपर्यन्ते शुद्धाध्वनि स्वरूपे तिष्ठन्तं न पुनस्तत्तदवस्थावैचित्र्येणापि स्फुरतस्ततः परस्मात्पूर्णात्स्वरूपात्तस्य प्रच्यावो भवति । यदुक्तम्

जाग्रदादिविभेदेऽपि तदभिन्ने प्रसर्पति ।
निवर्तते निजान्नैव स्वरूपादुपलब्धृतः ॥

इति स्पन्दशास्त्रे । अनादिं पुराणं सर्वप्रतीतीनामनुभवितृतया प्रमातृत्वेनादिसिद्धत्वातेकमित्यसाहायं चिदैक्येन स्फुरणाद्भेदस्यानुपपत्तेः । तथा निविष्टमित्यादि । एवञ्जातीयकमपि स्वस्वातन्त्र्येण बहुधा नानाप्रकारैर्भेदैः गुहासु रुद्रक्षेत्रज्ञरूपासु हृद्गुहास्वन्तराविष्टं चैतन्यरूपोऽपि स्वयं जडाजडात्मतामाभास्य नटवन्नानाप्रमातृतया स्थित इति यावत् । अत एव सर्वालयमिति सर्वस्य रुद्रक्षेत्रज्ञादिप्रमातृप्रमेयरूपस्य जगतः आलयं विश्रान्तिस्थानं । सर्वमिदं किल पूर्णप्रमातरि स्थितं सद्ग्राह्यग्राहकयुगलकापेक्षयोन्मग्नमिव भेदेन प्रकाशमानं नानारुपैर्व्यपदिश्यतेऽन्यथैतस्यप्रकाशाद्भिन्नस्य सत्तैव न स्यात्कुत इदं विश्वमिति सर्वनामप्रत्यवमर्शः । नैतावता भगवतः समुत्तीर्णं स्वरूपमित्याह सर्वचराचरस्थमिति । सर्वमिदं यज्जडाजडस्वभावं विश्वं तद्रूपतया तिष्ठन्तं

कर्तासि सर्वस्य यतः स्वयं वै विभो ततः सर्वमिदं त्वमेव ।

इति न्यायेन हि व्यतिरिक्तस्यान्यस्याप्रकाशमानस्य कार्यत्वानुपपत्तेः ।

भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।

इति भगवानेव तथा तथा चकास्तीति । एवंविधं त्वामनुत्तरं सर्वस्य स्वात्मदेवतास्वरूपं पराहन्ताचमत्कारसारमपि गृहीतनानात्वमथ चात्यन्ताखण्डितस्वस्वातन्त्र्यपरमाद्वयप्रकाशस्वभावं भगवन्तं शंभुं प्रपद्ये शरीरादिकृत्रिमाहङ्कारगुणीकारेणैतादृशं त्वामेव स्वात्मानं पराहन्ताचमत्कारस्वरूपं समाविशामीति यावत् । अनेन ग्रहणकवाक्येन परमोपादेयां स्वस्वभावसमावेशमयीं दशामुपदिशता गुरुणा वक्ष्यमाणहेयोपादेयतया सकलग्रन्थार्थोपक्षेपः कृतः ॥ १ ॥

एवं प्रकरणतात्पर्यमद्वयस्वरूपं स्तुतिद्वारेण प्रतिपाद्येदानीं शास्त्रावतारमभिदधत्संबन्धाभिधेयादिकं ग्रन्थकृदार्याद्वयेनाह

गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः ।
आधारं भगवन्तं शिष्यः पप्रच्छ परमार्थम् ॥ २ ॥

आधारकारिकाभिस्तं गुरुरभिभाषते स्म तत्सारम् ।
कथयत्यभिनवगुप्तः शिवशासनदृष्टियोगेन ॥ ३ ॥

कश्चिद्भगवत्प्रसादात्समुत्पन्नवैराग्यः संसाराद्विरतमतिर्गुरोः शासनीयोऽस्मीति मत्वा सद्गुरुमाधारं भगवन्तं शेषाख्यं मुनिं सम्यगाराध्य परमार्थोपदेशस्वरूपं पृष्टवान् । तदा तद्योग्यतापरिपाकस्वरूपपरिशीलनक्रमेण तं शिष्यं विगलितान्तःकरणं मत्वा सोऽप्यनन्तनाथो निःशेषशास्त्रोपदेशज्ञः परमार्थसारनाम्ना आधारकारिकाभिः इत्यपराभिधानग्रन्थेन सांख्यनयोक्तोपदेशानुसारेण प्रकृतिपुरुषविवेकज्ञानात्परब्रह्मावाप्तिरित्येवमेतं शिष्यं प्रोक्तवान् । स एव ब्रह्मोपदेशः परमाद्वयस्वरूपस्वस्वातन्त्र्यदृष्ट्या प्रतिपादितः सन्युक्तियुक्तो भवतीति मत्वा सर्वं जनमनुग्रहीतुं परमाद्वयशैवनययुक्त्या गुरुरभिनवेन अलौकिकेन चिच्चमत्कारस्फारेण गुप्तः गुह्यः सरहस्य इति । सोऽयं पुण्यनामाक्षरावलिः तत्सारं तस्य परमार्थोपदेशस्य यत्सारं दध्नो नवनीतमिवोपादेयं परानुग्रहप्रवृत्तः सन्प्रतिपादयतीति । एवं संबन्धाभिधेयाभिधानप्रयोजनादय उपपादिता नेह पुनः शास्त्रगौरवभयात्प्रतन्यन्ते । कीदृशः स शिष्य इत्याह गर्भाधिवास इति । गर्भाधिवासप्रारम्भं जायतेऽस्ति वर्धते विपरिणमतेऽपक्षीयते विनश्यतीति तत्तदवस्थावैचित्र्येण षड्भावविकारनेमियुक्तं यत्मरणान्तकदुःखरूपमाविर्भावतिरोभावात्संसरणस्वभावतया चक्रमिव चक्रं तस्मिन् विभ्रान्तः विपरिवृत्तः । अनेनास्य प्राग्जातिस्मरणस्वभावो बोधाविर्भावो द्योतितोऽन्यथा कथं काष्ठाप्राप्तिलक्षणं प्रश्नकुतूहलित्वं स्यात् । एवं च यः समुत्पन्नवैराग्यः परमेश्वरानुग्रहशक्तिविद्धहृदयः समुदितसम्यग्ज्ञान उपदेशपात्रतामवाप्य परमेश्वराकारं समुचितमपि गुरुं समासाद्य परमाद्वयज्ञानमभिलषते स एव च गुरूपदेशभाजनं स्यादिति । एतदेव चान्यत्रोक्तम्

शक्तिपातवशाद्देवि नीयते सद्गुरुं प्रति ।

इति । इह च पुरस्ताद्वक्ष्यते ॥ ३ ॥

अधुना समुत्पत्तिक्रमेण पीठिकाबन्धं विधाय विश्ववैचित्र्यचित्रेऽस्मिञ्जगति पारमेश्वरमनुत्तमं स्वातन्त्र्यमेकमेव संयोजनवियोजनकर्तृत्वहेतुरिति तच्छक्तिविकासमेव विश्वमण्डचतुष्टयमुखेनावेदयन्ग्रन्थमवतारयति

निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन ।
शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ॥ ४ ॥

चिदानन्दैकघनेन प्रभुणा स्वतन्त्रेण भगवता महेश्वरेणाण्डचतुष्टयं विश्वाच्छादकत्वेन कोशरूपतया वस्तुपिण्डभूतमिदम् । यदुक्तम्

वस्तुपिण्डोऽण्डमुच्यते ।

इति । प्रभावितं प्रकाशितं भवनकर्तृतया वा प्रयुक्तम् । कस्मादित्याह निजशक्तिवैभवभरातिति । निजः स्वात्मीयो योऽसावसाधारण इच्छाद्यः शक्तिप्रचयः तस्य यत्वैभवं विचित्रः प्रसरस्तस्य योऽसौ भरः समुद्रेकस्तस्मादिति । भगवतः किल स्वशक्तिविकासस्फार एव जगन्निर्माणम् । यदुक्तं श्रीसर्वमङ्गलाशास्त्रे

शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते ।
शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः ॥

इति । किंरूपाण्डचतुष्टयसंख्येत्याह शक्तिर्माया प्रकृतिः पृथ्वी च इति । विश्वस्य प्रमातृप्रमेयरूपस्य पराहन्ताचमत्कारसारस्यापि स्वस्वरूपापोहनात्माख्यातिमयी निषेधव्यापाररूपा या पारमेश्वरी शक्तिः सैवाच्छादकत्वेन बन्धकतया शक्त्यण्डमित्युच्यते । सदाशिवेश्वरशुद्धविद्यातत्त्वपर्यन्तदलं सद्वक्ष्यमाणमण्डत्रितयमन्तः समन्ताद्गर्भीकृत्यावतिष्ठत इति कोशरूपतयैषा शक्तिरनेन शब्देन संज्ञिता । एतस्मिन्नण्डे सदाशिवेश्वरावेवाधिपती ।

अन्यच्च मलत्रयस्वभावं मोहमयं भेदैकप्रवणतया सर्वप्रमातॄणां बन्धरूपं पुंस्तत्त्वपर्यन्तदलं मायाख्यमण्डमित्युच्यते । तच्च वक्ष्यमाणमण्डद्वयमन्तः समन्तात्स्वीकृत्य स्थितम् । अण्डाधिपतिश्चात्र गहनाभिधानो रुद्रः ।

तथा सत्त्वरजस्तमोमयी प्रकृतिः कार्यकरणात्मना परिणता सती पशुप्रमातॄणां भोग्यरूपा सुखदुःखमोहरूपतया बन्धयित्री प्रकृत्यभिधानमण्डमित्युच्यते । तत्रापि महाविभूतिः श्रीभगवान्विष्णुर्भेदप्रधानोऽण्डाधिपतिः ।

तथा पृथ्वी चैवं मनुष्यस्थावरान्तानां प्रमातॄणां प्रतिप्राकाररूपतया स्थूलकञ्चुकमयी बन्धयित्रीति कृत्वा पृथ्व्यण्डमित्युच्यते । तत्रापि चतुर्दशविधे भूतसर्गे प्रधानतयाण्डाधिपो भगवान्ब्रह्मेति । एवं परमेश्वरविजृम्भितमिदमण्डचतुष्टयं भगवतेत्थं प्रकाशितं परिस्फुरति ॥ ४ ॥

एवमेतदण्डचतुष्टयं प्रतिपाद्यात्रैव भोग्यभोक्तृत्वप्रतिपादनपरतया विश्वस्वरूपनिरूपणाय कारिकामाह

तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसंतानम् ।
भोक्ता च तत्र देही शिव एव गृहीतपशुभावः ॥ ५ ॥

तत्र तेषु चतुर्ष्वण्डेष्वागमप्रसिद्धेषु विश्वमिदमन्तः मध्ये वर्तते । कीदृशमित्याह विचित्र इति । रुद्रक्षेत्रज्ञभेदभिन्ना नानामुखहस्तपादादिरचनारूपाः तनवः आकारा विशिष्टसंस्थानरूपेणाश्चर्यभूताः । तथान्योन्यभेदेन सातिशयानि करणानि चक्षुरादीनि । तद्यथा रुद्रप्रमातॄणां निरतिशयानि सर्वज्ञत्वादिगुणगणयुक्तानि तैः किल सर्वमिदमेकस्मिन्क्षणे युगपज्ज्ञायते संपाद्यते च । क्षेत्रज्ञानां पुनरेतान्येव करणानि परमेश्वरनियतिशक्तिनियन्त्रितानि सन्ति घटादिपदार्थमात्रज्ञानकरणसमर्थान्येव न तैः सर्वं ज्ञायते नापि क्रियते । तत्रापि योगिनामतिशयः करणानां यन्नियतिशक्तिसमुल्लङ्घनात्तदीयैः करणैः दूरव्यवहितविप्रकृष्टमपि परिच्छिद्यते परप्रमातृगतं च सुखदुःखादि ज्ञायते । एवं च तिरश्चामपि नियतिशक्त्या संकुचितानामपि मनुष्येभ्योऽप्यतिशयः करणानां विद्यते । तद्यथा गावः स्वगृहं व्यवहितमपि पश्यन्त्यश्वा रात्रावपि मार्गमीक्षन्ते गृध्रा योजनशतगतमप्यामिषमवलोकयन्ति पक्षिणो मक्षिका मषकपर्यन्ता आकाशविहारिणो दृश्यन्ते सरीसृपा उरसा पन्थानं गच्छन्ति दृशा च शृण्वन्ति शब्दानुष्ट्रा दूरादपि गर्ताच्छ्वासमात्रेण सर्पमाकर्षयन्तीति । एवं सर्वत्र करणवैचित्र्यमूह्यम् । तथा भुवनानि आगमप्रसिद्धानि वर्तुलत्र्यश्रचतुरश्रार्धचन्द्रच्छत्राकारतया सातिशयसंस्थानानीति । एवं विचित्रः नानातिशयाद्भुतस्वभाव एषां तनुकरणभुवनानां संतानः अविरतबन्धप्रवाहो यस्मिन्विश्वस्मिंस्तदेवंविधं विश्वम् । एवंविधे चात्र भोग्यस्वभावे विश्वस्मिन्भोक्त्रा भाव्यमित्याह भोक्ता च तत्र देही इति । मलत्रयाघ्रातो देहो भोगायतनं विद्यते यस्याणोः स देही सुखदुःखादिस्वभावः शरीरी सुखदुःखादिमयेऽस्मिन् भोक्ता सुखदुःखाद्यनुभविता पशुप्रमातेति कथ्यते । ननु परप्रमात्रपेक्षयाणुमात्रस्यापि न भेदो विद्यते कुतस्तद्व्यतिरिक्तो देही नाम वराकः । यदुक्तम्

प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्च अविकल्प्यश्च ।

इति ।

एकैकत्र च तत्त्वेऽपि षट्त्रिंशत्तत्त्वरूपता ।

इति न्यायाच्चैक एव स्वशक्तियुक्तो महाप्रकाशवपुरेव परमेश्वरः प्रमाता सर्वतोऽभिन्न एवावभासते । ततो भिन्नस्याप्रकाशमानस्य देहिनोऽस्तित्वाभ्युपगमेऽपि प्रकाशमानत्वानुपपत्तेर्न सत्ता निश्चीयते । प्रकाशते चेत्तस्मिन्परब्रह्मात्मनि तर्हि प्रकाशाभिन्न एवैकः प्रमातेति पुनरपि किंपरत्वेनायं भोग्यभोक्तृलक्षणः सन्भेद इति सर्वं समर्थयमान आह शिव एव गृहीतपशुभावः इति । योऽयं भगवान्समनन्तरं प्रतिपादितश्चिदानन्दैकघनः स्वातन्त्र्यस्वभावः शिवः स एव स्वरूपगोपनासतत्त्वः सन्स्वेच्छया नट इव देहप्रमातृभूमिकां समापन्नः पाल्यत्वात्पशुत्वात्पशुसत्तालक्षणश्च सुखदुःखादिमये स्वयंनिर्मितेऽस्मिन्भोग्ये भोक्ता देहीति कथ्यते न पुनः शिवव्यतिरिक्तं किञ्चित्पदार्थजातमस्ति । एष एव च भगवाञ्शिवः स्वातन्त्र्याद्भोक्तृभोग्यलक्षणं प्रमातृप्रमेययुगलकं क्रीडनकमिव समुत्थापयति यदपेक्षयायं भेदप्रधानो व्यवहारः । तस्मादेतदेव परमेश्वरस्य स्वातन्त्र्यं निरतिशयं यत्पूर्णस्वरूपतापरित्यागेन भोक्तृभोग्यस्वभावं पशुभावमापन्नोऽपि सर्वप्रमातॄणामनुभवितृतया स्वात्मनि प्रस्फुरञ्चिदानन्दैकघनः शिव एव ॥ ५ ॥

एवमप्येकश्चित्स्वभावः प्रमाता स यदि मायादिप्रमातृप्रमेयवैचित्र्येण नानात्वादनेक इति कथं विरुद्धयैकतया व्यवह्रियत एकश्चेत्किमिति नानारूप इति च्छायातपवद्विरोधाद्विरुद्धधर्माध्यासः समापतति न पुनरनेकरूप एकश्च पदार्थः स्यात् । यदुक्तम्

अयमेव भेदो भेदहेतुर्भावानां यद्विरुद्धधर्माध्यासः कारणभेदो वा ।

इति । लौकिकमत्र दृष्टान्तं प्रदर्शयन्दार्ष्टान्तिके चोद्यं समर्थयते

नानाविधवर्णानां रूपं धत्ते यथामलः स्फटिकः ।
सुरमानुषपशुपादपरूपत्वं तद्वदीशोऽपि ॥ ६ ॥

यथा एकोऽपि स्फटिकमणिः तत्तल्लाक्षानीलाद्युपाधिवैचित्र्यसहस्रेण तत्तद्वैचित्र्यं स्वात्मनि धारयंस्तथा विचित्रितो भवति न पुनस्तस्य स्फटिकताहानिरेतावता समुत्पद्यते । एतदेव स्फटिकमणेर्मणित्वं यत्तत्तद्विशेषेणाच्छुरितेऽपि तस्मिन्स्फटिकमणिरयमित्यबाधिता सर्वस्य सर्वदैव प्रतीतिः । केवलमत्रामी लाक्षादयः स्फुरन्तीति व्यवह्रियते न पुनर्लाक्षाद्युपाधिः पटमिव तं विशिनष्टि येन स्वरूपविप्रलोपोऽस्य स्यात् । तस्मादेतदेवामलत्वं मणेर्यदुपाधिरूपानाकारान्बिभर्ति स्वस्वरूपतया च प्रथते । तथैवायमीश्वरः स्वतन्त्रश्चिदेकघन एककोऽपि स्वच्छे स्वात्मदर्पणे देवमनुष्यपशुपक्षिस्थावरान्तानां रुद्रक्षेत्रज्ञादिपदार्थरूपाणां विशेषाणां स्वयं निर्मितानां च रूपत्वं वर्णवैचित्र्यं स्फटिकमणिवत्स्वात्माभेदेन धारयंस्ततोऽपि समुत्तीर्णत्वादहमित्येवमखण्डचमत्कारोपबृंहितं नानारूपमप्येकं स्वात्मानं प्रत्यवमृशति । इत्थमप्यस्यैकताखण्डनामयो भिन्नरूपो देशः कालो वा न कश्चिद्विद्यते यदपेक्षयैतस्य स्वात्ममहेश्वरस्य विरुद्धधर्माध्यासादिदूषणमुच्येतापि । साक्षात्कारलक्षणं चित्रज्ञानं नानाभेदसंभिन्नमपि परैरप्येकमेव तदभ्युपगतम् । यथा

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनस्तं हि पतत्यर्थे विवेचयन् ॥

इति प्रमाणवार्तिके । किं पुनः सर्वतः पूर्णस्य ज्ञातुश्चिदेकवपुषः स्वतन्त्रस्य याविमौ देशकालौ भेदकतयाभिमतौ मूर्तिवैचित्र्यक्रियावैचित्र्याभ्यां यस्य समुल्लासकतया स्थितौ कथं तस्यैव भगवतो व्यवच्छेदकौ स्याताम् । यदि नाम देशकालयोः कदाचित्संविदो भेदेन स्थितिरभविष्यत्तदा तत्कृतोऽपि विरुद्धधर्माध्यास उदपत्स्यतेति तत्र संभावना स्यात् । यावता तयोः संवित्प्रकाशेनैव स्वात्मसत्तासिद्धिरिति सिद्ध एवानेकस्वभावोऽप्येक एव महेश्वरश्चिन्मूर्तिर्भेदधर्मे पुनर्विरुद्धधर्माध्यासो दुरुद्धर एवेति ॥ ६ ॥

नन्वेक एव संवित्सतत्त्वः प्रमाताभ्युपगतस्तनुकरणभुवनतां समापन्नः सन्स एवानेकतां यात इति चेत्तर्हि तन्वादिविनाशे स एव विनष्टः स्यात्तदुत्पत्तौ वैष एव तदोत्पद्येत । एवं प्रतिप्रमातृ स एव जायतेऽस्तीत्यादिषड्भावविकारतया व्यवच्छिद्यते पुण्यपापस्वभावकर्मवैचित्र्येणैतस्यैव भगवतः स्वर्गनरकादिभोगः प्राप्त इति कथमुच्यते स्वस्वरूप एव शिव इति । दृष्टान्तद्वारेणैतदपि समर्थयते

गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति ।
तनुकरणभुवनवर्गे तथायमात्मा महेशानः ॥ ७ ॥

यथा जलप्रवाहे याति सति हिमकरबिम्बं चन्द्रवपुर्वस्तुवृत्तेनाकाशस्थं स्वयमचलत्तात्मकं जलप्रवाहान्तःपतितमपि तत्गच्छति प्रयाति इव तथा तस्मिन्नेव क्षणेऽन्यत्र जलाशये निःस्तिमिते सति तदेव हिमकरबिम्बं स्थितिं गच्छतीवेत्युभयथा सर्वप्रमातृभिरेतत्संभाव्यते न पुनः परमार्थेन तत्तथैव स्यात् । नापि जलगतौ देशकालौ भेदकतया चन्द्रमसः स्वरूपं गगनस्थं परामृशतः केवलं जलमेव तादृशमथ च तत्प्रतिबिम्बितस्य चन्द्रबिम्बस्य जलगतचलत्ताचलत्तादिको भेदो व्यवह्रियत इत्येतावता गङ्गाजलगतस्य कर्दमपतितस्य वा शशिनः स्वस्वरूपतायां न काचित्क्षतिः । तथैवायमात्मा चैतन्यस्वभावः स्वयं निर्मिते तनुकरणभुवनसमूहे परिक्षीणे सति समुत्पन्ने वा प्रक्षीणः समुत्पन्नश्चेति मायाव्यामोहितानां व्यवहारमात्रमेतज्जलगतचन्द्रवन्न पुनः स्वात्मा जायते म्रियते वेति । गीतास्वेवमेवोक्तम्

न जायते म्रियते वा कदचिन्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥

इति । तस्मादयमात्मा महेशानः स्वतन्त्रः सर्वस्वात्मप्रत्यवमर्शस्वभावः सर्वप्रमातॄणामनुभवितृतया प्रथमानस्ततस्तत्तदवस्थाविप्रलोपे समुत्पत्तौ वा स्वस्वरूप एव । एतदेव च दुर्घटकारि महेशानत्वं संवित्तत्त्वस्य यत्तथा तथा पशुप्रमातृतया स्वर्गनरकादिभोगभोक्तापि सर्वानुभवितृतया संवित्स्वरूप एव । प्रत्युत पुण्यपापस्वर्गनरकक्षुत्पिपासादिको योऽयं पशुभावो बन्धकतया नियतः स यदि भगवता स्वात्मप्रकाशेन प्रकाशितः परामृष्टश्च स्यात्तदा यथोक्तां स्वात्मनि सत्तां लभतेऽन्यथा निःस्वभाव एवैष इति कथं स्वात्मनः तस्यैव महेशस्य स्वरूपविप्रलोपायोच्यते । सर्वथा निर्मितमेव वस्तु संहार्यं समुत्पाद्यं वा देहादिरूपं स्यान्न पुनः नित्ये भगवति चैतन्ये समुत्पत्तिविनाशौ कदाचिद्भवेताम् । तस्मादेक एवात्मा ग्राह्यग्राहकतया नानारूपस्वभावः सन्पुनरपि सर्वानुभवितृतया सर्वस्यैकतया प्रथत इति न काचिदद्वयवादक्षतिः ॥ ७ ॥

इत्थमपि सर्वेषामयमात्मा विश्वप्रपञ्चस्वभाव एव संविन्मात्रपरमार्थः सर्वावभासः सर्वत्र संविदनुगमादिति युक्त्यागमाभ्यां प्रतिपादितश्चेत्किमिति लोष्टादावप्यविशेषात्स्वात्मतया स न प्रतीयतेऽभ्युपगमे वा जडाजडव्यवस्थेयं भासमाना न संगच्छते लोकव्यवहारश्च जडाजडरूप इति कथमेतत्स्यादित्याह

राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् ।
सर्वगतोऽप्ययमात्मा विषयाश्रयणेन धीमुकुरे ॥ ८ ॥

आकाशदेशे राहुः सर्वत्र परिभ्रमन्नपि नोपलभ्यते स एव पुनर्ग्रहोपरागकाले चन्द्रमूर्तिस्थः प्रथमानोऽयं राहुरिति परीक्ष्यतेऽन्यथा स्थितोऽपि भचक्रेऽस्थित इव । तथैवेहापि सर्वान्तरतमत्वेन स्थितोऽपि अयमात्मा स्वानुभवैकस्वरूपतया प्रत्यक्षपरिदृश्यमानः सर्वस्य तथा नोपलक्ष्यते । यदा पुनः पुर्यष्टकप्रमातॄणां बुद्धिदर्पणे प्रतिभामुकुरे ग्राह्यव्यवस्थाकाले शब्दादिविषयस्वीकारेण शृणोमीत्येवमहंप्रतीतिविषयो भवति तदा ग्राहकस्वभावतया लोष्टादावपि स्थितः सन्स्फुटरूपस्तत्रैव स्वात्मा प्रकाशते सर्वैश्च स्वानुभवैकरूपः प्रतीयते लोष्टादावत्यन्ततमोमयत्वात्स्थितोऽप्यस्थितकल्पोऽसौ प्रथते राहुराकाशे यथा । एवमयं भगवान्मायाशक्त्या स्वात्मकल्पेऽपि भाववर्गे कांश्चित्पुर्यष्टकस्वरूपान्वेद्यखण्डानप्यहन्ताव्यवस्थारसाभिषिक्तान्वेदकीकरोति कांश्चिद्वेद्यीकरोति यदपेक्षयायं जडाजडव्यवस्थास्वरूपो भेदव्यवहारः सुस्थित एवोपपद्यते । तेन लोष्टादिर्वेद्यत्वाज्जडो वेदकत्वात्पुर्यष्टकप्रमाताप्यजडः । न पुनः परमार्थेन परमेश्वरापेक्षया जडाजडव्यवहार इति ॥ ८ ॥

ननु सर्वप्रमातॄणां बुद्धौ चेत्स्वात्मनोऽप्यविशेषेण प्रस्फुरणं तर्हि ते सर्वे किमिति स्वात्मविदो न स्युस्तज्ज्ञानवन्तो मा वा भूवन्विशेषाभावात् । यत्पुनः संसारावस्थायामपि केचन स्वात्मज्ञानाज्जीवन्मुक्ताः सर्वज्ञत्वसर्वकर्तृत्वशालिनः केचन स्वात्मज्ञानयोग्या आरुरुक्षवश्च दृश्यन्तेऽपरे स्वात्मज्ञानरहिताः सन्तो धर्माधर्मनिमित्तशुभाशुभकर्मनिगडप्रबन्धबद्धाः संसारिण एवेति कथमेतत्संगच्छत इत्थमन्तः सर्वं कृत्वा पारमेश्वरः शक्तिपातो विशृङ्खल इति प्रतिपादयति

आदर्शे मलरहिते यद्वद्वदनं विभाति तद्वदयम् ।
शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः ॥ ९ ॥

दर्पणे मालिन्यरहिते यथा निर्विशेषरूपादिगुणगणयुक्तं मुखं चकास्ति । न स देशोऽस्ति यं विनिवृत्तमल आदर्शो न स्वीकुरुते । समले दर्पणे तु मुखमनन्यातिशयमपि ध्यामलत्वाद्वैपरीत्येन प्रकाशते । नापि मलिनस्तदीयान्गुणान्स्वीकर्तुमलम् । प्रत्युत तन्न्यस्तमुखः पुमान्मुखमन्यथैव ध्यामलत्वाद्युपेतमवलोक्य स्वात्मनो लज्जामावहति विकृतं मद्वदनमिति । तथैव शिवस्य स्वात्मनो यासावनुग्रहाख्या शक्तिः तस्याः पातः स्वकिरणविस्फारस्तेन संमार्जिते प्रतिभामुकुर आणवमायीयकार्ममलवासनाप्रक्षयाद्विशदीकृते केषाञ्चिदपश्चिमजन्मनां प्रमातॄणां भाः प्रकाशः रूपं यस्येति सः भारूपः स्वात्मा यावत्सर्वज्ञत्वादिगुणगणयुक्तस्तावानप्यवभासते येन केचनैव ते स्वात्मस्वरूपप्रथनात्संसारमध्यपतिता अपि मुक्तकल्पाः सातिशयाश्च । केषाञ्चिदेव परमेश्वरतिरोधानशक्त्याणवमायीयकार्ममलसमाच्छादिते बुद्धितत्त्वे भारूपोऽप्यात्मा मालिन्याद्भातोऽप्यभातकल्पो येन ते सांसारिकाः पशव इत्यभिधीयन्तेऽन्येऽप्युभयशक्तियोगात्प्रमातार आरुरुक्षव इति । इत्थं तीव्रमन्दमन्दतरादिभेदेन शक्तिपातवैचित्र्यं सर्वत्राप्यूह्यम् । अत्र न मायान्तःपातिनियतिशक्तिसमुत्थमश्वमेधादिकं जपध्यानादि वान्यद्यत्किञ्चित्कर्म मोचनहेतुरात्मनस्तस्य हि मायातः समुत्तीर्णत्वाद्भेदप्रधानं वस्तु तत्साधनाय न प्रकल्पते । यद्गीतम्

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

इति । तस्मादेकमेवात्र परमेश्वरानुग्रहः कारणमकृत्रिमं भव्यबुद्धीनाम् । यदुक्तम्

ईशितुः शक्तिपातांशे ख्यापयित्री स्वतन्त्रताम् ।
धीः कारणकलाघ्राता नैव किञ्चिदपेक्षते ॥

इति । पशुप्रमातॄणां तु परमेश्वरतिरोधानशक्तिः संसरणहेतुरेव येनैते स्वस्वरूपाप्रथनाच्छुभाशुभकर्मनिरताः सुखदुःखादिभोगभाजः पुनः पुनरस्मिन्संसरन्ति । तस्मात्प्रमातॄणां साधारणेऽपि स्वात्मनि प्रकाशाप्रकाशरूपे अनुग्रहतिरोधानशक्ती द्वे एव ते मोक्षबन्धप्रविभागहेतू । यदुक्तम्

बध्नाति काचिदपि शक्तिरनन्तशक्तेः क्षेत्रज्ञमप्रतिहता भवपाशजालैः ।
ज्ञानासिना च विनिकृत्य गुणानशेषानन्या करोत्यभिमुखं पुरुषं विमुक्तौ ॥

इति ॥ ९ ॥

एवमिदं सर्वमागमानुभवयुक्तियुक्तं प्रतिपाद्य यत्प्राक्शक्त्याद्यण्डचतुष्टयं प्रतिपादितं तदन्तरालवर्ति समुत्पत्तिक्रमेण षट्त्रिंशत्तत्त्वात्मकं जगद्यल्लग्नं भाति तत्प्रथमतः कारणकारणं परमशिवस्वरूपं कारिकाद्वयेनाह

भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् ।
इच्छासंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णम् ॥ १० ॥
सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् ।
यत्परतत्त्वं तस्मिन्विभाति षट्त्रिंशदात्म जगत् ॥ ११ ॥

यतेवंविधं परं पूर्णं शिवतत्त्वं तत्र शिवादिधरापर्यन्तं वक्ष्यमाणं विश्वं विश्रान्तं सत्प्रकाशते तदभिन्नमेव चकासद्युक्त्योपपद्यत इति यावत् । ननु तन्यते सर्वं तन्वादि यत्र तत्तत्त्वं तननाद्वा तदाप्रलयं तस्य भाव इति वा तत्त्वमित्येवमपि तत्त्वव्यपदेशोऽयं जाड्यापादकः कथं चिद्रूपे भगवति परमशिवे स्यादुच्यते । उपदेश्यजनापेक्षया यावता शब्देन प्रतिपाद्यते तावता तत्र तत्त्वव्यपदेशो न वस्तुतः । कीदृशं तत्परं तत्त्वम् । भाः प्रकाशः रूपं स्वभावो यस्य महाप्रकाशवपुरित्यर्थः । तथा परिपूर्णं निराकाङ्क्षम् । निराकाङ्क्षमपि स्फटिकमणिदर्पणादि जडं वस्तु भवतीत्याह स्वात्मनि विश्रान्तितो महानन्दमिति । स्वस्मिन्स्वभावेऽखण्डाहन्ताचमत्काररसे विश्रमान्महानानन्दः परा निर्वृतिर्यस्येति । तदेवं परमाह्लादकस्फुरत्तासारत्वात्प्रकाश्यस्फटिकादेर्जडाद्वैलक्षण्यमुक्तं भवति । अत एवाह इच्छासंवित्करणैर्निर्भरितमिति । इच्छाज्ञानक्रियाशक्तिस्वभावमेव न पुनः शान्तब्रह्मवादिनामिव शक्तिविरहितं जडकल्पम् । अन्यच्च अनन्तशक्तिपरिपूर्णमिति । अनन्ताः निःसंख्या घटपटाद्या नामरूपात्मिकाः शक्तयः इच्छाज्ञानक्रियाशक्तीनां पल्लवभूता ब्राह्म्याद्याः शक्तयः शब्दराशिसमुत्थास्ताभिः परितः समन्तात्पूर्णं व्याप्तं तत एवोल्लसन्त्यस्तत्रैव शाम्यन्तीति । एवं परावाग्रूपं भगवति स्वातन्त्र्यमुक्तं स्यात् । ननु वाग्रूपं चेत्परं तत्त्वं तर्हि काल्पनिकं शब्दसंभिन्नत्वात्कथं शुद्धप्रकाशवपुषि कल्पनायोग इत्याशयेनाह सर्वविकल्पविहीनमिति । परप्रमातरि योऽयं पराहन्ताचमत्कारः स वाग्रूपोऽपि निर्विकल्पः । विकल्पो ह्यन्यापोहलक्षणो द्वयं घटाघटरूपमाक्षिपन्नघटाद्व्यवच्छिन्नं घटं निश्चिनोति । प्रकाशस्य पुनः पराहन्ताचमत्कारसारस्यापि नाप्रकाशरूपः प्रकाशादन्यः प्रतिपक्षतया विद्यते यद्व्यवच्छेदात्तस्य विकल्परूपता स्यात् । व्यवच्छेद्यो ह्यर्थोऽप्रकाशात्मा प्रकाशवपुषि प्रकाशते चेत्तर्हि

तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ।

इत्यादिन्यायेन योऽप्यर्थः प्रकाशस्वभावतां यातः सन्स कथं स्वात्मनस्तस्यैव व्यवच्छेदकः स्याद्येन विकल्परूपतां तत्र समावहेत् । अथ प्रतिपक्षतया न प्रकाशत इति कथमिहाप्रकाशमानः पदार्थः प्रतिपक्षरूपोऽस्तीति परिच्छेत्तुमपि शक्येतेति यत्किञ्चिदेतत्स्यात् । यतः सर्वैः व्यवच्छेदात्मकैः विकल्पैर्विहीनमपरिच्छिन्नस्वभावं परं तत्त्वम् । अत एवाह शुद्धमिति विमलं विकल्पमय्या अशुद्धिमष्या अभावात् । तथा शान्तमिति । ग्राह्यग्राहकसमुत्थक्षोभाभावाच्छक्तिसामरस्येन स्वस्वरूपस्थं न पुनरश्मशकलकल्पम् । अन्यच्च लयोदयविहीनमिति ।

सकृद्विभातोऽयमात्मा ।

इति कृत्वा सनातन एव । अतो भूतभविष्यद्वर्तमानवपुः कालस्तत्र न क्रमते यतः कालस्य तत एव समुल्लास इति समुत्पत्तिविनाशबहिष्कृते परतत्त्वेऽभ्युपगते विश्वस्य विश्वत्वमुपपन्नमिति प्रतिपादितं स्यात् ॥ ११ ॥

नन्वेवंविधे परतत्त्वे जगद्भातीति यत्प्रतिपादितं तत्कथमेतत्स्याद्यावता परतत्त्वापेक्षया न किञ्चिद्भेदेन भातुं प्रगल्भेत । ततो भिन्नं चेज्जगद्भासते तदाद्वयवादखण्डनाभिन्नं चेज्जगत्प्रकाशत इति कथं वाचोयुक्तिरिति दृष्टान्तद्वारेण तद्भेदाभेदरूपं तत्त्वमुपदर्शयन्नेतत्समर्थनायाह

दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि ।
भाति विभागेनैव च परस्परं दर्पणादपि च ॥ १२ ॥
विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि ।
अन्योन्यं च ततोऽपि च विभक्तमाभाति जगदेतत् ॥ १३ ॥

यथा निर्मले मुकुरान्तराले नगरग्रामपुरप्राकाराट्टस्थलनदनदीज्वलनवृक्षपर्वतपशुपक्षिस्त्रीपुरुषादिकं सर्वं प्रतिबिम्बतया चित्रं स्वालक्षण्येन नानारूपं भासते अविभागि दर्पणादविभक्तं सत्भाति तदभेदेनैवान्तराकारं समर्पयति तत्राभेदेन भासमानमपि भाति विभागेनैव च परस्परमित्यन्योन्यस्वालक्षण्येन घटात्पटो भिन्नः पटात्घट इति विभक्ततया स्फुरति । तदन्तर्गता हि भावा एव पृथक्त्वेन परामृश्यन्ते न पुनस्तं दर्पणं त्यक्त्वा पृथक्किञ्चिदुपलभ्यते किन्तु दर्पणसामरस्येन स्थितमपि सर्वतो भिन्नं जगत्प्रतीयते । एवमपि घटादिप्रतिबिम्बेन दर्पणस्तर्ह्यन्तर्हितः स्यादित्येतन्नेत्याह दर्पणादपि च इति । न केवलं स्वयं भावा दर्पणान्तर्गता अपि भिन्नाः प्रकाशन्ते यावद्दर्पणादपि व्यतिरिच्यन्ते यतो दर्पणस्तत्तत्प्रतिबिम्बमयोऽपि तेभ्यः प्रतिबिम्बेभ्यः समुत्तीर्णस्वरूपतया चकास्ति न पुनस्तन्मयः संपद्यते येन च न दर्पण इति प्रतीतः स्यात् । सर्वस्य पुनस्तत्तत्प्रतिबिम्बग्रहणेऽपि दर्पणोऽयमित्यबाधिता प्रतिपत्तिः । नापि घटादिर्दर्पणं विशिनष्टि येनायं घटदर्पणोऽयं पटदर्पण इति स्वस्वरूपताहानिरत्र जायते । देशकृतः कालकृतो वा भेदो न तत्र स्वभावविप्रलोपाय भवति । तस्मात्तत्तत्प्रतिबिम्बसहिष्णुः सन्स्वात्मनि दर्पणो दर्पण एवेति न काचित्प्रतिबिम्बवादक्षतिः । अथोच्यते भ्रान्तिरेषा यदुत दर्पणे हस्तीति परामृश्यते न तु पुनर्दर्पणे स कश्चिद्विद्यते तथात्वेनार्थक्रियाविरहाद्भ्रान्त्यैवैष निश्चय इति । एतावता प्रतिबिम्बवादेन दृष्टान्तस्तावत्सिद्धः । भ्रान्तेस्तु स्वरूपं समनन्तरं निरूप्यते । तद्वत्तथैव दर्पणनगरादिप्रतिबिम्बदृष्टान्तेन विमलतमपरमभैरवबोधाततिशयेन विगलितकालिकात्पूर्णानन्दोद्रिक्तात्प्रकाशात्जगत्विश्वं विभागशून्यमपि दर्पणप्रतिबिम्बवत्ततः प्रकाशादविभक्तमपि परस्परं च विभक्तत्वेन ग्राह्यग्राहकापेक्षया नानारूपं प्रथते ततोऽपि च इति बोधादप्युन्मग्नमिव आभाति यतो बोधस्तद्रूपतयापि प्रथमानस्ततः समुत्तीर्णः प्रथते यथा प्रतिबिम्बेभ्यो दर्पणः । एवमपि विश्वभावप्रतिबिम्बसहिष्णुः प्रकाशो विश्वभावेभ्यः समुत्तीर्णः सर्वस्यानुभवितृतया स्वस्वरूपेण प्रथते । भावगतोऽपि देशकालाकारभेदः केवलमत्र प्रकाशते दर्पणवन्न पुनः स्वं रूपं संभिनत्ति । अत एवैकानेकस्वरूपोऽपि बोध एक एव बोधाभ्युपगतचित्रज्ञानवत् । किन्तु दर्पणप्रकाशात्सचमत्कारस्य चित्प्रकाशस्येयान्विशेषो यद्दर्पणे स्वच्छतामात्रसनाथे भिन्नं बाह्यमेव नगरादि प्रतिबिम्बत्वेनाभिमतं भाति न तु स्वनिर्मितमतो दर्पणेऽयं हस्तीति यो निश्चयः स भ्रान्तः स्यात्प्रकाशः पुनः स्वचमत्कारसारः स्वेच्छया स्वात्मभित्तावभेदेन परामृशन्स्वसंविदुपादानमेव विश्वमाभासयति । विश्वस्याभासनमेव निर्मातृत्वं भगवत इति परामर्श एव प्रकाशस्य जडाद्दर्पणप्रकाशादेर्वैलक्षण्यापादकं मुख्यं रूपमिति । एतदेव ग्रन्थकृता विवृतिविमर्शिन्यामुक्तम्

अन्तर्विभाति सकलं जगदात्मनीह यद्वद्विचित्ररचना मकुरान्तराले ।
बोधः पुनर्निजविमर्शनसारयुक्त्या विश्वं परामृशति नो मकुरस्तथा तु ॥

इति । इत्थं परमेश्वरापेक्षया स्वाङ्गनिर्मिते भावराशौ न काचिद्भेदभ्रान्तिर्मायाप्रमात्रपेक्षया तु योऽयं भेदावभास एषा पूर्णत्वाख्यातिरूपा भ्रान्तिः पूर्णस्याद्वयात्मनो रूपस्याख्यानमप्रथा पूर्णं न भासते किन्त्वपूर्णं द्वयरूपं भासते भेद एव प्रतीयत इति यावत् । तस्मान्निरवद्योऽयं प्रतिबिम्बवादः ॥ १३ ॥

इत्थं परतत्त्वस्वरूपनिरूपणपूर्वं प्रकाशाभेदेन जगतः षट्त्रिंशत्तत्त्वात्मकस्य स्थितिं विधाय पुनरप्येतस्य समुत्पत्तिक्रमेण प्रतितत्त्वं स्वरूपं कारिकाभिः प्रतिपादयति

शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् ।
शक्तीनां पञ्चानां विभक्तभावेन भासयति ॥ १४ ॥

योऽयं परमशिवः परतत्त्वनिरूपणया समनन्तरप्रतिपादितस्वरूपः स्वस्वरूपरूपा याः शक्तयश्चिन्निर्वृतीच्छाज्ञानक्रियाख्याः पञ्चानन्तशक्तिव्रातहेतुभूतास्तासामेव पञ्चानां शक्तीनां भिन्नत्वेनातद्व्यावृत्त्येमां तत्त्वदशां पञ्चसंख्यावच्छिन्नामेव भासयति स्वालक्षण्येन प्रकटयतीत्यर्थः । कीदृशीं तामित्याह शिव इत्यादि । शिवश्च शक्तिश्च सदाशिवश्च तेषां भावो यस्याः सा तथोक्ता तां तथा ईश्वरविद्ये प्रकृतिर्यस्यां सा तथेति । अत्र प्रतितत्त्वं स्वरूपं प्रदर्श्यते । तथा हि सर्वप्रमातॄणामन्तः पूर्णाहन्ताचमत्कारमयं सर्वतत्त्वोत्तीर्णं महाप्रकाशवपुर्यच्चैतन्यमेतदेव शिवतत्त्वम् । अत्र तत्त्वनिरूपणमुपदेश्यजनापेक्षयेति । तस्यैव भगवतश्चिद्रूपस्यानन्दरूपा विश्वं भवामीति परामृशतो विश्वभावस्वभावमयी संविदेव किञ्चिदुच्छूनतारूपा सर्वभावानां बीजभूमिरियं शक्त्यवस्था । एषैव विश्वगतसृष्टिसंहारोपचारात्कृशपूर्णोभयरूपाप्येकैव सर्वरहस्यनयेषु गीयते । पुनरप्यत्रैव विश्वसमुत्पत्तिबीजभूमौ महाशून्यातिशून्याख्यायां महेशस्याहमिदमित्यभेदेन पूर्णाहन्तामयो यश्चमत्कारो ज्ञानप्राधान्यात्क्रियाभागस्याहन्ताविश्रान्तेः सेयं सदाशिवदशा । अत्र मन्त्रमहेश्वराः प्रमातारस्तिष्ठन्ति । तथात्रैवाहमिदमित्यभेदेनाहन्तेदन्तयोः समधृततुलापुटन्यायेन यः स्वात्मचमत्कारः सैषा तस्येश्वरावस्था । अत्रापि मन्त्रेश्वराः प्रमातारः । अत्रापीदन्ताप्राधान्येनाहन्तागुणीकारेण योऽहमहमिदमिदमित्येवंरूपश्चमत्कारः सद्योजातबालस्येव शिरोऽङ्गुलीनिर्देश्य एतदेव बोधसारत्वाद्भगवतः शुद्धविद्यातत्त्वम् । अत्र विद्येश्वरैः सह सप्तकोट्यस्तु मन्त्राणां वाचकतयानुग्रहस्वभावात्पशूनुद्धर्तुं वाच्यान्मन्त्रमहेश्वरमन्त्रेश्वरान्प्रत्यवतिष्ठन्ते । अत्र विद्यातत्त्वे विद्येश्वरप्रमातॄणां बोधरूपत्वाविशेषेऽपि या भेदप्रथा सा मायाशक्तिकृतैवेत्यागमेषु गीयते

मायोपरि महामाया ।
इति । येन तत्रस्था मन्त्रा महामायानुप्रवेशादणव इत्युच्यन्ते । मायातत्त्वोपरि शुद्धविद्याधश्च विज्ञानाकलाः प्रमातार आणवमलभाजनम् । एवमेकमेवेदं शिवस्वरूपं तुर्यातीतमपि तुर्यरूपतया तत्त्वपञ्चकतया गीयते । तस्मादेक एवैष स्वतन्त्रः कर्ता प्रकाशते यस्याहमिदमिति सदाशिवेश्वरभूमौ यः प्रकाश एतदेव शुद्धवेदनरूपं करणं वक्ष्यमाणो मायातत्त्वादिधरान्तस्तत्त्वसर्गश्च कार्यमित्येव कर्तृकरणक्रियारूप एक एव स्वात्ममहेश्वराख्यः परमप्रमाता विजृम्भते ॥ १४ ॥

मायातत्त्वस्वरूपमाह

परमं यत्स्वातन्त्र्यं दुर्घटसंपादनं महेशस्य ।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ १५ ॥

परममनन्यापेक्षं यत्परमेशितुः स्वातन्त्र्यं विश्वनिर्मातृत्वं सैवेयं मायाख्या शक्तिः तस्य शक्तिमतः । मीयते परिच्छिद्यते धरान्तः प्रमातृप्रमेयप्रपञ्चो यया सा माया विश्वमोहकतया वा माया । एषा देवस्य क्रीडाशीलस्य संबन्धिनीति कृत्वा देवी न पुनर्ब्रह्मवादिनामिव व्यतिरिक्ता काचिन्मायोपपद्यत इति । कीदृशं तत्स्वातन्त्र्यं दुर्घटसंपादनमिति । दुःखेन घटयितुं शक्यमिति दुर्घटस्य कार्यस्य प्रमातृप्रमेयरूपस्य संपादनं प्राप्तिप्रापकम् । एषैव माया स्वेच्छया पशुभावमापन्नस्य शिवस्य स्वात्मावरणं स्वरूपगोपनाख्यमाणवादिमलत्रितयम् ॥ १५ ॥

वक्ष्यमाणे च प्राधानिके सुखादिरूपे भिन्ने भोग्ये यद्भोक्तृरूपं पुंस्तत्त्वं तत्स्वरूपमाह

मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति ।
कालकलानियतिवशाद्रागाविद्यावशेन संबद्धः ॥ १६ ॥

माया स्वीकारपारतन्त्र्यात्सर्वज्ञत्वसर्वकर्तृत्वमयोऽपि बोधः सर्वज्ञत्वादिगुणापहस्तनेनाख्यातिरूपमाणवं मलमापन्नो येन घटाकाशवत्पूर्णस्वरूपाच्चिदाकाशादवच्छेद्य परिमितीकृतः संस्तदेव पुंस्तत्त्वमुच्यते । अतो मायायाः पाल्यः पाश्यश्चेति पशुः आणवमायीयकार्ममलस्वभावानां पाशानां भाजनम् । अन्यच्च कालकला इति वक्ष्यमाणस्वरूपैः कालादिभिः ओतप्रोततया सम्यक्बद्धः दृब्ध इत्येवं तत्त्वषट्कवेष्टितं पुंस्तत्त्वम् ॥ १६ ॥

कालादीनां तत्त्वानां चैतद्वेष्टनक्रमेण स्वरूपमाह

अधुनैव किञ्चिदेवेदमेव सर्वात्मनैव जानामि ।
मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥ १७ ॥

इत्थं स्वतन्त्रोऽपि बोधः स्वमायया यथाणुत्वं प्राप्तस्तथैव तदीये ज्ञानक्रियाशक्ती संकुचिते अस्य पशुरूपस्य विद्याकले इत्युच्येते । यथा राज्ञापहृतसर्वस्वस्यानुकम्पया जीवनार्थं किञ्चिद्धनं स्तोकं दीयते तथैवाणुत्वमापन्नस्य बोधस्यापहृतसर्वज्ञत्वादेः किञ्चित्कर्तृतापरमार्थं ज्ञत्वमुपोद्बल्यत इति ज्ञत्वस्यैव प्राधान्यात्कालादीनां जानातिनान्वयो दर्शितः । इदं कञ्चुकषट्कमुक्तरूपया मायया युक्तमणोः आणवमलापहस्तितसर्वज्ञत्वादेः पुंसः स्वरूपाच्छादकं स्वर्णस्य कालिकेव अन्तरङ्गं निजं कथितम् । किंरूपमित्याह अधुना इत्यादि । अधुनैव जानामि इति सोऽणुर्वर्तमानतयेदं प्राङ्मया ज्ञातं जानामि ज्ञास्यामीत्येवमपि कृतं करोमि करिष्ये वेति ज्ञानक्रियास्वरूपेण भावानपि तथा कलयन्नवच्छिनत्ति चेत्येषोऽस्य कालः । तथा किञ्चिदेव इत्यवच्छिन्नमेव करोति सर्वं कर्तुं नालं घटमात्रकरणाय प्रभवति न पटादावित्येतदस्याणोः कलातत्त्वम् । इदमेव इति नियतात्कारनान्नियतं कार्यं यदर्थयते यथा वह्नेरेव धूमोऽश्वमेधादिकर्मण एव स्वर्गादिफलं न सर्वस्मादित्येवं नियमेन स्वसंकल्पकृतकर्मप्रबन्धसमुत्थपुण्यापुण्यैरात्मा नियम्यते येन तदस्य नियतितत्त्वम् । तथा सर्वात्मना इति येयमपूर्णम्मन्यता सर्वं ममेदमुपयुज्यते भूयासं मा कदाचिन्न भूवमित्येतत्पशो रागतत्त्वम् । बुद्धिधर्मो यो रागः स एकत्र कुत्रापि कान्तालक्षणेऽर्थेऽन्यदपोह्यात्र मे राग इत्यभिष्वङ्गमात्रं न सर्वाकाङ्क्षामयस्य रागतत्त्वस्य समानः । तथा जानामि इति किञ्चिदेव पुरोवर्ति घटादिकं न पुनर्दूरव्यवहितं वस्त्विति विद्यातत्त्वम् । शुद्धविद्यापेक्षया कारिकायामविद्येति कथितं न पुनर्वेदनाभावात् । मायासहितं भेदप्रथायुक्तमेतत्कञ्चुकषट्कं पशोरिति ॥ १७ ॥

कथमेतस्य कञ्चुकषट्कस्याणुं प्रत्यन्तरङ्गत्वमित्याह

कम्बुकमिव तण्डुलकणविनिविष्टं भिन्नमप्यभिदा ।
भजते तत्तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन ॥ १८ ॥

वास्तवेन वृत्तेन भिन्नमपि कम्बुकं यथा अभिदा तण्डुलकणविनिविष्टमित्यभेदेन तण्डुलान्तश्चोतं भासते निपुणैरपि यत्नतः प्रक्षिप्यमाणं तण्डुलस्यान्तरङ्गत्वान्न पृथगवतिष्ठते तथैतन्मायादिकञ्चुकमणोस्तण्डुलस्थानीयस्यान्तरङ्गत्वात्कम्बुकस्थानीयं व्यतिरिक्तमप्यव्यतिरिक्ततया पूर्णसंवित्स्वरूपमाच्छाद्य स्थितमिति शेषः । एवमपि दुर्निवारं कथं तद्विलीयत इत्याह भजते इत्यादि । तुः विशेषे नान्योऽत्रोपायः । शिवस्य स्वात्ममहेश्वरस्य योऽसौ मार्गः परमाद्वयचिदानन्दैकघनोऽस्मि ममैवेदं विश्वं स्वशक्तिविजृम्भणमात्रमिति या स्वात्मस्वरूपविभूतिप्रत्यवमर्शरूपा सरणिः तदौन्मुख्यं दार्ढ्येन तन्निभालनपरत्वं स एव योगः पूर्णरूपतयाणोः स्वात्मनि स्वस्वरूपत्वेन संबन्धस्तेन ततुक्तस्वरूपं कञ्चुकं विशेषेण शुद्धिं भजते स्वयमेव निःशेषेण विलयं सेवते । एतदुक्तं स्याद्यदा परमेश्वरशक्तिपातविशुद्धहृदयः पशुर्भवति तदाहमेव महेश्वर इति स्वात्मज्ञानाविर्भावात्स्वयमेव पशुत्वापादकं कञ्चुकावरणं विलीयते न पुनरत्र स्वात्मज्ञानं विहाय मायीयं किञ्चिन्नियतिशक्तिसमुत्थं कर्म प्रगल्भत इति ॥ १८ ॥

एवंविधस्याणोर्भोक्तुश्च भोग्येन भाव्यमिति प्राधानिकं तत्त्वसर्गमाह

सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच्च ।
प्रकृतिरथान्तःकरणं बुद्धिमनोऽहङ्कृति क्रमशः ॥ १९ ॥

सत्त्वरजस्तमसां यत्सुखदुःखमोहात्मकं सामान्यं रूपमङ्गाङ्गिभावो यत्र नोपलभ्यते सा मूलकारणं प्रकृतिः । प्रकृतेरनन्तरं कार्यरूपमन्तःकरणमाह निश्चय इत्यादि । निश्चयः इदमेतादृगिति संकल्पनं मननमभिमानः ममतेति क्रमेण बुद्धिर्मनोऽहङ्कारः इत्येवंरूपं त्रितयमन्तःकरणमङ्गाङ्गिभावेन गुणानां कार्यं भूतेन्द्रियाद्यपेक्षया च कारणमिति ॥ १९ ॥

बाह्यकरणमाह

श्रोत्रं त्वगक्षि रसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ ।
वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः ॥ २० ॥

वक्ष्यमाणे शब्दादौ विषये ज्ञानप्रधानानि श्रोत्रादीनि पञ्चेन्द्रियाणि क्रियाप्रधानानि चेन्द्रियाणि पञ्च वागादीनि । वचनादानविहरणविसर्गानन्दात्मकाः कर्मेन्द्रियाणां विषयाः । इत्युभयथा च शृणोमि कथयामीत्यहङ्कारानुगमादहङ्कारकार्याणि ॥ २० ॥

एषां शब्दादिविषयस्वरूपं कथयति

एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् ।
तन्मात्रपञ्चकं तच्छब्दः स्पर्शो महो रसो गन्धः ॥ २१ ॥

ज्ञेयकार्यतया स्वीकार्यः य एषामिन्द्रियाणां विषयः गोचरः स्यात् । स कीदृशः प्रविभागवर्जितः विशेषेण बहिष्कृतः सामान्यात्मा सूक्ष्मः योऽर्थो भवेत्तदेव शब्दादि सामान्यरूपं तन्मात्रं शब्दसामान्यं शब्दतन्मात्रमिति । एवमन्यानि । विषयविषयिणोः परस्परापेक्षित्वादिन्द्रियवदिदमपि तन्मात्रपञ्चकमाहङ्कारिकमेवेति ॥ २१ ॥

विषयाणां परस्परसांकर्येण पृथिव्यादीनि कार्यमित्याह

एतत्संसर्गवशात्स्थूलो विषयस्तु भूतपञ्चकताम् ।
अभ्येति नभः पवनस्तेजः सलिलं च पृथ्वी च ॥ २२ ॥

एतेषां संसर्गवशात्परस्परसंघर्षसामर्थ्याद्यो विशेषः स्थूलो विषयः स एव भूतरूपतां याति । तथा हि शब्दतन्मात्राच्छब्दविशेषो नभो जायते शब्दस्पर्शाभ्यां पवनो रूपसंयुक्ताभ्यामेताभ्यां तेजश्चैभ्यो रसयुक्तेभ्यश्चापो गन्धसंयुक्तेभ्यश्च पृथ्वीति पञ्च महाभूतानि कार्यं कारणानुगुणमिति कृत्वैकोत्तरगुणानीति । एवमेषा प्रकृतिः कार्यकारणात्मा पुरुषस्य परमेश्वरस्येच्छया भोग्यतया प्रवृत्तेति षट्त्रिंशत्तत्त्वात्मकं जगद्विभज्य प्रतितत्त्वं निरूपितम् ॥ २२ ॥

मायाकञ्चुकवत्प्रकृतेः कञ्चुकतां पुरुषं प्रत्याह

तुष इव तण्डुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः ।
पृथ्वीपर्यन्तोऽयं चैतन्यं देहभावेन ॥ २३ ॥

अयमपि प्राधानिकः सर्गः धरापर्यन्तः तण्डुलकणं यथा तुषः धान्यचर्म आवृणुते समाच्छादयति तथैव मायाकञ्चुकेन कम्बुकस्थानीयेन समावृतं चैतन्यं पुनरपि तुषस्थानीयेन देहभावेन एतत्समावृणुते तत्प्रतिप्राकारतया स्थगयति । अत्रेमे प्रमातारः कलाभिरिन्द्रियमात्राभिर्विशेषान्ताभिर्देहस्वभावाः सकला इत्युच्यन्ते विशेषवर्जिता विदेहाः प्रलयाकला इति च । एवं शिवादिसकलान्तप्रमातृसप्तकसनाथं रुद्रक्षेत्रज्ञाधिष्ठितं जगदिति ॥ २३ ॥

कञ्चुकत्रितयस्य परसूक्ष्मस्थूलरूपतामाह

परमावरणं मल इह सूक्ष्मं मायादिकञ्चुकं स्थूलम् ।
बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्यात्मा ॥ २४ ॥

चैतन्यस्य स्वस्वरूपापहस्तनसतत्त्वाख्यातिरेवाणवः मलः आन्तरः स्वर्णस्य कालिकेव परमन्तरङ्गमावरणं छादनं तादात्म्येन स्थितत्वात् । मायादि विद्यान्तं कञ्चुकषट्कं सूक्ष्ममात्मन आवरणं तण्डुलस्य कम्बुकमिवावरणं पृष्ठपातित्वेनास्ते येन भेदमयी ज्ञत्वकर्तृत्वादिप्रथा प्रथत इत्येष मायीयो मलः । एतदपेक्षया बाह्यं तुषस्थानीयं प्राधानिकं शरीरसत्तालक्षणमावरणं स्थूलं त्वङ्मांसादिरूपत्वादेष तृतीयः कार्मो मलो येन प्रमाता शुभाशुभकर्मसंचयभाजनं भवति । एवमनेन परसूक्ष्मस्थूलरूपेण कोशत्रयेन वेष्टितः विकस्वरोऽपि घटाकाशवत्संकुचितीकृतः आत्मा इत्यणुरिति पशुरित्युच्यते ॥ २४ ॥

एतत्संबन्धादुपहत इव भवतीत्याह

अज्ञानतिमिरयोगादेकमपि स्वं स्वभावमात्मानम् ।
ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत ॥ २५ ॥

एष कोशत्रयसंबद्ध आत्मात्माख्यात्यन्धकारसंबन्धातेकमपि अद्वयस्वभावमपि स्वं निजं नान्यस्मादुपनतमात्मस्वभावं चैतन्यमात्मसत्तालक्षणं स्वरूपं प्रमातृप्रमाणप्रमेयनानारचनाप्रपञ्चेन जानात्यभेदविपरीतेन भेदेनाभिमन्यत इति यावत् । यथा रेखातिमिरोपहतः पुरुष एकमपि चन्द्रं पश्यन्द्वौ चन्द्राविमौ नभसि स्त इति परिच्छिन्दमॄल्लोकमपि दर्शयति द्वौ चन्द्राविमौ पश्येति । वस्तुवृत्तेनैक एवासौ चन्द्र इति तिमिरवशात्तथा भासते येनोद्वेगलक्षणामानन्दलक्षणां वार्थक्रियां स तैमिरिकः प्राप्नोति । तथैवाज्ञानतिमिरप्राप्तभेदप्रथः सर्वं स्वात्मनोऽभिन्नमपि भेदेन व्यवहरन्भिन्नं कर्मफलमर्थयते येन भूयोभूयः स्वर्गनिरयादिभोगभाग्भवति । अतश्चाज्ञानस्य तिमिरेण रूपणा विपरीताभासनात् ॥ २५ ॥

आत्माद्वयं दृष्टान्तेन निदर्शयति

रसफाणितशर्करिकागुडखण्डाद्या यथेक्षुरस एव ।
तद्वदवस्थाभेदाः सर्वे परमात्मनः शंभोः ॥ २६ ॥

रसादयः इक्षुभेदाः यथा एकः एवेक्षुरसः परमार्थतः सर्वत्र माधुर्यानुगमात्तथैव जाग्रदादि अवस्थाभेदाः ग्राह्यग्राहकप्रपञ्चरूपाः सर्वे विशेषाः परमात्मनः स्वस्वभावस्य शंभोः चैतन्यमहेश्वरस्यैव । यतः स एव भगवान्सर्वस्य स्वात्मभूतः स्वस्वातन्त्र्यात्तां तामपि भूमिकां समापन्नस्तथा ग्राह्यग्राहकाद्यवस्थाविशिष्टः प्रथते यथेक्षुरसो न पुनः स्वात्मनस्तस्माद्भिन्नं किञ्चिदस्तीति स एक एव सर्वावस्थासु संविदनुगमात् । इत्थं सर्वत्रैकरूपतादर्शनात्प्रमाता सर्वदृश्वा भवति । यथाह श्रीशंभुभट्टारकः

एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः ।
एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥

इति । भगवद्गीतास्वपि

सर्वभूतेषु येनैकं भावमक्षयमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥

इति ॥ २६ ॥

तीर्थान्तरपरिकल्पितस्तु भेदः संवृत्यर्थमभ्युपगतोऽपि न सत्यभूमाववकल्पत इत्याह

विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः ।
व्यवहारमात्रमेतत्परमार्थेन तु न सन्त्येव ॥ २७ ॥

विज्ञानमिति बोधमात्रमेव केवलमनुपाधि नामरूपरहितमप्यनादिवासनाप्रबोधवैचित्र्यसामर्थ्यान्नीलसुखादिरूपं बाह्यरूपतया नाना प्रकाशत इति विज्ञानवादिनः ।

पुरुष एवेदं सर्वम् ।

नेह नानास्ति किञ्चन ।

इति न्यायेन अन्तर्यामि सर्वस्येति परं ब्रह्मैवानाद्यविद्यावशाद्भेदेन प्रकाशत इति ब्रह्मवादिनः । अत्रोभयत्रापि वेदनस्य स्वातन्त्र्यं जीवितभूतं विश्वनिर्माणहेतुरिति न चेतितम् ।

अन्ये प्राण ब्रह्मवादिनस्तु यथाप्राणनमेव विश्वमागूर्य वर्तते नहि प्राणनादृतेऽन्यत्किञ्चिद्ब्रह्मणो रूपमिति सविमर्शं शब्दब्रह्मेत्याहुः ।

अपरे प्रतिपन्ना यथा विराड्देहमिति वैराजमपि ब्रह्मणः सत्यभूतमिति । यथोक्तम्

यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
सूर्यश्चक्षुर्दिशः श्रोत्रे तस्मै लोकात्मने नमः ॥

इत्येवमादि ।

जातिः इति महासत्तासामान्यलक्षणं सर्वगुणाश्रयं वस्तु परमार्थसदिति वैशेषिकादयो ब्रुवते ।

अन्ये पिण्डाः इति व्यक्तय एव परमार्थसत्यो नहि सामान्यं नाम किञ्चिदेकमनेकगुणाश्रयं प्रकाशते नाप्युपपद्यते वेति व्यक्तीनामेव व्यवहारः परिसमाप्तः किं सामान्येनेति नानावृत्तिविकल्पैः सामान्यं विवदमाना व्यक्तयो नानुयन्त्यन्यदनुयायि न भासत इत्येवमादि बहु ब्रुवन्तो जातिर्न परमार्थ इति प्रतिपन्ना इत्येव विज्ञानादिः पिण्डोऽन्ते येषां भेदानां ते तथोक्ताः व्यवहारमात्रमेततित्यस्मिन्स्वातन्त्र्यवादे प्रकाशमानस्य वस्तुनोऽनपह्नवनीयत्वादेते भेदाः संवृतिसत्यत्वेन प्रकाशन्ते परमार्थेन तु न सन्त्येव इति न पुनः सतत्त्वतयैते भेदास्तीर्थान्तरपरिकल्पितभेदा विद्यमाना एव । तस्मादेक एव परमप्रकाशपरमार्थः स्वतन्त्रश्चैतन्यमहेश्वर इत्थमित्थं चकास्ति यतोऽन्यस्यैतद्व्यतिरिक्तस्याप्रकाशरूपस्य प्रकाशमानताभावात् । यदुक्तम्

तीर्थक्रियाव्यसनिनः स्वमनीषिकाभिरुत्प्रेक्ष्य तत्त्वमिति यद्यदमी वदन्ति ।
तत्तत्त्वमेव भवतोऽस्ति न किञ्चिदन्यत्संज्ञासु केवलमयं विदुषां विवादः ॥
इति ॥ २७ ॥

इदानीं भ्रान्तेरसदर्थप्रतिपादनसामर्थ्येन निदर्शनमाह

रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् ।
भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम ॥ २८ ॥

भ्रान्तेः पूर्णत्वाख्यातिरूपाया अताद्रूप्यप्रतिभासने महती शक्तिः उत्तमं सामर्थ्यं न केनचित्विवेक्तुं शक्यते न केनचिद्विचारयितुं पार्यत इति यावत् । यथा वस्तुवृत्तेन रज्जुः परिदृश्यमाना दीर्घत्वकुण्डलिनीरूपत्वभ्रमात्सर्पोऽयमित्यध्यवसातॄणां रज्जुद्रव्येऽप्यसदर्थप्रतिभासोऽयं सर्पाध्यवसायः सदर्थप्रतिभासाद्भयं मरणावसायं विदधाति । अनुभवसिद्धमप्येतत्स्थाणुं भूतमिति मत्वा स्वयं भीषणीयं वाकारं समुल्लिख्य भ्रान्ताः सन्तो हृद्भङ्गनाशं के नाम न याता इति विभ्रम एवापूर्णत्वप्रथने हेतुरिति ॥ २८ ॥

एतत्प्रकृते समर्थयते

तद्वद्धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् ।
वर्णाश्रमादि चात्मन्यसदपि विभ्रमबलाद्भवति ॥ २९ ॥

एवं यथा रज्जुः परमार्थसती भ्रान्त्या सर्पतया विमृष्टापि सर्पगतामर्थक्रियां करोति तथैव देहात्ममानिनां चेतसि धर्माद्यसदपि तत्त्वतोऽविद्यमानं विभ्रम वशान्मायाव्यामोहसामर्थ्यादेव भवति एतदेव तत्त्वमिति भ्रान्त्या सत्तां लभते । धर्मः अश्वमेधादिः अधर्मः ब्रह्महननादिः स्वः निरतिशया प्रीतिः निरयः यातना उत्पत्तिः जन्म मरणं जन्माभावः सुखमाह्लादः दुःखं राजसः क्षोभस्तथा वर्णः ब्राह्मणोऽस्मीत्यादि आश्रमः ब्रह्मचारीत्यादि आदि ग्रहणात्तपःपूजव्रतानीति सर्वं कल्पनामात्रसारं विभ्रमविजृम्भितमेव मायाशक्त्या देहाद्यात्मतयाभिमन्यते । एतत्सर्वं भ्रान्तेः प्रभवति ययानवरतस्वर्गनरकजन्ममरणप्रबन्धभाजः पशवो न पुनः परमार्थतः स्वात्मनोऽनवच्छिन्नचिदानन्दैकघनस्य धर्माधर्मादिकं किञ्चिद्विद्यत इति ॥ २९ ॥

एवमसदर्थप्रतिभासने भ्रान्तेः सामर्थ्यं विचार्य तदुत्पत्तिमाह

एतत्तदन्धकारं यद्भावेषु प्रकाशमानतया ।
आत्मानतिरिक्तेष्वपि भवत्यनात्माभिमानोऽयम् ॥ ३० ॥

एतत्तदन्धकारमित्येषा सा समनन्तरप्रतिपादिता विश्वमोहिनी पूर्णत्वाख्यातिरूपा भ्रान्तिः यद्भावेषु प्रमातृप्रमेयरूपेषु विश्ववर्तिषु पदार्थेषु प्रकाशमानतया इति

नाप्रकाशः प्रकाशते ।

इति प्रकाशमानतान्यथानुपपत्त्या प्रकाशशरीरीभूतेषु आत्मनः चैतन्यमहेश्वरादपृथग्भूतेषु सत्स्वपि यः अयमतिरेकेणामी भावा ग्राह्या बाह्या मत्तो भिन्नाश्चेति अनात्माभिमानः वास्तवचिद्रूपतापहस्तनेन यत्तेष्ववास्तवं जडत्वापादनम् । अयमाशयो भावप्रकाशनेऽन्यस्याप्रकाशरूपस्य बाह्यवासनादेर्हेतोरनुपपद्यमानत्वात्स्वात्मप्रकाश एव स्वतन्त्रोऽर्थान्नीलसुखादिना प्रकाशतेऽतः प्रमातृप्रमेयरूपतया चित्स्वरूपोऽहमेव प्रकाश इति यद्वास्तवं रूपं तन्न प्रकाशते केवलमेवावास्तवो भेदः प्रथत इति तात्त्विकप्रथनाभावाद्भ्रान्तेरन्धकारेण रूपणमिति ॥ ३० ॥

आत्मन्यनात्माभिमानपूर्वोऽनात्मन्यात्माभिमानो भवतीति प्रतिपादयन्भ्रान्तेः सुतरां मोहरूपतामाह

तिमिरादपि तिमिरमिदं गण्डस्योपरि महानयं स्फोटः ।
यदनात्मन्यपि देहप्राणादावात्ममानित्वम् ॥ ३१ ॥

आदौ तावदेकसंवित्सतत्त्वेष्वपि भावेषु भेदमयं जाड्यापादनमख्यातितिमिरेण कृतं यत्स्वात्मनोऽभिन्नानां भावानां ततो भेदेन प्रथनमत एव तिमिरमिव तिमिरमख्यातिः । यथैकोऽपि चन्द्रः चक्षुस्थेन रेखातिमिरेण द्विधा भास्यते द्वौ चन्द्राविति तथैवाख्यातितिमिरमेकमपि सर्वं स्वात्मस्वरूपं वस्तु भेदेनानात्मरूपं प्रकाशितवत् । एवमवस्थिते तिमिरमपरमायातं मोहान्मोहोऽयमापतितः गण्डस्योपरि पिटकोद्भवश्च यतख्यात्यपहस्तितचित्स्वरूपेष्वपि विश्ववर्तिषु पदार्थेषु जाड्यमापादितेषु मध्यादुद्धृते व्यतिरिक्ते जडे देहप्राणादौ वेद्यखण्डे कृशोऽहं स्थूलोऽहं क्षुधितोऽहं सुख्यस्मि न किञ्चिदहमिति प्रमातृतयानात्मभूते आत्ममानित्वमताद्रूप्ये ताद्रूप्यप्रतिपत्तिरेतदतिवैशसम् । यदि तावदात्माभिमानेन विना वैशसमस्ति तन्नीलसुखादिष्वप्यस्तु मा वा कुत्रापि भूद्यत्पुनः कतिपये जडे देहादौ लोष्टप्राय आत्मतयाहन्तारसाभिषेकोऽन्यत्र नीलसुखादाविदन्तयानात्मप्रतिपादनमेष एव पूर्णः संसारः शोचनीयो यदभिमानोपनतो द्वन्द्वाभिघातः कर्षति पशूनिति । यदुक्तं मार्कण्डेयपुराणे योगिन्या मदालसया

यानं क्षितौ यानगतश्च देहो देहेऽपि चान्यः पुरुषो निविष्टः ।
ममत्वमुर्व्यां न तथा यथा स्वे देहेऽतिमात्रं च विमूढतैषा ॥

इति ॥ ३१ ॥

एवमख्यातिवशान्मिथ्याविकल्पैरित्थमात्मानं बध्नातीत्याह

देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन ।
आत्मानं वेष्टयते चित्रं जालेन जालकार इव ॥ ३२ ॥

अख्यात्यपहस्तितचैतन्यः सर्वः प्रमाता स्वोत्थैर्विकल्पनिगडैर्व्यापकमपि आत्मानं वेष्टयते । कथमित्याह देह इत्यादि । देहप्राणयोर्विमर्शनं धियो ज्ञानं निश्चयः नभसां प्रपञ्चः विस्तारः तद्योगेन देहादिविकल्पसंबन्धेन । यथा कृशः स्थूलो रूपवान्पण्डितश्चास्मीति बालाङ्गनापामराः कार्षिका इत्थं स्वविकल्पेन देहमेवात्मत्वेन प्रतिपन्नाः किञ्चिद्विवेचकंमन्याः ।

देहस्तावदिहैव प्रलीयते कुतोऽस्यात्मत्वमतो यः क्षुधितः पिपासितः सोऽहमिति प्राणात्ममानिनश्च विवेचकंमन्यतराः ।

देहप्राणौ जडौ लोष्टादिवत्कुतोऽनयोरात्मभावस्ततः सुख्यहं दुःख्यहमिति यः सुखदुःखादि चेतते स आत्मेति पुर्यष्टकाभिमानिनो मीमांसकादयोऽपि विवेचकतमाश्च ।

एतत्सुखदुःखाद्यपि बुद्धिधर्मः कथमात्मतया वक्तुं शक्यस्ततो देहप्राणधीविकल्पानां यत्राभावः स आत्मेति शून्याभिमानिनः । एवं यत्किञ्चिदिदं भाति तन्नाहमित्यप्रथारूपं शून्यमेव सर्वापोहनस्वभावमात्मेति नभःशब्देनोक्तः । तदपि शून्यं यदा समाधानावसरे वेद्यीकुर्वत एतदपि शून्यं वयं न भवामस्तदा शून्यान्तरमात्मत्वेन विदधाना नेति नेति ब्रह्मवाद्यभ्युपगततत्तच्छून्यपरित्यागेन तां तां शून्यात्मतां परिगृह्णन्तीति नभःप्रपञ्चः कारिकायां निरूपितः । इत्थं संवित्स्वरूपापर्यवसानाच्छून्यात्ममानिनो योगिनः सुषुप्तगुहानिमग्ना जडात्मानो भ्रान्ता एवात्मानं संवित्स्वरूपमपि जाड्येनानुबध्नन्ति । चित्रमित्याश्चर्यमेतद्यदुत वैशसं नैतत्स्वयं कर्तुं पार्यत इति । अत्र दृष्टान्तमाह जालेन इत्यादि । यथा जालकारः कश्चित्कृमिर्वा स्वनिर्मितेन फेनेन जालमावरणं निर्माय सर्वतो गतमात्मानं वेष्टयते स्वं स्वात्मनिधनाय बध्नाति येनोत्तरत्र तत्रैव निधनं याति तथा देहाद्यात्ममानी तु स्वविकल्पकल्पितैरहं ममेति विकल्पैः स्वात्मानमेव बध्नाति । तथा च बौद्धाः

सत्यात्मनि परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ ।
अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥

इत्याहुः ॥ ३२ ॥

कथमेष दुर्निवारो महामोहो देहादिप्रमातृतासमुत्थः प्रलीयत इति भगवत्स्वातन्त्र्यमेवात्र हेतुरित्याह

स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन्निजात्मानम् ।
इति बन्धमोक्षचित्रां क्रीडां प्रतनोति परमशिवः ॥ ३३ ॥

स्वस्य आत्मनश्चैतन्यलक्षणस्य यत्ज्ञानं स्वस्वातन्त्र्यावगमस्तस्य विभवः देहाद्यभिमानविगलनेन यच्चित्स्वरूपे पराहन्ताचमत्काररूपस्य स्वस्वातन्त्र्यस्य स्फीतत्वं चिदानन्दैकघनः स्वतन्त्रोऽस्मीति तस्य बोधस्वातन्त्र्यस्वरूपस्य विभवस्य भासनं प्रकाशः सर्वो ममायं विभव इति बाह्यतयाभिमतस्य सर्वस्य स्वात्मन्येव स्वीकारस्तस्य योगः एवंपरिशीलनक्रमेणात्मनि यद्विमर्शदार्ढ्यमेवमेतेन स्वज्ञानविभवभासनयोगेन निजमात्मानं नान्यत उपनतं चैतन्यस्वभावमुद्वेष्टयते देहप्राणपुर्यष्टकशून्यपरामर्शनानिगडैर्यो वेष्टित आसीत्तमेव चैतन्यस्वरूपः स्वतन्त्रोऽस्मीति विमर्शनेन पुनरपि भगवानेवोद्वेष्टनं विगतवेष्टनं कुरुत इति । एवमख्यातिबलादागतं स्वात्मनो देहाद्यावरणं तत्पुनरपि ख्यातिबलाद्विनश्यतीति स्वविकल्पकल्पित इयान्दोष इति श्रीमद्ग्रन्थकृता तन्त्रसारे निरूपितम्

यो निश्चयः पशुजनस्य जडोऽस्मि कर्मसंपाशितोऽस्मि मलिनोऽस्मि परेरितोऽस्मि ।
इत्येतदन्यदृढनिश्चयलाभयुक्त्या सद्यः पतिर्भवति विश्ववपुश्चिदात्मा ॥

इति । किमिति बध्नाति मुञ्चति च भगवानित्याह इति बन्ध इत्यादि । इति प्राक्प्रतिपादितेन क्रमेण भगवान्स्वतन्त्रः परमशिवः पूर्णचिदानन्दैकघनलक्षणः स्वरूपगोपनसतत्त्वक्रीडाशीलत्वादख्यात्यवभासनपूर्वं स्वात्मानमेव देहादिप्रमातृतापन्नं विधाय स्वरूपं प्रच्छाद्य च बन्धं विदधाति तथैव पुनः स्वेच्छातः स्वात्मज्ञानप्रकाशक्रमेण देहादिप्रमातृताबन्धं निवार्य स एव तं स्वात्मानं मोचयतीत्युभयथा बन्धमोक्षचित्रां संसारापवर्गस्वरूपाश्चर्यमयीं क्रीडां खेलां प्रतनोति विस्तारयत्येकाकी न रमाम्यहमिति । स्वभाव एवैष देवस्य यत्तां तामप्यवस्थामापन्नः स्वरूपरूपः सन्सर्वत्रानुभवितृतया प्रथत इत्येतदेव स्वातन्त्र्यम् ॥ ३३ ॥

न केवलमेतद्यावदपरः कश्चिदवस्थाविशेषः स्वस्मिन्रूपे विश्रान्त एवावभास्यते भगवतेत्याह

सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तमिति तस्मिन् ।
भान्ति तुरीये धामनि तथापि तैर्नावृतं भाति ॥ ३४ ॥

विश्वापेक्षया ये सर्गादयो मायाप्रमातृगताश्च ये जाग्रदादयोऽवस्थाविशेषास्त उभयथैतस्मिन्भगवत्यानन्दघने तुरीये धामनि चतुर्थे पूर्णाहन्तामये पदे भान्ति तद्विश्रान्ताः सन्तः स्वरूपसत्तां कल्पितप्रमात्रपेक्षया बाह्यतया लभन्ते । परमेश्वरभित्तौ यन्न प्रकाशते तद्बाह्यतयापि न प्रकाशतेऽतः

त्रिषु चतुर्थं तैलवदासेच्यम् ।

इति सर्वास्ववस्थासु तुरीयं रूपमनुस्यूतत्वेन स्थितमिति परमार्थः । एतावता तत्र तैः स्वरूपमाच्छादितं स्यान्न वेत्याह तथापि तैर्नावृतं भाति इति । इत्थमपि तैः स्वरूपसत्तार्थमावृतमपि तेभ्यः समुत्तीर्णतया सर्वानुभवितृतया सर्वत्रावभासत एव न पुनस्तदावरणेन पूर्णस्वरूपतां तत्र तिरोधत्त इति शिवधाम सर्वावस्थास्वपि सदैव परिपूर्णम् ॥ ३४ ॥

वेदान्तभाषाभिर्जाग्रदादीनां त्रयाणां स्वरूपं व्यवहरंस्तदनुस्यूतमपि ततः परं तुरीयमावेदयति

जाग्रद्विश्वं भेदात्स्वप्नस्तेजः प्रकाशमाहात्म्यात् ।
प्राज्ञः सुप्तावस्था ज्ञानघनत्वात्ततः परं तुर्यम् ॥ ३५ ॥

जाग्रदवस्थैव विश्वं ब्रह्मणो वैराजं स्वरूपं कुतः भेदात्शब्दादिविषयपञ्चकस्य बाह्यतया परमेश्वरसृष्टस्यैव सर्वप्रमातॄणां चक्षुरादीन्द्रियप्रवृत्तेरित्येकस्यैव ब्रह्मणो विषयविषयिभावेन स्थितस्य नानेन्द्रियज्ञानवैचित्र्यम् । अत एव शिवसूत्रेषु

ज्ञानं जाग्रत् ।

इति । एषा ब्रह्मणो विराडवस्था गीयते । यच्छ्रुतिः

यो विश्वचक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
संबाहुभ्यां नमते संयजत्रैर्द्यावापृथिवी जनयन्देव एकः ॥

इति । तथा स्वप्नः तेजोऽवस्था ब्रह्मणः । कुत इत्याह प्रकाशमाहात्म्यातिति । स्वप्ने बहिष्करणानि शब्दादौ विषये तावन्न प्रगल्भन्ते नापि तत्र बाह्यं शब्दादिकं नाम किञ्चित्परमार्थसद्विद्यते नापि बाह्यतयाध्यवसायस्याविद्यादि किञ्चिद्भिन्नमभिन्नं वा कारणान्तरमुपलभ्यते युक्त्या विचार्यमाणं वोपपद्यतेऽथ च स्वप्ने सर्वं प्रकाशतेऽत इदमर्थबलादायातं यत्स एव भगवान्स्वस्वभावो देवस्तत्तत्प्रमातृतां समाविष्टः स्वप्नायमानः स्वात्मानमेव प्रकाशस्वातन्त्र्याद्गृहनगराट्टालाद्यनेकप्रमातृवैचित्र्यरूपतया प्रविभज्य प्रतिप्रमातृ स्वप्नेऽसाधारणमेव विश्वं प्रकाशयत्येवेति ब्रह्मणः स्वातन्त्र्यं स्वप्न एव ब्रह्मवादिभिरभ्युपगतम् । यतो वेदान्तेष्विदमुक्तम्

प्रविभज्यात्मनात्मानं सृष्ट्वा भावान्पृथग्विधान् ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रकाशते ॥

इति प्रकाशमाहात्म्यमेवात्र हेतुरतः स्वप्नो ब्रह्मणस्तेजोऽवस्थेति । तथा प्राज्ञः सुप्तावस्था इति । सर्वप्रमातॄणां या सुप्तावस्था सुषुप्तं सा प्राज्ञः इति ब्रह्मणः प्राज्ञावस्थेति । यतः सर्वप्रमातॄणां ग्राह्यग्राहकप्रपञ्चविलयान्महाशून्यत्वरूपे ग्राह्यादिविलये संस्कारशेषे सुषुप्ते विश्वस्य बीजभूतस्य ब्रह्मण एव प्रज्ञा ब्रह्म प्रज्ञातृतयान्तरतममवशिष्यत इति यावत् । सर्वस्य प्रमातुर्नीलसुखादिविश्ववैचित्र्यप्रथायाः सैषा संस्कारभूमिस्ततः प्रबुद्धस्य प्रागनुभूतवद्व्यवहारदर्शनादन्यथा यद्यस्यां भूमौ स्थिरं प्रज्ञातृस्वभावं सर्वक्रोडीकारेण ब्रह्म न प्राकाशिष्यत कुतस्तत उत्थितस्य प्रमातुः प्रागनुभूतवस्तुनस्तथैव तदित्यनुभूतचरत्वेन स्मृतिरुदपत्स्यत नापि सुखमहमस्वाप्सं दुःखमहमस्वाप्सं गाढमूढोऽहमासमित्यनुभवः प्रादुरभविष्यदिति । तथा च भट्टदिवाकरवत्सः

सर्वेऽनुभूता यदि नान्तरर्थास्त्वदात्मसात्कारसुरक्षिताः स्युः ।
विज्ञातवस्त्वप्रतिमोषरूपा काचित्स्मृतिर्नाम न संभवेत्तत् ॥

इति । इत्थं सुषुप्तं चिन्मयमेव ब्रह्मणः प्राज्ञावस्थेति गीयते । कुतः ज्ञानघनत्वातिति । सुषुप्ततुर्ययोः साधारणोऽयं हेतुरित्युभयत्र योज्यम् । एषा सुषुप्तभूमिः ज्ञानघना प्रकाशमूर्तिः केवलं विश्वप्रलयसंस्कारेण ध्यामला सती शुद्धचिन्मयी न भवतीति । यदुक्तं स्पन्दशास्त्रे

ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः ।
पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ॥

इति । तथा ततः परं तुर्यमिति । तस्मात्सुषुप्तात्परमन्यन्निःशेषपाशववासनासंस्कारपरिक्षयाच्छुद्धपूर्णानन्दमयं ब्रह्मणस्तुरीयं रूपमनुगुणं नाम । यदत्र नामान्वर्थं न किञ्चिदुपपद्यतेऽतो व्याख्यातस्यावस्थात्रयस्य विश्रामभूतं सर्वान्तरतमत्वेनानुस्यूतमिति चतुःसंख्यापूरणेन तुर्यमिति पूरणप्रत्ययेन संख्याव्यपदेशोऽत्र कृतः कथमवस्थात्रयस्यानुस्यूतमपि ततः परमेतदित्याह ज्ञानघनत्वातिति । यतो जाग्रदादयोऽवस्थाः सर्वा भेदप्रवणत्वात्प्रमातॄणामज्ञानमय्यस्तुरीयं ग्राह्यग्राहकक्षोभप्रलयसंस्कारपरिक्षयाज्ज्ञानघनप्रकाशानन्दमूर्त्यतस्तदन्तःस्थमपि ताभ्योऽवस्थाभ्यश्चिन्मयतया समुत्तीर्णत्वात्परमन्यदिति । एवमवस्थाविचित्रं परमाद्वयस्वभावं स्वतन्त्रं ब्रह्मैव पूर्णं विजृम्भते ॥ ३५ ॥

एवमपि शुद्धस्य परमात्मनः सर्वप्रमात्रनुस्यूतत्वेन स्थितत्वादवश्यं प्रमातृगणगतमख्यातिमालिन्यमायातीति यत्तन्नेति दृष्टान्तेनावेदयति ।

जलधरधूमरजोभिर्मलिनीक्रियते यथा न गगनतलम् ।
तद्वन्मायाविकृतिभिरपरामृष्टः परः पुरुषः ॥ ३६ ॥

यथा मेघधूमधूलीपुञ्जैराकाशस्थैरप्याकाशपृष्ठममलिनं स्वभावतो न मलिनं विधीयते नापि नित्यतावैतत्यखण्डनां वा नीयते केवलं दर्पणप्रतिबिम्बवत्तत्तदवस्थाविचित्रं गगनं गगनमेव सर्वदा तथात्वेन प्रत्यभिज्ञानात् । तद्वतिति तथैव मायाविकृतिभिः अख्यातिसमुत्थैर्विकारैर्नानाप्रमातृगतैर्जन्ममरणाद्यनेकविचित्रावस्थामयैर्भगवत्स्थैरपि भगवान्न परामृष्टः न तैरपहृतस्वरूपो यतः स एव परः पुरुषः इति सर्वपुरुषाणां जीवानामाद्य उल्लासो विश्रान्तिस्थानं चेति सर्वानुभवितृतया सदा स्फुरतीति परशब्देन निर्दिष्टः । तस्मान्न स्वसमुत्थैरप्रकाशरूपैर्मायाविकारैरैन्द्रजालिकवद्भगवतः काचित्खण्डनेति परमेष्ठिना नरेश्वरविवेकेऽप्युक्तम्

यद्यप्यर्थस्थितिः प्राणपुर्यष्टकनियन्त्रिते ।
जीवे निरुद्धा तत्रापि परमात्मनि सा स्थिता ॥
तदात्मनैव तस्य स्यात्कथं प्राणेन यन्त्रणा ।

इति ॥ ३६ ॥

नन्वेकचिन्मात्रपरमार्था अपि पुरुषा विशिष्टसुखदुःखमोहजन्ममरणादिनानावस्थावैचित्र्यभाजश्चेति कथमेतदिति दृष्टान्तमाह

एकस्मिन्घटगगने रजसा व्याप्ते भवन्ति नान्यानि ।
मलिनानि तद्वदेते जीवाः सुखदुःखभेदजुषः ॥ ३७ ॥

यथा एकस्मिन् कुम्भाकाशे धूलिपुञ्जसमाच्छादिते नान्यानि घटाकाशानि विमलान्यप्याकाशत्वाविशेषात्मलिनानि रजसाच्छादितानि भवन्ति । विमलं व्यापकं नित्यमपि हि गगनं यादृशं घटसंकोचसंकुचितं भवेत्तादृशमेव तस्यैव घटस्य तद्भवति न पुनः सर्वाणि घटपटाद्याकाशानि कृष्णागुरुधूपितानि मृगमदाधिवासितानि विठिरगन्धीनि वैकाकाशस्वरूपत्वात्संकीर्यन्ते स्वगतघटादिकृतविच्छेदात्प्रत्युतैकत्रापि गगने वास्तवे स्थिते घटादयः स्वगतभित्तिसंकोचनियन्त्रिताः सन्तो नानागगनवैचित्र्यं प्रथयन्ति । इत्थं घटकृतः संकोच एव गगनतया तथा विशिष्यते तथात्वेनार्थक्रियाकारित्वान्न पुनः गगनस्यैतत्किञ्चिद्घटगतं मालिन्यादि स्वरूपतिरोधानाय भवति नापि परस्परं घटाद्यवच्छिन्नानां गगनानां व्यामिश्रणेति । तद्वतिति तथैवामी जीवाः पुरुषा एकचिन्मात्रपरमार्था अपि पारमेश्वर्या मायाशक्त्याणवमायीयप्राकृतकोशत्रयावेष्टनेन पूर्णं व्यापि चिदानन्दैकघनं स्वरूपमपहस्त्य परिमितीकृता येनैकचैतन्यात्मानोऽपि स्वगतकोशत्रयविच्छेददौरात्म्यात्परस्परं भिन्नाश्चेति घटपटाद्याकाशवत् । इत्थं मायीयकोशकृतो विच्छेद एव जीवतया व्यवह्रियते न पुनः परमेश्वरेऽनवच्छिन्नचिदानन्दैकघने जीवाः पुरुषा आत्मानोऽणव इति दर्शनान्तरदृष्टः कश्चिद्व्यवहारः । एवमाणवादिकोशावच्छिन्ना जीवा अनादिविचित्रकर्ममलवासनाधिवासितनानादेहा नानाशया नानापुण्यपापस्वर्गनरकसुखदुःखजन्ममरणादिद्वन्द्वभेदभाजश्च सन्तो नान्योन्यं संकीर्यन्ते यथा नानाद्रव्याधिवासितानि घटाद्यवच्छिन्नानि घटाकाशानीति सूपपन्नमेकचिन्मात्रपरमार्था अपि स्वविच्छेदादन्योन्यभेदजुषश्चेति ॥ ३७ ॥

इत्थं जीवमण्डलगता अवस्थाविशेषा ये ते केवलं भगवत्युपचर्यन्ते न पुनस्तत्त्वतस्तेऽत्र केचिदित्याह

शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति मूढः ।
तत्त्वगणे सति भगवान्न पुनः परमार्थतः स तथा ॥ ३८ ॥

तत्त्वगणे इन्द्रियवर्गे शान्ते उपरते सति तद्गतः परमात्मा शान्तः नष्ट इवाभिमन्यत एवं तस्मिन् हृष्टे साह्लादे सति स तथैवोपचर्यते परं तमोमये मूढे मोहवानिति यथा स्थावरयोनौ न पुनः परमार्थतः वस्तुवृत्तेन सः परमेश्वरः तथा तेन प्रकारेण भवति । सर्वो हि जडभाग उत्पाद्यः संहार्यो वा भवति न पुनर्नित्ये भगवति बोधस्वभावे मायादिकञ्चुकगते विनाशोत्पत्ती स्यातामिति भगवान्सदा समः ॥ ३८ ॥

समुत्पत्तिक्रमेणागता भ्रान्तिः पुनर्ज्ञप्तिक्रमेण सुतरां समुन्मूलिता भवतीत्यत्र स्वात्मन एव स्वातन्त्र्यमित्याह

यदनात्मन्यपि तद्रूपावभासनं तत्पुरा निराकृत्य ।
आत्मन्यनात्मरूपां भ्रान्तिं विदलयति परमात्मा ॥ ३९ ॥

अनात्मनि अचेतनलक्षणे देहादौ कृशः स्थूलश्चास्मीत्यादि यत्तद्रूपावभासनमनात्मन्यात्मतया परामर्शनं तत्तस्मिन् पुरा आदावेव निराकृत्य अहं चिदानन्दैकघनोऽनवच्छिन्नस्वभावः स्वतन्त्रश्चेत्यकृत्रिमाहन्तास्फुरणया कृत्रिमदेहादिप्रमातृतामपहृत्यात्मैव विगलितदेहबन्धः परमात्मतां यातः सनात्मनि अस्मिन्स्फुरद्रूपे विश्वपदार्थे प्रकाशवपुषि स्वाङ्गकल्पेऽपि या भ्रान्तिः देहादिप्रमातृताभिमानजनिता भेदप्रथा तां विदलयति अहमेवैको विश्वात्मना स्फुरामीत्येवं चूर्णीकरोति । इदमत्र तात्पर्यं यावदनात्मनि देहादावात्माभिमानो न गलितस्तावत्स्वात्मप्रथारूपेऽपि जगति भेदप्रथामोहो न विलीयतेऽतश्चानात्मन्यात्माभिमानभ्रमविनाशादात्मन्यनात्माभिमानभ्रान्तिं परमात्मैव स्वात्ममहेश्वरो भगवानेव विनाशयति नान्यस्यात्र सामर्थ्यम् ॥ ३९ ॥

एवं भ्रान्तिद्वयापसारणात्परमेश्वरीभूतस्य योगिनो न किञ्चित्कार्यमवशिष्यत इत्याह

इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य ।
कर्तव्यान्तरकलना न जातु परयोगिनो भवति ॥ ४० ॥

इत्थं कारिकार्थप्रतिपादितप्रकारेण भ्रान्तिद्वयस्य प्ररोहविदारणे कृतार्थस्य स्वस्वातन्त्र्यस्य परिज्ञप्तेरशेषसंकोचविदलनात्कृतः प्राप्तः अर्थः पुरुषार्थलाभो येन तस्य प्रकृष्टयोगयुक्तस्य न कदाचित्कर्तव्यान्तरस्य तीर्थाटनक्षेत्रपरिग्रहदीक्षाजपध्यानव्याख्याश्रवणादिरूपस्य कार्यशेषस्य कलना मनोव्यापारोऽपि न विद्यते

अयमेव परो धर्मो यद्योगेनात्मदर्शनम् ।

इति हि स्वात्मयोगस्य प्राधान्यमतस्तत्प्राप्त्या नान्यत्र परिश्रमः पूर्णयोगिनः । यदुक्तम्

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥

इति गीतासु ॥ ४० ॥

संप्रति पृथिव्यादिमायान्तस्य भेदावभासभाजो विश्वस्य भेदाभेदमयशाक्तभूमिकावेशेन पूर्णप्रकाशानन्दघनशांभवपदसमापत्त्या भेदविलायनेन तदभेदमयताप्राप्तिमभिधाय ततः शांभवात्पदात्संपूर्णसुधाम्भोधिकल्पान्महाप्रवाहदेशीयशाक्तप्रसरोल्लासप्रमुखं तत्तत्तरङ्गभङ्गिरूपतामभिदधत्स्वानुभवसिद्धं महामन्त्रवीर्यसारं समस्तभेदविलायनपरमाद्वयोदयं नरशक्तिशिवसामरस्यात्मकं परसंविद्धृदयं क्रमेणोन्मीलयिष्यन्विश्वस्यागमिकाण्डत्रयात्मतासंकलनयुक्त्यैकीकारं तावदाह

पृथिवी प्रकृतिर्माया त्रितयमिदं वेद्यरूपतापतितम् ।
अद्वैतभावनबलाद्भवति हि सन्मात्रपरिशेषम् ॥ ४१ ॥

पार्थिवप्राकृतमायीयाण्डात्मकं यत्स्थूलसूक्ष्मपररूपं त्रिविधं वेद्यरूपतापतितं ज्ञानगोचरतां प्राप्तम्

तत्तद्रूपतया ज्ञानं बहिरन्तः प्रकाशते ।
ज्ञानादृते नार्थसत्ता ज्ञानरूपं ततो जगत् ॥
नहि ज्ञानादृते भावाः केनचिद्विषयीकृताः ।
ज्ञानं तदात्मतां यातमेतस्मादवसीयते ॥

इति श्रीकालिकाक्रमोक्तन्यायेन यतद्वैतभावनं तद्बलात्तत्प्रकर्षात्सन्मात्रपरिशेषं प्रकाशमानतात्मकसत्तामात्रात्मकं भवति । हिः यस्मादर्थे ॥ ४१ ॥

एतदेव भेदस्यावास्तवत्वप्रतिपादनाभिप्रायेणोपपादयति

रशनाकुण्डलकटकं भेदत्यागेन दृश्यते यथा हेम ।
तद्वद्भेदत्यागे सन्मात्रं सर्वमाभाति ॥ ४२ ॥

यथा किल सौवर्णं रशनाद्याभरणं सुवर्णार्थिनो रशनाविशेषपरिहारेण हेममात्रतयैवाभाति हेमरजतकांस्यताम्रनागादि तावन्मात्रार्थिनो लोहरूपतया तद्वत्सर्वमिदं त्यक्तहानादानादिविकल्पकलङ्कस्याविकल्पप्रतिभासमात्रनिष्ठस्य योगिनो

रूपादिषु परिणामात्तत्सिद्धिः ।

इति भट्टश्रीकल्लटोक्तनीत्या भेदत्यागे सति सन्मात्रं सत्तामात्रात्मकमाभाति ॥ ४२ ॥

तदियतः सर्वस्य संकोचावभासपरित्यागादागमप्रसिद्ध्या नररूपस्य शाक्तरूपोपारोहं मन्त्रसंप्रदायं कटाक्षयन्नभिदधाति

तद्ब्रह्म परं शुद्धं शान्तमभेदात्मकं समं सकलम् ।
अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् ॥ ४३ ॥

ततेतत्सत्तामात्रात्मकं सर्वं बृहत्त्वात्ब्रह्म । यदाहुः श्रुत्यन्तविदः

सदेवेदं सोम्य अग्र आसीत् ।

इति पूर्णत्वात्परं हेयोपादेयाभावात्शुद्धं पृथक्त्वोपशमात्शान्तमत एव अभेदात्मकं प्रकर्षापकर्षाभावात्समम्

प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।

इति स्थित्वा सकलमत एव अमृतमविनाशि

सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।
सत्यं यत्तत्र सा जातिरसत्या व्यक्तयः स्थिताः ॥

इति ।

यदादौ च यदन्ते च यन्मध्ये तस्य सत्यता ।

इति तत्रभवद्भर्तृहरिनिरूपितनीत्या सत्यं तदेव सत्तामात्रात्मकमेतत्सर्वं भास्वरूपायामिच्छाज्ञानक्रियारूपशक्तिसामरस्यात्मिकायां परस्यां शक्तौ विश्राम्यति

संविन्निष्ठा विषयव्यवस्थितिः ।

इति स्थित्या तन्मयीभवतीति ।

अथ च शान्तं शकारस्यान्ते यन्मूर्धन्यरूपं ततः परं यतमृतममृतबीजात्मकं ब्रह्म सन्मात्रात्मकं सादाख्यपदस्पर्शात्शुद्धमत एवाहमिदं सर्वमिति सर्वसमरसीकरणात्समं सकलं चातश्चाख्यातिगलनात्सत्यम् । यदादिष्टं भगवता

तृतीयं ब्रह्म सुश्रोणि ।

इति श्रीत्रिंशिकायाम् । तदिदममृतीभावावमृष्टं सदाशिवपदोपारूढमेतद्विश्वात्मकं ब्रह्म प्रागुक्तायां शक्तौ विश्राम्यति ॥ ४३ ॥

क्रियाज्ञानेच्छामुखेन परशक्तौ यन्न विश्राम्यति तन्न किञ्चिदित्याह

इष्यत इति वेद्यत इति संपाद्यत इति च भास्वरूपेण ।
अपरामृष्टं यदपि तु नभःप्रसूनत्वमभ्येति ॥ ४४ ॥

यद्वस्तु वस्तुवृत्तेन बहिर्विद्यमानपि तद्यदीच्छाज्ञानक्रियामुखेन भास्वरेणैतच्छक्तित्रयसामरस्यात्मकपराशक्तिस्फारमयेन बोधेन न परामृष्टं तत्प्रख्योपाख्याविकलं गगनपुष्पतुल्यम् । अनेन च सद्वृत्त्यूर्ध्ववर्तित्रिशूलात्मकवृत्तिवीर्यं सूचितम् ॥ ४४ ॥

एतच्छाक्तपदावेशमस्यानुवदञ्शांभवपदसमापत्त्या तन्मयीभावमाविर्भावयति

शक्तित्रिशूलपरिगमयोगेन समस्तमपि परमेशे ।
शिवनामनि परमार्थे विसृज्यते देवदेवेन ॥ ४५ ॥

तदित्थं समस्तमपि एतत्सत्तामात्ररूपत्वात्प्रोक्तब्रह्मपरमार्थं शक्तित्रिशूलपरिगमयोगेन निर्णीतयुक्त्या पराशक्तिसमापत्तिक्रमेण शिवनामनि परमार्थे अनवच्छिन्नचिदानन्दैकघने परमेश्वरे स्वस्मिन्स्वभावे विसृज्यते अन्तर्मुखविमर्शनप्रकर्षात्तत्समावेशेन तन्मयीभावमापाद्यते देवानां ब्रह्मादिसदाशिवान्तानां सर्वप्रकाशानामिन्द्रियाणां च देवेन प्रभुणा परमशिवेनैव नह्यत्रान्यस्य कस्यचित्कर्तृत्वं घटते नाप्येतद्व्यतिरिक्तोऽन्यः कश्चित्प्रमातास्त्यस्यैव च भगवतस्तत्तद्भूमिकाधिरोहिणस्तत्तद्रुद्रक्षेत्रज्ञादिप्रमातृरूपतया स्फुरणमिति देवदेवेन इति युक्तैवोक्तिः । तदित्थं विसर्गवृत्तिर्दर्शिता ॥ ४५ ॥

एवमियता भेदात्मनो नररूपस्य जगतो भेदाभेदात्मकशाक्तपदाध्यारोहेणाभिन्नचिद्घनशिवसामरस्यापत्तिमुपसंहारदृशा प्रदर्श्येदानीं चिदेकघनः शिव एव शक्तिरूपतयोल्लास्य नरात्मकविश्वरूपतया स्फुरति न तु शिवव्यतिरिक्तं शक्तिनरयोः किमपि रूपं शिव एव त्वित्थं निजरसाश्यानतया स्फुरतीति प्रसरयुक्तिं महामन्त्रस्फारमयीं दर्शयति

पुनरपि च पञ्चशक्तिप्रसरणक्रमेण बहिरपि तत् ।
अण्डत्रयं विचित्रं सृष्टं बहिरात्मलाभेन ॥ ४६ ॥

चिदानन्देच्छाज्ञानक्रियाख्यशक्तिपञ्चकसामरस्यात्मा यः परमशिवस्तेन चिदादिशक्तिप्राधान्यप्रथनात्मकशिवशक्तिसदाशिवेश्वरशुद्धविद्याख्यभूमिकोन्मीलनयुक्त्या तदण्डत्रयं विचित्रमिति तत्तद्भुवनादिरूपं सृष्टं बहिरात्मलाभेन इति बाह्याभासात्मतया स्वात्मनः प्रदर्शनेन । पुनरपि इत्यनेनैतद्दर्शयति यत्परमशिव एव स्वतन्त्रः सदा स्वभित्तौ विश्वप्रपञ्चोल्लासनविलापनक्रीडां स्वात्मानतिरिक्तामप्यतिरिक्तामिवादर्शयन्नेवमित्थं स्थितो न तु तद्व्यतिरिक्तं किमप्यस्तीति ॥ ४६ ॥

इत्थं विश्वोल्लासनविलायनक्रीडाशीलो भगवान्यः शिवः इति व्यपदिश्यते स कतमः कुत्र तिष्ठति कतमेन वा प्रमाणेन प्रसिद्ध इत्याशङ्क्य सर्वेषां स्वात्मैव शिवः सर्वत्रादिसिद्धतया स्फुरन्सर्गादीन्विदधातीत्यस्मच्छब्दवाचकैः शब्दैः प्रतिपादयति

इति शक्तिचक्रयन्त्रं क्रीडायोगेन वाहयन्देवः ।
अहमेव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः ॥ ४७ ॥

मय्येव भाति विश्वं दर्पण इव निर्मले घटादीनि ।
मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वमिव सुप्तात् ॥ ४८ ॥

अहमेव विश्वरूपः करचरणादिस्वभाव इव देहः ।
सर्वस्मिन्नहमेव स्फुरामि भावेषु भास्वरूपमिव ॥ ४९ ॥

द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितोऽप्यकर्तापि ।
सिद्धान्तागमतर्कांश्चित्रानहमेव रचयामि ॥ ५० ॥

इति व्याख्यातेन प्रकारेण चिदादिशक्तिपञ्चकाक्षिप्तोऽनन्तो यः शक्तिसमूहस्तदेव यन्त्रं क्रीडायोगेन वाहयनरघट्टघटीयन्त्रन्यायेन सृष्ट्याद्युन्मज्जननिमज्जनहेलाक्रमेण विपरिवर्तयन्नहमेवेति देवः सर्वप्राणिनामहमित्यनाहतो नादात्मा पराहन्ताचमत्कारसारः स्वात्मपरामर्शः स एव सर्वस्यानपह्नवनीयोऽयं स्वात्मैव देवः क्रीडनशीलः स्फुरतीति । अनेन स्वस्वरूपनिष्ठ एव शिव इति प्रतिपादितम् । तथा शुद्धरूप इति कल्पनातिक्रान्तगोचरः । अन्यच्च शक्तीनां करणदेवतानां विषयाहरणत्यागादिव्यवहारस्वातन्त्र्यदातृ यत्महाचक्रनायकपदं तत्र तिष्ठति तत्स्थः । यतः करणशक्तीनां चैतन्यविश्रान्तिं विना स्वरूपसत्ता न विद्यतेऽतः शक्तिमन्तमेव स्वरूपासादनायानवरतं भजन्त इत्यनेन सर्वप्रमातृहृदयाधिष्ठातृत्वाद्भगवतो नियतभुवनाधिष्ठातृत्वं परिहृतम् । तथा यदिदं किञ्चिद्विश्वतयाभिमतं तत्सर्वमादर्शप्रतिबिम्बन्यायेन मय्येव भाति व्याख्यातरूपास्मदर्थविश्रान्तमेवावभासतेऽहन्तासारमेव स्फुरतीति यावत् । तथा मत्तः इति पूर्णादहमिति रूपात्स्वात्मनः सकलं निःशेषमिदं विश्वं प्रसरति प्रमात्रपेक्षयापहृततया स्फुरति । कथमित्याह स्वप्नविचित्रत्वमिव सुप्तातिति यथा निद्रितात्प्रमातुः स्वप्नावस्थायां बाह्यपदार्थाभावेऽपि पुरप्राकारदेवगृहादि नानाश्चर्यं स्वप्नपदार्थवैचित्र्यमविद्यादिपरिकल्पितकारणान्तराभावात्स्वसंविदुपादानमेव प्रसरति तथैव तीर्थान्तरनियमितकारणान्तरानुपपत्तेरनवच्छिन्नचिदानन्दैकघनादहमिति रूपाद्विश्वमिति । तथा अहमेव विश्वरूपः इत्यादि । अहमित्येव यः पूर्णश्चैतन्यपरामर्श एष एवास्मि नानादेहादिप्रमातृतासमापन्नो विश्वरूप आगोपालबालाङ्गनादिष्वन्तरभेदेन स्फुरणाद्विश्वानि ममैव रूपाणीति यावत् । क इव करचरणादिस्वभावो देह इव यथा सामान्येन सर्वेषामेको देहः करचरणादिस्वभावः प्रतिप्रमातृ स्वालक्षण्येन नानारूपस्तथैवैकश्चैतन्यलक्षणः पदार्थः सर्वावासत्वाद्विश्वरूप इति । तथा सर्वस्मिन् प्रमातृप्रमाणप्रमेयरूपेऽस्मिनहमेव स्फुरामि सर्वस्य स्वात्मानुभवितृत्वेन प्रकाशनात् । कथं भावेषु भास्वरूपमिव इति यथा नानावस्तुषु भास्वरूपमतिशयेन द्योतनशीलं वस्तु देदीप्यते तथैव जडेऽस्मिञ्जगत्येकश्चिद्रूपोऽहमिति । अतश्च द्रष्टा इत्यादि देहेन्द्रियवर्जितोऽपि चिन्मूर्तत्वादहमेव पश्यामि शृणोमि जिघ्रामि रसयामि स्पृशामीति सर्वत्र पूर्णाहन्ताविश्रान्तेः कृतकृत्यता । देहेन्द्रियवर्गो हि पश्यामीत्यादि मन्यते परं स्वापाद्यवस्थासु द्रष्टृत्वाद्यभावात्तस्माद्देहेन्द्रियादिवर्गसमुल्लासकस्तद्वर्जितोऽपि चिदानन्दैकघनः सर्वभूतहृदयान्तरचारी विषयोपभोगभोक्तास्मच्छब्दवाच्यः परः पुरुष एव । तथा च श्रुतिः

अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम् ॥

इति । तथाकर्तापि सिद्धान्तागम इत्यादि स्वयमविधातापि देवमुनिमनुष्याद्याशयाविष्टः संक्षेपविस्तारविवक्षयान्तःप्रतिभास्वरूपोऽहं सिद्धान्तादीन्नानाश्चर्यान्करोमि न पुनर्जडानां लोष्टस्थानीयानां देहेन्द्रियाणां तत्करणं शक्यमिति तत्तद्व्यवधानेनाहमेव सर्वप्रमाणनिर्मातेति । अनेन पराहन्तास्वरूपस्य स्वात्ममहेश्वरस्य सत्तायां न प्रमाणोपयोग उपपद्यत उपयुज्यते वेत्युक्तं स्यात् । एवमनपह्नवनीयः अहमित्येवमनुभवितृतया सर्वेषां स्वात्मैव शिवः सर्वत्रावस्थितः सर्वप्रमाणेष्वादिसिद्ध इति ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥

तदेवं व्याख्यातेन क्रमेण सर्वो ममायं विभव इति दार्ढ्येन स्वात्मानं प्रत्यवमृशन्परब्रह्मस्वरूपो योगी भवतीत्याह

इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहनीं मायाम् ।
सलिले सलिलं क्षीरे क्षीरमिव ब्रह्मणि लयी स्यात् ॥ ५१ ॥

अनेन प्रकारेण सर्वाहंभावपरिशीलनयुक्त्या द्वैतविकल्पे गलिते भेदप्रथायां विलीनायां मोहनीं मायां प्रविलङ्घ्य अनात्मन्यात्माभिमानरूपामख्यातिं भेदप्रथाहेतुमहमेव विश्वात्मेति संकोचापसरणेन समुत्सृज्य ज्ञानी ब्रह्मणि बृंहणात्मके पूर्णे चिदानन्दैकघने स्वरूपे लयी स्यात्संकोचविलयाद्ब्रह्मतादात्म्यं यायात् । किं यथेत्याह सलिले इत्यादि । यथा सलिलमुद्धृतं नानाघटादिभिर्जलं क्षीरं वा विविधशावलेयबाहुलेयाद्यनेकगोसहस्रसंभिन्नं पुनरपि घटशावलेयादिकृतभेदसंकोचपरिक्षयात्सलिले सलिलं प्रविष्टं क्षीरे क्षीरं वेत्येकमेव तद्वस्तु न तत्र भेदः स्फुरति तथैव देहप्राणपुर्यष्टकशून्यात्मकप्रत्यवमर्शभङ्गाद्ब्रह्मैव संपद्यते । यथाह भट्टदिवाकरवत्सः

जाते देहप्रत्ययद्वीपभङ्गे प्राप्तैकध्ये निर्मले बोधसिन्धौ ।
अव्यावर्त्य त्विन्द्रियग्राममन्तर्विश्वात्मा त्वं नित्य एकोऽवभासि ॥

इति कक्ष्यास्तोत्रे ॥ ५१ ॥

एवं ब्रह्मसत्तामधिरूढस्य योगिनो द्वन्द्वाभिभवोऽपि ब्रह्ममय एव न स्वरूपविप्रलोपाय प्रगल्भत इत्याह

इत्थं तत्त्वसमूहे भावनया शिवमयत्वमभियाते ।
कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः ॥ ५२ ॥

एवं निर्णीतेन प्रकारेण गलितकञ्चुकबन्धस्य योगिनः तत्त्वसमूहे भूतविषयेन्द्रियव्राते भावनया सर्वमिदमेका स्वसंविदिति दृढप्रतिपत्त्या शिवमयत्वं प्राप्ते परमाद्वयरूपतां याते शोकमोहोपलक्षिता द्वन्द्वाभिभवाः सर्वमिदं तत्त्वव्रातं ब्रह्म पश्यतोऽस्य न केचनैव ते ब्रह्ममयत्वात्सर्वे स्वरूपरूपा इति न खेदाय प्रभवन्ति ॥ ५२ ॥

ननु परमाद्वयरूपस्यापि ज्ञानिनोऽवश्यं स्थिते शरीरेऽपि तद्धेतुकशुभाशुभकर्मफलसंचयः किमिति न स्यादिति परिहरति

कर्मफलं शुभमशुभं मिथ्याज्ञानेन संगमादेव ।
विषमो हि सङ्गदोषस्तस्करयोगोऽप्यतस्करस्येव ॥ ५३ ॥

अश्वमेधब्रह्महननादिरूपपुण्यापुण्यकर्मफलप्रचयसंचयोऽपि मिथ्याज्ञानेन संगमादेव प्रादुर्भवत्यहं शरीरीदमश्वमेधादि ममोपायतयास्त्विति यदनात्मन्यात्माभिमानलक्षणं वैपरीत्येन ज्ञानं तेन योऽभिष्वङ्गस्तस्मादेव पशोः शुभाशुभकर्मफलसंचयो येनानवरताधिवासितः संसारक्लेशभाजनं भवति । ननु ब्रह्मात्मकस्यापि प्रमातुः किमित्येतावता पशुत्वमायातीत्यत्रार्थान्तरमुपक्षिपति विषमो हि इत्यादि । यस्मात्सङ्गदोषः सर्वथाविषह्यो यथासाधुयोगोऽत्यन्तसाधोरपि स्वगतदोषसमर्पणं कुरुते तथैव शुद्धस्यापि प्रमातुरख्यातिजनितो मोहयोगः पशुत्वमापाद्य शुभाशुभकर्मसंबन्धं ददाति ॥ ५३ ॥

जन्ममरणाद्यपि न ब्रह्मरूपस्य योगिनोऽपि तु मायाप्रमातॄणामेवेत्याह

लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः ।
ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः ॥ ५४ ॥

ये प्रमातारो देहात्ममानिनो भूत्वा फलकामनाकलुषिता लोकाचाररूपां पुण्यापुण्यमयीमविद्यां भेदप्रथारूपां मायां जगति स्वर्गनरकादिफलप्राप्त्युपायत्वेन सेवन्ते ते मूढाः अज्ञाः पुण्यापुण्यनिगडबद्धास्तत्फलोपभोगाय पुनः पुनर्जायन्ते म्रियन्ते चेत्यनवरतसंसारक्लेशभाजो भवन्ति न पुनः प्रक्षीणमोहावरणो विगलितधर्माधर्मबन्धो ब्रह्मस्वभावो योगी जायते म्रियते वेति ॥ ५४ ॥

एवमविद्योपार्जितान्यपि कर्माणि ज्ञानाविर्भावादेव क्षीयन्ते नान्यथेत्याह

अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि ।
चिरसंचितमिव तूलं नश्यति विज्ञानदीप्तिवशात् ॥ ५५ ॥
अज्ञानकाले कृत्रिमप्रमातृताभिमानावसरे पुण्यापुण्यरूपं कर्म अनुगुणफलप्रार्थनया यत्निचितं स्वीकृतं तत्विज्ञानदीप्तिवशात्विशिष्टज्ञानदीप्तिवशात्नश्यति अहमेव परं ब्रह्मेति कृत्रिमप्रमातृतादाहसमर्थं विज्ञानं तस्य या पौनःपुन्येन प्रत्यवमर्शनात्प्रभा तत्सामर्थ्यात्तददर्शनं याति । किमिवेत्याह चिरसंचितं तूलमिव यथा चिरसंचितं तूलं हंसरोम वह्निप्रदीप्तिवशाज्झटित्येव भस्मसाद्याति तथैव सर्वः कर्मफलप्रचयो विज्ञानवह्निसामर्थ्यात्क्षणमध्ये प्रलयमुपगच्छतीति । गीतासु

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥

इति ॥ ५५ ॥

न केवलं प्राक्कृतं कर्म ज्ञानप्रसादादुपलीयते यावदिदानीन्तनमपि कर्म ज्ञानेद्धया दृष्ट्या न फलोपभोगाय पर्यवस्यतीत्याह

ज्ञानप्राप्तौ कृतमपि न फलाय ततोऽस्य जन्म कथम् ।
गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः ॥ ५६ ॥

आत्ममहेश्वरप्रत्यवमर्शप्ररूढौ कृतमपि शुभाशुभादिकं कर्म कृत्रिमप्रमातृताभिमानाभावान्नानुगुणफलदानाय प्रगल्भत इति कर्मफलाभावात्तदुपभोगयोग्यस्य जन्मनः केन प्रकारेण सत्ता स्यान्न भवेद्योगिनः पुनर्जन्मेत्यर्थः । ननु स पिण्डपातात्पुनर्न जायते चेत्तर्हि कीदृशः स्यादित्याह गतजन्म इत्यादि । गतो जन्मरूपस्य बन्धस्य योगः संबन्धो यस्य स एवमिति प्रक्षीणमोहावरणः स्वदीधितिभिः चिन्मरीचिनिचयैः सः शिवरूपोऽर्को भाति स्फुरति न पुनस्तीर्थान्तरपरिकल्पितोऽस्य मोक्षः कुत्रचित्प्राप्तिरिति केवलं मायादिकञ्चुककृतसंकोचविनाशात्स्वशक्तिविकस्वरतामापद्यत इति ॥ ५६ ॥

अत्रैव युक्तिमाह

तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते ।
नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्यात्मा ॥ ५७ ॥

यथा किंशारुकतुषकम्बुकेभ्यः पृथक्कृतं शालिबीजं बीजस्वभावकिंशारुकादिसामग्र्यभावात्क्षितिजलातपमध्यवर्त्यपि नैव अङ्कुरजननलक्षणकार्ये हेतुर्भवति तथैव कम्बुकस्थानीयेन आणवेन मलेन तुषस्थानीयेन मायामलेन किंशारुकस्थानीयेन कार्ममलेन च मुक्तः पृथग्भूतः आत्मा चैतन्यं मलत्रयरूपसामग्र्यभावान्न पुनः भवाङ्कुरं संसारप्ररोहं विदधाति केवलं विश्वगतनानापदार्थसार्थप्रादुर्भावविनाशवैचित्र्यं स्वात्मनि परामृशन्महेश्वर एव भवति ॥ ५७ ॥

एवं ज्ञानाग्निदग्धकञ्चुकबीजस्य ज्ञानिनो न किञ्चिच्छङ्कास्थानं हेयोपादेयं वेत्यत आह

आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् ।
नैव च शोचति यस्मात्परमार्थे नाशिता नास्ति ॥ ५८ ॥

यः आत्मज्ञः स्वात्ममहेश्वरस्वातन्त्र्यवित्सः न कुतश्चन बिभेति न स कस्मादपि राज्ञः शत्रोः प्राणिभ्यो वा भयमादत्ते । कुत एतदित्याह सर्वं हि तस्य निजरूपमिति यतः तस्य स्वात्ममहेश्वराद्वयवेदिनः सर्वं पदार्थजातमिदं विश्वं निजस्य स्वात्मनो महाप्रकाशैकवपुष एव रूपमाकारः सर्वत्र प्रकाशानुगमादिति प्रकाश एव स्वातन्त्र्यात्स्वपरात्मना प्रकाशतेऽत एव भयस्थानं लोके यत्किञ्चित्प्रतिभाति तत्तस्य तथैव स्वाङ्गकल्पमेव कथं भयजनकं स्याद्यदुत स्वात्मनो व्यतिरिक्तः पदार्थो भयहेतुर्भवेत्कः पुनः सर्वतः परिपूर्णस्यावधिभूतो भिन्नो यमादिरस्ति यस्माज्ज्ञान्यपहस्तितदेहात्ममानित्वोऽपि बिभियादिति सर्वत्र निजरूपोपलब्धेः संसारस्थितोऽप्येकको विगलितस्वपरविभागतया निःशङ्कं विचरत्येव । यथोक्तं परमेष्ठिपादैः

योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
स्वात्ममात्रपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥

इति । ग्रन्थकारोऽपि

एककोऽहमिति संसृतौ जनस्त्राससाहसरसेन खिद्यते ।
एककोऽहमिति कोऽपरोऽस्ति मे इत्थमस्मि गतभीर्व्यवस्थितः ॥

इति । अन्यच्च नैव च शोचति इत्यादि । नाप्यात्मज्ञः शोचति यथा धनदारादिकं मम नष्टं रिक्तोऽस्मि व्याधिनाक्रान्तोऽहं म्रिये वेत्यादि यतो व्याख्यातेन क्रमेण परमार्थे तात्त्विके वस्तुनि चैतन्यरूपेऽन्तर्मुखे प्रमातृमात्रे नाशिता क्षयधर्मित्वं न विद्यते । सर्वं ह्यभिमानसारं कार्यत्वेन प्रतिभासमानमिदन्तावाच्छिन्नमुत्पद्यते क्षीयते च न पुनः संविन्मयस्यात्मनोऽहन्तासारस्याकृत्रिमस्य स्वतन्त्रस्य कार्योन्मुखप्रयत्नानुपलब्धेः । न चैतावता स्वरूपविप्रलोपः स्यादिति विमृशतो योगिनो देहस्थस्यापि तद्धेतुकः शोकाद्याविर्भावः स्वरूपाच्छादकत्वेन न भवेदिति ॥ ५८ ॥
नापि स्वात्ममहेश्वरस्वरूपपरिशीलनदार्ढ्यादस्य ज्ञानिनश्चेतस्यपूर्णत्वादिदोषः स्यादिति प्रतिपादयति

अतिगूढहृदयगञ्जप्ररूढपरमार्थरत्नसंचयतः ।
अहमेवेति महेश्वरभावे का दुर्गतिः कस्य ॥ ५९ ॥

अतिगूढमतिशयेन गुप्तं हृदयमेव गञ्जं सर्वपरमार्थस्वस्वरूपविश्रान्तिस्थानस्वभावं भाण्डागारं तत्र योऽतितीव्रतमसमाश्वासप्ररूढः परमार्थः सद्गुरूपदिष्टः स्वात्मज्ञानसतत्त्वः स एव सर्वविभूतिहेतुत्वाद्रत्नसंचय इव रत्नसंचयः तेन हेतुना अहमेवेति सर्वमिदमस्मीति य आविर्भूतः पूर्णः पराहन्ताविश्रान्तिलक्षणः महेश्वरभावः शरीरिणोऽपि स्वात्मप्रकाशस्वातन्त्र्यं तस्मिन्स्थिते सति का नाम वराकी दुर्गतिः दरिद्रभावस्तदुपलक्षितो वा कश्चित्कृत्रिमो विभूत्याद्यतिशयः स्यात् । आभाससारा हि सर्वे पदार्था यदैवाभासन्ते तदैव योगिनः स्वात्मकल्पाः सन्तः कथमुत्कर्षापकर्षादौ प्रगल्भन्त इति न किञ्चिद्दौर्गत्यादिकं भवेत् । कस्य वेति को वास्या दुर्गतेः समाश्रयो देहाद्यात्माभिमानिनो ह्यस्या दुर्गतेः समाश्रया भवन्तु यतस्ते व्यतिरिक्तस्यैषणीयस्य प्राप्त्येश्वरास्तदपहाराद्रिक्ता इति । यः पुनरकृत्रिमाहन्ताप्रत्यवमर्शपरमार्थो ज्ञानी सर्वमस्मीत्यव्यतिरिक्तेनैषणीयेन महेश्वरः स कथं व्यतिरिक्तप्राप्त्यप्राप्त्यभावाद्दौर्गत्यादेर्भाजनं स्यादत एव गञ्जशब्दस्य रत्नसंचयशब्दस्येश्वरशब्दस्य च हृदयप्ररूढपरमार्थो महानित्यकृत्रिमार्थवाचकानि विशेषणान्युपपादितानि ॥ ५९ ॥

इदानीं मोक्षस्वरूपमाह

मोक्षस्य नैव किञ्चिद्धामास्ति न चापि गमनमन्यत्र ।
अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः ॥ ६० ॥

मोक्षस्य पराहन्ताचमत्कारसारस्य कैवल्यस्य धाम व्यतिरिक्तं स्थानं न विद्यत एव देशकालाकारावच्छेदाभावादत एव न चाप्यन्यत्र कुत्रचिद्व्यतिरिक्ते गमनं लयो मोक्षो यथा भेदवादिनां मतेनोत्क्रान्त्या चक्राधारादिभेदनादूर्ध्वं द्वादशान्ते लय एषैव मुक्तिरिति । यदुक्तम्

व्यापिन्यां शिवसत्तायामुत्क्रान्त्या किं प्रयोजनम् ।
अव्यापिनि परे तत्त्वे ह्युत्क्रान्त्या किं प्रयोजनम् ॥

इति । एवंविधाप्यन्ये तीर्थान्तरपरिकल्पिता बहवो मोक्षभेदाः सन्ति ते प्रतन्यमाना ग्रन्थगौरवभयमानयन्तीति नेह प्रतन्यन्त इति सर्वत्र द्वैतमलस्य संभवादमोक्षे मोक्षलिप्सा मोक्षाभास एव । किं पुनर्मोक्षलक्षणमित्याह अज्ञान इत्यादि । अज्ञानमख्यातिजनित आत्मन्यनात्माभिमानपूर्वोऽनात्मनि देहादावात्माभिमानलक्षणो मोहः स एव पूर्णस्वरूपसंकोचदायित्वाद्ग्रन्थिरिव ग्रन्थिः स्वस्वातन्त्र्यलक्षणस्य निजस्य व्यापित्वादेर्देहाद्यभिमानतया बन्धस्तस्य भित्भेदनं निजपूर्णस्वात्मस्वातन्त्र्यपरिशीलनदार्ढ्याद्देहाद्यभिमानलक्षणस्य ग्रन्थेर्विदारणं तेन हेतुना स्वशक्तिभिः स्वात्मस्वातन्त्र्यलक्षणैर्धर्मैः अभिव्यक्तता स्वात्मशक्तिविकस्वरतैष एव निरतिशयः मोक्षः इति । अयमाशयो यथा सहजनित्यव्यापकत्वादिधर्मयुक्तमाकाशमपि घटादिभित्तिबन्धसंकुचितं तत एव तदेवाव्यापकत्वादिधर्मयुक्तं घटाकाशमित्युच्यत आकाशाद्भिन्नमिव प्रथते पुनरपि घटादिभित्तिकृतसंकोचभङ्गात्तदेव घटाद्याकाशं तदैव व्यापकत्वादिधर्मयुक्तं स्यान्न पुनस्तस्य घटादिभङ्गान्नूतनः कश्चिद्धर्माविर्भाव आयातीति । तथैव देहाद्यभिमानकृतसंकोचसंकुचितं चैतन्यं बद्धमिवेत्युच्यते तदेव पुनः स्वस्वरूपज्ञानाभिव्यक्तेर्देहादिप्रमातृताबन्धसंक्षयात्स्वशक्तिविवेकविकस्वरं मुक्तमिवेत्यभिमानमात्रसारौ परिमितप्रमात्रपेक्षया बन्धमौक्षौ न पुनः परमार्थे संवित्तत्त्व एवं किञ्चित्संभवतीति । तस्मान्मुक्तौ नूतनं न किञ्चित्साध्यते निजमेव स्वरूपं प्रथते । एतदेव विष्णुधर्मेष्वप्युक्तम्

यथोदपानकरणात्क्रियते न जलाम्बरम् ।
सदेव नीयते व्यक्तिमसतः संभवः कुतः ॥
भिन्ने दृतौ यथा वायुर्नैवान्यः सह वायुना ।
क्षीणपुण्याघबन्धस्तु तथात्मा ब्रह्मणा सह ॥

इति ॥ ६० ॥

एवं प्रक्षीणाज्ञानबन्धो ज्ञानी परानुग्रहार्थं शरीरमपि धारयन्मुक्त इत्यावेदयति

भिन्नाज्ञानग्रन्थिर्गतसंदेहः पराकृतभ्रान्तिः ।
प्रक्षीणपुण्यपापो विग्रहयोगेऽप्यसौ मुक्तः ॥ ६१ ॥

शरीरसंबन्धेऽपि स्वात्मज्ञानविच्छरीराद्यभिमानाभावाज्जीवन्नपि मुक्तः विकस्वरशक्तिर्भवेत् । ननु विग्रहयोग एव बन्धः कथं तत्संबन्धेऽप्यसौ मुक्तः स्यादित्याह भिन्न इत्यादि । भिन्नो विदारितोऽज्ञानरूपो ग्रन्थिरपूर्णत्वख्यातिसमुत्थो देहाद्यभिमानरूपो बन्धो येन स एवम् । तथा गतसंदेहः इत्यत एव नष्टसंशयः । पराकृता न्यक्कृता परमाद्वयज्ञानलाभात्भ्रान्तिः द्वयरूपो भ्रमो येन स तथेति । एवं परिशीलनेन प्रक्षीणानि पुण्यापुण्यानि विगलितसंस्काराणि देहात्ममानित्वाभावाद्धर्माधर्माणि यस्य स एवंविध इति । अनेन अज्ञानमेव बन्धः इति प्रतिपादितम् । तच्च विग्रहयोगेऽपि यस्य प्रक्षीणं स तदैव जीवन्नेव मुक्तो न पुनः शरीरयोगो बन्धस्तदपगमो मुक्तिरिति किं तु देहपातात्पूर्णो मोक्ष इति ॥ ६१ ॥
जीवन्मुक्तस्य कर्महेतौ शरीरे स्थितेऽपि शरीरयात्रामात्रार्थं ज्ञानेद्धं कुर्वाणस्य कर्म न फलाय तस्य भवतीत्यत्रोपपत्तिमाह

अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थतामेति ।
ज्ञानाग्निदग्धमेवं कर्म न जन्मप्रदं भवति ॥ ६२ ॥

वह्निनिर्भृष्टं शालिबीजं क्षितिसलिलातपमध्यवर्त्यपि सामग्रीवैकल्याद्यथाङ्कुरादिजननेऽशक्ततां याति तथैव ज्ञानाग्निना दग्धं परमाद्वयबोधदीप्त्या प्लुष्टं कर्म यथाहमेवेत्थं विश्वात्मना स्फुरामीत्येवंरूपेण देहाद्यात्ममानित्वहानेर्हेयोपादेयबुद्धिपरित्यागेन यत्किञ्चिच्छुभाशुभं कर्म क्रियमाणं तद्दग्धवीर्यं न पुनर्ज्ञानिनः पिण्डपातादनन्तरं जन्मफलप्रदं भवति देहनिर्माणहेतुः संपद्यते दग्धं बीजमिवाङ्कुरे । तस्मान्न सर्वाहंभावरूपायाश्चितिशक्तेरफलाभिसंधानतया कृतं कर्म भूयो जन्म दातुं प्रभवतीति ॥ ६२ ॥

एवं पुनर्विकस्वरापि चितिशक्तिः कथङ्कारं देहवती स्यादित्याह

परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया ।
सङ्कुचिता चितिरेतद्देहध्वंसे तथा भाति ॥ ६३ ॥

यस्मात्परिमितबुद्धित्वेन अख्यातिजनितेन देहाद्यभिमानवासनापूर्वककामनाकालुष्यनिश्चयेन यत्कृतं कर्म यथाहमश्वमेधेन यक्ष्य इहामुत्र च सुखी भूयासं मा कदाचन दुःख्यहं भूयासममुना कर्मणा वैन्द्रं पदं प्राप्नुयामित्येवं वासनाविशिष्टस्य कर्तुरेवमनुगुणं कर्म तस्य मनोवासनालब्धप्ररूढेः कर्मणः उचितः तदनुगुणफलभोक्तृतायोग्योऽसौ भावी देहः प्रारब्धकर्मफलभोक्तृशरीराधिकारपरिक्षयाद्यदुत्तरत्र भविष्यच्छरीरं तस्य या भावना अमुनाश्वमेधादिकर्मणा साम्राज्याद्याप्नुयामित्यभिमतकर्मफलवासनाधिरूढिस्तया कर्मोचितभाविदेहभावनयेयं सर्वतः पूर्णापि चितिशक्तिराणवमायीयमलमूलेन कार्ममलेनाघ्राता संकुचिता व्यापिन्यपि घटाकाशवत्कर्मानुगुणफलभोक्तृशरीरवासनावच्छेदवती संपन्ना सती एतद्देहध्वंसे तथा भवति इति । एतस्य प्रारब्धस्य कर्मफलस्य यो भोक्ता देहः तस्य भोगपरिक्षयाद्यः ध्वंसः मृतिस्तस्मिन्देहध्वंसे सति सा चितिः उद्भूतकर्मवासना तथा भवति येनाशयेन पूर्वकर्मफलमुपार्जितं तत्कर्मफलभोक्ता यो देहस्तद्वती संपद्यते यद्वशाच्चितिरपि स्वर्गनरकादिभोगभाजनं स्यात् । तस्माच्छरीरीभूत्वा परिमितफललौल्याद्यत्कृतं कर्म तत्फलभोक्तृ जन्म दातुमवश्यं प्रभवति । यत्पुनरशरीरीभूत्वा सर्वं ब्रह्मास्मीति संविद्रूपतया कृतं तद्वासनाप्ररोहानासादनात्कथं व्यापिन्याश्चितिशक्तेर्जन्मने स्यादिति तात्पर्यार्थः ॥ ६३ ॥


एवमनात्मतया समुचितं कर्म संसरणाय प्रमातुर्भवतीति चेत्तर्ह्यात्मस्वरूपं वक्तव्यं येन संसारी न स्यादिति प्रतिपादितमपि शिष्यजनहृदयङ्गमीकर्तुं पुनः कथयति

यदि पुनरमलं बोधं सर्वसमुत्तीर्णबोद्धृकर्तृमयम् ।
विततमनस्तमितोदितभारूपं सत्यसंकल्पम् ॥ ६४ ॥

दिक्कालकलनविकलं ध्रुवमव्ययमीश्वरं सुपरिपूर्णम् ।
बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् ॥ ६५ ॥

सृष्ट्यादिविधिसुवेधसमात्मानं शिवमयं विबुध्येत ।
कथमिव संसारी स्याद्विततस्य कुतः क्व वा सरणम् ॥ ६६ ॥

यदि पुनः परशक्तिपातविद्धहृदयः प्रमाता देहादिप्रमातृताभिमानमधस्पदीकृत्य स्वात्मानं शिवमयं विबुध्येत चिदानन्दैकघनं विजानीयात्स परिज्ञातस्वात्ममहेश्वरभावः कथमिव केन प्रकारेण संसारी संसरणशीलो भवेन्न स्यादिति यावद्यतश्चिदचिद्रूपपुर्यष्टकात्मा कार्ममलसंबन्धेन संसरति यः पुनश्चिदेकमूर्तिः शिवमयः प्रक्षीणाणवादिमलकञ्चुकः स कथं संसारीति तात्पर्यम् । ननु चिदेकमूर्तिः स्यात्संसारी च भवेदिति किं दुष्येदित्येवमाशङ्क्याह वितत इत्यादि । विततस्य अनवच्छिन्नदेशकालाकारस्य प्रमातुर्देहाद्यभिमानपूर्वस्वकृतवासनापरिक्षयात्पूर्णस्य तस्य कुतः सरणं सर्वव्यापित्वात्तदतिरिक्तं किमस्ति यद्वस्त्वपेक्ष्य ततो विश्लिष्टोऽन्यत्र भिन्ने संसरणं गमनं कुर्याद्यतो देहादिप्रमातृताभिमानावच्छिन्नस्य किलापादानाधिकरणादिकारकसंभवो यः पुनश्चिदेकघनो ब्रह्मभूतोऽनवच्छिन्नदेशकालः प्रमाता तस्य संसरणे वाचोयुक्तिरपि न भवेदिति । कीदृशं शिवरूपमात्मानं विबुध्येतेत्याह अमलं बोधमित्यादि । अपगत आणवादिमलप्रचयो यस्य तमत एव वैमल्यात्बोधं शुद्धचैतन्यम् । तथा सर्वसमुत्तीर्णं निरतिशयं ज्ञानक्रियास्वातन्त्र्यं प्रकृतं यस्येति तं विततं देशादिकृतविच्छेदाभावाद्व्यापिनम् । तथाविद्यमानेऽस्तोदिते प्रलयोदयौ यस्याः भासः बोधदीप्तेः सैव रूपं देहो यस्य तम् । अन्यच्च सत्याः परमार्थाः संकल्पाः स्वेच्छाविहारा यस्य यद्यदिच्छति तत्तथैव भवतीति तमेवंविधम् । तथा दिक्कालाकारकलनाभिश्चर्चाभिर्विरहितं व्यापित्वनित्यत्वधर्मयोगादत एव ध्रुवं कूटस्थमव्ययमविनाशिनम् । तथा ईश्वरं स्वतन्त्रम् । अन्यच्च तथा सुपरिपूर्णं सुष्ठु निराकाङ्क्षम् । तदनु बहुतराणि प्रभूतानि शब्दराशिसमुत्थानि ब्राह्म्यादिशक्त्यधिष्ठितानि घटपटादिशक्तिव्रातानि तेषां लयोत्पत्तिविधौ स्वतन्त्रम् । अन्यच्च सृष्ट्यादिविधिसुवेधसं सुप्रवीणं वेधसं विधातारमित्येवमादिविशेषणैः सर्वतः परिपूर्णं स्वात्ममहेश्वरं जानानो यत्किञ्चिदपि कुर्वाणो दग्धकर्मबीजो न पुनः संसारभाग्जीवन्नेव विमुक्तो भवेदिति यावत् ॥ ६४ ॥ ६५ ॥ ६६ ॥

एवं स्वात्मप्रत्यवमर्शोपपत्त्या ज्ञानिना विगलितकर्मफलाभिलाषेण कृतमपि कर्म न फलायेत्यावेदयन्स्वानुभवसिद्धं लोकदृष्टान्तमाह

इति युक्तिभिरपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् ।
न ममेदमपि तु तस्येति दार्ढ्यतो नहि फलं लोके ॥ ६७ ॥

अहमेव चिद्घनः स्वतन्त्रः सर्वप्रमात्रन्तरतमत्वेन सर्वकर्मकारी नाहं वा कर्ता पारमेश्वरी स्वातन्त्र्यशक्तिरित्थं करोतीति मम शुद्धचैतन्यरूपस्यैतावता किमायातमिति युक्तिभिः प्राक्प्रतिपादितस्वरूपाभिरुपपत्तिभिर्व्याख्यातस्वात्मस्वरूपविदः प्रमातुरुभयथा देहाद्यहंभावाभावाद्धेयोपादेयशून्यत्वेन यत्सिद्धं कर्म निष्पन्नमपि कृतं न सफलं न तत्फलेन युज्यते तस्यात्मज्ञानिनः प्रतिपादितवदुभयथा कृत्रिमत्वाभावात्कृतमपि कर्म कुत्र फलेन योगं कुर्याद्देहादिप्रमातृताभिमानस्वभावाश्रयाभावान्न कुत्रचिदिति यावत् । कृतस्य कर्मणो या प्रमातुः फलाभिमानरूढिरेष एवाश्रयो ज्ञानिनस्त्वभिमानाभावात्स्वस्मिन्रूप एव प्रक्षीणं कर्म न फलेन संबध्यत इति । नन्वभिमानादेव कर्म फलेन युज्यत इति कुत्र यथेत्याह न ममेदमपि इत्यादि । दृष्टं चैतन्नापूर्वं यथा न ममेदं यज्ञादिकं कर्म अपि तु तस्य कस्याप्यर्थवतो यजमानस्य इति अनया बुद्ध्या कृतमपि यज्ञादिकं कर्म लोके मूल्यार्थितया फलाभिमानाभावान्न यतस्तत्कर्म पारलौकिकेन फलेन युक्तं कल्पते । तथा हि यजन्ति याजका यजते यजमान इति न्यायेन यजतामृत्विजां यज्ञकर्म स्वयं कृतवतामपीदमश्वमेधादिकं यज्ञकर्म नास्माकं किञ्चिदपि तु दीक्षितस्य पुण्यवतो वयं किलेह यज्ञकर्माणि नियमितमूल्यमात्रार्थिनोऽत्र न केचनैव यजमानः पुनरमुना कर्मणा स्वर्गादिफलभागपीति तेषां कर्मफलाभिमानाभावान्न स्वयं कृतमपि कर्म तदीयेन स्वर्गादिना फलेन युज्यते यजमानस्तु तत्र यज्ञकर्म स्वयमकुर्वाण ऋत्विङ्निर्वर्त्यकर्ममुखप्रेक्ष्यपि ममेदमश्वमेधादिकं यज्ञकर्म मदीयेन धनेनाम्यृत्विजः कर्मणि प्रवृत्ता इति ममैव स्वर्गादिफलं देहपातादवश्यंभावीत्यकुर्वाणस्यापि यथा समीहितकर्मफलाभिमानदार्ढ्यात्तत्तस्य कर्म फलेन युज्यते । अत एव कर्त्रभिप्राये क्रियाफल इति दीक्षितात्कर्तुर्यजते यजमान इत्यात्मनेपदं कर्त्रनभिप्राये तु परस्मैपदं यजन्ति याजका इति । इयान्महिमा दुर्लङ्घ्यो विकल्पस्वातन्त्र्यस्य यत्स्वयं कृतमपि कर्म फलाभिमानाभावात्तत्फलेन न युज्यतेऽन्यैः कृतमपि कर्म ममेदमित्यभिमानदार्ढ्यात्फलयुक्तं स्यात्तस्मादृत्विग्व्यापारवत्क्रियमाणं योगिना कर्म फलाभिमानाभावान्न तत्सफलं भवेदिति ॥ ६७ ॥

एवं सर्वकर्मसु हेयोपादेयकल्पनाकलङ्कपरित्यक्तबुद्धिर्ज्ञानी दीप्तः स्यादित्याह

इत्थं सकलविकल्पान्प्रतिबुद्धो भावनासमीरणतः ।
आत्मज्योतिषि दीप्ते जुह्वज्ज्योतिर्मयो भवति ॥ ६८ ॥

इत्थं व्याख्यातेन प्रकारेण या भावना अहमेव चैतन्यमहेश्वरः सर्वात्मना सर्वदैवं स्फुरामीति यात्मनि विमर्शरूढिः सैव शनैः प्रसरन्ती समीरणः वायुरिव तेन ज्ञानी प्रतिबुद्धः भस्मच्छन्नो वायुना प्रतिबोधितो वह्निर्यथा सकलविकल्पान् पशुरस्मि कर्मबन्धबद्धो देहरूपी ममेदं पुत्रदाराद्यमुना कर्मणा स्वर्गो निरयो वा भविष्यतीत्यादिसर्वाः कल्पना अहमेवेदं सर्वमिति परामर्शशेषीभूताः आत्मज्योतिषि चैतन्यकृशानौ दीप्ते पराहन्ताचमत्कारसारे जुह्वतविकल्पकसंविद्रूपानुप्रवेशेन समर्पयन्स ज्योतिर्मयो भवति दाह्यविकल्पेन्धनपरिक्षयाद्दाहकाकारश्चिदग्निरेव संपद्यते परप्रमात्रेकवपुरसाववशिष्यत इति यावत् ॥ ६८ ॥

एवं व्याख्यातेन प्रकारेण यः प्रकृष्टज्ञानयोगाभ्यासरतः स शेषवर्तनया कथं कालमतिवाहयतीत्याह

अश्नन्यद्वा तद्वा संवीतो येन केनचिच्छान्तः ।
यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा ॥ ६९ ॥

यत्किञ्चित्पुरः पतितमदनयोग्यं पदार्थमश्नन् चमत्कुर्वन्न पुनर्नियमेनेदं पवित्रमिदमपवित्रमिदं कदन्नमिदं मिष्टान्नमिति हेयोपादेयकल्पनाविरहादयत्नेनापतितं यदपि तदपि समाहरन् । तथा संवितो येन इत्यादि । कन्थया चर्मणा वल्कलेन वा तूलपटादिना दिव्यात्मवस्त्रैर्वा समाच्छादित इत्युभयथोत्कर्षापकर्षाभावाच्छरीराच्छादनार्थक्रियार्थी भूत्वा नापि किञ्चिद्द्वेष्टि नापि स्तौतीति । कथमेतद्यतः सः शान्तः सुखदुःखादिविकल्पनातिक्रान्त इति । तथा यत्र क्वचन निवासी इति । यत्र क्वचन यादृशे तादृशे स्थाने स्वपरिश्रयमात्रार्थी न पुनस्तस्य क्षेत्रायतनतीर्थादि पवित्रत्वात्स्वीकार्यं भवति नापि श्मशानश्वपचसदनाद्यपवित्रत्वात्परिहार्यं स्यादयत्नेन यद्यत्स्थानमापतितं तत्तदधिवसति पवित्रापवित्रकल्पनाकलङ्कविरहात् । विमुच्यते इत्येवमपि शेषवर्तनया परानुग्रहार्थप्रवृत्तः कालमतिवाहयन् विमुच्यते परमशिवीभवति । उक्तं च येन केनचिदाच्छन्नो येन केनचिदाशितः । यत्र क्वचन शायी यस्तं देवा ब्राह्मणं विदुः ॥

इति । मोक्षधर्मेष्वपि

अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यैर्व्रतमिदमाजगरं शुचिश्चरामि ॥

इति । कथमेवमपि कुर्वञ्ज्ञानी स्वयं मुच्येतेत्याह सर्वभूतात्मा इति । यतः स ज्ञानी सर्वभूतात्मा सर्वेषां भूतानामात्मा सर्वाणि च भूतानि तस्यात्मेति कृत्वा न किञ्चिद्बन्धकतया भवति सर्वं विमुक्तयेऽस्य संपद्यत इति ॥ ६९ ॥

नाप्येवंरूपस्य निरभिमानस्य यत्किञ्चित्कुर्वतोऽपि पुण्यपापसंभव इत्याह

हयमेधशतसहस्राण्यपि कुरुते ब्रह्मघातलक्षाणि ।
परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥ ७० ॥

य एवं परमार्थवित्स्वात्ममहेश्वरस्वभावसतत्त्वज्ञः सोऽश्वमेधराजसूयाप्तोर्यामादियज्ञान्निःसंख्यान्फलकामनाभिमानविरहात्कर्तव्यतामात्रमिदमित्येवं कृत्वा क्रीडार्थं यदि कदाचिद्विहितानि कर्माणि विदधात्यथवा ब्रह्महननसुरापानस्तैन्यादीनि प्रमादोपनतानि महापातकान्यविहितान्यप्यशरीरतया चेत्युभयथाहं ममेत्यभिमानाभावात्परमेश्वरेच्छैवेत्थं विजृम्भते मम किमायातमिति बुद्ध्या न पुण्यैः शुभफलैर्नापि पापैः अशुभैः स ज्ञानी स्पृश्यते मलिनीक्रियत इति । कथमेतदित्याह विमलः इति । यतस्तस्य विगताः प्रक्षीणा आणवमायीयकार्ममलाः संसरणहेतव इति । एवं मलिनस्य हि प्रमातुर्विच्छिन्नदेहादिप्रमातृतयात्मात्मीयाभिमानभावो येन ममेदं कर्म शुभमिदमशुभमित्यभिमानदौरात्म्यात्पुण्यपापसंचययोगः स्याद्यस्य कर्मफलसंचयो ममत्वहेतुर्मलप्रचयो विगतः स्यात्तस्याभिमानाभावात्कथं पुण्यपापस्पर्शः । यथा श्रीभगवद्गीतासु

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥

इति ॥ ७० ॥

एवंविधस्य ज्ञानिनो नियतचर्यां परामृशन्नाह

मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी ।
निःस्तोत्रवषट्कारो जड इव विचरेदवादमतिः ॥ ७१ ॥

मदः देहप्रमातृताभिमानः हर्षः अलब्धस्य लाभात्प्रमोदः कोपः क्रोधः मन्मथः संभोगाभिलाषः विषादः इष्टवियोगान्मूढत्वं भयं शत्रोः सिंहव्याघ्रादेर्वा दरः लोभः कार्पण्यं मोहः भूतेष्वात्मात्मीयभाव इत्येतान्देहसंस्कारप्रत्यवमर्शान्मध्ये मध्ये समायातानपि सर्वं ब्रह्मास्मीति परिवर्जयत्यविकल्पकसंविद्रूपानुप्रवेशेन स्वात्मप्रत्यवमर्शशेषीभूतान्संपादयति । तथा निर्गतः स्तोत्रवषट्कारेभ्यो यः स एवं स्तुत्यस्य व्यतिरिक्तस्याभावान्न तस्य स्तोत्राद्युपयोगो नापि वषडादिमन्त्रसंश्रयो भिन्नस्य देवताविशेषस्य विरहात्केवलं सः जड इव विचरेदवादमतिः इति । पूर्णत्वादाकाङ्क्षाविरहाच्चोन्मत्त इवेतिकर्तव्यतारूपे शास्त्रीये कर्मणि प्रमाणोपपन्ने वा प्रमेयसतत्त्वे प्रमातृभिः सहेदमुपपन्नमिदं नेति विचारबहिष्कृतबुद्धिर्नापि स्वात्मन्युपदेशमपेक्षते परानुपदेष्टुं वा प्रमेयमुपन्यस्यतीति दान्तप्रायो भूत्वा सर्वं ब्रह्मावलोकयन्क्रीडार्थं विहरेदेवेति जडत्वेन निरूपितः ॥ ७१ ॥

एवमपि परिवर्ज्यमानेनापि मदादिवर्गेण वयमिव ज्ञानी सति शरीरे किमिव न स्पृश्यत इत्यत्र कारणमाह

मदहर्षप्रभृतिरयं वर्गः प्रभवति विभेदसंमोहात् ।
अद्वैतात्मविबोधस्तेन कथं स्पृश्यतां नाम ॥ ७२ ॥

समनन्तरकारिकाव्याख्यातः मदादिवर्गोऽयं विभेदसंमोहातित्यात्मात्मीयरूपो यः विभेदसंमोहः अपूर्णत्वख्यातिस्ततः प्रभवति पशुप्रमातृभ्यो द्वैतभ्रान्त्या हेयोपादेयतया समुत्पद्यते । यः पुनः सर्वं ब्रह्मास्मीति परमाद्वयात्मबोधः प्रकृष्टज्ञान्याकाशकल्पः सः तेन मदादिवर्गेण कथं नाम स्पृश्यतां केन प्रकारेणाबिलीक्रियतां भिन्नं वस्तु भिन्नस्य हि कदाचित्स्वरूपमर्पयतां ब्रह्मभूतत्वेन गृहीतो मदादिवर्गो ब्रह्मभूतस्य ज्ञानिनः समानजातेः कथं विरोधाय स्यादिति ॥ ७२ ॥

बाह्यस्तवनहवनवर्गोऽपि द्वैतसमाश्रय एव न तस्य परितोषायालमित्याह

स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तमस्य किञ्चन च ।
स्तोत्रादिना स तुष्येन्मुक्तस्तन्निर्नमस्कृतिवषट्कः ॥ ७३ ॥

स्तुत्यं किञ्चिद्देवतारूपं होतव्यं वा किञ्चिज्ज्ञानिनोऽद्वयबोधरूपस्य न व्यतिरिक्तं भिन्नरूपं विद्यते यत्स्तूयते हूयते वेति । नापि कर्तव्यमित्येवंरूपतया च स्तोत्रादिना सः आत्मज्ञः परितोषं यात्यभेदबोधसंभोगेन हि नित्यानन्दमयत्वात्कृत्रिममानन्दं नाद्रियते तस्मान्निर्गतो नमस्कृतिवषट्केभ्यो यः स एव मुक्तः वेदान्तेषु एवंस्तुत इति ॥ ७३ ॥

न च तस्य भिन्नेन देवगृहेणोपयोगः स्वशरीरमेवात्मदेवताधिष्ठानं संविदाश्रयो वा नान्यः कश्चिदिति नो भिन्नं देवगृहमस्येत्याह

षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् ।
निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् ॥ ७४ ॥

तस्य ज्ञानिनो निजः परकीयो वा देह एव देवतावेश्म स्वात्मदेवताया भोग्याधारत्वात् । बाह्यस्तु मेर्वादिप्रासादस्तदा देवगृहीभवति यदा गुरुणा शरीरव्याप्त्या षट्त्रिंशत्तत्त्वकलनरूपया परिकल्पितः स्यात्तद्गतो बाह्योऽपि देवः स्वात्मव्याप्त्या चिद्घनत्वेन परिगृहीतश्चेत्तदा सोऽपि तत्र देवो भवेदन्यथोभयमेतज्जडं शिलाशकलकल्पमेव कथं भक्तानुद्धरेन्मृतान्सामीप्यादि वा नयेदित्येवं मुख्यया वृत्त्या शरीरं संविदाश्रयत्वाद्देवगृहं तद्गतः सर्वेषामपि स्वात्मा देव इति देह एव संप्रबुद्धस्य देवगृहम् । कीदृशं तदित्याह षट्त्रिंशत्तत्त्व इति । बाह्यं षट्त्रिंशत्तत्त्वव्याप्त्या परिकल्प्यते परं देहदेवगृहं पुनः साक्षात्षट्त्रिंशता तत्त्वैः भृतं पोषितम् । बाह्यदेवगृहे गवाक्षरचना भवतीदं तु विग्रहरचनागवाक्षपरिपूर्णमिति विग्रहे शरीरे रचना इन्द्रियद्वारपरिपाटिः सैव तमोरिकल्पना तया परिपूर्णमक्षुण्णमिति बाह्यदेवगृहसदृशम् । न केवलं सरीरं संविद आश्रय इति कृत्वा देवगृहं यावद्यत्किञ्चिद्वा संविदधिष्ठितं तत्सर्वं तस्य देवगृहमित्याह घटादि वा इति । घटाद्युपलक्षितं विषयपञ्चकमिदं भोग्यरूपं चक्षुरादिद्वारेण संविदाधिष्ठितम्

भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ।

इति स्पन्दशास्त्रोपदेशदृशा संविन्मयमेव ज्ञानिनो भूतशरीरवद्घटादि विश्वं भावशरीरमिति कृत्वा तदप्यभिन्नं स्वशरीरवत्देवगृहं देवस्य क्रीडावतः स्वतन्त्रस्य स्वात्ममहेश्वरस्य गृहं भोग्याधिष्ठानमिति ॥ ७४ ॥

बाह्यदेवगृहे किल भक्तः पुष्पाद्याहरणपूर्वं देवपूजापरो दृष्टो देहदेवगृहे पुनर्ज्ञानी किं कुर्वन्नधितिष्ठतीत्याह

तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् ।
आत्मामर्शनविमलद्रव्यैः परिपूजयन्नास्ते ॥ ७५ ॥

तस्मिन्स्वदेहदेवगृहे प्रकृष्टयोगी परमः सर्वातिशायी यश्चैतन्यलक्षणः आत्मा स एव निःशेषशब्दादिविषयोपभोगविलायनप्रगल्भत्वात्भैरवः भरणरवणवमनस्वभावः स एव शिवदेवता प्रकृष्टश्रेयोरूपो देवस्तां परिपूजयन्नास्ते अनवरतं वक्ष्यमाणेन क्रमेण तां तर्पयन्परिस्फुरेत् । ननु बाह्यदेवता परिवारयुता भवत्येतां किंपरिवारयुतां समर्चयेदित्याह स्वशक्तियुतामिति । स्वाः चैतन्यरश्मिरूपाश्चिन्निर्वृतीच्छाज्ञानक्रियाशक्तीनां विभवात्मिकाश्चक्षुरादिकरणशक्तयस्ताभिः युतां समन्तादावृताम् । कैः परिपूजयन्नास्त इत्याह आत्मामर्शन इत्यादि । स्वात्मैवेदं सर्वमिति यतामर्शनं सर्वपदार्थानां संविद्रूपतया पूर्णाहन्ताविश्रान्तिलक्षणो यः परामर्शस्तेन द्वैतकालुष्यकलङ्कपरिक्षयात्विमलानि यानि शब्दादिविषयपञ्चकरूपाणि पूजार्थं द्रव्याणि जाड्यापगमेन विशुद्धानि तैरात्मामर्शनविमलद्रव्यैरिति । अयमाशयो ज्ञानी हेयोपादेयभेदकलङ्कपरित्यागेनायत्नोपनतं शब्दादिविषयपञ्चकं श्रोत्रादिकरणदेवीभिः समाहृत्यान्तश्चमत्कुर्वन्स्वात्मनाभेदमापादयतीत्येवमनवरतं प्रतिविषयस्वीकारकाले योऽन्तरभेदेन चमत्कारः पूर्णाहन्तास्फुरणमेतदेव स्वात्मदेवतापूजनमत एव शब्दादयो विषयाः पूजोपकरणमित्यवधानवता विषयग्रहणकाले प्रतिक्षणं स्वात्मदेवतापूजकेन भाव्यमिति रहस्यविदः । एतदेव स्तुतिद्वारेण राजानकरामो दृब्धवान्यथा

नित्योद्दामसमुद्यमाहृतजगद्भावोपहारार्पण-
व्यग्राभिस्तव तैजसीप्रभृतिभिर्यच्छक्तिभिस्तर्प्यते ।
तन्मांसास्रवसास्थिकूटकलिले काये श्मशानालये
रूपं दर्शय भैरवं भवनिशासंचारवीरस्य मे ॥

इति ॥ ७५ ॥

पूजान्ते तावदग्निहवनेन भाव्यमिति ज्ञानिनः कथं तदित्याह

बहिरन्तरपरिकल्पनभेदमहाबीजनिचयमर्पयतः ।
तस्यातिदीप्तसंविज्ज्वलने यत्नाद्विना भवति होमः ॥ ७६ ॥

तस्य एवंविधस्य स्वात्मदेवतापूजकस्य अतिदीप्ते पराहन्ताचमत्कारभास्वरे चैतन्याग्नौ यत्नाद्विना तिलाज्येन्धनादिस्वीकारकदर्थनाया ऋते होमः वह्नितर्पणं संपद्यते । किं कुर्वत इत्याह बहिरन्तर इत्यादि । बहिः नीलादौ प्रमेये यत्स्वपरप्रमातृकल्पनमन्तर्ग्राह्ये सुखादौ च यत्संकल्पनमित्येवंरूपो यः भेदः बाह्याबाह्ययोः प्रमातृप्रमेययोर्निश्चयसंकल्पनाभिमानवृत्तिस्वभावं नानात्वमेतदेव महाबीजं प्रमातृप्रमेययोस्ततः समुत्पत्तेस्तस्य कल्पनारूपस्य भेदबीजभूतस्य निचयः भेदस्यानन्त्याद्राशिस्तमर्पयतः परमाद्वयदृष्ट्याविकल्पकसंविद्रूपानुप्रवेशेन स्वात्मवह्नौ जुह्वत इति । अयमाशयः परब्रह्मात्मकस्य योगिनो देहादिप्रमातृताभिमानाभावाद्यः स्वरससिद्धः स्वपरप्रमातृप्रमेयकलनपरिक्षयः स एवाकृत्रिमो होमः । यथाह भट्टश्रीवीरवामनः

यत्रेन्धनं द्वैतवनं मृत्युरेव महापशुः ।
अलौकिकेन यज्ञेन तेन नित्यं यजामहे ॥

इति ॥ ७६ ॥

एवंरूपस्य याजकस्य ध्यानमाह

ध्यानमनस्तमितं पुनरेष हि भगवान्विचित्ररूपाणि ।
सृजति तदेव ध्यानं संकल्पालिखितसत्यरूपत्वम् ॥ ७७ ॥

नियताकारचिन्तितस्याकारस्यान्यत्र मनोवृत्तेर्गमनात्क्षयोऽस्तीदं पुनरनस्तमितं ध्यानं यस्मातेष भगवानप्यनन्तः स्वात्मरूपो महेश्वरः क्रियाशक्तिस्वभावविकल्पस्वातन्त्र्येण यानि विचित्राणि रूपाणि सृजति अनवरतं नानापदार्थान्विकल्परूपानाकारान्बुद्धिदर्पणे समुल्लिखति तदेव अस्तोदयवर्जितमेतस्य ध्यानं चिन्तनं नातोऽन्यत्किञ्चित् । इतरत्र तु देवताविशेषे नानावक्त्राङ्गपरिकल्पनया नैयत्यं स्यात् । सर्वो मनोव्यापारः पराशक्तिस्फारपल्लवभूत इति जानानस्यानवच्छिन्नमिदं सर्वं परमेश्वरीभूतम् । तथा संकल्पेन मनसा आलिखितं संविद्भित्तौ चित्रीकृतं सत्यरूपत्वं परमार्थता यस्य ध्यानस्य तत् । एवं यतः सर्वमिदं प्रकाशमानं विकल्पोल्लिखितं मनोव्यापाररूपमपि प्रकाशानतिरिक्तं सत्यं सर्वत्र संविदनुगमादिति । तदुक्तं श्रीमत्स्वच्छन्दशास्त्रे

यत्र यत्र मनो याति तत्र तत्रैव धारयेत् ।
चलित्वा कुत्र गन्तासि सर्वं शिवमयं यतः ॥

इति । तथा शैवोपनिषदि

यत्र यत्र मनो याति बाह्ये वाभ्यन्तरे प्रिये ।
तत्र तत्र शिवावस्था व्यापकत्वात्क्व यास्यति ॥

इति । तस्मात्स्वरसोदितमेतद्योगिनो ध्यानमिति ॥ ७७ ॥

जपश्चास्य कीदृशः स्यादित्याह

भुवनावलीं समस्तां तत्त्वक्रमकल्पनामथाक्षगणम् ।
अन्तर्बोधे परिवर्तयति च यत्सोऽस्य जप उदितः ॥ ७८ ॥

वक्ष्यमाणेन क्रमेण यो विश्वस्य प्रतिक्षणमभेदेन पराहन्ताप्रत्यवमर्शः सः अयमस्य जप उदितः अकृत्रिमत्वेन कथितः । कोऽसावित्याह भुवनावलीं समस्तां षट्त्रिंशत्तत्त्वसमूहान्तर्वर्तिनीं चतुर्विंशत्युत्तरशतद्वयसंख्यातां प्राकारपङ्क्तिं निःशेषां तथा तत्त्वक्रमकल्पनामिति तत्त्वक्रमस्य आत्मविद्याशिवाख्यस्य परिकल्पनां परिच्छेदमथाक्षगणमित्यन्तर्बहिष्करणरूपमिन्द्रियसमूहं चेति अन्तर्बोधे मध्यमप्राणशक्त्यक्षसूत्रभूतायां स्वसंवित्तौ नादबिन्दुप्रवाहक्रमेण यत्परिवर्तयति अरघट्टघटीयन्त्रवत्प्रतिप्राणविक्षेपसृष्टिस्थितिसंहारक्रमेण सर्वमेतत्स्वसंवित्तौ परिभ्रमयति प्रतिक्षणं नादात्मना परामृशतीति यावत् । स एव पूर्णाहन्ताविश्रान्तिलक्षणोऽकृत्रिमोऽस्य जपः । अयमाशयो जपः किल वाच्यरूपाया देवताया वाचकस्य मन्त्रस्योच्चारः स चाक्षमालया प्राणशक्तिव्याप्तिकयाक्षपरिवर्तनक्रमेण संख्येयः । परमाद्वययोगिनस्तु स्वा प्राणशक्तिस्तन्तुभूता मध्यमप्राणे प्रवाहक्रमेण नदन्ती स्वरसोदिता सर्वाक्षक्रोडीकारेण सहजैवाक्षमालोच्यते यतः सर्वमिदं वाच्यं षट्त्रिंशत्तत्त्वात्मकं विश्वं प्राणशक्तावेव प्रतिष्ठितं सत्प्रतिप्राणविक्षेपमुदयव्ययक्रमेण परास्वभावा भगवती प्राणस्वरूपमाश्रित्य विमृशन्ती प्रतिप्राणस्पन्दमवधानवतो योगिनो जपमकृत्रिमं साधयति । अत्र जपसंख्या

एकविंशत्सहस्राणि षट्शतानि दिवानिशम् ।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः ॥

इति शैवोपनिषदि । शिवसूत्रेषु

कथा जपः ।

इति । एवमेष वन्द्यचरणानामवधानवतामेव गोचर इति ॥ ७८ ॥

इदं व्रतमस्येत्याह

सर्वं समया दृष्ट्या यत्पश्यति यच्च संविदं मनुते ।
विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् ॥ ७९ ॥

विश्वरसासवपूर्णं निजकरगं वेद्यखण्डककपालम् ।
रसयति च यत्तदेतद्व्रतमस्य सुदुर्लभं च सुलभं च ॥ ८० ॥

एवं यत्वक्ष्यमाणमेतदेवास्य ज्ञानिनः व्रतं स्वात्मदेवतासमाराधनाय नियमः । कीदृशं तदाह सुदुर्लभं च सुलभं च इति । सुष्ठु कृत्वा दुःखेनाख्यातिपरिक्षयादन्योपायपरिहाररुपेण परमेश्वरानुग्रहेण लभ्यत इत्यतः सुदुर्लभं तथा सुखेन बाह्यास्थिभस्माद्याभरणाहारनियमादिस्वीकारकदर्थनां च विना लभ्यत इत्यतः सुलभं च । किं तद्व्रतमित्याह सर्वमित्यादि । यत्सर्वमिदं प्रातीतिकं भेदावभासरूपं युक्त्यागमानुभवपरिशीलनेनाभेददृशा सर्वमिदमेकः स्फुरामीति समीक्षते । यथा श्रीभगवद्गीतासु
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

इत्यादि । एवमभेदबुद्धिदार्ढ्यमेव व्रतम् । अन्यच्च यद्विश्वश्मशाननिरतां संविदं मनुते तदपि व्रतम् । यथा विश्वं ग्राह्यग्राहकस्वभावं घटदेहादिजडलक्षणपदार्थशवशतसमाक्रान्तमिति कृत्वा तदेव श्मशानं पितृवनं यतः संविदेका भगवत्यजडातोऽन्यत्तदुल्लासितं सर्वमिदं शवस्थानीयं जडमतो विश्वस्य श्मशानेन सादृश्यम् । तस्मिन् विश्वश्मशाने निःशेषेण रतां संविदं समुत्पत्तिनिधनतया महाभीषणे मध्यवर्तिनीं मनुते अवबुध्यते । व्रती किल श्मशाने वसत्ययं पुनरलौकिको व्रती सर्वत्राहमेवैकचित्ततत्त्वपरमार्थ इति मत्वा जडैः पशुप्रमातृभिर्घटादिभिः प्रमेयैश्च परेतस्थानीयैः सहोन्मत्तवत्क्रीडां कुर्वाणः संसारभुवमिमां सर्वप्रमातृप्रमेयनिधनतया भीषणं श्मशानस्वभावामध्यास्ते । अन्यच्च यत्विग्रहखट्वाङ्गकल्पनाकलितां संविदं मनुते इति । विग्रहः शरीरं स एव खट्वाङ्गकल्पना कङ्कालविधिर्योगिनः किल स्वशरीरप्रमातृताभिमानदुर्ग्रहसंक्षयाच्छरीरातीतं स्वात्मानं मन्यमानस्य संस्कारशेषीभूतो विग्रहः शवप्रायमेवेत्यवधारयतः स्वशरीरमेव कङ्कालमुद्राकल्पना तया कलितां भोग्याधारत्वेन मुद्रिताम् । वीरव्रतिनो हि श्मशानस्थस्य खट्वाङ्गमुद्रया भाव्यमतोऽस्य स्वसंविद्वपुषः स्वशरीरमपि वेद्यतया भिन्नमवधारयतः सैव खट्वाङ्गमुद्रेत्येतदप्यस्य व्रतम् । तथा वेद्यखण्डककपालं रसयति चर्वयति यच्च शब्दादिविषयपञ्चकलक्षणं सर्वभोग्यरूपमिदं वेद्यं ज्ञेयत्वकार्यत्वाभ्यां परिच्छिन्नमिति खण्डकं कर्परप्रायं तदेव कपालं शिरोऽस्थिशकलं यद्रसयति साराहरणक्रमेण पूर्णाहन्ताविश्रान्त्या चमत्कुरुत इत्येतदपि व्रतम् । व्रतिना किल कपालस्थं वीरपानं रस्यत इत्याह विश्वरस इति । विश्वस्मिन् वेद्यशब्दादिविषयपञ्चकरूपे कपालखण्डे योऽसौ सारभागश्चर्वणामृतमयोंऽशः स एव परमानन्ददायित्वात्रसासवः उत्तमं पानं तेन पूर्णं निर्भरम् । एतदुक्तं स्याद्विश्वस्य यः शल्कस्थानीयः कठिनोंऽशः पात्रकल्पः स एव कपालं तद्गतः सारभागश्चमत्कारक्षम आह्लाददायित्वात्पानमिति । कपालं तु व्रतिनः करगतं भवतीत्याह निजकरगमिति । निजाः स्वात्मीया ये कराः चक्षुरादिकरणदेवीस्वभावाश्चिन्मरीचयस्तेषु भोग्यतया तद्वेद्यखण्डकं विषयत्वं गच्छतीति निजकरगं यथा पाणिस्थेन कपालेन पानं पीयते तथैव वेद्यखण्डककपालेन विश्वरसासवश्चक्षुरादिसंवित्करैर्योगिना समाहृत्यास्वाद्यते । अयमाशयो योगी सर्वदैव यथोपनतं विषयपञ्चकं करणदेवीभिराहृत्य युक्त्या स्वचैतन्यभैरवविश्रान्तिमव्युच्छिन्नां भजमानश्चरमक्षणपर्यन्तं यथोपदिष्टमद्वयदृशा निर्वाहयतीत्येतदेवास्य परिशीलितसद्गुरुचरणपङ्कजस्य व्रतमतोऽन्यच्छरीरशोषणमात्रमिति ॥ ८० ॥

प्राक्प्रतिपादितं संकलयन्नस्योपदेशस्योत्कृष्टत्वमाह

इति जन्मनाशहीनं परमार्थमहेश्वराख्यमुपलभ्य ।
उपलब्धृताप्रकाशात्कृतकृत्यस्तिष्ठति यथेष्टम् ॥ ८१ ॥

इति समनन्तरोक्तेन प्रकारेण यत्प्रतिपादितं रहस्यं परमार्थमहेश्वराख्यं तात्त्विकं महेश्वरमुपलभ्य स्वात्मनि दृढप्रतिपत्त्या सम्यगनुभूय । कीदृगाह जन्मनाशहीनमिति येनाधिगतेनोत्पत्तिमरणे न स्यातामिति यावत् । कृतकृत्यस्तिष्ठति यथेष्टमिति योग्येतत्प्राप्य कर्तव्यतान्तरस्याभावान्निष्पन्नपरपुरुषार्थः यथेष्टं स्वेच्छातिक्रमं विना स्वातन्त्र्येण चक्रभ्रमवद्धृतशरीरः तिष्ठति कालमतिवाहयन्नास्ते । कथमाह उपलब्धृताप्रकाशातिति । एतद्रहस्यपरिशीलनेन सर्वासु दशास्वनुभवितृतया प्रकाशः परिस्फुरणं तस्मादिति शरीरस्थोऽपि पूर्णानन्दमय इति यावत् ॥ ८१ ॥

इत्थं स्वात्मानं यः कश्चिज्जीवतां मध्याज्जानानः स सर्वस्तद्रूपः स्यादित्यधिकारिनियमाभावमाह

व्यापिनमभिहितमित्थं सर्वात्मानं विधूतनानात्वम् ।
निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति ॥ ८२ ॥

इत्थमित्युक्तेन प्रकारेण व्यापिनमनवच्छिन्नचिदानन्दैकघनं शिवमभिहितं युक्त्यागमानुभवपरिशीलनक्रमेणावेदितं यो वेत्ति यः कश्चिदेव प्राणिप्रायो जानाति सः सर्वस्त्यक्तसंकोचः तन्मयः शिव एव स्यादिति । अत्र स्वात्मज्ञाने नाधिकारिनियमो यतो ये केचन जन्ममरणादिदोषाघ्रातास्तिर्यञ्चोऽपि वा ते सर्वे स्वात्ममहेश्वरप्रत्यभिज्ञानात्तन्मया भवन्तीति यच्छब्दस्य परामर्शः । कीदृशं च सर्वात्मानमिति । सर्वेषां प्रमातृप्रमेयाणामात्मा सर्वाणि वा प्रमातृप्रमेयाणि यस्यात्मा तं सर्वोत्तीर्णं सर्वमयमिति यावत् । अत एव विधूतं न्यक्कृतं सर्वदा सर्वत्र चिद्रूपतया स्फुरणात्नानात्वं भेदानन्त्यं येन तमेवमाकाङ्क्षाविरहात्निरुपमः विशेषणरहितः प्रकृष्टः आनन्दः यस्य तमेवंविधमिति स्वात्मानं जानानः सर्वः शिवरूपी स्यादिति ॥ ८२ ॥

एवमधिगतस्वात्ममहेश्वरः स्वशरीराधिकारपरिक्षये कुत्र शरीरं परित्यजेत्किं वा यातीत्यादिसंशयं परिहरति

तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् ।
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ ८३ ॥

एवं परिशीलितस्वस्वरूपो ज्ञानी सर्वमिदं स्वात्मप्रकाशस्वातन्त्र्यमिति परमाद्वयदृशा गाढं समाश्वस्तहृदयः तीर्थे प्रयागपुष्करकुरुक्षेत्रादौ महापुण्ये स्थानेऽथ वा श्वपचसदनेऽन्त्यजनगृहोपलक्षितेऽतिपापीयसि शरीरं मुञ्चन्नित्युभयथा स्वीकारपरित्यागकदर्थनाविरहितोऽप्यात्मज्ञानादेव कैवल्यं याति कलेवरपरिक्षयात्प्रधानादिकार्यकारणवर्गेभ्योऽन्यां चिदानन्दैकघनां तुर्यातीतरूपां केवलतां यातीति यावत् । यतोऽस्य सर्वमिदं विश्वं स्वात्मना पूर्णं समदृशा परमेश्वराधिष्ठितं पश्यतो न क्षेत्राक्षेत्रप्रविभागोऽत एव हतः पराकृतो विकल्पशङ्कासमुत्थः शोकः येन स एवम् । यथोक्तम्

हिमवति गङ्गाद्वारे वाराणस्यां कुरौ प्रयागे वा ।
वेश्मनि चण्डालादेः शिवतत्त्वविदां समं मरणम् ॥
इति श्रीनिर्वाणयोगोत्तरे । नाप्यस्य देहपातावसरे स्मृत्युपयोग इत्याह नष्टस्मृतिरपि इति । आस्तां संस्मृतिरित्यपिशब्दार्थः । यदि वा स ज्ञानी शरीरत्यागकाले तदुत्थवातपित्तश्लेष्माभिभवात्नष्टस्मृतिः काष्ठपाषाणतुल्यत्वाद्विगतस्वात्मसंबोधः कलेवरमवशो भुत्वा त्यजति तथापि प्रागधिगतस्वात्मज्ञानः कैवल्यमवश्यं याति ततो न स्वात्मज्ञानाधिगमे प्रमयसमये स्मरणास्मरणे विशेषोऽस्ति । ननु तीर्थातीर्थप्रविभागोऽस्य स्वात्मज्ञानविदो मा भूद्यत्पुनरन्तकाले स नष्टस्मृतिरपीति यदेव स्वात्मज्ञानमुपायतया गृहीतं तस्य देहपातावसरे तु विस्मरणं चेत्तर्हि कथं स मुक्तः स्यात् । यदुक्तम्

अन्तकालेऽपि मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥

इति श्रीगीतासु । एवमप्यत्र स्मरणस्यैव उपयोगो यदपि परमेश्वरस्मरणाभावेऽप्यन्तकाले तद्भावापत्तिः स्यात्तर्हि सर्वः पशुजनः प्रमयसमये मूढोऽपि विशेषाभावात्परमेश्वरसमापत्तिं यायाद्वाक्यानि चैवमादीन्यप्रमाणानि स्युर्न चैवमित्यत्रोत्तरमाह ज्ञानसमकालमुक्तः इति । सत्यं नास्य स्मरणेनोपयोगः किन्तु सद्गुरुणा यदैव तस्य कर्णमूले स्वात्ममहेश्वरज्ञानोपदेशः कृतस्तस्मिन्नेव कालेऽहमेव सर्वमिदमित्यधिरूढस्वात्मज्ञानपरमार्थो विगलितमायादिकञ्चुकभावो नान्यत्किञ्चिदपेक्षते केवलं संस्कारशेषतया चक्रभ्रमवच्छरीरं वहमान इति न पुनस्तस्योत्तरकाले स्मरणास्मरणकदर्थना यस्मादज्ञानजनिताणवमयीयकञ्चुकसंबन्धे सति देहकञ्चुकं प्रभवति स्वात्मज्ञानोपदेशेनाज्ञानजनितकञ्चुकक्षयात्कथं देहकञ्चुकं विनष्टप्रायं पर्यन्ते ज्ञानिनो यन्त्रणां कर्तुमलमिति स्वात्मज्ञानकथनावसर एव स जीवन्नेव मुक्तः स्यात् । यथोक्तं कुलरत्नमालिकायां साहस्त्रिकायाम्

यदा गुरुवरः सम्यक्कथयेत्तदसंशयम् ।
मुक्तस्तत्रैव कालेऽसौ यन्त्रवत्केवलं वसेत् ॥

इति । श्रीमन्निशाटनेऽपि

गोदोहमिषुपातं वा नयनोन्मीलनात्मकम् ।
सकृद्युक्तः परे तत्त्वे स मुक्तो मोचयेत्परान् ॥
यस्मात्पूर्वं परे न्यस्तो येनात्मा ब्रह्मणि क्षणम् ।
स्मरणं तु कथं तस्य प्राणान्ते समुपस्थिते ॥

इति । अथ वात्मविदः पर्यन्तक्षणः स्वानुभवैकसाक्षी केनानुभूयते यद्वशात्तस्य स्मरणमस्मरणं वा परिकल्प्यते यावता तत्रार्वाग्दृशां नास्ति गोचर इति सर्वज्ञास्त्रत्र प्रष्टव्या न पुनः शरीरचेष्टामात्रान्मरणावसरेऽधिगतपरमार्थस्यापि देहत्यागक्षणः शुभाशुभत्वेनानुमातुं शक्यः । तस्मादवश्यमेव सदा तद्भावभावितं स्वात्मज्ञानविदं स्वात्मस्थ एव परमेश्वरो मरणावसरे स्वं स्वरूपं काष्ठपाषाणतुल्यमपि स्मारयति । यदुक्तम्

स्वस्थचेष्टाश्च ये मर्त्याः स्मरन्ति मम नारद ।
काष्ठपाषाणतुल्यांस्तानन्तकाले स्मराम्यहम् ॥

तथा

स्थिरे चेतसि सुस्वस्थे शरीरे सति यो नरः ।
धातुसाम्ये स्थिरे स्मर्ता विश्वरूपं च मामकम् ॥
ततस्तु म्रियमाणं तं काष्ठपाषाणसंनिभम् ।
अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥

इति भगवता लक्ष्मीसंहितायामुक्तम् । एवमत्र सदातद्भावभावितत्वमेव हेतुरन्यथा पूर्वानुभवसंस्कारदार्ढ्यं विना कथमन्ते स्मृतिरपि स्यादिति न केनचिदपि ज्ञानिनो मरणावसरे समुपयोग इति ॥ ८३ ॥

यदि पुनस्तीर्थाद्याश्रयणमुक्तप्रकारेण न कुत्रचिदप्यङ्गभावं याति तर्हि किमिति विद्वद्भिस्तत्समाश्रीयत इति विषयविभागमाह

पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः ।
पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ ८४ ॥

येषां विदुषामपि देहादिप्रमातृताग्रहः साम्प्रतं न विगलितः स्वात्मज्ञानचर्चायां च न तथा समाश्वासस्तेषामिष्टापूर्तादिधर्मसंग्रहं कुर्वतामधर्मसंग्रहं वा प्रयागादितीर्थसेवा मरणावसरे क्षेत्रपरिग्रहः पुण्याय उत्तमलोकप्राप्तये निश्चितं स्यादेव । तथैव श्वपचसदननिधनगतिः इति । श्वपाकादिगृहोपलक्षिते पापीयसि स्थाने निधनगतिः प्रमयप्राप्तिः निरयाय अवीच्यादिनरकपातायैतेषां किमिति न भवेद्देहप्रमातृताग्रहस्य विद्यमानत्वात् । मरणस्थानानुगुणं भोगमपि भुक्त्वा शुभाशुभेषु देहेषु जायन्ते पुनर्म्रियन्ते चेत्यनवरतजन्ममरणप्रबन्धा देहाद्यात्ममानिन एवंप्रायाः स्युः । यस्य पुनः स्वात्मज्ञानप्रत्यवमर्शदार्ढ्याद्देहादिप्रमातृताभिमानो निःशेषेण विगलितस्तस्य चिन्नभःस्वभावस्य धर्माधर्मस्वभाववासनास्पर्शप्रक्षये वृत्ते सति किं तेन । एवं स यतः शुभाशुभकर्मभाजां तीर्थादिपरिग्रहस्ततस्तेन तीर्थसेवादिना विमलस्य ज्ञानिनो नास्त्युपयोगः । यदुक्तं मानवे धर्मशास्त्रे

यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्त्वं मा गङ्गां मा गयां गमः ॥

इति । अत्र देहात्ममानितैव हृदयवर्तिनी यमः सा यैः पूर्णस्वात्ममहेश्वरस्वभावमुपलभ्य संभक्षिता तेषां कथमेष तीर्थादिसेवाप्रयास इति सिद्धान्तः ॥ ८४ ॥

ननु प्राक्प्रतिपादितं यथा ज्ञानदग्धाणवमायीयकार्ममलस्वरूप आत्मा पिण्डपातात्स्वस्वरूपस्थ एव न पुनर्भवप्ररोहं विधत्ते दग्धबीजमिवाङ्कुरमिति । स्वात्मज्ञानाविर्भावसमकालं देहकञ्चुकभङ्गश्चेत्तर्ह्युत्तरत्र मा विधत्तां यत्पुनर्विद्यमाने देहादिकञ्चुकबन्धे कथङ्कारं स तद्गतधर्माच्छुरितो न स्यात्तदाच्छुरितः सन्मृतः कथं न संसारीति चोद्यमपवदति

तुषकम्बुकसुपृथक्कृततण्डुलकणतुषदलान्तरक्षेपः ।
तण्डुलकणस्य कुरुते न पुनस्तद्रूपतादात्म्यम् ॥ ८५ ॥

तद्वत्कञ्चुकपटलीपृथक्कृता संविदत्र संस्कारात् ।
तिष्ठन्त्यपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति ॥ ८६ ॥

तुषकम्बुकाभ्यां सुष्ठु पृथक्कृतः विश्लिष्टो यः तण्डुलकणः तस्य यः तुषदलान्तरक्षेपः प्रागिव पुनस्तत्रैव विन्यासः स यथा तुषदलान्तरप्रक्षेपः तण्डुलकणस्य तद्रूपतयाङ्कुरजननक्षमत्वेन स्थितोऽपि तादात्म्यं गाढावष्टम्भं न कुरुते अयःशलाकावद्भिन्नावेव तुषतण्डुलौ तिष्ठतो न पुनरेककार्यजननव्यग्रौ भवतः तद्वत्तथैव ज्ञानिन इयं संवित्चेतना कञ्चुकपटल्याः आणवमलादिकञ्चुकसमूहात्पृथक्कृता अहमेव स्वात्ममहेश्वरस्वभावो विश्वात्मना सर्वदा सर्वत्र स्फुरामीति स्वात्मज्ञानपरिशीलनदार्ढ्यात्समुद्धृता अत्र इत्यस्यां कञ्चुकपटल्यां कञ्चित्कालं शेषवर्तनया देहभावेन तिष्ठन्त्यपि स्थिता सती विमुक्तात्मा प्रध्वस्तबन्धा तत्स्पर्शविवर्जिता भवति तस्या देहादिकञ्चुकपटल्याः स्पर्शः पुण्यापुण्यरूपकार्ममलोपजनितो य उपरागः संसाराङ्कुरजननक्षमस्तेन विवर्जिता परिहृता संपद्यते यथा तुषदलान्तरे क्षिप्तस्तण्डुलोऽङ्कुरप्ररोहस्पर्शरहितो भवतीति । इदमुक्तं स्यादज्ञानकारणकस्तावत्संसारस्तत्र समुदितस्वात्मज्ञानदलितकञ्चुकस्य योगिनः संविन्न पुनः संसारहेतुरज्ञानजनितसामग्रीवैकल्यान्नापि तस्य शेषवर्तनया संस्कारवशेन तिष्ठन्नयं देहकञ्चुकबन्धो ज्ञानाग्निदग्धाज्ञानमूलः स्वगतधर्माविर्भावेन संसारप्ररोहं दातुमलमिति ज्ञानी जीवन्नेव तुरीयरूपो देहाभावात्तुर्यातीतरूप इत्युभयथा पुनर्न काचित्संसारशङ्केति ॥ ८६ ॥

ननु शेषवर्तनया यावच्छरीरावस्थितं योगिसंवेदनमधिगतस्वस्वरूपमपि देहोपाधिकृतमालिन्यस्यापि तावदंशेन विद्यमानत्वादशुद्धमेवेति दृष्टान्तेन परिहरति

कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः ।
मलिनोऽपि मणिरुपाधेर्विच्छेदे स्वच्छपरमार्थः ॥ ८७ ॥

एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः ।
मुक्तमप्युपाध्यन्तरशून्यमिवाभाति शिवरूपम् ॥ ८८ ॥

यथा मणिः अतिप्रवीणवैकटिकसमुद्द्योतितनैर्मल्यः सन्समुद्गकविश्लिष्टत्वात्मलिनोऽपि धूसरप्रायो भवति स एव पुनः समुद्गकोपाधिविच्छेदे आवरणविशेषाभावे स्वच्छपरमार्थः यथावन्निर्मलस्वरूपः संपद्यते । एवमनेनैव प्रकारेणेदं वेदनं सद्गुरुशासनविमलस्थिति परिपूर्णस्वात्मज्ञानविद्यो दैशिकप्रवरस्तस्य यत्शासनं स्वात्मज्ञानरहस्यमुखाम्नायस्तस्य परिशीलनेन विगता कालिकारूपस्याणवमलस्य मायीयकार्ममलभित्तिभूतस्य स्थितिर्यस्य तदेवंविधं मौलिकमलप्रक्षयान्नभोरूपमपि वेदनं तनूपाधेः तनुः शरीरं तल्लक्षणा उपाधिः विशेषणं ततः मुक्तं पृथक्कृतं विशेषणान्तराभावात्तत्शिवरूपमाभात्येव देहभङ्गात्परमशिवत्वेन भासत इति यावत् । यथा समुद्गकोपाधिविरहान्मणिः स्वस्वरूपो भाति तथैव स्वस्वरूपावबोधाद्विमलमप्यशुद्धाभिमतशरीरोपाधिक्षयाद्विशुद्धमेव संवेदनं भासते । ननु मणिर्यथा समुद्गकोपाधेर्विमुक्तोऽपि पुनरन्यतमोपाधिपरिग्रहात्समलः संपद्यते तथैव तनूपाधेर्मुक्तमपि संवेदनं मणिवदुपाध्यन्तरं चेद्गृह्णाति तर्हि पुनरपि सोपाधित्वादशुद्धमेवेति परिहरति उपाध्यन्तरशून्यमपि इति । न दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साम्यं यतः पिण्डपातात्तस्य महाप्रकाशवपुषः परमाद्वयरूपस्य सर्वमिदमुपाध्यभिमतं स्वाङ्गकल्पं भासतेऽतो व्यतिरिक्तस्योपाध्यन्तरस्याभावान्न पुनस्तदुपाध्यन्तरेण विशिष्यत इति न मणिनोपाधिग्रहणस्य साम्यम् । अज्ञानमूलं किल शरीरोपाधिग्रहणं तच्चेत्स्वात्मज्ञानकुठारेण दलितं कथङ्कारं पुनरुपाधिसंश्रयो भवेत् । यदुक्तम्

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥

इति श्रीगीतासु । तस्मात्स्वस्वरूपज्ञानाद्योगिनः स्वसंवेदनं सदैव शुद्धमेवेति ॥ ८८ ॥

सर्वोपाध्युत्पत्तौ यथावत्परिशीलितव्यापारमनःसंस्कारप्ररूढिरेव निमित्तं न पुनर्नूतनत्वेन किमप्यायातीत्यावेदयति

शास्त्रादिप्रामाण्यादविचलितश्रद्धयापि तन्मयताम् ।
प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् ॥ ८९ ॥

आगमप्रामाण्याद्गुरूपदेशपारम्पर्यकथनाद्युक्तिपरिशीलनात्प्राग्वासनाप्ररूढया श्रद्धया वा स्वात्मज्ञान इष्टापूर्ते पाशवे कर्मणि वा कृताभ्यासः प्रमाता तदैव तत्संस्कारप्ररोहेण तन्मयतां तत्तदभ्यस्तवस्तुस्वरूपतां प्राप्तः सन्नुत्तरत्र देहपाताद्वासनानुगुण्येन स्वर्गं निरतिशयां प्रीतिं नरकमवीच्यादिदुःखं मनुष्यत्वं सुखदुःखोभयरूपं मनुष्यभावं प्राप्नोति न पुनरनभ्यस्तवासनस्यापि पुरुषस्य देहपातादेव यत्किञ्चिदापतति । यतः सर्वः प्रमाता येनाशयेन यदभ्यस्यति तदैव स तद्रूपो भवति किन्तु मरणसमये स्फुटतया यदभिलषितं वस्तु तत्प्रमातुरभिव्यक्तिं यातीति नाभ्यस्तवस्तुनः कदाचिद्विपर्ययः स्यान्नाप्यनभ्यस्तवस्तुस्वरूपं किञ्चिदपूर्वत्वेनापतेदिति सर्वत्र पूर्वाभ्यास एव कारणमिति भावः ॥ ८९ ॥

एवं सदा तद्भावभावितत्वं स्वात्मविदो देहत्यागावसरे पूर्णप्रथाहेतुर्न पुनर्लोकपरिदृश्यः पुण्यापुण्यरूपो मरणावसरः कश्चित्स्वर्गनिरयादिकारणं परिकल्पनीयमित्याह

अन्त्यः क्षणस्तु तस्मिन्पुण्यां पापां च वा स्थितिं पुष्यन् ।
मूढानां सहकारीभावं गच्छति गतौ तु न स हेतुः ॥ ९० ॥

येऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् ।
तेऽपि पुरातनसंबोधसंस्कृतास्तां गतिं यान्ति ॥ ९१ ॥

एवंप्रतिपादिते ज्ञानिनि अन्त्यः क्षणः चरमो देहविनाशसहभावी कालो धातुदोषवशेन दुष्टव्याध्यनुभवाद्वा समीपस्थितैः प्रमातृभिरनुमितां पुण्यां पापमयीं वा स्थितिं पुष्यन् सेवमानः सन्मूढानां देहात्ममानिनां प्रमातॄणामेव सहकारीभावं कारणत्वं गच्छति । गच्छतु वराको नैतावता निर्भग्नदेहात्ममानित्वे सदा स्वात्ममहेश्वरनिभालनचतुरे तस्मिन् योगिनि सः अन्त्यः क्षणः गतौ देहाद्देहान्तरप्राप्तौ हेतुः कारणं भवेत् । कुत एतदागतमिति निदर्शयन्नाह येऽपि इति । येऽपि केनाप्याशयवशेन शापादिना वा पापयोनयः पशुरूपतामपि प्राप्ताः स्वगतिमात्मस्थितिं मरणावसरे आत्मत्वेन जानीयुः ते मूढाः सन्तोऽपि प्रागभ्यस्तस्वात्मज्ञानवासनाप्रबोधानुगृहीताः स्वात्मस्थितिं च लभन्ते । गजेन्द्रमोक्षणादौ यथा हस्तिना पशुस्वभावेनापि सता प्राक्परिशीलितपरमेश्वरभक्तिसंस्कारप्रबुद्धेन विष्णुं भगवन्तं स्तुत्वा सम्यक्कञ्चुकं विहाय स्वस्वरूपमुपलब्धं कस्तत्र स्मरणे हेतुरभूत् । अयं भावः शरीराद्युत्थधातुदोषवशात्काष्ठपाषाणचेष्टो ज्ञानी पुण्यं पापमालबिडालादिकं वा यत्किञ्चित्प्रलपन्देहं त्यजति नैतावता स्वस्थचेष्टतया यदभ्यस्तं ज्ञानादिकं तस्य विप्रलोपः स्याच्छरीरादिगता धर्माः शरीरादावेव निपतन्ति न पुनः सदा भावितं वस्तु स्थगयितुं प्रभवन्तीत्यामरणक्षणं सर्वत्र प्ररूढिरेव परमार्थः । यथा गीतासूक्तम्

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥

तथा

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥

इति भावितान्तःकरणतैव पर्यन्तगतिदानहेतुः ॥ ९१ ॥

एवं दर्शितदृष्ट्या यतः सदा तद्भावभावितत्वमपहस्त्य नूतनत्वेन शरीरविनाशे नापूर्वं किञ्चित्समापतेज्ज्ञानिनो यतो देह एव विनाशी केवलं स एव विनश्यति न पुनर्वासनाप्ररोह इति दर्शयन्नाह

स्वर्गमयो निरयमयस्तदयं देहान्तरालगः पुरुषः ।
तद्भङ्गे स्वौचित्याद्देहान्तरयोगमभ्येति ॥ ९२ ॥

एवं ज्ञानावसरे स्वात्मा सकृदस्य यादृगवभातः ।
तादृश एव तदासौ न देहपातेऽन्यथा भवति ॥ ९३ ॥

तत्तस्माच्छरीरघटादिनिविष्टः पुरुषः सर्वस्य कार्ममलाधिवासित आत्मा स्वर्गाद्यभिप्रायपूर्वकृतकर्मफलवासनावासितान्तःकरणः स्वर्गमयः प्ररूढस्वर्गफलवासनाविशिष्टत्वात्स्वर्गफलभोक्तेति यावत् । एवं दुष्कृतपूर्वकर्मवासनाप्ररूढो नरकफलभोक्ता केवलं देह उभयकर्मफलभोगायतनं तद्भङ्गे स्वौचित्यातिति तस्मिन्देहक्षये स्वस्य आत्मनो यथाहितवासनानुगुण्यादन्येन भोगायतनेन शरीरान्तरेण समनन्तरं संबन्धमुपयात्युत्तरकालं येन विशिष्टकर्मवासनादत्तफलभोगभागी भवति । तथैव ज्ञानावसरे उपदेश्यस्य गुरूपदिष्टस्वात्मप्रकाशनकाले स्वात्मा चैतन्यं सकृतेकवारं यादृक्यादृशः अवभातः उपदेशक्रमानुसारेण परिपूर्णस्वातन्त्र्यलक्षणां मितां वा परामर्शदशां गतः तदृश एव सदा असौ येनैव स्वरूपेण ज्ञानिना स्वात्मा सर्वकालं परामृष्टः ताद्रूप्येण वासनाप्ररोहात्तस्य प्रथते न पुनः देहपाते प्रकाशितोऽपि स्वात्मा ज्ञानिनः अन्यथा समाच्छादितः भवति । न हि भातमभातं स्यादपरथा न कश्चित्किञ्चिदभ्यसेदिति सर्वव्यवहारविप्रलोपो भवेत्

धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥

इत्यादि सर्वं च त्रुट्येत्तस्मान्मरणकाले शरीरं यथास्तु तथास्तु केवलं वासनाप्ररोहः स्वात्मगतः सर्वस्य बन्धे मोक्षे च हेतुरिति ॥ ९३ ॥

यदि पुनर्धातुवैषम्याच्छरीरे मरणव्यथोपलब्धिः स्यान्नैतावताभ्यासप्ररोहे काचित्क्षतिरित्यावेदितामेव स्थितिमुपलब्धुं परिघटयते

करणगणसंप्रमोषः स्मृतिनाशः श्वासकलिलता च्छेदः ।
मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः ॥ ९४ ॥

स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगेऽपि ।
मरणावसरे ज्ञानी न च्यवते स्वात्मपरमार्थात् ॥ ९५ ॥

करणगणस्य बाह्यान्तर्गतस्य त्रयोदशात्मकस्य सम्यक्प्रमोषः स्वरूपविप्रलोपो यथा चक्षुरादीनीन्द्रियाणि रूपादिविषयालोचनायां न प्रगल्भन्ते वागादिकर्मेन्द्रियाण्यप्येवं वचनादानादौ न प्रवर्तन्ते नापि बुद्धिर्यथार्थमर्थमध्यवस्यति मनसोऽनवस्थितिरहङ्कारोऽपि मध्ये मध्ये संस्कारतयास्ते । तथा स्मृतिनाशः अनुभूतविषयस्य संप्रमोषो बन्धुभिरर्थ्यमानोऽपि मुमूर्षुः पुरोऽवस्थितं वस्तु शतशोऽनुभूतमपि न प्रत्यभिजानात्यत एव सदा तद्भावभावितत्वं विना ब्रह्मविद्यादिकथनमन्तकाले दानमन्यत्किञ्चिद्वा तस्यामवस्थायां नभश्चित्रमिव न चित्ते प्ररोहति किन्तु तदितिकर्तव्यतामात्रं कार्यमिति नियोगः । तथा श्वासः कण्ठ्यो वायुस्तस्य कलिलता कण्ठदेशे गद्गदिका हिक्का वा । अन्यच्च मर्मसु छेदः अस्थिसंधिषु त्रोटः । तथा रुजाविशेषाः ज्वरातीसारप्रभृतय इति । एवं यः शरीरस्य भूतकञ्चुकस्य वातपित्तश्लेष्मधातुवैषम्यात्शरीरसंस्कारजो भोगः देहजो दुःखानुभवः स कथं केन प्रकारेण विग्रहयोगे सति ज्ञानिनोऽपि न भवेत्स्यादेव । तेन हेतुना ज्ञानी सदाधस्पदीकृतदेहाद्यभिमानः समाविष्टस्वात्ममहेश्वरभावश्च मरणक्षणजनितशारीराज्ञानसंबन्धेऽपि स्वात्मपरमार्थात्प्ररूढचैतन्यप्रत्यवमर्शसतत्त्वात्न च्यवते नान्यथाभावं याति । यतोऽसौ ज्ञानी न्यक्कृतदेहसंबन्धो न तज्जेन भोगेन तन्मयीकर्तुं पार्यते केवलं लोकवच्चेच्छरीरपातसमनन्तरं क्षणं नोपलभत इत्येतावता तस्य स्वस्थहृदयस्य स्वसंकल्पिताभिप्रायेण स्वस्थचेष्टतयाभ्यस्तभगवद्भक्तेर्न किञ्चिदपूर्वं समापतति तस्माज्ज्ञानी स्वात्मप्रथासमनन्तरमेव मुक्तो न शरीरसंस्कारोऽस्य बन्धदायीति शतशः प्राक्प्रतिपादितम् । यस्तु सदा देहात्ममानी पुण्यपापमयः स कथं देहसंस्कारोद्भूतसुखदुःखादिभोगजनितं तन्मयत्वं नायाति । यदुक्तम्

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥

इत्यादि । सत्त्वादयो गुणाः प्रकृतिधर्मास्तन्मयस्यैव नियन्त्रणां विदधते येन पुनस्ततो विविक्ततया परिशीलिता न तं प्रत्येते केचनेति ज्ञानिनोऽन्य एव पन्थाः । ये पुनरदृष्टगुरुचरणाः पशुप्रमातारस्ते स्वगतान्धर्मानन्यत्रापादयन्ति । यथा यद्ययं ज्ञानी स्यात्किमिति व्याध्याद्युपहतशरीरो भुङ्क्ते परिदधाति च यदि वा मरणसमये जाड्यमायातः स्मृतमनेन न किञ्चिदित्येवं बहुप्रकारमविद्योपहतत्वाद्विवदमानाश्च केन पर्यनुयुज्यन्ताम् । यद्ययं ज्ञानी स्याद्देहधर्मसंस्कारयुक्तश्च भवेत्किमेतावता च तस्य दुष्येत् । ज्ञानिनः स्वात्मप्रकाशस्तत्तदवस्थाविचित्रोऽपि स्वात्मप्रकाश एव न पुनस्तस्य स्वात्मानुभवितृतया विप्रलोपः स्याद्येन ज्ञानं नश्येत् । पूर्णषाड्गुण्यमहिमापि भगवान्वासुदेवः कृष्णावतारे व्याधशराघातजनितव्यथो भूतशरीरं त्यक्तवानित्येवं कृत्वा किं तस्य जगत्प्रभोः स्वस्वरूपविप्रलोपोऽभूदित्या कीटात्सदाशिवान्तस्यापि देहसंस्कार एतादृश एव किन्त्वेकः स्वात्मप्रत्यवमर्शमात्रसनाथदेहोऽपरस्तु देहाद्यात्ममानितासतत्त्व इतीयान्विशेषः । तस्माच्छरीरधर्मा ज्ञान्यज्ञानिनोः सदृशा एव नैतावता फलसाम्यमित्येतदेव गीतासूक्तम्

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥

इति ॥ ९५ ॥

इदानीमक्रमेण क्रमेण च ज्ञानयोगपरिशीलने विचित्रपरशक्तिपातमेव कारणं प्रतिपादयन्फलभेदमाह

परमार्थमार्गमेनं झटिति यदा गुरुमुखात्समभ्येति ।
अतितीव्रशक्तिपातात्तदैव निर्विघ्नमेव शिवः ॥ ९६ ॥

यस्मिन्नेव काले जनः पश्चिमजन्मा गुरुमुखात्प्रवरदैशिकवक्त्रातेनं शतशः प्रतिपादितं परमार्थमार्गं पूर्णस्वातन्त्र्यलक्षणं स्वात्मसंबोधमुखाम्नायरहस्यसरणिं यः कश्चितभ्येति समभियाति सः तदैव तस्मिन्नेवावसरे गुरूपदेशसमनन्तरमेवानन्तरायं कृत्वा शिव एव स्यात् । श्रीकुले यथोक्तम्

हेलया क्रीडया वापि आदराद्वाथ तत्त्ववित् ।
यस्य संपातयेद्दृष्टिं स मुक्तस्तत्क्षणात्प्रिये ॥

इति । ननु कथमेवंविधं मुखाम्नायरहस्यमेवोपनयेदित्याह अतितीव्रशक्तिपातातिति । अतिशयेन तीव्रः कर्कशो योऽसावनुग्रहाख्यायाः पारमेश्वर्याः शक्तेः पातः पशुहृत्कमलावतरणं येन पशुरपि गुर्वाम्नायवेदनाच्छिवीभवति जीवन्नेव मुक्त इति यावत् । यथा ताम्रद्रव्यं सिद्धरसपातात्सुवर्णीभवति । अयमर्थः परमेश्वरानुग्रहोपाय एव स्वात्मज्ञानलाभ इति नात्र नियतिशक्तिसमुत्थं जपध्यानयज्ञादिकमुपायतया क्रमते । अनुग्रहशक्तिविद्धहृदयस्य तु हठादेवाक्रमं देवतामुखाम्नायरहस्यं हृदयमावर्जयति येन झटित्येव परमेश्वरीभावं यातीत्यपर्यनुयोज्यो विचित्रः पारमेश्वरः शक्तिपात इति ॥ ९६ ॥

यस्य पुनर्मध्यमन्दमन्दतरादिभेदेन प्रवृत्तः शक्तिपातस्तस्य गुरूपदेशमामरणक्षणं यावद्योगक्रमेण विमृशतः पिण्डपाताच्छिवत्वं स्यादिति प्रतिपादयति

सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः ।
परतत्त्वरूढिलाभे पर्यन्ते शिवमयीभावः ॥ ९७ ॥

एवं किल शक्तिपातमन्दत्वात्पूर्णज्ञानोपदेशानासादनेन सर्वोत्तीर्णं रूपं सर्वतत्त्वपर्यन्तवर्तिस्वभावं संश्रयतः साक्षात्कुर्वतः कथमित्याह सोपानपदक्रमेण इति । कन्दनाभिहृत्कण्ठलम्पिकाबिन्दुनादशक्तिरूपाणि सोपानानि ऊर्ध्वमाक्रमणाय तीर्थान्येव तेषां पदमासादनं तत्र हानादानरूपः क्रमः शनैःशनैः कन्दे ततो नाभौ ततो हृदीत्येवमाक्रमणं तेनेति । एवं यावत्परमार्थप्ररोहोपलब्धौ पिण्डपातावसरे योगिनस्तस्य क्रमेण शिवतास्वभावा स्थितिर्भवतीत्येषा क्रमयुक्तिः कथिता ॥ ९७ ॥

एवमपि क्रमयोगमभ्यस्यतो योगिनः समाश्वस्तस्यापि सतस्तथारूढिर्न स्यादभीष्टप्राप्तावन्तरायो जायते यदि परमनासादिततत्त्वस्य मरणं स्यात्तदा किं भवेदित्याशङ्कां परिहरति

तस्य तु परमार्थमयीं धारामगतस्य मध्यविश्रान्तेः ।
तत्पदलाभोत्सुकचेतसोऽपि मरणं कदाचित्स्यात् ॥ ९८ ॥

योगभ्रष्टः शास्त्रे कथितोऽसौ चित्रभोगभुवनपतिः ।
विश्रान्तिस्थानवशाद्भूत्वा जन्मान्तरे शिवीभवति ॥ ९९ ॥

एवमुल्लङ्घनक्रमेण योगमभ्यस्यतः केनाप्यन्तरायेण मध्यविश्रान्तेः कुत्रचिच्चक्राधारेऽप्यनुभवोपलब्धेस्तत्रैव परितोषं गतस्यात एव परमार्थमयीं धारामगतस्य परतत्त्वरूपां प्रतिज्ञातां दशां सर्वाध्वोत्तीर्णामप्राप्तवतो यदि वा तत्पदलाभोत्सुकचेतसोऽपि प्रतिज्ञातपरमार्थसत्तासादनसाभिलाषस्यापि कदाचित्मध्ये विपत्तिः संभाव्यते तदैतस्यालब्धलाभस्यापि पिण्डपातात्का गतिरित्याह योगभ्रष्टः इत्यादि । सः योगात्समाधेरुभयथा भ्रष्टः चलितः शास्त्रे आगमग्रन्थे कथितः उक्तः । कीदृग्भवेदित्याह चित्र इत्यादि । पिण्डपातादेव चित्रभोगानि नानाश्चर्यस्त्र्यन्नपानमाल्यवस्त्रानुलेपनगीतवाद्यादिप्रधानानि यानि भुवनानि स्वविश्रान्त्यनुगुणानि तत्त्वेश्वरस्थानानि तेषु पतिः ईश्वरो भवति मरणसमनन्तरमेव दिव्यैर्भोगैर्युज्यत इति यावत् । तद्भोगाधिकारपरिक्षये पुनरपि स योगभ्रष्टः कथं स्यादित्याह विश्रान्ति इत्यादि । विश्रान्तिस्थानस्य कन्दादेः प्रदेशस्य वशात्तदभ्याससंस्कारप्रबोधसामर्थ्यात्सः जन्मान्तरे द्वितीये जन्मनि भूत्वा संसारेऽधिकारिशरीरं योगाभ्यासयोग्यं प्राप्य पूर्वाभ्यस्तं योगं प्रयासेन स्वीकृत्य हेलया परमार्थमयीं प्राग्जन्मप्रतिज्ञातां दशामधिरुह्य पिण्डपाताच्छिव एव भवति ॥ ९९ ॥

अथाभ्यस्यतोऽपि योगं योगिनो मनश्चाञ्चल्याद्विश्रान्तिमेकदेशेऽपि मनागप्यलभमानस्य योगं प्रति श्रद्धावतश्च पिण्डपातात्का गतिः स्यादित्याह

परमार्थमार्गमेनं ह्यभ्यस्याप्राप्य योगमपि नाम ।
सुरलोकभोगभागी मुदितमना मोदते सुचिरम् ॥ १०० ॥

विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा ।
भुवनेषु सर्वदैवैर्योगभ्रष्टस्तथा पूज्यः ॥ १०१ ॥

एनमिति शतशः प्रतिपादितं स्वात्मज्ञानसतत्त्वं पन्थानमभ्यस्य श्रद्धाभक्तिभ्यां सेवित्वापि चित्तदोषानवस्थानेन यथावद्योगलक्षणां विश्रान्तिं जन्ममध्येऽप्यनधिगतः सन्मृतश्चेत्तदा स योगभ्रष्टो ज्ञानयोगविषयप्ररूढश्रद्धाभक्तिप्रसादसामर्थ्येन देवलोकभोगभागी साह्लादचित्तः सुचिरं कालं हर्षं प्रयाति सुरैरपि भुवनेषु निजनिजस्थानेषु पूज्यो भवति । क इवेत्याह सार्व इत्यादि । यथा सार्वभौमो राजा सप्तद्वीपेश्वरो राजा चक्रवर्ती विषयेषु नानामण्डलेषु सर्वजनैः पूज्यते समभ्यर्च्यते तथैव अयं प्रक्षीणपुण्यापुण्यविषयः समुत्पन्नवैराग्यः पश्चिमजन्मा वन्द्योऽस्माकं यस्य स्वात्मनि जिज्ञासार्थं प्राग्जन्मन्युद्यमोऽभूदिति सुरैरपि स्तूयत इति यावत् ॥ १०० ॥ १०१ ॥

तस्य लोकान्तरभोगाधिकारनिवृत्तेरनन्तरं किं स्यादित्याह

महता कालेन पुनर्मानुष्यं प्राप्य योगमभ्यस्य ।
प्राप्नोति दिव्यममृतं यस्मादावर्तते न पुनः ॥ १०२ ॥

देवलोकेषु यथानिर्दिष्टेषु भोगान्भुक्त्वातिदीर्घेण कालेन स योगभ्रष्टः संसारेऽस्मिन्मनुष्यभावमागत्य योगाभ्याससाधनयोग्यं शरीरमासाद्य प्राग्जन्मनि मनश्चाञ्चल्याद्यो योगो दुष्प्रापोऽभूत्तमेव योगं प्राग्जातभक्तिश्रद्धाप्ररूढयोगवासनासंस्कारप्रबोधमनायासेन प्राप्य समभ्यस्य च देहान्ते दिव्यममृतं परतत्त्वस्वरूपमुपलभते परस्वरूपतादार्ढ्यं गच्छतीति यावत् । अत एव तस्मात्पुनरावर्तनं तस्य न स्यादिति । एवं महति कल्याणे स्वात्मज्ञानविषये मनागपि प्रत्यवमर्शः संसारसरणाय न भवति । यदुक्तं श्रीगीतासु

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥

इति । तथा

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिम् ॥

इत्यादिप्रश्नादारभ्य

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥

इत्युत्तरपर्यन्तो ग्रन्थो मुनिना प्रतिपादितोऽपि स्मर्तव्य इति ॥ १०२ ॥

एवमनेन ज्ञानयोगक्रमेण जन्तोर्मनागपि स्पृष्टस्य सत इयान्विभूत्यतिशयो यः प्रवक्तुं न पार्यते तस्मात्सर्वात्मना विवेकार्द्रहृदयैर्जननमरणनिवृत्तौ सावधानैर्भाव्यमिति निरूपयति

तस्मात्सन्मार्गेऽस्मिन्निरतो यः कश्चिदेति स शिवत्वम् ।
इति मत्वा परमार्थे यथातथापि प्रयतनीयम् ॥ १०३ ॥

यत एवं स्वात्मप्रत्यवमर्शाभ्यासः प्रतिपादितक्रमवशादुत्तमफललाभः तस्मातेतस्मिन्सुशोभने मार्गे प्रकृष्टमुक्तिप्रापके पथि यः कश्चिन्निरतः इत्यधिकारिनियमाभावः प्रदर्शितः । यः कश्चित्जनो जननमरणव्याध्यादिक्लेशशतपरिपीडितः निरतः विवेकबुद्ध्या निःशेषेण रतस्तत्रैव श्रद्दधानो भूत्वा निमग्नः सः जन्तुरचिराल्लघुनैव कालेन शिवत्वमेति सकलसांसारिकक्लेशानवधूय परश्रेयोरूपदशामेकेनैव जन्मना प्राप्नोति । यथा शिवधर्मोत्तरे शास्त्रे

इहैकभविको मोक्ष एष तावत्परीक्ष्यताम् ।
अनेकभविका मुक्तिर्भवतां केन वार्यते ॥

इति । इति मत्वा एवं विमृश्य तस्मिन् परमार्थे यथातथा येन तेनापि प्रकारेण प्रयतनीयं प्रकर्षेण समुद्यमः कार्यः । प्रधाने यत्नः फलवानिति कृत्वात्रार्थे मनागप्यवलेपो न विधेयो येन योगाभ्यासेन स्वात्मप्ररूढिश्चेत्समुत्पन्ना सिद्धं नः समीहितं न चेद्दिव्यलोकान्तरप्राप्तिः । ततोऽपि प्रत्यावृत्तस्य प्राक्समभ्यस्तयोगवासनाप्रबोधबलेन पुनरपि योगसंबन्ध इति श्रेयोमार्गपरिशीलनान्न विरुद्धं किञ्चित्कर्तुः समापततीति परमपुरुषार्थसाधनायां मनागप्यवलेपो न कार्य इति शिवम् ॥ १०३ ॥

एवं शास्त्रकारः शेषभट्टारकोक्तं परमार्थसारोपदेशं शिवाद्वयशासनक्रमेण युक्त्यनुभवागमसनाथं प्रतिपाद्य स्वात्मनः परितोषमात्रार्थितया स्वाभिधानप्रदर्शनपूर्वकमयमेवोपदेशः परपुरुषार्थसाधनोपाय इति निरूपयन्ग्रन्थार्थोपसंहारमाह

इदमभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म ।
अचिरादेव शिवत्वं निजहृदयावेशमभ्येति ॥ १०४ ॥

इदं प्रथमानं वितत्य प्रतिपादितं यत्परं प्रकृष्टं ब्रह्म बृंहकत्वात्परिपूर्णानन्दमयं स्वात्मस्वरूपं ध्यायतः अनायासेन स्वात्मनि प्रत्यवमृशतो जनस्य अचिरात्शीघ्रमेव न तु पुनर्बहूनां जन्मनामन्त इति । तदेवंविधस्य ब्रह्मभूतस्य शिवत्वमभ्येति निःश्रेयसप्राप्तिः संभवति । कथं निजहृदयावेशं कृत्वा निजं हृदयं परामर्शस्थानमाविश्य । कीदृशं तद्ब्रह्म कीर्तनीयनाम्ना अभिनवगुप्तेनोदितः प्रकाशितः संक्षेपः तात्पर्यं यत्र तदेवंविधम् । अत्र च नामव्याजेनेदमप्युक्तं स्याद्यथा अभिनवः योऽन्यैरदृष्टः परब्रह्मरहस्यातिशयः गुप्तश्च अवच्छन्न इवाभूत्स एवंविधः उदितः प्रकाशितः संक्षेपः यत्र तदेवंविधं ब्रह्मेति । एवमावेदयता दुर्लभतोपदेशस्य प्रतिपादिता स्यात् ॥ १०४ ॥

ग्रन्थपरिमाणं निरूपयन्नस्मिन्प्रकरणे कर्तृत्वमाह
आर्याशतेन तदिदं संक्षिप्तं शास्त्रसारमतिगूढम् ।
अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन ॥ १०५ ॥

इदं शास्त्रसारं बहूनां ग्रन्थानां यत्प्रकृष्टं सतत्त्वं तत्मया संक्षिप्तं ग्रन्थसहस्रैरप्युपपादयितुमशक्यं तदेव लघुना वृत्तशतपरिमाणेन स्वीकृत्योक्तमित्यनेन प्रतिभाकौशलमुक्तं भवेत् । कीदृशेण मया शिवचरणस्मरणदीप्तेन इति । शिवस्य परश्रेयःस्वभावस्य स्वात्मस्थस्य चिदानन्दैकमूर्तेर्यानि चरणानि चिद्रश्मयस्तेषां स्मरणं शब्दादिविषयग्रहणकाले निभालनं प्रतिक्षणं स्वानुभवाप्रमोषस्तेन दीप्तः पराहन्ताचमत्कारभास्वरोऽत एव कीर्तनीयाभिधानेन । अन्यथा कथं देहाद्यात्ममानिनोऽज्ञातस्वात्ममहेश्वरसतत्त्वस्येयति महार्थोपदेशेऽस्य कर्तृताधिकारित्वमुपपद्यते यतो यो यत्स्वभावः स तत्स्वभावं विवेक्तुं प्रगल्भत इत्युपदेष्टुः समाविष्टमहेश्वरस्वभावोऽनेन वाक्येनोक्तः स्यादिति शिवम् ॥ १०५ ॥

इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितःपरमार्थसारः ॥

श्रीमतः क्षेमराजस्य सद्गुर्वाम्नायशालिनः ।
साक्षात्कृतमहेशस्य तस्यान्तेवासिना मया ॥ १ ॥
श्रीवितस्तापुरीधाम्ना विरक्तेन तपस्विना ।
विवृतिर्योगनाम्नेयं पूर्णाद्वयमयी कृता ॥ २ ॥

संपूर्णेयं परमार्थसारसंग्रहविवृतिः कृतिस्तत्रभवत्परममाहेश्वरश्रीराजानकयोगराजस्य ॥