पर्यन्तपञ्चाशिका
[[लेखकः :|]]

श्री गणपतये नमः ।


आद्यन्तान्तर्गतानन्तशक्तिविश्रान्तिनिर्भराम् ।
अनुच्चार्यामहं वाचमधीये हृदयं विभोः ॥ १ ॥

स एव भैरवो देवस्सर्वे देवाश्च यन्मयाः ।
सैवासौ भैरवी सत्तासत्तापि च यन्मयी ॥ २ ॥

तदेव भैरवं ज्ञानमज्ञानमपि यन्मयम् ।
स हि भैरवसिद्धान्तः पूर्वपक्षोऽपि यन्मयः ॥ ३ ॥

ऐकध्यमध्वनां ष ङ्नां यत्र सा भैरवी स्थितिः ।
पर्यन्ते सर्वतन्त्राणामवाच्या परमा गतिः ॥ ४ ॥

सा चिदानन्दमात्रात्ममग्नेच्छाज्ञानसत्क्रिया ।
हृदयं देवदेवस्य भैरवस्याविभागभूः ॥ ५ ॥

चित्स्वाभाव्यादसौ देवः स्वात्मना विमृषन् प्रभुः ।
अनाश्रितादिभूम्यन्ता भूमिकाः प्रतिपद्यते ॥ ६ ॥

तत्र वाचकवाच्यात्मस्पन्दयोरेकशः प्रभोः ।
स्थूलसूक्ष्मपराभासक्रमयोः षड्विधाध्वता ॥ ७ ॥

क्रमो यो देशकालात्मा भेदप्राणस्स संविदाम् ।
विच्छेदादेष विज्ञातुर्विचित्राभासताकृतः ॥ ८ ॥

उभयो तत्र वै रीतिः शुद्धाशुद्धात्मभेदतः ।
शुद्धिर्बहिष्कृतार्थानां स्वाहन्तायां निमज्जनम् ॥ ९ ॥

अशुद्धिरपि मग्नानां नैवं हृदयविश्रमः ।
अत्रान्तरेऽप्यनन्तास्स्युः स्थितयस्तारतम्यतः ॥ १० ॥

उचितोचितमेयानां प्रमातॄणां प्रकाशने ।
साधारणान्यथाभावौ भिद्येते मातृमेययोः ॥ ११ ॥

अविकल्पस्फुटाभासा सा सृष्टिः शाम्भवी मता ।
अभेदेनात्मनिर्माणे स्वात्मैव करणीकृतः ॥ १२ ॥

क्रियाज्ञानात्मचिच्छक्तिर्भेदासूत्रणकारणात् ।
कलाविद्यापदं प्राप्य भेदोद्भेदे पुनर्भवेत् ॥ १३ ॥

प्रमाणबुद्धिप्रकरा यत्क्रियाया विकल्पनाः ।
सैव विच्छिन्नविच्छिन्नक्रिया ज्ञानोद्यमा यदा ॥ १४ ॥

कर्मबुद्ध्यक्षतां प्राप्ता तदासौ पशुरुच्यते ।
इतीच्छया स भगवान् भैरवः परिमीयते ॥ १५ ॥

मितवृत्तिस्सती सा च शक्तिस्तमनुवर्तते ।
तस्य विद्येशसादाख्यशिवतास्संकुचत्स्थितेः ।
देहप्राणबुद्धिशून्यप्रमातृत्वमुपागमन् ॥ १६ ॥

तस्यासाधारणी सृष्टिस्तत्तन्नानाविकल्पना ।
शैवसर्गोत्थसंस्कारसंस्कृतस्य तदाश्रया ॥ १७ ॥

प्रमातैवायमेतावत्प्रकारोऽवग्रहोत्सवे ।
अव्यग्रो वर्तते स्वात्मन्यविकल्पे चिदात्मके ॥ १८ ॥

वत्स पश्य त्वमेवैततद्वयत्वेन संविदः ।
विदितं तन्मयं विश्वमन्यत्तुच्छमसद्यतः ॥ १९ ॥

किमुपायमिदं तत्त्वं यतोऽन्यन्नैव सम्भवि ।
अनन्योपायमेतत्तदात्मोपायं प्रचक्षते ॥ २० ॥

संहृत्य सर्वतश्चिन्ताम् [अह]मित्यनुशीलयन् ।
अविकल्पां स्वसंवित्तिं प्रत्यक्षां प्रतिपद्यते ॥ २१ ॥

अनन्तैतावदाकारस्वीकारेऽप्येकलक्षणाम् ।
तां स्वसंविदमाविश्य विकल्पान्न विकल्पयेत् ॥ २२ ॥

खेचर्यादिचतुस्स्रोतोवाहपूर्णमहाह्रदाम् ।
व्योमेश्वरीमात्मचितिं विगाह्य ब्रोडयेज्जडम् ॥ २३ ॥

सर्गस्थापनसंहारनिग्रहानुग्रहक्रमात् ।
पञ्चकृत्यानि कुर्वाणः शिवोऽहमिति विश्वसेत् ॥ २४ ॥

क्षेपज्ञानप्रसंख्या[नग]तिनादक्रमेण वा ।
गुरुवक्त्रेण तान्यात्मन्याकलय्य कृती भवेत् ॥ २५ ॥

विकल्पयित्वा विश्वात्मा भैरवोऽहं ममैव ताः ।
विश्वभङ्ग्यो यथा वह्नेर्ज्वालाभङ्ग्यः प्रभा रवेः ॥ २६ ॥

एकोऽहं मातृविज्ञानमानमेयप्रकारवान् ।
शुद्धबोधादिरूपेण खेचर्यादिचतुर्दशः ॥ २७ ॥

मेदामेदप्रकारेण बन्धमोक्षौ विभावयन् ।
भैरवोऽस्मीति विस्रम्भात्स्वाच्छन्द्यं परमं व्रजेत् ॥ २८ ॥

अन्तःकारबहिष्कारावकालक्रममात्मनः ।
अपराधीनमाधत्से यत्त्वं प्राभवनिर्भरः ॥ २९ ॥

अनुत्तरविसर्गात्मविश्रमोदययामलम् ।
संघट्टश्शिवशक्त्योस्तदन्तरे चान्यशक्तयः ॥ ३० ॥

आनन्देच्छेशनोन्मेषा ऊनता चेशनेच्छयोः ।
अस्फुटस्फुटभेदेन वेद्योल्लासस्तयोर्विदः ॥ ३१ ॥

आनन्दानुत्तराभ्यां च सन्धीभावोऽथ वेदना ।
वेद्यानां प्राणभूतेति पूर्णं तद्भैरवं वपुः ॥ ३२ ॥

वेद्योल्लासोऽयमिच्छायामीशने चैकतः स्थितः ।
स्थूलत्वेन पृथिव्यादिभूतपञ्चकतामियात् ॥ ३३ ॥

सूक्ष्मत्वेन च गन्धादिपञ्चतन्मात्रतां ततः ।
करणत्वेन संस्पर्शादिन्द्रियाणां द्विपञ्चताम् ॥ ३४ ॥

वेद्यतायाः छादनेन वेत्तृतोद्भासनक्रमे ।
मनोऽहंबुद्धितामेषामविभागे प्रधानताम् ।
पुरुषत्वं च संकोचविकासौ यदपेक्षया ॥ ३५ ॥

अभूवन्निष्यसंयोगाद्द्विरूपादुभयात्मनः ।
इच्छास्वरूपादुन्मेषादन्यथानुत्तरायुतात् ॥ ३६ ॥

चतस्रश्शक्त्योऽन्तःस्थाः पुंसोऽस्यान्तश्च धारिकाः ।
चिद्व्योम्नो जडभूमेश्च मायामय्यस्त्रिशङ्कुवत् ॥ ३७ ॥

इच्छाशक्तेस्त्रिरूपायास्तिस्रोऽन्याश्शक्त्योऽभवन् ।
विसर्गोऽयमथात्यर्थं स्फुटोऽभूत्सृज्यविस्तरात् ॥ ३८ ॥

एतत्सृष्ट्वात्मशक्तीनामितरेतरमिश्रात् ।
भवेत्क्षोभान्तरं नास्माद्विसर्गाद्बाह्यतो भवेत् ॥ ३९ ॥

इयत्सर्वं सदिच्छादिद्वारानुत्तरभैरवे ।
विश्रम्य विश्रम्य मुहुस्तत एव विसृज्यते ॥ ४० ॥

अन्तर्निलीनानन्तार्थस्वात्मामर्शश्चितिः परा ।
एकवारवहाद्येयं मन्त्री वाक्शुद्धकर्तृता ॥ ४१ ॥

त्रिवहं त्रिपथं त्रिस्थं कालं सा कर्षति स्वतः ।
बहिस्ततश्चात्मनीति श्रीपरा कालकर्षिणी ॥ ४२ ॥

भेदितान्तःकृताख ङ्दभावावेक्षा परापरा ।
कर्तृता सैव पश्यन्ती तस्यैवेशदशाश्रया ॥ ४३

मध्यमा सक्रमा स्थूला अन्तःकरणवर्तिनी ।
विकल्पनाभिन्नवाच्या प्राणवृत्तिविभेदिता ॥ ४४ ॥

स्ववासनातादवस्थ्याद्दशयोः पूर्वयोरपि ।
मायामातुर्मितत्वं स्यात्पश्यन्त्याश्च क्रमो ह्यणुः ॥ ४५ ॥

तयोराविश्य दशयोः क्रमाच्छान्तविकल्पयोः ।
धन्यस्स्वसंविद्विस्तारं साश्चर्यमनुपश्यति ॥ ४६ ॥

सा स्थानकरणाघातपुंव्यापारात्मिका सती ।
वैखरी वृत्तयो यस्यास्ता इमाः श्रुतिगोचराः ॥ ४७ ॥

आभिः परस्परं ज्ञानसंक्रान्त्यात्मा स लौकिकः ।
व्यवहारोऽथ शास्त्रीयो नानासंकोचसंकटः ॥ ४८ ॥

इति वाग्व्याप्तिविद्वांसमेतद्वर्गाधिदेवताः ।
माहेश्वरीमुखा देव्यो जागरेऽपि न भुञ्जते ॥ ४९ ॥

उपायेनाग्रहः कार्य उपेया भैरवीस्थितिः ।
यासौ स्वसंवित्तामेव सर्वोपायां समाविशेत् ॥ ५० ॥

आद्यन्तान्तर्गतानन्तवाच्यवाचकनिर्भरम् ।
रहस्यं मन्त्रमुद्राणां प्रपद्येऽनुत्तरं महः ॥ ५१ ॥

शम्भोरभिन्नहृदया जयन्ति गुरवः पुरा ।
निर्व्युत्थानसमाधानप्राप्तपर्यन्तसंपदः ॥ ५२ ॥

॥ नमः शिवाय ॥



॥ परिपूर्णा कृतिरियं श्रिमदाभिनवगुप्तनाथस्य

पर्यन्तपञ्चाशिका नाम ॥





____________


गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे

ह्त्त्प् ॥पोपॢएतुनिरोम१ इत् ।द्सो।र्छिव्सन्स्क्रित्ःत्म्

"https://sa.wikisource.org/w/index.php?title=पर्यन्तपञ्चाशिका&oldid=207765" इत्यस्माद् पुनः प्राप्तिः