% Mahārājanalaviracitam

% Pākadarpaṇam

% \B = "Pâkadarpanam by Mahârâja Nala",

% Kashi Sanskrit Series no. 1, pākavibhāge saṃkhā 1,

% ed. Vâmâcharana Bhattâchârya, Benares 1915

% \C = "Pākadarpaṇam of Mahārāja Nala",

% ed. Vāmācaraṇa Bhaṭṭācārya with the Mādhurī Hindi Commentary by Indradeva Tripāṭhī,

% Varanasi, vi. saṃ. 2040.

Seems to be a reprint with some erroneous emendations
एकाकी नैषधः प्राप्य , कदाचित् कलिनाशनः ।
ऋतुपर्णस्य नगरीं , राजानम् इदम् अब्रवीत् ॥१॥
स्वदेशं हि परित्यज्य , बाहुकाख्यो ऽहम् आगतः ।
अश्वानां वाहने राजन् , पृथिव्यां नास्ति मत्समः ॥२॥
अर्थज्ञानस्य चैवाहं , द्रष्टव्यो नैपुणेन च ।
अन्नसंस्कारम् अपि च , जानामि पिशितस्य च ॥३॥
पञ्चविधभोजनस्य भेदाः, classification of the five kinds of food
१) भक्ष्य, २) भोज्य, ३) लेह्य, ४) चोष्य, ५) पेय

% \cf षुश्रुतसंहिता ६.६५.४० lists four kinds of food: चतुर्विधं चान्नम् उपदिश्यते भक्ष्यं भोज्यं लेह्यं पेयम् इति

% \cf Bhagavadgītā १५.१४d पचाम्य् अन्नं चतुर्विधम् ॥

% \cf Harivaṃśa ६०.१२ab भक्ष्यं भोज्यं च पेयं च तत् सर्वम् उपनीयताम् ।

% \cf Mahābhārata १.११९.०४३दd.०७३००१० भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यं तथैव च

% \cf Mahābhārata शान्तिपर्वन् १२.१८४.१६A अपि चात्र माल्याभरणवस्त्राभ्यङ्गगन्धोपभोगनृत्तगीतवादित्र- श्रुतिसुखनयनाभिरामसंदर्शनानां प्राप्तिर् भक्ष्यभोज्यपेयलेह्यचोष्याणाम् अभ्यवहार्याणां विविधानाम् उपभोगः स्वदारविहारसंतोषः कामसुखावाप्तिर् इति

% \cf Mahābhārata शान्तिपर्वन् १२.१५८.११ab भक्ष्यं भोज्यम् अथो लेह्यं यच् चान्यत् साधु भोजनम्

% \cf Mahābhārata Indices, (after 1.119.30ab, K4 N B D ins. (cf. No. 73 below): 01_071_0001 भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यम् अथापि च

% \cf Rāmāyaṇa 2.044.015a भक्ष्यं भोज्यं च पेयं च लेह्यं चेदम् उपस्थितम् (NB: in light of the following, consider emending the weak cedam to coṣyam)

% \cf Rāmāyaṇa 2.085.017c भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु

भक्ष्यं भोज्यं तथा लेह्यं , चोष्यं पेयं पयोगतम् ।
भेदं रसानां षण्णां च , शुद्धसंस्कारभेदतः ॥४॥
सर्वेषां व्यञ्जनानां च , संस्कारं लवणादिभिः ।
एभिर् विना च तोयैश् च , चित्रपाकं रसावहम् ॥५॥
यानि शिल्पानि लोके ऽस्मिन् , यच् चान्यद् अपि दुर्लभम् ।
मया कृतरसः किं च , सुधातुभ्यश् च दुर्लभः ॥६॥

% diseases that are avoided

भुज्यते येन यत्नेन , तस्यारोग्यं भवेद् ध्रुवम् ।
वातजं पित्तजं रोगं , श्लेष्मजं हन्ति सर्वदा ।
सकृन्निषेवणेनैव , त्रिपुरं त्र्यम्बको यथा ॥७॥
अजीर्णदोषाद् उत्पन्नं , ज्वरं माहेश्वरादिकम् ।
हृद्रोगं राजयक्ष्मादि- , -रोगं शूलादिकं तथा॥८
भगन्दरातिसारं च , संनिपातादिकं तथा ।
इत्येवमादिकम् सर्वं % \var {इत्येवमादिकम्\लेम् B, इत्थम् एवादिकं \C} , रोगजालं निहन्ति सः ॥९॥
सर्वं यतिष्ये तत् कर्तुम् , ऋतुपर्ण भरस्व माम् ।
इत्य् उक्त्वा वसतीं चक्र%var{चक्रलेम् /ेम्, चक्रे \B\C} , ऋतुपर्णस्य वेश्मनि ॥१०

% origin of पाकशास्त्र

तं कदा चित् समाहूय , स राजा राजसत्तमः ।
एताः कलाः कुतो लब्धास् , त्वम् अस्माकं वद प्रियम् ॥११॥
श्रुत्वा तद्वचनं साधुस् , तद् वक्तुम् उपचक्रमे ।
शृणु राजेन्द्र विद्याया , निदानं मम तत्त्वतः ॥१२॥
स्वयंवरार्थं वैदर्भ्याः , समायाताः सुरेश्वराः ।
अहम् अप्य् आगतस् तत्र , दृष्ट्या दृष्टश् च तैः पथि ॥१३॥
माम् ऊचुस् तत्र वै देवा , वञ्चनार्थम् इदं वचः ।
अस्मान् व पुरुषव्याघ्र , यथा भैमी वरिष्यति ॥१४।
तथा कुरु बतेत्य् उक्ते , स्वस्ति ते ऽस्त्व् इति चाब्रुवन् ।
दूतरूपं समाभृत्य , मामकार्थी यथार्थतः ।
ते नैषधं समालोक्य , वरान् ददुर् अनुत्तमान् ॥१५

% इन्द्रादिलोकपालप्रदत्तवरनिरूपणम्

% Indrādilokapālapradattavaranirūpaṇam

% the boons given to Nala by the gods

अदृश्यसिद्धिं प्रथमम् , इन्द्रस् तुष्टोऽददात् स्वयम् ।
ततो हव्विर्भुजः प्रादाद् , अग्निसिद्धिं निरिन्धनीम् ॥१६
ततोऽन्नरससिद्धिश् च , सूर्यपुत्रश् च लौकिकिम् ।
वरुणो जलसिद्धिं च , विना यत्नेन सत्तम ॥१७
इति विद्याः सुरा ते तु , दत्त्वा निजपदं ययुः ।
इति तस्य वचः श्रुत्वा , राजा त[ं] विस्मितोऽवदत् ॥१८
इयं त्व् अलौकिकी विद्या , त्वद्गता नरदुर्लभा ।
अतो नरहितार्थाय , निदर्शनमुखेन ताम् ॥१९
दर्शनं कुरु तत्त्वेन , दृष्टेः कौतूहलं हि नः ।
इत्य् उक्तवति राजेन्द्रे , नैषधः पुनर् अब्रवीत् ॥२०

% नलेन स्वनिर्मितग्रन्थविषयवर्णनम्

% the purpose and nature of the work

अस्मिन्न् अर्थे मयाकारि , ग्रन्थो लोकहिताय च ।
लोकपालप्रसादेन , पाकदर्पणनामतः ॥२१ %title of work: Pākadarpaṇa
तस्यावलोकनेनैव , दृश्यन्ते विविधाः क्रियाः ।
सूदस्य लक्षणम् तावद् , वक्ष्ये संक्षेपतः प्रभो ॥२२

% सूदस्य लक्षणम्

% the cook

स्वदेशसंभवो प्राज्ञः , सर्वलक्षणलक्षितः ।
सदाचारसमायुक्तो , विशिष्टकुलसंभवः ॥२३
शान्तो दान्तो दानशीलो , राजपूज्यो शुचिस्मितः ।
स्वदारनिरतः शुद्धः , परदारविवर्जितः ॥२४
मितभाषी सदा दाता , दयालुश् च सुभाषितः ।
धातुज्ञो देशकालज्ञो , वयोवस्थादिविद् बुधः ॥२५

% परिवेशकस्य लक्षणं विधिश् च

% the waiter

प्रक्षाल्य चरणौ हस्तौ , कृतशौचविधिस् तदा ।
संपूर्णकामो निष्ठात्मा , राजभोजनकालवित् ॥२६
राज्ञश् चावसरं ज्ञात्वा , पाकादींश् च प्रदापयेत् ।
यदा पथ्यं भवेद् राज्ञः , क्रमेण प्रक्षिपेच् च तान् ॥२७

% ग्रन्थस्योपक्रमणिका

% table of contents

ओदनस्य प्रभेदोऽत्र , प्रथमं कथ्यते मया ।
द्वितीयं सूपभेदश् च , सर्पिषश् च तृतीयकम् ॥२८
व्यञ्जनस्य च भेदश् च , चतुर्थः सप्रपञ्चकः । % \em, sa प्रपञ्चकः \B पञ्चमो मांसशाकोऽत्र , सप्रभेदश् च कथ्यते ॥२९
षष्टोऽत्र भक्ष्यभेदश् च , सप्तमः पायसस्य च ।
रसायनश् चाष्टमोऽत्र , नवमः पानभेदतः ॥३०
दशमं यूषभेदश् च , घृताद्यन्नप्रभेदकः ।
एकादशश् च लेह्यस्य , भेदो द्वादशकस् तथा ॥३१
त्रयोदशं तु पानीयं , क्षीरभेदश् चतुर्दशः ।
दधिभेदः पञ्चदशः , षोडशः तक्रभेदकः ॥३२
षोडशो मुख्यभेदश् च , दृष्टान्तेन प्रदर्शितः ।
मृग्योऽवान्तरभेदश् च , तत्र तत्र महद्धिया ॥३३
तत्र तत्र यथायोग्यो , वादस् तु कथितो मया ।
पानीयनामदेशे हि , पानीयस्य समुद्भवः ॥३४
पुनश् चित्रं च कथितं , पायसं चाम्लसंभवम् ।
एवमादीनि चित्राणि , कार्याणि विविधानि च ॥३५
पाकोत्थितान्य् अपाकानि , कर्तव्यानि मनीषिभिः ।
किम् अत्र बहुनोक्तेन , युक्तं चैकं शृणु प्रभो ॥३६
यस्मिन् काले देशकाले , दयाभावो हि भूमिप ।
तथा तस्मिनु उपायेन , कथितस् तस्य सम्ंभवः ॥३७

% अन्नस्य प्राशस्त्यनिरूपणम्

% praise of food

सर्वेषां प्राणिनां प्राणम् , अन्नं प्रथमम् उच्यते ।
ब्रह्मरूपम् इदं सम्यक् , त्रिषष्टिरसरूपकम् ॥३८
दोषाष्टकेन रहितम् , आहरेद् अन्नम् उत्तमम् ।

% अन्नगतदोषाणां विवेचनम्

दोषस्वरूपम् अज्ञात्वा , तद्राहित्यं कथं लभेत् ॥३९
अनिन्द्यत्वाद् अदोषत्वाद् , दोषो नास्ति तदाश्रयः ।
अतोऽष्टरूपो दोषो हि , नास्त्य् अत्र श्रुतिमानतः ॥४०

% अन्नेऽष्टदोषसंभवनिरूपणम्

% the eight defects: १) असृत, २) पिच्छिल, ३) अशुचि, ४) क्वथित, ५) शुष्क, ६) दग्ध, ७) विरूप, ८) अनृतुज

विद्यते ह्य् अष्टदोषो हि , प्रत्यक्षेण प्रमादतः ।
के ते दोषाः सदाविष्टाः , प्रत्यक्षेण बलीयसा ॥४१
इति प्रश्नकृते ज्[ञ्]आतुम् , उत्तरं ज्येष्ठमानतः ।
ये ते तदाश्रिता दोषा , असृतः पिच्छिलोऽशुचिः ॥४२
क्वथितः शुष्कतो दग्धो , विरूपो नर्तुजस् तथा ।
स्वरूपलक्षणं चैषां , कथ्यते क्रमशो गुणम् ॥४३

% अन्नगतदोषविचारस्य प्रयोजननिरूपणम्

किं तस्य हासरूपस्य , विचारस्य प्रयोजनम् ।
पयस्त्वात् त्यज्यते सद्भिर् , द्रवत्वे तु विशारदैः ॥४४
इदं सदोषं निर्दोषम् , इदं चेति विवेकितुम् ।
विकारार्थं न दोषेण , युक्तद्रव्यं प्रयत्नतः ॥४५
किं त्व् अदुष्टवशंकर्तुर् , एतद् एव प्रयोजनम् ।
अन्नस्य नास्ति वा दोषा , न भवन्ति कदाचन ॥४६
ते तस्य संभवन्त्य् एव , पाचकस्य प्रमादतः ।
क्रमेण वक्ष्ये दोषाणाम् , अष्टाणां लक्षणं गुणम् ॥४७

% १) असृतान्नलक्षणं दोषाश् च

अश्रावितयवागुं यद् , अन्नम् असृतम् उच्यते ।
तद् अन्नं येन भुक्तं चेत् , तस्य व्याधिकरं भवेत् ॥४८

% २) पैच्छिलान्नस्य लक्षणं दोषाश् च

अन्नम् आश्रयते जीर्णम् , अतिपाकेन पैच्छिलम् ।
तद् भक्तं भुज्यते येन , तं त्यजेद् औदरोऽनलः ॥४९

% ३) अशुच्यन्नस्य लक्षणं दोषाश् च

कृमिकेशादिसंयुक्तं , यद् अन्नम् अशुचि स्मृतम् ।
तद्भक्षणाद् अरुचीरसना स्रवते जलम् ॥५० %metrical problem, यतिभ्रष्ट

स्रोतः सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=पाकदर्पणम्&oldid=201346" इत्यस्माद् प्रतिप्राप्तम्