← खण्डः ५ पाणिनीयशिक्षा
खण्डः ६
पाणिनी
खण्डः ७ →

यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते ।
एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ।। २६ ।।

रङ्गवर्णान् प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् ।
दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ।। २७ ।।

हृदये चैकमात्रस्त्वर्द्धमात्रस्तु मूर्धनि ।
नासिकायां तथार्द्धं च रङ्गस्यैवं द्विमात्रता ।। २८ ।।

हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन् ।
मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ।। २९ ।।

मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् ।
सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ।। ३० ।।

एवं रंगाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः ।
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ।। ३१ ।।