[पाण्डव]
प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीशशुकशौनकभीष्मदाल्भ्यान्।
रुक्माङ्गदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान्परमभागवतान्स्मरामि॥१॥

[लोमहर्षण]
धर्मो विविर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः॥२॥

[ब्रह्मा]
ये मानवा विगतरागपरावरज्ञा नारायणं सुरगुरुं सततं स्मरन्ति।
ध्यानेन तेन हतकिल्बिष चेतनास्ते मातुः पयोधररसं न पुनः पिबन्ति॥३॥

[युधिष्ठिर]
मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम्॥४॥

[कुन्ती]
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम्।
तस्यां तस्यां हृषीकेश त्वयि भक्तिदृर्ढाऽस्तु मे॥५॥

[द्रुपद]
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र यत्र।
जातस्य मे भवतु केशव त्वत्प्रसादात् त्वय्येव भक्तिरचलाऽव्यभिचारिणी मे॥६॥

[अभिमन्यु]
गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द रथाङ्गपाणे।
गोविन्द गोविन्द मुकुन्द कृष्ण गोविन्द गोविन्द नमो नमस्ते॥७॥

[उद्धव]
वासुदेवं परित्यज्य योऽन्यं देवमुपासते।
तृषितो जाह्नवीतीरे कूपं वाञ्छति दुर्भगः॥८॥

[विदुर]
वासुदेवस्य ये भक्ताः शान्तास्तद्गतमानसाः।
तेषां दासस्य दासोऽहं भवे जन्मनि जन्मनि॥९॥

[भीष्म]
विपरीतेषु कालेषु परिक्षीणेषु बन्धुषु।
त्राहि मां कृपया कृष्ण शरणागतवत्सल॥१०॥

[द्रोण]
ये ये हताश्चक्रधरेण राजं स्त्रैलोक्यनाथन जनार्दनेन।
ते ते गता विष्णुपुरिं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः॥११॥

[गान्धारी]
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव॥१२॥

[प्रह्लाद]
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम्।
तेषु तेष्वचला भक्तिरच्युतऽसु सदा त्वयि॥१३॥

या प्रीतिरविवेकनां विषयेष्वनपायिनि।
त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु॥१४॥

[भारद्वाज]
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः।
येषामिन्दीश्वरश्यामो हृदयस्थो जनार्दनः॥१५॥

[अत्रि]
गोविन्देति सदा स्नानं गोविन्देति सदा जपः।
गोविन्देति सदा ध्यानं सदा गोविन्दकीर्तनम्॥१६॥

[आविर्होत्र]
कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः।
प्राणप्रयाणसमये कफवातपिताइः कण्ठावरोधनविधौ स्मरणं कुतस्ते॥१७॥

[विदुर]
हरर्नामैव नामैव नामामैव मम जीवनम्।
कलौ नास्येव नास्तेव नास्त्येव गतिरन्यथा॥१८॥

[वशिष्ठ]
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते।
भस्मीभवन्तु तस्याशु महापातककोटयः॥१९॥

[दुर्योधन]
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः।
केनापि देवेन हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि॥२०॥

[सुभद्र]
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय॥२१॥

[गर्ग]
नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनि।
तथापि नरके घोरे पतन्तीत्येतदद्भुतम्॥२२॥

[पराशर]
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति॥२३॥

[व्यास]
सत्यं सत्यं पुनः सत्यं भुजमुत्थाप्य चोच्यते।
न वेदाच्च परं शास्त्रं न देवः केशवात्परः॥२४॥

[धन्वन्तरि]
अच्युतानन्त गोविन्द नामोच्चारणभेषजात्।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥२५॥

[मार्कण्डेय]
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूढता।
यन्मुहूर्तं क्षणं वापि वासुदेवं न चिन्तयेत्॥२६॥

[श्रीशुक]
आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा॥२७॥

[श्रीमहादेव]
शरीर च नवच्छिद्रं व्याधिग्रस्तं कलेवरम्
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः॥२८॥

[शौनक]
भोजनाच्छादने चिन्तां वृथा कुर्वन्ति वैष्णवाः।
योऽसौ विश्वम्भरो देवः स भक्तान्किमुपेक्षते॥२९॥

आकाशात्पतितं तोयं यथा गच्छति सागरम्।
सर्वदेवनमस्कारः केशवं प्रति गच्छति॥३०॥

"https://sa.wikisource.org/w/index.php?title=पाण्डवगीता&oldid=37669" इत्यस्माद् प्रतिप्राप्तम्