पाण्डवचरितम्
पाण्डवचरितम् पण्डितकेदारनाथः १९११ |
काव्यमाला।
वधूनामवरोधत्वं कारागारं विदुर्बुधाः ।
यासामभाग्यभाजां हि राजा भवति नात्मजः ॥ १६७ ॥
तत्प्रसीद कलत्रार्थमन्यत्र व्यवसीयताम् ।
उदारास्त्वादृशां दाराः संपत्स्यन्ते पदे पदे ॥ १६८॥
अप्रार्थ्यप्रार्थनः सोऽथ बभार म्लानमाननम् ।
सकृदप्यपराधेपु धानुष्कः किं न दूयते ॥ १६९ ।।
दध्यौ नृपोऽभ्यधादेष नौपतिः सोपपत्तिकम् ।
नृपश्चेन्नास्य दौहित्रः किं जामात्रा मया फलम् ॥ १७० ॥
न चान्तरेण गाङ्गेयं धुर्यो राज्यस्य संभवी ।
न ह्याकाशप्रकाशाय प्रभुरन्यो विना रविम् ।। १७१ ।।
दत्तेऽवश्यं न चान्यस्मै राज्यमूर्जस्वि शान्तनुः ।
सुधासर्वस्वमम्भोधियधात्पुत्रे कलानिधौ ॥ १७२ ॥
इतः कर्षति चेतो मे नौतन्त्राधिपतेः सुता।
संकटे पतितोऽमुष्मिन्मूढधीः करवाणि किम् ॥ १७३ ।।
इत्थं विकल्पैर्भूपालः काममाचान्तमानसः ।
मोघफाल इव द्वीपी निजं पुरमुपाययौ ॥ १७ ॥
तदानीमागतो राजसेवावसरलालसः ।
निर्वर्ण्य तातवैवर्ण्यं चितां शान्तनवोऽभ्यधात् ॥ १७५ ॥
विनयातिक्रमः किं मे किमाज्ञालङ्घि केनचित् ।
किंवा सस्मार मे मातुर्यन्मे श्यामाननः पिता ॥ १७६ ॥
तस्मान्निःशेषमागम्य सोऽगमन्नौपतेर्गृहम् ।
विहितवागतश्चैनमवदनृपनन्दनः ॥ १७७ ॥
तातस्तावन्न पृष्टोऽपि यथावत्कथयिष्यति ।
अमात्यात्तातसध्रीचः सर्वं जानाम्यदः पुनः ॥ १७८ ॥
ततः सर्वात्मना यत्नात्करिष्ये पितुरीप्सितम् ।
इत्थं विमृश्य सोऽमात्यं पप्रच्छ विजने सुधीः ॥ १७९ ॥
पाण्डवचरित्रम् ।
महाभाग महाभाग्यैरथ शान्तनुराप्यते ।
इत्थं निराकृथा यत्तत्सुष्ठु नानुष्ठितं त्वया ॥ १८० ॥
अवदन्नौपतिः प्रीतः कुमार शृणु कारणम् ।
शान्तनोरपि येनास्मि प्रार्थनाभङ्गहेतवे ।। १८१ ॥
सोऽन्धकूपे क्षिपेत्पुत्रीं ससापत्न्ये ददीत यः।
वसन्त्याः शान्तनोर्गेहे सपत्नोऽस्यास्त्वमेव हि ॥ १८२ ॥
सपत्नीतोऽपि तज्जातं नितान्तमतिरिच्यते ।
कोशातक्या फलेष्वेव रसः परिसमाप्यते ॥ १८३ ।।
नररत्न सपत्नोऽसि येषां तेषां कुतः सुखम् ।
जाग्रत्यसहने सिंहे मुखायन्ते कियन्मृगाः ॥ १८४ ।।
अप्रसन्नः प्रसन्नो वा भवान्येषां द्वयेऽपि ते ।
आपदा पदमाद्याः स्युः संपदामपरे पुनः ॥ १८५ ॥
कुमार मम दौहित्रो यस्तु भावी कथंचन ।
दूरे महोदयस्तस्य समीपे विपदः पुनः ॥ १८६ ॥
त्वां समुत्सृज्य राज्यश्रीः श्रीमन्किं वृणुते परम् ।
हित्वा वार्धि महासिन्धुः किं तल्लमुपसर्पति ।। १८७ ॥
यः सर्वकमनीयायाः श्रूयते जनकः श्रियः ।
प्रजानुरागजलधिः सोऽपि त्वय्येव जृम्भते ॥ १८८ ॥
स्नेहतो दुहितुः पश्य नायतौ दुःखमायतम् ।
प्रणयातिक्रमं तेन कृतवानस्मि ते पितुः ।। १८९ ॥
जगाद शान्तनोः सूनुर्मातामह महान्भ्रमः ।
तवैष यदिदं वाक्यं तुच्छोचितमुदाहरः ॥ १९० ॥
भिदेलिमा हि प्रकृतिः कुरुवंशान्यवंशयोः ।
भवेत्स्वभावो नोकः कलहंसवकोटयोः ॥ १९१ ।।
सापत्न्यमिति संबन्धो विवेकिनि कुरोः कुले।
अभूतपूर्व एवायं नैव विज्ञायते क्वचित् ।। १९२ ॥
मम सत्यवती माता गङ्गातोऽपि विशिष्यते।
संबन्धो जन्मसंबन्धात्प्रतिपन्नो महान्ननु ॥ १९३ ।।
यस्तस्या भविता सूनुः स ममेवोपयाचितैः ।
शुभः स देशः कालो वा यत्र भ्रात्रा समागमः ॥ १९४ ॥
खादयिष्यति ते पुत्री पुत्रेण विहितं मया ।
सुखं विनयतः पूर्वं पश्चात्तु तनुजैः कृतम् ॥ १९५ ॥
दूयते किं च तातोऽपि मया भृशमबन्धुना ।
रथस्यैकरथाङ्गस्य प्रत्यूहो हि पदे पदे ॥१९६ ॥
एकां शृणु प्रतिज्ञां मे बाहुमुत्क्षिप्य जल्पतः ।
सत्यवत्यास्तनूजस्य राज्यं नान्यस्य कस्यचित् ॥ १९७ ॥
अहं तु हन्तुमेतस्य प्रत्यूहव्यूहमन्वहम् ।
चापभृत्तां करिष्यामि सुतोऽस्मि यदि शान्तनोः ॥ १९८ ॥
अद्यैवाप्तं मया राज्यं तुष्टाश्च मम देवताः।
सत्यवत्या सधर्मिण्या यत्तातः सुमना भवेत् ॥ १९९ ॥
उदात्तामिति गाङ्गेयगिरमाकर्ण्य विस्मितैः ।
स्थिराणि खेचरैर्व्योम्नि विमानानि वितेनिरे ॥२०० ॥
विस्मयात्फुल्लनयनस्ततः सत्यवतीपिता।
अत्यन्तलुब्धो विश्रब्धं कुमारं पुनरभ्यधात् ।। २०१॥
साधु साधु कुमारेन्द्र त्वमेव पितृवत्सलः ।
स्फीतं गुणगणकीतं यदेवं राज्यमुज्झसि ॥ २०२ ॥
राजपुत्रा हि राज्यार्थमकृत्यान्यपि कुर्वते ।
उदात्तं तत्क्रमायातं को नाम त्वमिव त्यजेत् ॥ २०३ ॥
परं कुमार ये केचिद्भवितारस्तवात्मजाः।
न तेऽन्यस्य सहिष्यन्ते राज्यमूर्जितबाहवः ॥ २० ॥
त्वत्तो ये जन्म लप्स्यन्ते पवित्रक्षात्रतेजसः ।
कस्तान्विशिष्यते सोढुमन्यसिंहानिवाहवे ॥ २०५ ॥
पाण्डवचरित्रम्।
राज्यमाच्छेत्तुमुत्सिक्तैः शक्तैस्ते तनुजन्मभिः ।
आप्तश्रीः पुनरश्रीको भविता मत्सुतासुतः ।। २०६ ॥
इत्थं नानाधिवैधुर्यं भावि संभाव्य भूरिशः ।।
सुतायामायतौ तात पुनः स्खलति मे मनः ॥ २०७ ।।
इत्युक्तवन्तं तं दूष्यन्नन्तः शान्तनवोऽभ्यधात् ।
एतामपि तवेदानी चिन्ता व्यपनयाम्यहम् ।। २०८ ॥
शृणु त्वं व्योम्नि शृण्वन्तु सिद्धगन्धर्वखेचराः ।
ममैकं मुषिताशेषपापग्रहमभिग्रहम् ॥ २०९ ॥
स्वर्गश्च सापवर्गश्च यस्य ख्याता फलद्वयी।
आजन्ममन्मथोत्पातं ब्रह्मचर्यमतः परम् ॥ २१०॥
माता मातामहस्तातो भाविनो बान्धवाश्च ये।
एषामानन्दधुर्यस्य व्रतस्यास्य किमुच्यते ॥ २११ ॥
चारणश्रमणैः पूर्वमिति मे प्रतिपादितम् ।
प्रथमं च चतुर्थं च तेष्वनुपमे व्रते ॥२१२ ॥
प्रतिपेदे मया पूर्वं प्राणिनामभयव्रतम् ।
ब्रह्मव्रतमिदानीं तु मम भाग्यमहो महत् ॥ २१३ ॥
अस्तु त्रस्तविपद्धात तार्तीयकमपि तम् ।
पितृशुश्रूषणं नाम ममाजन्म निरत्ययम् ॥ २१४ ॥
इति प्रस्तुवतस्तस्य श्रद्धालोर्मूध्नि बन्धुरम् ।
भृङ्गबद्धखनोत्कर्षं पुष्पवर्षं दिवोऽपतत् ।। २१५ ॥
उच्चेरुरिति वाचश्च देवा धन्यासि जाहवि ।
त्वं चासि शान्तनो श्लाध्यः सोऽयमीहग्ययोः सुतः॥२१६ ॥
सर्वेऽपि ज्ञानिनो ब्रूत पृच्छामः खेचरा वयम् ।
यद्येतद्व्रतमारब्धं केनापि गृहमेधिना ॥ २१७ ॥
तत्त्वसत्वैकनिस्पन्दमयो यदयमाददे ।
ईदृग्ब्रह्मव्रतं भीष्मं भीष्मस्तेनैष गीयताम् ॥ २१८ ॥
काव्यमाला।
सत्त्वं चेदेकमप्यस्ति किमन्यैर्बहुभिर्गुणैः ।
तदेव हन्त चेन्नास्ति किमन्यैर्बहुभिर्गुणैः ॥ २१९ ॥
अहिंसा ब्रह्मचर्यं च पितृभक्तिश्च निश्चला ।
त्रयस्त्रिभुवने श्लाघ्याः शान्तनोस्तनुजे गुणाः ॥ २२० ॥
सर्वव्रतानां पारीणो मा स्मरीणः क्वचिद्भव ।
इत्यभिष्टुत्य निश्छद्म सद्म स्वं खेचरा ययुः ॥ २२१ ॥
ततो दुहितरं तूर्णमाहूयोत्सङ्गसङ्गिनीम् ।
कुर्वन्नुदीरयामास कुमारं नाविकेश्वरः ।। २२२ ॥
गुणग्रामैकवास्तव्यो नास्त्येव त्वत्समः पुमान् ।
पितुरर्थे कृतं सद्यो यद्ब्रह्मवतमद्भुतम् ॥ २२३ ॥
तवानेन चरित्रेण चित्रीयितमनाश्चिरम् ।
वृत्तान्तमेकमाख्यामि कुमार शृणु सांप्रतम् ॥ २२४ ॥
कालिन्दीकूलपालीषु विहरन्नहमेकदा।
अशोकानोकहतले विश्रामाय समागमम् ॥ २२५ ।।
तदा च जातां केनापि तत्र निस्त्रिंशचेतसा ।
सश्रीकामुत्थितामेकामद्राक्षं मञ्जुबालिकाम् ॥ २२६ ॥
अपत्यमनपत्योऽहं स्पृहयालुरहर्निशम् ।
सुरूपां तामुपादातुं प्रवृत्तोऽसि सविस्मयः ॥ २२७ ॥
विजातिर्वा सुजातिर्वा काप्यसाविति वेत्ति कः।
एवं विकल्प्य व्यावृत्य चलितोऽस्मि स्ववेश्मनि ॥ २२८॥
अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती।
अस्ति रत्नपुरे स्वस्तिधाम्नि रत्नाङ्गदो नृपः ॥ २२९ ॥
तस्य रत्नवती कुक्षिशुक्तिमुक्तेयमात्मजा ।
खेचरेणापहृत्यात्र विमुक्ता पितृवैरिणा ॥ २३० ॥
तामेतामतनुप्रेमा शान्तनुः परिणेष्यति ।
इति व्योमगिरा बालां ग्राहितस्तामहं तदा ॥ २३१ ॥
तनयामनपत्यायाः प्रियायास्तामुपानयम् ।
नामधेयं व्यधां चास्याः सत्यं सत्यवतीत्यहम् ॥ २३२ ॥
मम पत्न्या च यत्नेन वात्सल्यनलकुल्यया ।
केलिकाननवल्लीवदियं वृद्धिमनीयत ।। २३३ ।।
त्रिलोकीतिलकीभूता प्रभूतगुणमन्दिरम् ।
सेयं सत्यवती पुत्री कृत्रिमा मम नौरसी ॥ २३४ ॥
पिता भवत्यपत्यानामीदृशां मादृशा कुतः।
आस्पदं कल्पवल्ल्या हि सुमेरुर्न पुनर्मरुः ।। २३५ ॥
तदस्या दिव्यवाचैवं निर्णीतः शान्तनुः पतिः ।
वीक्षितुं पितृभक्तिं तु त्वदीयामित्यजल्पिषम् ॥ २३६ ॥
तदिदानीमुपादत्स्व मत्सुतां तातहेतवे ।
अतःपरं त्वमेवास्या विश्रामः सुखदुःखयोः ॥ २३७ ।।
इत्यालप्य कुमारस्य प्रसरत्पुलकाङ्करः।
सुतां सत्यवतीं प्रीतामर्पयामास नौपतिः ।। २३८ ॥
अलमम्ब विलम्ब्रेन रथोऽयमधिरुह्यताम् ।
इति तां रथमारोप्य पुरं शान्तनवो ययौ ॥ २३९ ॥
नमश्चरेभ्यो निःशेष वृत्तान्तं ज्ञानपूर्विणः ।
प्रसन्नस्य पितुनीत्वा स चक्रे तामुपायनम् ॥ २४० ॥
पितापि भीष्ममाश्लिष्य निर्भरस्नेहपूर्वकम् ।
आत्मैकवेद्यमानन्दममन्दं वरमन्वभूत् ।। २४१ ।।
दृशा पीयूषवर्षिण्या श्रीविश्राममहीरुहम् ।
सिञ्चन्नुवाच गाङ्गेयमुत्सङ्गस्थापितं पिता ।। २४२ ॥
शृण्वन्ति पितुरादेशं ये तेऽपि विरलाः सुताः ।
आदिष्टं ये तु कुर्वन्ति सन्ति ते यदि पञ्चषाः ॥ २४३ ।।
आत्मना यस्तु विज्ञाय करोति पितुरीप्सितम् ।
एक एव स मे सूनुर्जाह्नवीशुक्तिमौक्तिकम् ॥ २४४ ॥
काव्यमाला।
ततः परं सहस्राणि वत्सराण्यायुरस्तु ते ।
एतस्य कुरुवंशस्य पताकाश्रियमाप्नुहि ॥ २४५ ॥
प्रमोदादेवमाशीभिरभिनन्द्य निजात्मजम् ।
नृपः सत्यवतीं सौम्ये मुहूर्ते पर्यणीयत ॥ २४६ ॥
ततः सत्यवतीं पत्नीं नवप्रेमां समीयुषः ।
भूपालस्य पुमर्थेषु कामः कामं प्रियोऽभवत् ॥ २४७ ॥
रतिपुत्रफला दारा इति नीतिवचस्तया ।
सत्यापयन्त्या सुषुवे पुत्रश्चित्राङ्गदाभिधः ॥ २४८ ॥
तेजस्वितिलकः पादैराक्रमन्भूभृतां शिरः ।
योऽभवज्जातमात्रोऽपि बालार्क इव दुःसहः ॥ २४९ ॥
विचित्रवीर्य इत्यासीत्सत्यवत्याः सुतोऽपरः ।
बभूव भूभृतो यस्माद्वंशः प्रांशुप्रसृत्वरः ॥ २५० ॥
तदा तयोः समग्रेषु हितकर्मसु जाग्रतः ।
प्रादुर्बभूव सौभात्रं गङ्गासूनोरकृत्रिमम् ॥ २५१ ।।
सोऽग्रजन्मानुजन्मानौ कृत्वाङ्कतलतल्पगौ ।
उल्लापैः श्रौत्रपीयूषैः खेलयामास भूरिशः॥२५२ ॥
क्षत्रगोत्रोचितैस्तैस्तैरन्यबालविलक्षणैः ।
एतयोर्बाल्यचापल्यैः स तुतोष क्षणे क्षणे ॥ २५३ ॥
अथाल्पीयो विदित्वायुरग्रिमस्तत्त्वदृश्वनाम् ।
शुभध्यानेन तत्याज शान्तनुर्मानुषर्षी तनुम् ।। २५४ ॥
विधिवद्विदधे भीष्मः पितुः खस्योर्ध्वदेहिकम् ।
इह च प्रेत्य च प्रीत्यै तादृशा हि सुताः पितुः ॥ २५५ ॥
सोऽथ चित्राङ्गद राज्ये शिशुमेव न्यवीविशत् ।
न हि विस्मृतिमभ्येति प्रतिपन्नं महात्मनाम् ॥ २५६ ॥
स ग्रीष्मेणेव भीष्मेण तथोग्रं धाम लम्भितः ।
उदयन्नपि दुष्प्रेक्ष्यो यथाभूद्भानुमानिव ।। २५७ ।।
अभूत्कश्चित्स भूपानां हृदि चित्राङ्गदोऽगदः ।
नागदो नागदङ्कारः कोऽप्यासाद्य चिकित्सते ॥ २५८॥
तेन नैक्षित भीष्मोऽपि संविभागी जये परः ।
अतः स युद्धमेकाकी चक्रे सार्धं विरोधिभिः ।। २५९ ॥
स निर्मलकलासमच्छानाम्येत्य जग्रसे।
नीलाङ्गदेन संग्रामे शीतांशुरिव राहुणा ।। २६० ।।
शिरःशेषोऽपि चेद्वैरी तदा बाधेत राहुवत् ।
उपानीयत भीष्मेण सोऽप्यतो नामशेपताम् ॥ २६१ ॥
अथ राज्यं कनिष्ठाय गरिष्ठो जाह्नवीसुतः ।
ददौ विचित्रवीर्याय बन्धवे बन्धुवत्सलः ॥ २६२ ॥
तं भीष्मचापमाहात्म्यादपचक्रे न कश्चन ।
यूथनायान्तिके केन कलभः परिभूयते ॥ २६३ ॥
चतसृष्वपि विद्यासु गन्ता विद्यासु कौशलम् ।
चक्रे कनीयसो भ्रातुर्भीष्मः सज्ये च धन्वनि ॥ २६४ ॥
अनहंयुतयात्यन्तं भूना वैनयिकेन च ।
बबन्ध बान्धवस्नेह भीष्मस्तस्मिन्विशेषतः ॥ २६५ ॥
दाराणामनुरूपाणां मातुरुद्वाहहेतवे ।
गवेषणाय स प्रैषीन्निजान्प्रति दिशं नरान् ॥ २६६ ॥
मार्गदत्तदृशे तस्मै कदाचिद्धूलिधूसरः।
तेषामेकतमोऽभ्येत्य कथयामासिवानिति ॥ २६७ ॥
देव श्रीकाशिराजोऽस्ति प्रकाशः काश्यपीतले ।
यस्य मन्दाकिनी नित्यमना गृहदीपिका ॥ २६८ ॥
अम्बिकाम्बालिकाम्बा च तिस्रस्तस्यासते सुताः।
विभान्ति पुरतो यासां तृणवत्रिदिवस्त्रियः ॥ २६९ ॥
तासां तातेन विश्रब्धं प्रारब्धोऽस्ति स्वयंवरः।
रचयांचक्रिरे मञ्चास्तत्र वै चित्रशालिनः ॥ २७० ॥
काव्यमाला।
राजानो राजपुत्राश्च शतशः सन्त्युपस्थिताः ।
आपतन्त्यधुना केचिदापतिप्यन्ति केचन ॥ २७१ ॥
ततः कलाकलापेन रूपेण वयसापि च ।
योग्या विचित्रवीर्यस्य सुतास्ताः काशिभूपतेः ॥ २७२ ॥
गाङ्गेयस्तद्वचः श्रुत्वा तत्त्वदृष्टिरतर्कयत् ।
किमहो काशिराजेन नानुजो मे निमन्त्रितः ॥ २७३ ॥
न गन्तव्यमनाहूतैर्महीपालैः स्वयंवरे ।
अतो गत्वाहमेकैकः करिष्ये सर्वमीप्सितम् ॥ २७४ ॥
एवं विमृश्य गाङ्गेयो रथेन प्रस्थितो द्रुतम् ।
जवनैर्वाजिभिर्वेगादगमच्च स्वयंवरे ॥ २७५ ॥
तत्र सिंहासनासीनानुच्चैर्मञ्चेषु भूपतीन् ।
सोऽपश्यद्धासुराकल्पान्विमानेष्वमरानिव ॥ २७६ ।।
उरोलोलन्मनोहारिहारास्तिस्रोऽपि बालिकाः ।
दृष्ट्वा विचित्रवीर्यार्थे स हर्तुमकरोन्मनः ॥ २७७ ॥
प्रत्येकमात्मनः कन्यालाभं संभाव्य भूपतीन् ।
तास्तान्विवृण्वतो भावान्हसति स स मानसे ॥ २७८ ॥
अथ तासां पुरो धात्र्या कीर्त्यमानेषु राजसु ।
रथात्तार्क्ष्य इवोत्कालः स रङ्गाङ्गणमाविशत् ॥ २७९ ॥
स तं स्वयंवरं राजनक्रचक्रसमाकुलम् ।
बाढं विलोडयामास पयोधिमिव लीलया ।। २८० ॥
आच्छिद्य कन्यारत्नानि सर्वेषामेव पश्यताम् ।
रथमारोपयामास भीष्मो भीष्मपराक्रमः ॥ २८१ ॥
स्यन्दने भयनिस्पन्दा वेपमानवपुर्लताः ।
सुताश्च काशिराजस्य स्निग्धमुग्धमभाषत ॥ २८२ ।।
वत्साः किमपि मा भैष्ठ नानिष्टं वः करिष्यते ।
भीष्मोऽस्मि शान्तनोः सूनुर्भवतीनां प्रियंकरः ।। २८३ ॥
२३
राजा विचित्रवीर्योऽस्ति जैत्रदोर्वीयदुर्जयः ।
एते सर्वेऽपि यस्याग्रे गुणैर्बहुतृणं नृपाः ॥ २८४ ॥
अनुभूय प्रियाभूय तस्य स्मरसमाकृतेः।
हस्तिनापुरसाम्राज्यं चिरं निविशताद्भुतम् ॥ २८५ ॥
विनयावर्जितोऽत्यन्तं तस्याहं बन्धुरग्रजः ।
तदर्थं रथमारुह्य युष्मानानेतुमागतः ॥ २८६ ॥
तस्मिंस्ता निस्तरङ्गेण रागेणाक्रान्तचेतसः ।
इदं गाङ्गेयवचनं तथेति प्रतिपेदिरे ॥ २८७ ॥
प्रतिपत्तिचलन्मौलिनृत्यत्ताटङ्करश्मिभिः ।
ताः स्फीतप्रीतयश्चक्रुस्तस्य नीराजनामिव ॥२८८ ॥
राज्ञां मनोरथैः सार्धं रथं भीष्मो न्यवर्तयत् ।
कुर्वन्कुण्डलितं चापमुच्चैः स्वरमुवाच च ॥ २८९ ॥
सर्वे शृणुत भो भूपाः प्रौढदोःस्थानशालिनः ।
युष्माकं पश्यतां सैष भीष्मः कन्या हरत्यमूः ।। २९० ॥
ततो वः कोऽपि जागर्ति यदि दोर्दण्डचण्डिमा ।
तदा कोऽप्यायुधं धत्तामयमूर्ध्वंदमोऽस्म्यहम् ॥ २९१ ॥
तदा क्षुब्धार्णवनिभो रङ्गक्षोभभवो ध्वनिः ।
स कश्चिदासन्मन्येऽसौ बिभिदे येन रोदसी ॥ २९२ ॥
रभसोत्थास्नुभूपानां कृष्णाभिः सिचयाञ्चलैः ।
भूगताभिर्मयं भूरि प्रसूतमसिधेनुभिः ॥ २९३ ।।
पलायनकृतेऽवश्यं व्यवस्यन्तोऽपि कातराः।
संबाधकृतसंरोधात्प्रचेलुर्न पदात्पदम् ॥ २९ ॥
मुक्ताकलापमुक्तानां चूर्णैः कीर्णावनिर्बभौ ।
अमेयगाड्ययशश्चन्दनेनेव चर्चिता ॥ २९५ ॥
रत्नाङ्गदानामन्योन्यकोटिघट्टनसंभवः ।
क्षोमाणि क्षोणिपालानामधाक्षीदाशुशुक्षणिः ॥२९६ ॥
काव्यमाला।
तदानीं तत्र केषांचिदभ्यस्तस्तेयकर्मणाम् ।
मूलोन्मूलनदौर्गत्यस्तुत्यः शान्तनवोऽभवत् ॥ २९७ ।।
वीक्ष्य भीष्मं भयक्षोभाच्छिरस्तः स्रस्तबन्धनः ।
केनापि राजपुत्रेण किरीटो नोपलक्षितः ॥ २९८ ॥
नृपपञ्चाननाः केचिल्लीलालालसचेतसः ।
असिमुष्टिमवष्टभ्य यथास्थितमवस्थिताः ॥ २९९ ॥
अथ शौण्डीरदोर्दण्डाः केऽपि संभूय भूमिपाः ।
सद्यः संवर्मयामासुरसिवीरा हि काश्यपी ॥ ३०० ॥
पुलकोद्भेदमेदखिवपुषां पौरुषस्पृशाम् ।
तेषां वर्मत्रुटत्संघियुद्धसद्धं व्यधादृढम् ॥ ३०१ ॥
काशिराजपुरोगैस्तैर्भृशं सर्वाङ्गवर्मितैः ।
विपक्षक्षितिपैरेत्य भीष्मो भीष्ममभाष्यत ॥ ३०२॥
हंहो क्षत्रकुलोत्तंस किमक्षत्रं वितन्यते ।
अयं स्वयंवरध्वंसो महांस्ते हेतुरंहसाम् ॥ ३०३ ॥
श्रियः स्त्रियो वा माभूवन्नाहूता दुर्नयेन याः ।
विपदागर्तवर्ते यत्पातयन्त्येव ताः पतिम् ॥ ३०४ ॥
तत्प्रतीच्छ शरैस्तीक्ष्णैः पापस्यास्य व्यपोहकम् ।।
गुरुस्तवासदिष्वासः प्रायश्चित्तं प्रदास्यति ॥ ३०५ ॥
अथाभाषत गम्भीरधीरः शान्तनुनन्दनः ।
भो भूमिपालाः सुष्ठुक्तं युष्माभिायनिष्ठुरैः ॥ ३०६ ॥
परमुर्वी च कन्या च सर्वसाधारणी भवेत् ।
गृह्णातु स हि यस्यास्ति विक्रमो निपुणः पुनः ॥ ३०७ ।।
नैवास्ति विक्रमो यस्य स हास्यः स्पृहयन्नपि ।
दरिद्र इव रत्नानि विविधानि धनं विना ॥ ३०८ ॥
विक्रमेण धनेनैव विना यत्तस्करा इव ।
कन्यारत्नानि गृह्णीथ तद्यूयमपराधिनः ।। ३०९ ।।
पाण्डवचरित्रम् ।
आगस्विनां च दण्डाय कोदण्डो मम पण्डितः ।
इत्युक्त्वा स क्षुरप्रेण तेषां केतूनपातयत् ।। ३१० ।।
अथ तेऽपि रथश्रेणिप्रारब्धपरिमण्डलाः ।
मध्ये कृत्य शितैर्भीष्मं पत्रिभिः पर्यताडयन् ।। ३११ ॥
अभ्यापतन्तो युगपन्निपीततपनातपाः।
तस्य ते विशिखाश्छायां तेनिरे नापनिन्थिरे ।। ३१२ ।।
वीरंमन्यतया दृप्तानन्यनिन्दापटीयसः ।
स तानवज्ञया पश्यन्मृगारातिर्मुगानिव ॥ ३१३ ॥
प्रतिक्षिपन्तः खच्छन्दमायुधान्युद्धतानि ते ।
जैत्रस्थामानमात्मानं मेनिरे जितकाशिनम् ॥ ३१४ ॥
इत्थं प्रगल्ममानेषु ससंरम्भेषु तेष्वथ ।
खिन्ना नरेन्द्रनन्दन्यः स्वं निनिन्दुर्मुहुर्मुहुः ॥ ३१५ ॥
धिगस्मान्मन्दभाग्यानां धुरि वर्तामहे वयम् ।
इतो भ्रष्टास्ततो भ्रष्टा भविताः सोऽधुना ध्रुवम् ॥ ३१६ ॥
क्वैते नृपाः परोलक्षाः के वायं दोद्वितीयकः ।
तदिदानीं विपन्नेऽस्मिन्विपन्नं नो मनोरथैः ।। ३१७ ॥
इत्थं ताः कुमुखीवर्वीक्ष्य भीष्मस्तत्कर्म निर्ममे ।
मूर्धानं धूनयद्भिर्यत्रिदशैर्ददृशे दिवि ॥ ३१८ ॥
निशितौ सर्वतो मुष्टया तान्प्रत्येक व्रणाकितान् ।
शरैश्चकार सुश्लोका खप्रशस्ति लिखन्निव ॥ ३१९ ॥
यावद्विपक्षमक्षेपं लघुहस्तः क्षिपन्निषून् ।
वीक्षांचक्रे शतैरेकोऽप्यसंख्यरात्मसंख्यया ॥ ३२०॥
भीष्मग्रीष्मरवेः क्षिप्तमार्गणैः किरणैरिव ।
काप्यल्पा अपि नैक्षन्त क्षत्रनक्षत्रजातयः ।। ३२१ ॥
राजैकः काशिराजस्तु विच्छायवपुरजसा ।
रणव्योमैकदेशस्थः स्तोकस्तोकं विलोकितः ।। ३२२ ॥
हृष्यन्मनोभिः कन्याभिर्मुक्तामिव विलक्षताम् ।
जाह्नवीसूनुरह्नाय तदानीं प्रत्यपद्यत ॥ ३२३ ।।
उपेत्य प्रीणयामास स तथा काशिभूपतिम् ।
यथा विचित्रवीर्याय स्वयं प्रादादसौ सुताः ।। ३२४ ॥
स प्रीतिस्फारनेत्राभिस्ताभिर्वालाभिरन्वितः ।
हस्तिनापुरमारब्धमहोत्सवमुपाययौ ।। ३२५ ॥
स वैवाहिकमाङ्गल्यैस्तिस्त्रस्ताः काशिनन्दिनीः ।
भ्रात्रा विचित्रवीर्येण प्रमोदादुदवायत् ।। ३२६ ॥
ताः प्राप्य नृपतिः प्रेमरसैककनकालुकाः।
सिञ्चन्पञ्चापि विषयान्सिषेवे सोऽतिशाद्वलान् ॥ ३२७ ॥
इषून्पश्चापि पञ्चेषुः प्रक्षिपन्नपि लक्षशः।
प्रेयसीनामसौ मान्य इति तस्य प्रियोऽभवत् ॥ ३२८ ॥
कामो नासक्तिसेव्योऽपि तेनादृश्यत गौरवात् ।
प्रायेण यौवनान्धानां सुलभो हि विपर्ययः ॥ ३२९ ॥
ततो विचित्रवीर्यस्य संप्राप्तावसरः स्मरः ।
धर्मार्थौ अग्रसे राहुः सूर्याचन्द्रमसाविव ॥ ३३० ॥
स प्रेयसीनां तिसृणां यश्चतुर्थः सदा भवेत् ।
तल्लोके लोकपालानां भवति स न पञ्चमः ॥ ३३१ ॥
कामासक्तस्य तस्येत्थं प्रावर्तत बलक्षयः ।
अनङ्गेऽतिप्रसङ्गो हि विरङ्गायैव केवलम् ॥ ३३२ ॥
क्षीयमाणबलं ज्ञात्वा गाङ्गेयस्तमवोचत ।
असौ स्वच्छस्त्वयि खच्छे वत्स त्रासो मणेरिव ।। ३३३ ॥
पीनवर्मितसर्वानान्कथं शत्रून्बिजेष्यसि ।
अनङ्गेनापि कल्याणं यस्त्वमेवमजीयथाः ॥ ३३४ ॥
धर्मार्थावेव न परं कामासक्तस्य नश्यतः ।
मूलं सर्वपुमर्थानां वपुरप्यपचीयते ॥ ३३५ ॥
१. अत्र च दीर्घकरणम् 'न तिसृचतसृ-' (६।४।४) इति पाणिनीयसूत्रविरुद्धं ज्ञेयम्, पाण्डवचरित्रम् । २७
दुःसहाः पुष्पबाणस्य वाणाः पुष्पमया अपि ।
यत्तेऽभूवंस्ततः प्रौढान्सोढासि कथमायसान् ॥ ३३६ ॥
व्यधीयत तवैताभिरबलाभिर्बलक्षयः ।
बलवद्भिस्तु रुद्धस्य न जाने किं भविष्यति ॥ ३३७ ॥
कुरङ्गाक्षीषु नात्यन्तः प्रसङ्गः संगतः सताम् ।
अत्यासन्नाभिरेताभिर्दूरे स्युर्गुरवो गुणाः ॥ ३३८ ॥
भीष्मो विचित्रवीर्याय शिक्षामेवं प्रयच्छति ।
तत्र पुत्रानुशिष्ट्यर्थमाययौ सत्यवत्यपि ।। ३३९ ।।
साप्यभाषिष्ट तनयं बाप्पाविलविलोचना।
अकस्मादेव मे वत्स किं च नासि मनोरथान् ॥ ३४० ॥
मुखं स्नुषाणामुवीक्ष्य मुदमासादयं पराम् ।
इदानीमस्मि सोत्कण्ठा तवापत्यविलोकने ॥ ३४१ ।।
सा तु सांप्रतमेतेन त्वद्दौर्बल्येन दुर्बला ।
सहोदयव्यया पुत्रैः सवित्रीणां मनोरथाः ।। ३४२ ॥
सर्वासां क्षत्रियस्त्रीणां परं वीरप्रसूरहम् ।
इमं वत्स ममोत्सेकं लीलयैव त्वमच्छिदः ।। ३४३ ।।
कुरुवंशकुलस्त्रीणां पुत्रिणीनामहं त्वया ।
धुरि संस्थापिता वत्स त्वयैवोत्थापिताधुना ॥ ३४४ ॥
तत्वगोत्रोचिताचारव्यभिचारं समाचर ।
असिंस्त्वत्पूर्वजो ब्रूहि पथि कः पथिकोऽभवत् ॥ ३४५ ॥
तदा युक्तस्तव ज्यायान्बन्धुर्धत्ते मुदं यथा।
यथा सिद्धेन्ममेच्छा च प्रवर्तेथास्तथानिशम् ॥ ३४६॥
अनुशिष्टिमिति श्रुत्वा भातुर्मातुश्च सादरम् ।
विचित्रवीर्यः स्वं कर्म स्मृत्वा दूरमलज्जत ॥ ३४७ ॥
अदीपिष्ट तदादिष्टं निर्मले तस्य चेतसि ।
अर्पितं दर्पणे भानोर्भृशमुज्जृम्भते महः ॥ ३४८ ॥
काव्यमाला।
शिक्षामादाय तां मूर्ध्ना प्राञ्जलिस्तौ विसृज्य च ।
राजा धर्मार्थकामेषु समवृत्तिरजायत ।। ३४९ ॥
आबभाराम्बिका गर्भमन्यदोद्दामदोहदम् ।
सुलग्ने सुतमुद्दीप्तप्रभापूतमसूत च ॥ ३५० ॥
भीष्मेण सत्यवत्या च महोत्सवपुरःसरम् ।
धृतराष्ट्र इति श्लाघ्यं तस्य नाम विनिर्ममे ॥ ३५१ ।।
स दधौ जनुषान्धत्वं केनापि प्राच्यकर्मणा ।
स नास्ति प्रातिबद्धे हि यो रुणद्धि शुभाशुभे ॥ ३५२ ॥
अम्बालिकापि तनयं तस्यानुजमजीजनत् ।
आजन्म पाण्डुरोगत्वाद्यः पाण्डुरिति पप्रथे ॥ ३५३ ।।
गुणाम्बुनिधिरम्बायास्तनूजः समजायत ।
यं चक्रुर्गुरवः सर्वविदुरं विदुराभिधम् ॥ ३५४ ॥
अथ तेषु कुरोर्वंशं जन्मनालंकरिष्णुषु ।
शुभैरुज्जृम्भितं भावैः प्रलीनमशुभैः पुनः ॥ ३५५ ॥
सूचकश्वरटश्चौरः कृपणः पारदारिकः ।
एते शब्दास्तदा प्रापुरभिधेयेन वन्ध्यताम् ॥ ३५६ ॥
लोभे सर्वत्र साम्राज्यमेकच्छत्रं नयेस्तदा।
निरन्वयविनाशेन व्यनश्यद्दुर्नयः पुनः ॥ ३५७ ।।
तदा नाधिर्न च व्याधिर्वाधते स जनं क्वचित् ।
न दुर्बलो बलिष्ठेन कश्चनाप्यभ्यभूयत ॥ ३५८ ॥
नावृष्टिर्नातिवृष्टिश्च तदा प्रादुरभूद्भुवि ।
इति प्रीतिरघाताय नान्याप्यासीत्कुटुम्बिनाम् ॥ ३५९ ।।
पुष्यन्ति म फलन्ति स कालेऽवश्यं महीरुहः ।
पुष्यन्ति स रसोत्कर्षं पुष्पेषु च फलेषु च ।। ३६० ।।
अनुभावात्कुमाराणामित्यभूदुदयोद्भवः ।
भवेद्वान्मनसातीतः प्रभावो हि महात्मनाम् ॥ ३६१ ॥
किंतु स्त्रीव्यसनेनातिमनोभीष्टेन सर्वदा ।
चिराय मिलितेनैव भूयोऽप्यालिङ्गितो नृपः ॥ ३६२ ॥
ततः क्षीणतनुः सोऽभूत्प्रियावासक्तमानसः ।
रामासु भृशमासक्तिः कारणं राजयक्ष्मणः ॥ ३६३ ॥
राजयक्ष्मपरीवारकासश्वासापनिद्रता ।
रुजोऽन्या अपि राजानमरुजन्ननु वासरम् ॥ ३६४ ॥
चित्रविचित्रवीर्यस्तैरातङ्कैराकुलीकृतः ।
संचक्राम परं लोकं कामस्याहो दुरन्तता ।। ३६५ ॥
तसिन्नस्तमिते सूनुभानौ सयवती तदा ।
शोकान्धकारवैधुर्यमधत्त द्यौरिवाधिकम् ॥ ३६६ ॥
विललाप च हा वत्स हा परिच्छदवत्सल ।
हा कौरवकुलोत्तंस हा गमः कामिमां दशाम् ॥ ३६७ ॥
इत्थं सा विलपन्त्येव मूच्छिता भूतलेऽपतत् ।
अस्तोकं शोकसंतापं तदा च न विवेद तम् ॥ ३६८ ॥
मूर्छाव्यपगमं प्राप्ता कथंचिच्चन्दनादिभिः ।
स्मृत्वा पुत्रगुणान्भूयो मुक्तकण्ठं रुरोद सा ॥ ३६९ ॥
अभ्युपेत्य तदाभ्यर्णमुरस्ताडनपूर्वकम् ।
रुदन्ति स्म गलद्वाप्पमम्बिकाप्रमुखाः सुषाः ॥ ३७० ।।
वयमेकपदाः खामिस्त्वयास्तं समुपेयुषा ।
दुस्थामवस्थामानीता नलिन्य इव भानुना ।। ३७१ ।।
क्रीडादिष्वपि न क्रीडामेकाकी कृतवानसि ।
इदानीं तु विमुच्यास्मान्किमेको गतवानसि ॥३७२ ।।
विप्रयोगासहिष्णूनां त्वदुपास्तिसुखस्पृशाम् ।
कस्मादकस्सादस्माकमिदं वैमुख्यमागमः ॥ ३७३ ॥
निजमेनं प्रियावर्गं जानासि विरहासहम् ।
तदेहि देहि प्राणेश द्रुतं प्रतिवचोऽधुना ॥ ३७१ ॥
एवं विलापवैकल्यं प्राप्ताः संस्थाप्य तास्तदा ।
चकार तस्य गाङ्गेयो निवापप्रमुखाः क्रियाः ॥ ३७५ ॥
बाल्ये चापल्यललितैः कुमाराणां मनोरमैः ।
स शोक स्तोकतां निन्ये सत्यवत्याः कथंचन ॥ ३७६ ॥
तथाजनि कुमाराणां बन्धुलेहः परस्परम् ।
यथैषां क्षणमप्यस्थादेको नैकतमं विना ॥ ३७७ ॥
बालेष्वपि कुमारेषु वर्गतेऽपि नराधिप ।
भयाद्भीष्मस्य राजानो सीमानं न ललङ्घिरे ॥ ३७८ ॥
तेषां शस्त्रे च शास्त्रे च भीष्म एवाभवद्गुरुः ।
अम्भोधराणामम्भोधिरेव कुक्षिंभरिर्भवेत् ॥ ३७९ ॥
नृलोक इव लोकेषु तेषु त्रिष्वपि बन्धुषु ।
गोत्राधारतया पाण्डुर्मध्यमोऽपि वि(व्य)शिष्यत ॥ ३८० ॥
कनिष्ठं धृतराष्ट्रस्तं गुणज्येष्ठममन्यत ।
लघीयानपि जायेत गुणैर्लोको गुणैर्गुरुः ।। ३८१ ॥
धृतराष्ट्रमभाषिष्ट भीष्मो मधुरया गिरा ।
वत्स राज्यमिदानीं त्वां ज्यायांसमुपतिष्ठताम् ।। ३८२ ॥
स जगाद न योग्योऽस्मि राज्यस्याहं ध्रुवं ततः ।
पाण्डुमभ्येति राज्यश्रीनिश्रीरिव भास्करम् ।। ३८३ ॥
असौ त्रयाणामस्माकं योग्यो राज्यधुरंधरः ।
उक्तो मुक्ताकलापेऽपि मध्यस्थो नायको परम् ॥ ३८४ ॥
गुणश्रेणिसुधासिन्धुबन्धोरुजागरौजसः ।
अहं तु नित्यमेतस्य दास्यायैव कृतस्पृहः ॥ ३८५ ॥
इति निर्बन्धतस्तस्य सुमुहूर्ते महोत्सवात् ।
राज्याभिषेकमाधत्त पाण्डोीष्मः प्रमोदतः ॥ ३८६ ॥
कीर्तिज्योत्स्नाभरव्याप्तरोदसीकन्दरोदरे ।
तत्रोदिते नवे राज्ञि भृशं मुमुदिरे प्रजाः ॥ ३८७ ।।
भीष्मे च धृतराष्ट्रे च धृतराज्यधुरे सति ।
न विदामास साम्राज्यचिन्ताभारक्लमं नृपः ।। ३८८ ॥
दुष्टनिग्रहनिःशूकजागरूकभुजद्वयः।
पाण्डः प्रचण्डदोर्दण्डान्वशीचक्रे विशांपतीन् ॥ ३८९ ॥
कन्दर्पकामिनीरूपदर्पसर्पस्य जाङ्गुली।
गान्धारीप्रभृतिरष्टावुपादायादसोदरा:(१) ॥ ३९० ॥
सुबलक्ष्मापतेः सूनुर्गान्धारपतिरन्यदा ।
शकुनिर्भीष्ममभ्येत्य बद्धाञ्जलिरभाषत ॥ ३९१ ॥ (युग्मम्)
कुलदेव्योपदिष्टाय विशिष्टक्रमशालिने ।
तिष्ठन्ते धृतराष्ट्राय स्वसारो मे पतिंवराः ।। ३९२ ।।
अम्बिकासूनुना नूनमनूनगुणधारिणा ।
एतास्तदार्य सोत्साहं विवाहयितुमर्हसि ॥ ३९३ ॥
इत्त्थभ्यर्थितस्तेन स्वह्नि जह्नुसुतासुतः ।
एतासां पतिमष्टानां धृतराष्ट्रमतिष्ठिपत् ॥ ३९४ ॥
अनुरूपगुणग्रामा पाण्डोरुड्डामरौजसः ।
का कलत्रं भवित्रीति चिन्ताभूगीमचेतसि ।। ३९५ ।।
भीष्मः पाण्डुयुतो जातु पान्थं राजपथे क्वचित् ।
चित्रं चित्रपटव्यग्रकरा कंचिदैक्षत ।। ३९६ ॥
नारीरूपं पटे तत्र दृष्ट्वा पाण्डुरचिन्तयत् ।
एतस्यामेव पर्याप्तं सौन्दर्यकथया ध्रुवम् ॥ ३९७ ॥
नह्येषा रूपरेखा स्यान्मानुषीषु पुरंध्रिषु ।
तदियं कि रतिः किंवा कमला किमु रोहिणी ॥ ३९८ ॥
एतस्याः कोमलाकारावङ्घ्री पङ्केरुहे ध्रुवम् ।
अङ्गुल्यो यत्र पत्रन्ति सौन्दर्यं मकरन्दति ॥ ३९९ ॥
जङ्घाकाण्डे किलैतस्या नाले पादसरोजयोः ।
रम्भास्तम्भायितं चाभ्यामूरुभ्यां यौवनोत्सवे ॥ ४००॥
काव्यमाला।
नितम्बस्थलमेतस्या जैत्रभूमिर्मनोभुवः ।
यः सदैवात्र वास्तव्यः शास्ति विश्वत्रयीमसौ ॥ ४०१॥
बलिष्ठ एव मध्योऽस्याः कृशोदर्याः कृशोऽपि हि ।
यो वलित्रितयाक्रान्तोऽप्यधिकं पुष्यति श्रियम् ॥ ४०२॥
अपूर्वं निर्वृतिस्थानमेतस्याः स्तनमण्डलम् ।
मुक्ता व्यक्ता विलोक्यन्ते यत्र हारिणि भासुराः ।। ४०३ ॥
एतस्याः सरलाकारो रोमराजिविराजते ।
कन्दर्पदन्तिनो बिभ्रत्यालानस्तम्भविभ्रमम् ।। ४०४॥
यदस्या वदने पश्ये पार्वणेन्दोविलोकनम् ।
गुञ्जापुञ्जेन सार्धं तत्तपनीयस्य तोलनम् ॥ ४०५ ॥
अस्याः सुकेश्याः कबरीभारः केनोपमीयते ।
समालम्बितरोलम्बैः सुस्निग्धो यस्य कालिमा ।। ४०६ ॥
इत्येवं चिन्तयत्येव स्मेरवाम्बुजे नृपे ।
सौधमानीय गाङ्गेयः पृच्छति स्म तमध्वगम् ॥ ४०७ ।।
भद्र प्रबुद्धराजीवमुखी केयमलिख्यत ।
इह चित्रपटे नारी दिव्यनारीविजित्वरी ॥ ४०८ ॥
पान्थः पुरस्तादस्तोकविस्मयमेरचेतसे ।
अथासौ मूलतस्तस्मै तं वृत्तान्तमचीकथत् ॥ ४०९ ॥
मथुरेत्यस्ति वास्तव्यैः श्रीमद्भिर्भूषिता पुरी ।
आलिङ्गतीव कालिन्दी या मुदा वीचिबाहुभिः ॥ ४१० ॥
तेजोधाम यदुर्नाम तस्यामासीन्नरेश्वरः ।
यतोऽभूद्भुवनोत्तंसो वंशो यादवभूभुजाम् ॥ ४११ ।।
प्रतापी तनुजस्तस्य शूरः शूरसमोऽभवत् ।
लीनं यत्रोदिते शत्रुकौशिकैगिरिकन्दरे ॥ ४१२ ॥
तस्य शौरिः सुवीरश्च द्वावभूतां तनूद्भवौ ।
कविबद्धैरपि भ्रान्तं भुवि स्वैरं ययोर्गुणैः ॥ ४१३ ॥
पाण्डवचरित्रम्।
३३
राज्यं च यौवराज्यं च तयोर्दत्वा यथाक्रमम् ।
ययौ तपस्यामध्यास्य दिवं सूरनराधिपः ।। ४१४ ॥
रामलक्ष्मणयोः साम्यं तैस्तैस्तो भेजतुर्गुणैः ।
ताभ्यां परमरातिभ्यो वनक्लेशः समर्पितः ॥ ४१५ ॥
दत्त्वा शौरिः सुवीराय राज्यमुज्जृम्भवैभवम् ।
खयं कुशार्तदेशेषु विजहार यदृच्छया ॥ ४१६ ॥
स तेषु वासवस्पर्धिशौर्यः शौर्यपुरं व्यधात् ।
श्रीपतीन्विभ्रता भूरी जिग्ये येनामरावती ॥ ४१७ ॥
अन्धकवृष्णिप्रमुखास्तत्र शौरेस्तनूरुहः ।
वभूवुर्बहवो बाहुस्थामसंस्थापितश्रियः ॥ ४१८॥
शौरिर्वितीर्य साम्राज्यं सुतायान्धककृष्णये ।
प्रतिगृह्य परिव्रज्यां शिवश्रियमशिश्रियत् ॥ ४१९ ॥
संजज्ञिरे सुवीरस्य भोजवृष्ण्यादयः सुताः ।
अम्लायन्यत्प्रतापेन शत्रुस्त्रीपत्रवल्लयः ॥ ४२० ॥
सुवीरो माथुरं दत्त्वा साम्राज्यं भोजकृष्णये ।
सौवीराख्यं पुरं कीर्तिसिन्धु सिन्धुपु निर्ममे ॥ ४२१॥
विहरन्नन्वहं तत्र वाप्यां वाप्यां वने वने ।
पुण्यप्रागल्भ्यलभ्यानि स सुखानि न्यसेवत ॥ ४२२ ॥
भुञ्जतो मथुराराज्यं भोजकृष्णेमहौजसः ।
उग्रसेनोऽसिसेनानामन्तकृचनयोऽभवत् ॥ ४२३ ॥
आसीदन्धकवृष्णेश्च सुभद्रेति सर्मिणी ।
निष्ठा यत्र सदाचारतारतम्यमुपाययौ ॥ ४२४ ॥
दिशां नाथा इव प्रौढा दशाभूवन्सुतास्तयोः ।
येषु नीतिनिवासेषु नाभवत्कोऽपि गोत्रहा ॥ ४२५॥
समुद्रविजयः पूर्वमक्षोभ्यस्तदनन्तरम् ।
स्तिमितः सागरश्चैव हिमवानचलस्ततः ॥ ४२६ ॥
धरणः पूरणस्तस्मादभिचन्द्राभिधोऽपि च ।
वसुदेवश्च दाशार्हो दशाप्येते प्रकीर्तिताः ॥४२७॥ (युग्मम्)
तेषामुपरि पुत्राणां सुभद्रां सुषुवे सुताम् ।
परमां मुदमध्यास्त यज्जन्मनि निजं मनः ।। ४२८॥
यज्जन्मलग्नमालोक्य ज्ञानिनोऽकथयन्निदम् ।
यद्भवित्री सवित्रीयं सम्राजामङ्गजन्मनाम् ॥ ४२९ ।।
जनानां प्रेषितं दुःखैः सुखैरुन्मुषितं पुनः ।
किं न जन्मोत्सवे तस्याः शुभोदर्कमभूद्भुवि॥ ४३० ॥
पुत्रजन्ममहेभ्योऽपि विशिष्टोऽन्धकष्णिना।
तस्या जन्मोत्सवश्चक्रे प्रीतिरत्र प्रयोजिका ॥ ४३१ ।।
कल्याणपुषि पौषेऽह्नि दीनोद्धरणपूर्वकम् ।
प्रीत्या पितृभ्यामेतस्या नाम कुन्तीति निर्ममे ॥ ४३२ ।।
सा बभूव शिशुत्वेऽपि कामं पृथुमनोरथा ।
पृथेति प्रथितामाख्या""मभजत्ततः ॥ ४३३ ।।
प्रापत्प्रसपत्कन्दर्पं सा क्रमान्नवयौवनम् ।
यत्र पित्रोवरस्यार्थे चिन्ता जागर्ति चेतसि ॥ ४३४ ॥
अस्याः स्वच्छन्दमुत्सङ्गखेलिन्यामन्यदा नृपः।
ज्येष्ठं समुद्रविजयं व्याजहार तनूरुहम् ॥ ४३५ ॥
एतस्या मर्म वत्सायाः को नाम भविता वरः ।
इति मे वत्स महतीं चिन्तामुच्छेत्तुमहेसि ॥ ४३६ ॥
सोऽप्यभाषिष्ट यद्येवं प्रेप्यतां कोऽपि पूरुषः ।
देव देशेष्वशेषेषु वरवीक्षाविचक्षणः ।। ४३७ ॥
यथा स प्रतिभाप्रौढोऽभिरूपो रूपशालिनम् ।
सुशर्मं सदृशं शुद्धान्वयमन्वेषते वरम् ॥ ४३८ ।।
स्वयंवरे तु दोषोऽयं यदेकस्सिन्वरे वृते ।
ईर्ष्याया कलहायन्ते नितान्तमपरे नृपाः ॥ ४३९ ॥
पाण्डवचरित्रम् ।
इति ज्येष्ठात्मजगिरा मामाहूय महीपतिः।
आदिशत्सर्वदेशेषु यथा कोरक गम्यताम् ॥ ४४०॥
वरः कश्चिद्वरेण्यश्रीर्यस्तुभ्यमवभासते।
उपागत्य तमस्माकं वेगेनैव निवेदय ॥ ४४१॥
भूपालो दुहितुस्तस्या रूपं चित्रपटे ततः।
लेशेनालिख्य देशेषु क्रमाद्भ्राम्यन्निहागमम् ॥ ४४२ ॥
असौ रूपेण कन्दर्पदर्पहा पाण्डुभूपतिः ।
मया दृष्टश्च हृष्टश्च जातोऽसीप्सितलाभतः॥ ४४३ ॥
आर्य शौर्यपुरेशस्य सुता तत्पाण्डुभूभुजा ।
युज्यतामनुरूपेण द्विरेफेणेव मालती ॥ ४४४ ॥
किं च काञ्चनवर्णास्याः कनिष्ठास्ति सहोदरा।
नाम्ना माद्रीति रूपेण यस्याः श्रीरेव सोदरा ॥ ४४५॥
विख्यातो दमघोषाख्यस्तां वृणीते स चेदिपः ।
ज्यायस्यां किंत्वनूढायामियं नोद्वाहमर्हति ॥ ४४६ ।।
तदार्य सर्वकार्येषु तिष्ठते त्वयि निर्णयः ।
एते सुखिन्यौ कन्ये स्तामास्तामन्यद्विकल्पना ॥ ४४७ ॥
इत्थं तेनार्थिता भीष्मस्तत्सर्वं प्रत्यपद्यत ।
खयं वाञ्छितमागच्छत्को निराकुरुते कृती॥ ४४८॥
अथोत्पाद्य नवं रागं सा मृगाक्षी मनोभुवा ।
आश्लिष्यत पटात्तस्मात्पाण्डुश्चित्रपटे तदा ।। ४४९ ॥
स मध्येमनसं कुन्तीमश्रान्तं धारयन्नपि ।
बहिरालोकयामास स्थाने स्थाने पुर:स्थिताम् ॥ ४५० ॥
कदा कुन्तीमुखाम्भोजे मन्नेत्रभ्रमरद्वयी।
पाता लावण्यकि़ंजल्कमित्यासीदुत्सुको नृपः ॥ ४५१॥
पृष्ट्वा सत्यवती शौर्यपुरे कोरकसंयुतम् ।
कार्यस्थैर्याय भीष्मः स्वं प्रेषयामास पूरुषम् ॥ ४५२ ।।
काव्यमाला।
अथ शौर्यपुरे गत्वा समेतस्तेन कोरकः ।
कुन्तीविभूषितोत्सङ्गमपश्यद्यादवेश्वरम् ॥ ४५३ ॥
व्यजिज्ञपञ्च राजेन्द्र तवादेशागतोऽस्म्यहम् ।
अध्वक्रमात्सदामत्तहास्तिके हस्तनापुरे ॥ ४५४ ॥
उत्फुल्लपुण्डरीकाक्षस्तत्र पाण्डक्षितीश्वरः।
अदृश्यत शामेकः पार्वणश्चन्द्रिकोदयः ।। ४५५ ॥
नेत्रयोस्तत्र पुरत्ने गते विषयतां भया ।
अद्यापि रत्नगर्भेति भूरित्थं पर्यभाव्यत |॥ ४५६ ॥
तस्य पीनोन्नतावंसौ लीलाशैलौ नृपश्रियः ।
विशालं वीरलक्ष्म्याश्च तल्पकल्पमुरस्थलम् ॥ ४५७ ।।
प्रीणितार्थिजनस्तस्य पाणिः कल्पद्रुपल्लवः ।
विश्वनाणकृते बाहोः कः पुरीपरिधः पुरः ॥ ४५८ ॥
पितृतुल्यः पितृव्योऽस्ति पाण्डोर्भीष्म इति श्रुतः ।
स चित्रपटवृत्तान्तं सर्वं वेत्ति स मन्मुखात् ॥ ४५९ ॥
चक्रवर्त्यतिवर्तीनि तदङ्गे लक्षणान्यपि ।
शक्रोऽपि स्पृहयत्येव यस्मै स शास्ति विक्रमः ॥ ४६० ॥
पानं कलाकलापस्य विश्वस्य नयनोत्सवः ।
असौ योग्यो वरः कुन्त्या रोहिण्या इव चन्द्रमाः ॥ ४६१ ॥
कुन्तीं वरीतुं तेनायं प्रहितो निजपूरुषः ।
देव संप्रति कर्तव्यमेतस्या दिशतु खयम् ॥ ४६२ ॥
संभाव्य भूमिपालस्तमौदासीन्यस्पृशा इशा ।
प्रातरावेदयिष्याम इत्युक्त्वा व्यसृजत्तदा ॥ ४६३ ॥
उत्थितायां सभायां च कोरकः खं गृहं ययौ 1
प्रीता पाण्डुगुणैः कुन्ती कन्यान्तःपुरमाययौ ॥ १६४ ॥
पाण्डोरवनिमार्तण्डस्यावदातान्गुणान्रहः ।
धात्र्या निवेदयांचक्रे कुन्तीसाकूतमानसा ॥ ४६५ ॥
पराक्रमेण रूपेण विनयेन नयेन च ।
असमः सैष मातस्ते जामाता प्रतिभाति मे ॥ ४६६ ॥
भाग्यान्याविर्भविष्यन्ति न जाने कीदृशानि मे ।
विघटन्ते हि कार्याणि प्रतिकूले विधातरि ।। ४६७ ।।
अथादिष्टो विशां पत्या प्रातराकार्य कोरकः।
पाण्डवे पाण्डुरोगित्वान्न दातासि निजां सुताम् ॥ ४६८॥
कोरकेण नरेन्द्रोक्तं पुरुषाय न्यवेदयत् ।
तेनापि भीष्मपाण्डुभ्यां हस्तनापुरमीयुषा ॥ ४६९ ॥
एकान्ते तं नरं नीत्वा पाण्डु: पप्रच्छ सादरम् ।
ब्रूहि राजसुता भद्र किं तु भय्यनुरज्यते ॥ ४७० ॥
सोऽशंसद्देव तां वेद्मि रागिणीमिङ्गितैस्त्वयि ।
तदा त्वां वर्णयामास कोरकः क्षितिपाप्रतः ॥ ४७१ ॥
भृशं रोमाञ्चितौ तस्याः कपोलफलको तदा।
निमेषविमुखे जाते नेत्रे स्फारितपक्ष्मणी ॥ १७२ ॥
सा श्रोत्रपुटमाधत्त निषिद्धविषयान्तरम् ।
सवेपथु वपुर्यष्टिभुवाह च मुहुर्मुहुः ॥ ४७३ ॥
मन्मथेनाथ पृथ्वीश पञ्चभिर्युगपच्छरैः।
प्रहतः प्राप तं तापं येन नाप रतिः धाचित् ॥ ४७४ ॥
क्षणं तस्थौ नृपः सौधे धारायन्त्रगृहे क्षणम् ।
क्षणं पल्लवपल्ल्याङ्के कौसुमनस्तरे क्षणम् ॥ ४७५ ॥
जलार्द्रचन्दनं चन्द्रकर्पूराण्यपि भूपतेः ।
विलुम्पन्ति स संतापं न सरज्वरसंभवम् ॥ ४७६ ।।
अविन्दन्नरविन्दानामपि तल्पे रतिं क्वचित् ।
ययावुपवने पाण्डुः पुष्पाडम्बरबन्धुरे ॥ ४७७ ॥
कुन्तीविरहदाहार्तिप्रतीकारचिकीर्षया ।
तत्र प्रतिद्रुः विश्राम्यन्सोऽद्राक्षीत्खदिरद्रुमम् ॥ ४७८ ॥
तस्य स्तम्बं निरालम्बं कीलैः कीलितमायसैः ।
एकं नरं निरुच्छ्रासं दुःखितं सममैक्षत ॥ ४७९ ॥
स्मरसोदरमाकारं तस्यालोक्य क्षितीश्वरः ।
आचकर्ष बलोत्कर्षाल्लीलया लोहकीलकान् ॥ ४८० ॥
छिन्नद्रुपातमपतत्सोऽतिमूर्छाविसंस्थुलः ।
भूपतिर्लम्भयामास चेतनां चन्दनैश्च तम् ॥ ४८१ ॥
स पुमान्मुद्रिकान्यस्तमणिस्वपनवारिभिः ।
सेचं सेचं व्रणश्रेणीं प्रगुणीकृतवान्वयम् ॥ ४८२ ॥
अथोचे पृथिवीनाथः पृथुना प्रश्रयेण तम् ।
ब्रूहि कोऽसि महाभाग कथं चेयं दशा तव ॥ ४८३ ॥
स जगाद जगद्वन्धो वैताब्यगिरिमण्डनस् ।
अस्त्यानकास्ति(?) मत्पौरं पुरं हेमपुराभिधम् ॥ ४८४ ॥
तस्य स्वामी विशालाक्षनामा विद्याधरोऽस्म्यहम् ।
भ्रमन्स्वैरविहारेण महीमिह समागमम् ॥ ४८५ ॥
वनस्यास्य श्रियं पश्यन्नुपेत्य रिपुभिश्छलात् ।
बद्धोऽस्मि करिणीव्यग्रः करीव करिबन्धकैः ॥ ४८६ ।।
यच्छन्प्राणानतुच्छेच्छं किं तन्मे यस्य नेशिषे ।
तद्ब्रूह्ययं जनः किं ते प्रियं,कर्तुं प्रवर्तताम् ॥ ४८७ ॥
अवदन्नृपतिर्भ्रातः किं ममातः परं प्रियम् ।
यस्त्वं विद्याधरेन्द्रत्वं कुशली पालयिष्यसि ॥ ४८८ ॥
पुनरूचे विशालाक्षः सशल्य इव लक्ष्यसे ।
भद्र त्वमपि तद्ब्रूहि पुरो मम मनीषितम् ॥ ४८९ ॥
अथाकथयदुर्वीशः सर्वमाकूतमात्मनः ।
आवेदिता हि सुहृदं फलन्त्येव मनोरथाः ॥ ४९० ॥
ततः प्राह विशालाक्षी नृत्यत्प्रीतिमना नृपम् ।
मम वंशक्रमायाता मुद्रिका गृह्यतामियम् ॥ ४९१ ॥
असौ तव चिन्मत्क्लेश()दाता सपदि कामितम् ।
देवतोपहितानां हि वस्तूनां महिमाद्भुतः ॥ ४९२ ॥
अदृश्यीकरणं वश्यीकरणं व्रणरोहणम् ।
विषनिग्रहणं चास्याः प्रथमः कुसुमोद्गमः ॥ ४९३ ॥
शतकृत्वश्च निर्णीतप्रभावेयमिति ब्रुवन् ।
पाण्डोस्तामर्पयामास बलाद्विद्याधरेश्वरः ॥ ४९४ ॥
इयं संक्रामतु प्रीतिरावयोः पुत्रसंततौ ।
स किं स्नेहो न यः पुंसां संतानमनुधावति ॥ ४९५ ॥
इत्याख्याय विशालाक्षे स्वपुरीं समुपेयुषि ।
मुद्रिकां तां धरित्रीशः पर्यवत्त निजाङ्गुलौ ॥ ४९६ ॥
दृष्टप्रतिकृतिं कुन्तीं पाण्डुश्चित्ते चकार च ।
तदात्मानमपश्यञ्च तत्र यत्रास्ति सा वने ॥ ४९७ ॥
तत्र तां निमृतं धात्र्या समं विश्रम्भभाषिणीम् ।
अदृश्य एवं शुश्राव प्रजानामधिभूरिति ।। ४९८ ॥
दूरं तयानया मातर्दुःस्थयावस्थया मम ।
कथंचिद्दिवसो यातः कथं यास्यति यामिनी ॥ ४९९ ॥
जलार्द्रया न यच्छुष्कं शुष्कमेमिश्च पङ्कजैः।
मम निर्वर्ण्यतामेषा वपुःसंतापवर्णिका ॥ ५००॥
मुक्ता मुक्ताकलापस्य मुक्ताः संतापशान्तये ।
ध्यानास्फोटं स्फुटन्ति स पश्य मातर्ममोरसि ॥ ५०१ ॥
मृणालवलयैरेभिरेमिश्चन्दनचर्चनैः ।
अलं मातरलं मातः किमु स्वं क्लेशयिष्यसि ॥ ५०२ ॥
कोरकेण समाख्यातः स शीतद्युति शीतलः ।
मातर्मयि कथंकारमग्नेरपि विशिष्यते ॥ ५०३ ॥
निर्मन्तुमपि मां बाणैर्बाधते कुसुमायुधः ।
तिरस्कृतोऽपि रूपेण न तं हन्ति मनागपि ॥ ५०४॥
काव्यमाला
स्मरस्तस्मिन्नपि शरैर्निशितैः प्रहरेद्यदि ।
सुभगः सुस्थितंमन्यः स मां किं न स्मरेत्ततः ॥ ५०५ ॥
गण्डोपर्यपरो ह्येष विकटः पिटकोदयः।
उन्निद्रश्चन्द्रिकावीचिरिन्दुर्यदयमुद्गतः ।। ५०६ ॥
विपर्येति विपर्यस्तैर्भाग्यैर्भुवनमप्यदः ।
मम येनोत्सुकायन्ते चन्द्रस्यापि मरीचयः ॥ ५०७ ॥
हेतोः कुतोऽपि तातो मां न तस्मै दातुमीहते ।
हा हा मातर्निराशासि शरणं मृत्युरेव मे ॥ ५०८ ।।
ततस्तामभ्यधाद्धात्री वत्से मासोत्सुका भव ।
दुष्पापः प्राप्यते प्रेयान्कृशोदरि किमुत्सुकैः ॥ ५०९ ॥
उपायं चिन्तयिष्यामि कंचिदव्यभिचारिणम् ।
झटित्येव यदाकृष्टं द्रष्टासि पुरतः प्रियम् ॥ ५१० ॥
इत्थमाश्चास्यमानापि यादवेन्द्रसुता यदा।
मृशं लब्धात्मलाभेन संतापेनाभ्यभूयत ।। ५११ ।।
तदा धात्री ययौ दूरं नवपल्लवहेतवे ।
वरन्ते भृशमाप्ता हि खजनव्यसनोदये ॥ ५१२॥
अथान्तश्चिन्तयामास यादवेश्वरनन्दिनी ।
दृष्ट्वा निरन्तरायोऽयं समयो मम मृत्यवे ।। ५१३ ॥
विचिन्त्येति/दृढा बद्धनीविः संयमितांशुका
अशोकपादपस्याधः सन्नद्धोहन्धनाय सा ॥ ५१४ ॥
इह संनिहिताः सर्वाः शृण्वन्तु वनदेवताः ।
जन्मान्तरेऽपि भूपालः पाण्डुरेवास्तु मे पतिः ॥ ५१५ ॥
अभिधायेति शाखायाः कण्ठे पाशं व्यधात्पृथा।
अयं प्रायः प्रतीकारः स्त्रीणां हि व्यसनोदये ॥ ५१६ ॥ (युग्मम्)
पाशालम्बितमात्मानं सा स यावद्विमुञ्चति ।
असिधेनुकरस्तावद्धात्रीपतिरधावत ॥ ५१७ ॥
भीष्मं च धृतराष्ट्रं च पाण्डुं च विदुरं तथा ।
दृष्ट्यामून्वर्धयामासुर्जनाः शुद्धान्तवासिनः ।। २९ ॥
अम्बालिकाम्बिकाम्बानां सत्यवत्याश्च सत्वरम् ।
गत्वा दास्यः प्रसन्नास्याः पुत्रजन्म न्यवेदयन् ॥ ३० ॥
जातमात्रे सुते तस्मिन्बालार्कसमतेजसि ।
उच्चचार वियत्युच्चैरशरीरा सरस्वती ॥ ३१ ॥
असौ सत्यवतां मुख्यः सतामयः समग्रधीः ।
शौण्डीर्यस्थैर्यगाम्भीर्यवसतिविनयी नयी ॥ ३२ ॥
धर्मबद्धरतिभूपः सार्वभौमो भविष्यति ।
वार्द्धके व्रतमादाय निर्वाणं च गमिप्यति ॥ ३३ ॥
तत्समाकर्णनान्न स्युर्भीमादीनां मुदः कथम् ।
अपरेषामपि तदा हर्षं नाख्यातुमीश्महे ॥ ३४ ॥
स्वयमेव पुरे परैरुत्सवो निर्मितस्तदा।
आदेशस्तु विशांपत्युरभवसिद्धसाधनम् ॥ ३५॥
निःशेषदिविषद्वर्गप्रमोदपिशुनास्तदा ।
समाकर्ण्यत सानन्ददुन्दुभिध्वनयो दिवि ।। ३६ ॥
सुतस्य तस्य भीष्माद्यैः किचिद्वीक्ष्याङ्गलक्षणैः ।
युधिष्ठिर इति श्लाध्यमन्वर्थं नाम निर्ममे ॥ ३७ ।।
तपोधर्मैकनिष्ठायाः पृथाया जात इत्यसौ ।
लेभे नाम्ना तपःसूनुर्धर्मसूनुरिति क्षितौ ॥ ३८ ॥
तस्य पश्चादजातारिरिति त्रैलोक्यविश्रुतम् ।
तेन तेनावदातेन नामधेयमजायत ।। ३९ ॥
समाजग्मुर्महीपालैः प्रहितानि सहस्रशः ।
प्राभूतानि सहस्त्राणि पाण्डोरात्मजजन्मनि ॥ ४०॥
उपायनमुपादाय कुन्त्याः पितृगृहादपि ।
आययौ विकसद्रोमकोरकः कोरकस्तदा ॥४१॥
गौरवार्हविशेषेण तं पाण्डुपृथिवीपतिः।
सत्कृत्य कृत्यनिष्णातः स्नेहसारमवार्तयत् ॥ ४२ ॥
महीतलमिलन्मौलिमाश्वास्य विहितानतिम् ।
कुन्ती नितान्तवात्सल्यात्पृच्छति स्मेति कोरकम् ॥ ४३ ॥
श्वश्रूभिः सकृदप्यस्मि न विसृष्टा पितुर्गृहे ।
तद्ब्रूहि कुशलं कच्चिद्वन्धुवर्गस्य मेऽधुना ॥ ४४ ॥
बन्धुसंतानवृद्ध्या च मामानन्दय संप्रति ।
इति पृष्टोऽभवद्धृष्टो व्याकरोति स्म कोरकः ॥ ४५ ॥
श्रूयतां देवि साम्राज्यं देवेनान्धकवृष्णिना।
समुद्रविजये न्यस्य प्रव्रज्या स्वयमाददे ॥ ४६॥
भोजवृष्णेश्च तनयो मथुराराज्यमूर्जितम् ।
उग्रसेनः करोतीति प्रागपि ज्ञातवत्यसि ॥४७॥
ततःप्रभृति मे स्वामी समुद्रविजयोऽनुजान् ।
आत्मनोऽप्यधिकं पश्यन्नपात्सौर्यपुरं प्रजाः ॥ १८ ॥
पूर्वोपार्जितसौभाग्यः स्वच्छन्दं व्यचरत्पुरे ।
वसुदेवकुमारस्तु रेमे बन्धुप्रसादतः ॥ ४९ ॥
अन्यदा वसुदेवस्य तत्रत्यः पुत्रमात्मनः ।
वणिक् सुभद्रं कंसाख्यमर्पयामास सेवकम् ॥ ५० ॥
तथा कलाभिस्तेनापि कुमारः पर्यचर्यत।
समानमात्मनो मेने स यथा तमहर्निशम् ।। ५१ ।।
अस्ति चात्र जरासंधो राजा राजगृहे पुरे ।
स्वैरं क्रीडति यस्याज्ञा त्रिखण्डक्षितिमण्डले ॥ ५२ ॥
विसृज्य दूतमेतेन भूमण्डलबिडौजसा ।
अकस्मात्स्वामिनोऽस्माकमादिष्टमिदमन्यदा ॥ ५३ ॥
अस्ति निर्व्याजशौण्डीर्यसिंहः सिंहपुरे पुरे ।
नृपः सिंहरथो नाम स चाज्ञां नो न मन्यते ॥ ५४ ॥
जीवग्राहं गृहीत्वामुं बद्ध्वा पाप्मानमानय ।
आनीते तव दास्यामि स्वां जीवयशसं सुताम् ॥ ५५ ॥
रुचिरं पुरमेकं च काञ्चनाञ्चितमन्दिरम् ।
ततो विसृज्य तं दूतं प्रतस्थेऽस्मत्प्रभुः स्वयम् ॥ ५६ ॥
युग्मम् ।
प्रणम्य वसुदेवोऽथ ज्येष्ठबन्धुं व्यजिज्ञपन् ।
किमिदं देव सिंहस्य चपेटोत्पाटनं मृगे ॥ ५७ ॥
सति मय्यपि भृत्ये च स्वयं कोऽयमुपक्रमः ।
अरुणे प्रगुणे ध्वान्तं न ह्यपाकुरुते रविः ।। ५८ ॥
एवमावद्धनिर्बन्धं बान्धवं लघुमात्मवत् ।
वरूथिन्यामवस्थाप्य जयाय व्यसृजन्नृपः ॥ ५० ॥
सोऽपि शौर्यावतंसेन कंसेन सह जग्मिवान् ।
बद्ध्वा सिंहरथं बन्धोर्दिनैरल्पैरुपानयत् ।। ६० ॥
कृत्वा जयोत्सवं जातं मुदा राजगृहं नृपम् ।
क्रोष्ट्रुकिः समभाषिष्ट ज्ञानी रहसि सानुजम् ।। ६१ ।।
येयं जरासन्धसुता कर्मण्यत्र पणीकृता ।
क्षयकृल्लक्षणैरेषा पितृश्वशुरपक्षयोः ॥ ६२ ॥
इत्यूचिवांसं विद्वांस तं विसृज्य प्रजेश्वरः ।
ऊचे कुमारमारम्भः शुभोदर्कोऽस्ति नैप नः ॥ ६३ ॥
ततो व्यज्ञपयद्राज्ञो वसुदेवः कृताञ्जलिः ।
सा स्यात्कन्या यथान्यस्य तथोपायोऽस्ति मे स्मृतः ।। ६४ ।।
सावधानोऽधुना देवः श्रोतुमेतं प्रसीदतु ।
इतो युष्माकमादेशादस्मि सिंहपुरे गतः ॥ ६५ ॥
कन्दरादिव निर्गत्य सिंहः सिंहरथः पुरात् ।
भटान्नस्वासयामास वलाद्दन्तावलानिव ॥ ६६ ॥
ममाप्यत्यद्भुतैस्तैस्तैर्भुजविक्रमवैभवैः til
तेन प्रादुरभाव्यन्त भाले धर्मजलोर्मयः ॥ ६७ ॥
काव्यमाला।
प्रसादपात्रं पीनांसः कंसाख्यो मम सारथिः ।
भङ्गुरं बलमालोक्य रथात्तूर्णमवातरत् ॥ ६८ ॥
रथं सिंहरथस्यासौ जितशत्रुपराक्रमः ।
भुजदम्भोलिना भूभृद्गर्वचौरमचूर्णयत् ॥ ६९ ॥
मयूरबन्धनं बद्धा ततः सिंहरथो रथी।
मन्मानसैकहंसेन कंसेनाक्षेपि मे पुरः ॥ ७० ॥
ततो विषस्वसुस्तस्या दुहितुर्मगधेशितुः ।
असौ सिंहरथानेता परिणेतास्तु संप्रति ।। ७१ ।।
उवाच श्रीसमुद्रोऽथ समुद्रविजयो वचः ।
गतापायमुपायं मे मनोहरमुदाहर ।। ७२ ॥
परं पुरा वणिक्पुत्रस्त्वयासौ प्रतिपादितः ।
तदस्मै वणिजे पुत्रीं जरासन्धो न दास्यति ॥ ७३ ॥
इति जल्पत एवास्य कंसः सेवार्थमागमत् ।
वसुदेवश्च तं राज्ञे कंसोऽसावित्यचीकथत् ॥ ७४ ॥
तेजः साक्षादिव क्षात्रं तमूर्जस्विभुजार्गलम् ।
प्रांशुमांसलमालोक्य नृपतिः पुनरभ्यधात् ।। ७५ ॥
इत्यद्भुतोऽयमाकारः सुलभो न वणिक्कुले ।
ततोऽस्य पितरं दृष्ट्वा क्रियते कुलनिर्णयः ॥ ७६ ॥
अथाहूय महीभर्त्रा पृष्टः शपथपूर्वकम् ।
सुभद्रः सत्यमाचख्यौ सर्वं कंसस्य पश्यतः ।। ७७ ॥
यमुनायामनुस्रोतो वहन्तीमहमेकदा ।
अपश्यं कांस्यमञ्जूषां प्रातः शौचार्थमीयिवान् ।। ७८ ॥
आदाय तामथोत्पाट्य पार्वणेन्दुसमाननम् ।
उच्छृङ्खलप्रभाजालमिममालोकयं सुतम् ॥ ७९ ॥
उग्रसेनस्य नामाङ्कामेतां च मणिमुद्रिकाम् ।
एतच्च पत्रमत्रेदं लिखितं वाच्यते यथा ॥ ८० ॥
युग्मम् । पाण्डवचरितम् ।
उग्रसेनसधर्मिण्या धारिण्या गर्भकर्तृकः ।
अभवद्दोहदो भर्तृमांसभक्षणलक्षणः ।। ८१ ॥
कथंचित्पूरिते तस्मिन्नमात्यैर्मतिशालिभिः ।
पौषे कृष्णचतुर्दश्यां विष्टौ सनुरजायत ।। ८२ ।।
तं दोहदानुभावेन निर्णीय जनकद्विपम् ।
विन्यस्य कांस्यपेटायामुद्भटाकारधारिणम् ।। ८३ ॥
मातापि तदहं जातं मथुरातोऽथ धारिणि ।
पत्युः क्षेमाय चिक्षेप गम्भीरे यमुनाम्भसि ॥ ८४ ॥
युग्मम् ।
इति पत्रार्थतो देव ज्ञातोऽसावुग्रसेनजः ।
पुत्रस्नेहस्तथाप्यत्र तदा प्रादरभून्मम ।। ८५ ॥
अथानीय निजं गेहमस्योत्सवपुरःसरम् ।
कांस्यपेटोपलव्धत्वान्नाम कंस इति व्यधाम् ॥ ८६ ॥
असावपुष्णाद्वर्धिष्णुस्तेजः क्षत्रकुलोचितम् ।
ततः क्रीडन्वलादेष बालकैः कलहायते ॥ ८७ ॥
जनेभ्योऽहमुपालम्भ लेभे च प्रतिवासरम् ।
कुमारवसुदेवस्य ततोऽमुं सेवकं व्यधाम् ॥ ८८ ॥
ततो जगाद सानन्दं समुद्रविजयो नृपः ।
अस्मद्गोत्रादृते कस्य दृश्यते बलमीदृशम् ।। ८० ।।
इत्युक्त्वा सह कंसेन गत्वा राजगृहे च सः ।
चक्रे सिंहपुराधीशमुपदा मगधेशितुः ।। ९० ॥
अस्यायमवदातस्य कंसः कर्तेति सादरम् ।
नृपो निवदयामास मगधानां महीभुजे || ९१ ॥
ततः प्रीत्या ददौ पुत्री कंसाय मगधेश्वरः ।
प्रतिपन्नं युगान्तेऽपि नान्यथा हि महात्मनाम् ॥ ९२ ॥
उग्रसेननृपद्वेषान्मधुरामेव सादरम् ।
कंसाय याचमानाय स दत्ते स्म प्रसादतः ॥ ९३ ॥
काव्यमाला।
अथ सिंहस्थोऽप्युच्चैरुत्खातः प्रतिरोपितः।
नत्वा प्रसादयामास तं फलैः कलभो यथा ॥ ९४ ॥
जरासन्धेन सत्कृत्य विसृष्टाः स्वपुरं प्रति ।
जग्मुस्तिग्मेन वेगेन समुद्रविजयादयः ॥ ९५ ॥
सत्यसन्धजरासन्धसमर्पितबलो बली ।
कंसस्तु मथुरां गत्वा तातं निष्करुणोऽरुधत् ॥ ९६ ॥
सेनाभिरुग्रसेनोऽपि तेन सार्धमयुध्यत ।
अखिद्यत जयश्रीस्तु तयोर्युद्धे गतागतैः ॥ ९७ ॥ .
कथंचनापि निर्जित्य कंसः क्रूरशिरोमणिः ।
साक्षेपचेताश्चिक्षेप पितर काष्ठपञ्जरे ।। ९८ ॥
दृढं निगडबद्धोऽपि ज्ञाते तस्मिन्निजात्मजे ।
सुतेन विजितोऽस्मीति पिता तु मुदमावहत् ॥ ९९ ॥
सुभद्रवणिजं सौर्यपुरादानाय्य सोऽजसा ।
कृतज्ञमानी संपूज्य पर्युपास्ते स्म तातवत् ॥ १०० ॥
इतश्च केलिशैलेषु प्रासादेषु वनेष्वपि ।
शौरिः शौर्यपुरेऽत्यन्तं विजहार यदृच्छया ॥ १०१॥
वसुदेवः सुनेत्राणां नेत्राणाममृताञ्जनम् ।
मनसस्तु सदा ध्येयो मन्त्रोऽभूञ्चतुरक्षरः ॥ १०२ ॥
समुद्रविजयः पौरैरेत्य विज्ञापितोऽन्यदा ।
देव त्वयापि नाथेन वयमत्यन्तदुःखिताः ॥ १०३ ॥
कन्दर्पस्य सरूपेण रूपेणाक्षिप्तचेतसः ।
शौरिमेवानुधावन्ति त्यक्त्वा वेश्मानि नः स्त्रियः ॥ १०४ ॥
अनुगामुकतां शौरेस्तासु प्राप्तासु सर्वतः ।
कलत्रकर्तृका कापि शुश्रूषा नास्ति नः प्रभो ।। १०५ ॥
अथ पृथ्वीपतिः प्रीत्या सान्त्वयित्वा विसृज्य तान् ।
वसुदेवं समाहूय रहस्येवं समादिशत् ॥ १०६ ॥
वत्स स्वच्छन्दचर्याभिरभूरत्यन्तदुर्बलः ।
कुरु सर्वकलाभ्यासं सौधमध्यस्थ एव तत् ॥ १० ॥
कुर्वन्नुर्वीपतेराज्ञामेवं राजानुजोऽन्यदा ।
एकामपश्यदायान्तीं दासीमन्तःपुरोदरात् ॥ १०८ ॥
विलेपनं करात्तस्याः सोऽलुम्पन्नर्मलीलया ।
ततः सकोपं साक्षेपं वसुदेवं जगाद सा ॥ १०९ ॥
कुमारमेदुरामोदमङ्गरागं किमाच्छिदः ।
देवाय शिवया देव्या प्रेमतः प्रहितो ह्यसौ ॥११० ॥
सौधमध्ये निरुद्धोऽसि स्थाम्ना देवेन धीमता ।
विशत्यविनयादेव पञ्जरे सिंहशावकः ॥ १११ ॥
साथ पृष्टा कुमारेण निजसंरोधकारणम् ।
तत्पुरे पौरवृत्तान्तं सर्वं मूलादचीकथत् ॥ ११२ ॥
ततो म्लानमुखाजश्रीर्व्यतीत्य कथमप्यहः ।
वसुदेवो विभावर्यामेकाक्येव क्वचिद्ययौ ॥ ११३ ॥
प्रातरन्वेषणे पूर्वप्रतोलीद्वारि दूरतः ।
दग्धमानुषसंस्थानो भस्मराशिरदृश्यत ॥ ११४ ॥
प्रतोल्यां लम्बमानं च पत्रमेकमुदैक्षत ।
शुचोच्चैर्वाचयामास समुद्रविजयः स्वयम् ॥ ११५ ॥
पुंसो यस्य गुरून्यावदुपालम्भः प्रवर्तते ।
तस्य श्रेयस्करो मृत्युर्जीवितं तु त्रपाकरम् ।। ११६ ॥
ततः शौरिः कृतोद्वेगो गुरूणामगुणैकभूः ।
विरचय्य चितामत्र कृशानुमविशत्स्वयम् ॥ ११७ ॥
तदेवं वाचयत्नेव देवो मूर्छामुपागमत् ।
ज्ञात्वा विपन्न सोदर्यं को हि धैर्यं न मुञ्चति ॥ ११८ ॥
व्यलपञ्चाप्तचैतन्यो हा वत्स गुरुवत्सल ।
दत्त्वा नः शोकमस्तोकमगमः कामिमां दशाम् ॥ ११९ ॥
भाग्यैकलभ्यं सौभाग्यं वसुदेवस्य संस्मरन् ।
राजानमनुचक्रन्द सर्वोऽपि विधुरो जनः ॥ १२० ॥
जनन्यास्तु सुभद्रायाः सुतशोकाशुशुक्षणिः ।
तथा नितान्तं जज्वाल प्राणानप्यहरद्यथा ॥ १२१॥
न गीतं गीतशालासु न लास्यं लास्यवेश्मनि ।
बभूव शौरिशोकेन न च तूर्यध्वनिः क्वचित् ॥ १२२ ॥
वसुदेवशुचा देवो न दिदेव शरद्यपि ।
वसन्ते च शरद्वेश्मन्यरोदीद्दीनलोचनः ॥ १२३ ॥
एवं वर्षाणि भूयांसि भूशक्रस्यातिचक्रमुः।
एत्यान्यदा निमित्तज्ञो बभाषे क्रोष्टुकिर्नृपम् ॥ १२४ ॥
दृष्टादृष्टनिमित्तेन भृशं निश्चिन्वता मया ।
यज्जीवति प्रफुल्लश्रीर्वसुदेवो निरामयः ॥ १२५ ॥
एवं तद्गिर्रमाकर्ण्य कर्णपीयूषसारणिम् ।
भूयोऽपि राजकार्येषु किंचित्रावर्तत प्रभुः ॥ १२६ ।।
स्वयंवरेऽथ रोहिण्याः सुताया रुधिराह्वयः ।
अरिष्टनगरस्वामी स्वामिनं नः समाह्वयत् ॥ १२७ ॥
देवोऽपि बन्धुभिः सार्धं महर्षिकपरिच्छदः ।
शौरिशोकविनोदार्थं न कन्याथै पुनर्ययौ ॥ १२८ ॥
जरासन्धमहाराजप्रमुखे राजमण्डले ।
आसीने मञ्चमत्युच्चमध्युवास नृवासवः ॥ १२९ ।।
मन्मथाङ्कुररोहिण्या रोहिण्याथ कटाक्षिताः ।
भूपाः स्वं रोचयांचक्रुः स्फुटिताननचेष्टिताः ।। १३० ।।
परं धात्रीपतिर्धात्र्या संकीर्तितगुणश्रियाम् ।
तेषामेकोऽपि रोहिण्या रोचते स्म न कश्चन ॥ १३१ ॥
राज्ञोऽवज्ञाय सर्वांस्तानेकं पाटहिकं दृशा ।
ईक्षांबभूव साकाङ्क्षं सा मृगाक्षी मुहुर्मुहुः ।। १३२ ॥
सोऽप्येवं वादयामान पटहं प्रकटाधरम् ।
अकालक्षेपमेणाक्षि स्रजा क्रीणीहि मामिति ॥ १३३ ।।
गुणैः कुमुदकुन्देन्दुसुन्दरैः सा वशंवदा ।
तस्य कण्ठे निचिक्षेप स्रजं कुजकृतेरपि ॥ १३४ ॥
कृतकोलाहलाः सर्वं वृते पाणविकं नवा।
जरासन्धाज्ञया योद्धमुपनकामिरे नृपाः ।। १३.५ ॥
तं पाटहिकमप्यूगकुर्वाणं रुधिरं प्रति ।
तं पराक्रमिणश्चक्रुः कुन्ताकुन्ति दरशरि ॥ १३६ ।।
उद्बुद्धप्रबलकोधो रुधिरम्नानरोधयत ।
न हि क्षुभ्यन्ति गौण्डीराः प्रन्यर्थियु बभ्यपि ॥ १३७ ॥
अथ प्रत्यर्थिभूपाले रुधिर विधुगाने ।
तः सम तौयिकम्तृण नमरायोतिष्ठत ॥ १३८ ।।
नभश्चरोपनीतेन सायुधेन ग्थेन (ह) मः ।
ते(ता)नेकोऽपि पिनष्टि स्म म चैरिनिमिरायगा ॥ १३० ॥
अबलं म्बबलं बीथ्य जरासन्धो धराधयः ।
देवं समुद्रमादिक्षत्तत्याक्रमणरेन ॥ १४० ॥
तौर्यिकोऽयमिति ज्ञान्या सावज्ञम (मोऽ) भ्यरेणयन् ।
[तेन] निलुम्पता (तेन) सैन्यं निन्ये देवोऽपि विस्मयम् ॥ १४१ ॥
रूपाद्विसदृशं तेजस्तस्य पश्यन्स्वयं ततः ।
देवः शौर्यपुराधीशः शरं धनुषि संदधे ॥ १४२ ।।
तेनापि प्रहितं देवो विनीतमिव सेवकम् ।
एवं साक्षरमद्राक्षीत्पादाने पतितं शरम् ॥ १४३ ॥
कौतुकेन तमादाय व्यक्ता मुक्ताफलोपगाम् ।
तत्रोच्चैर्वाचयामास देवस्तामक्षरावलीम् ॥ १४४ ॥
शवदाहमयं छद्म कृत्यागाद्यः पुरा पुरात् ।
स ते पादाम्बुजं देव वसुदेवो नमस्यति ।। १४५ ॥
काव्यमाला ।
मुक्त्वा स्यन्दनमानन्दस्यन्दमानाश्रुलोचनः ।
आगच्छ वत्स वत्सेति देवो जल्पंस्तमभ्यगात् ॥ १४६ ॥
सोऽपि स्वरूपमास्थाय रथादुत्तीर्य वेगतः ।
ववन्दे देवपादाब्जं सपयन्नयनाम्बुभिः ॥ १४७॥
गाढमालिङ्ग्य वेगेन स पुरो विनयान्वितः ।
कुत्र वर्षशतं वत्स शिष्टवानित्यपृच्छत ।। १४८ ॥
सोऽपि व्यज्ञापयदेव त्वत्प्रभावादयं जितः ।
कृतरूपपरावर्तः स्वैरं भ्रान्तोऽस्मि भूतले ॥ १४९ ॥
इत्थं तदा विदित्वा तं समुद्रविजयानुजम् ।
प्रमोदमेदुरं चेतो दधिरे रुधिरादयः ॥ १५०॥
ततः स रोहीणी रोहद्विशेषप्रेमविक्लवाम् ।
उपायंस्त सदानन्दश्चन्द्रमा इव रोहिणीम् ॥ १५१ ।।
शौरिं जगाद देवोऽथ वत्सागच्छ निजां पुरीम् ।
ग्रहा अपि परक्षेत्राच्छाध्याः स्वं क्षेत्रमागताः ॥ १५२ ॥
ततः शौरिरभाषिष्ट त्वदादिष्टं तथेति मे ।
परं स्वपुरमेष्यामि कालेन कियताप्यहम् ॥ १५३ ॥
स्नुषा वः शतशः सन्ति नरखेचरकन्यकाः ।
ततस्ताः शीघ्रमादाय प्रणन्तास्मि भवत्क्रमौ ॥ १५४ ॥
एवमातृच्छय निर्बन्धात्स जगामोत्तरां दिशम् ।
देवोऽपि सपरिवारः पुरमात्मीयमाययौ ॥ १५५ ।।
शौरिः शौर्यकथाबन्धैः समयं गमयन्मुदा ।
अश्रौषीदेकदा कौबेर्यां तूर्यनिःस्वनम् ॥ १५६ ॥
दृशौ व्यापारयस्तस्यामपश्यन्मणिनिर्मितम् ।
स्वामी श्रेणीं विमानानामभ्यायान्तीं विहायसा ॥ १५७ ॥
नमोनिभालनोत्फुल्लनयनस्य नरेशितुः ।
एत्यः शौरिः समेतीति कश्चिदूचे नभश्चरः ॥ १५८ ॥
प्रत्युद्गम्य ततो देवः प्रवर्तितमहोत्सवे।
उत्तुङ्गतोरणश्रेणौ शौरिः प्रावीविशत्पुरे ॥ १५९ ।।
मथुरातः समागम्य कंसः संस्मृतसौहृदः ।
शौरेश्चकार माङ्गल्यमन्यराजन्यजित्वरम् ।। १६० ।।
अथ देवमनुज्ञाप्य चिरं शुश्रूषणेच्छया ।
विनयादनयच्छौरिं मथुरां मथुरापतिः ॥ १६१ ।।
पुत्री निजपितृव्यस्य देवकस्य स देवकीम् ।
सुरूपामनुरूपेण गौरिणा पर्यणाययत् ॥ १६२ ।।
कंसबन्धुर्विविक्तात्मा मुक्तिकामोऽतिमुक्तकः ।
उत्सवे तत्र भिक्षार्थी भगवान्मुराययौ ।। १६३ ।।
कंसपत्नी जीवयशा यौवनोन्मादमेदुरा ।
तदानीं संमुखीनासीन्निःसीमतपसो मुनेः ॥ १६४ ।।
असौ शिथिलधम्मिल्ला मुनिं नग्नस्तनांशुका ।
क्षीबा श्लथ(थी)भवन्नीवी ह्यदृशान्ना( श्यना)भिग्नमभ्यधात् ॥१६५||
एहि देवर नृत्यावः स्वसुस्तव महोत्सवे ।
तमित्यालप्य सा दोर्भ्यां कण्ठे साग्रहमग्रहीत् ॥ १६६ ॥
अस्तारुण्यमहारण्यभल्लूकि निरपत्रपे ।
अपेहीति सतां रूक्षमधिक्षिप्योक्तवानिति ॥ १६७ ।।
यद्विवाहोत्सवे मत्ता नृत्यस्यत्यन्तगर्विता ।
तस्याः सप्तमगर्भेण तव घातिप्यते पतिः॥ १६८ ॥
एवं वाङ्मयमन्त्रेण वित्रासितमहोदया ।
सामुञ्चच्च मुनेः कण्ठं सोऽगमञ्च यथागतम् ॥ १६९ ।।
सा कंसस्य तदाचख्यो सोऽपि क्षोभमगादृशम् ।
मृत्युदौर्गत्ययोर्वार्ता न स्यात्कस्यार्तिहेतवे ।। १७० ॥
मृत्युतो बिभ्यदन्येद्युः कंसः कौटैककोविदः ।
दाक्षिण्यस्य निधि नीत्वा रहः शौरिमभाषयत् ॥ १७१ ।।
काव्यमाला ।
कृतार्थितार्थिनं मित्र किंचित्त्वामहमर्थये ।
ये गर्भाः सप्त देवक्या भवेयुस्ते भवन्तु मे ॥ १७२ ॥
बलभद्रादयः सन्ति भूयांसोऽपि ममात्मजाः।
एभिः सप्तभिरेषोऽस्तु ममापत्यैरपत्यवान् ॥ १७३.॥
एषोऽप्यमून्यपत्यानि स्नेहतो लालयिष्यति ।
इत्यालोच्य प्रियां शौरिस्तथेति प्रतिपन्नवान् ॥ १७ ॥
जातमात्रानपि क्रूरः संरक्ष्यारिष्टमन्दिरे ।
ततः कंसोऽग्रहीद्गर्भान्देवक्याः षडपि क्रमात् ॥ १७५ ॥
मथुरायामियं वार्ता प्रावर्तत समन्ततः ।
सुताः षडप्यहन्यन्त ते कंसेन दुरात्मना ॥ १७६ ॥
खेदोऽभूच्छौरिदेवक्योरिमां श्रुत्वा जनश्रुतिम् ।
पुत्रव्यापादनोदन्तः पीडायाः परमोऽवधिः ॥ १७७ ॥
दधौ सप्तमहास्वमसूचि(त)तां निश्चितोदयम् ।
उदारमन्यदा देवी देवकी गर्भमद्भुतम् ॥ १७८ ॥
पत्युः शशंस सा स्वप्नान्प्रातस्तामरसानना ।
भरतार्धपतिः पुत्रो भावीत्याख्यत्स तत्फलम् ॥ १७९ ॥
अवादीद्देवकी देवी स्वामिन्नात्मजलाभतः ।
कंसदौष्ट्याच्च मे चेतः प्रसीदति विषीदति ॥ १८ ॥
त्वयि नाथेऽप्यनाथास्मि प्रभो धिङ्मामपुण्यकाम् ।
पुत्रं यज्जातमात्रं मे कंसो विध्वंसते मुहुः ॥ १८१ ॥
यद्येनमप्यसौ पुत्रं पापो व्यापादयिष्यति ।
देवक्यपि तदा स्वामिविपन्नैव न संशयः ॥ १८२ ।।
अथाभाषत शौरिस्तां प्रिये जीवन्मृतोऽस्म्यहम् ।
यस्य मे पश्यतः कंसो जघान पशुवत्सुतान् ॥ १८३ ॥
तन्मया तनयः सोऽयं संरक्ष्यः कंसराक्षसात् ।
स्वगर्भं दौर्हृदैर्हृद्यैः पालयेर्मा स्म खिद्यथाः ॥ १८४ ॥
रक्षोपायस्त्वसावस्ति नन्दो मे गोकुलाधिपः ।
तनूजमेनं यत्नेन स गुप्तं वर्धयिष्यति ॥ १८५ ॥
इति पत्या कृताश्वासा जातविश्वासमानसा ।
देवकी पालयामास गर्भं सुखसुखेन तम् ॥ १८६ ॥
अयं मे हन्त हन्तेति भीतः कंसोऽपि पत्तिभिः ।
रक्षां सप्तमगर्भस्य करोति स्म विशेपतः ॥ १८७ ।।
अथोर्जस्विप्रभाजालं श्रीवत्साङ्कितवक्षसम् ।
आश्विनस्य सिताष्टम्यां लग्ने लोकोत्तरे निशि ॥ १८८ ॥
लक्षणाख्यातसंभाव्यभरतार्धमहर्द्धिकम् ।
देवताधिष्ठितं देवी देवकी सुपुवे सुतम् ।। १८९ ।। (युग्मकम्)
ये यत्र गर्भरक्षार्थमासन्कंसपदातयः ।
ते भरतार्धदेवीभिर्निद्रामानिन्थिरे तदा ॥ १९० ॥
ज्ञात्वा निद्रायितांस्तांस्तु देवी शौरिमजूहवत् ।
सोऽपि तं बालमादाय प्रतस्थे गोकुलं प्रति ॥ १९१ ॥
देवमुक्तपतत्पुष्पदन्तुरीभूतभूतलाम् ।
प्रज्वलद्दीपिकाश्रेणिविश्राणितनवश्रियम् ॥ १९२ ।।
शौरिः सुरैघृतच्छत्रमुद्भूताद्भुतचामराम् ।
तनयं तनयन्नुग्रसेनेनाजल्पि गोपुरे ॥ १९३ ।।
किमेतद्दृश्यते नेत्रप्रियं भावुकमद्भुतम् ।
कथय प्रथय श्रोत्रपुटे पीयूषसारणिम् ॥ १९४ ॥
ततः स्मेरमुखः शौरिरेतस्मात्काष्ठपञ्जरात् ।
यस्त्वां मोचयिता सोऽयमिति मन्दमचीकथत् ॥ १९५॥
सोऽप्यूचे कंसतः प्राप्तो बन्धोऽप्येष धिनोति माम् ।
येन जागरितोऽद्राक्षमपूर्वमिदमद्भुतम् ॥ १९६ ॥
"श्रावणस्य” इति पण्डितदेवविजयगणिविरचिते गद्यमये पाण्डवचरिते स्थितः अत्र "श्रावणस्यासित्ताष्टम्याम्" इति भवेत् । काव्यमाला।
शिशोस्तस्यानुभावेन सुखोत्तारमिति द्रुतम् ।
उत्तीर्य यमुना शौरिरगमन्नन्दगोकुलम् ॥ १९७ ॥
तदैव दैवयोगेन यशोदा नन्दगेहिनी ।
तनयां जनयांचक्रे मनोरमतमाकृतिम् ॥ १९८॥
तामादाय यशोदायाः समर्प्य च तनूरुहम् ।
कृतकृत्यमनाः शौरिः स्वस्थानं पुनराययौ ॥ १९९ ॥
तां नन्दपुत्री देवक्याः स च वेगादुपानयत् ।
दूरीकृतप्रमादास्ते पत्तयश्च जजागरुः ॥ २०० ॥
बालिका तामुपानिन्युस्ते कंसाय निरादराः ।
सावज्ञं वीक्ष्य सोऽप्येनामकरोल्लूननासिकाम् ।। २०१॥
प्रीत्या भीत्या च योऽश्रान्तं स्मयते मित्रशत्रुभिः ।
बध्यः सोऽप्यनया कंस: कट(टु) सत्यं मुनेर्वचः ॥ २०२ ॥
इत्थं हसित्वा सोल्लुण्ठमतिमुक्तमहामुनिम् ।
स मृत्युंजयमात्मानं मन्वानो राज्यमादधे ॥२०३॥ (युग्मकम्)
कन्यामवज्ञया कंसो देवक्याः पुनरर्पयत् ।
उड्डामरभुजस्थाम्नामु(म)नास्था क्षामधामसु ॥ २०४ ॥
अथाभूद्गोकुलं सर्वं शिशुना तेन कान्तिमत् ।
पूर्वाद्रेरिव बालेन प्रालेयद्युतिना शिरः ।। २०५
तदासीदुद्यदानन्दं मनो नन्दयशोदयोः।
तादृशस्य सुतस्याप्तौ को हि नाम न हृष्यति ॥ २०६ ॥
नन्दोऽथ तस्य कृष्णत्वान्नाम कृष्ण इति व्यधात् ।
अङ्कमारोप्य गोप्यस्तं लालयन्ति स्म विस्मिताः ॥ २०७॥
ववृधे गोकुले बालः पाल्यमानो यशोदया ।
सिच्यमानः शचीदेव्या कल्पद्रुरिव नन्दने ॥ २०८ ॥
गच्छन्नुत्सङ्गमुत्सङ्गात्पाणिं पाणेश्च संचरन् ।
स गोकुलमृगाक्षीणामभूदत्यन्तवल्लभः ॥ २०९ ।।
६३
तं तमुत्सवमुद्दिश्य तनयालोकनोत्सुका ।
आगमद्गोकुले देवी वात्सल्येनान्तरान्तरा ॥ २१० ॥
सापीप्यत्सूनवे स्तन्यं स्नेहतः प्रस्नुतस्तनी ।
मुहुरुल्लापयांचक्रे विविधोल्लापपण्डिता ॥ २११ ॥
ध्रुवं भाग्यैरहं त्यक्ता त्यक्तानेन सुतेन यत् ।
इति स्वमन्तर्निन्दन्ती नन्दपत्नीमुवाच सा ॥ २१२ ॥
त्वं यशोदे त्रिभुवनस्त्रीणामुपरि वर्तसे ।
तनयेनामुना नित्यमङ्कस्ते यदलंकृतः ।। २१३ ॥
कुलं वा गोकुलं वापि रम्यं यत्रैष खेलति ।
प्रशंस्यैवं यशोदा सा मन्थरं मथुरां ययौ ।। २१४ ।।
वैरं पूर्वमथ स्मृत्वा पूतना शकुनिस्तथा ।
विद्याधर्यावुपागत्य विष्णोर्निधनमीषतुः ॥ २१५ ॥
ते च देवतया मृत्युं लम्भिते कृष्णगृह्यया ।
स एव निधनं गच्छेदिच्छेदत्यहितं सताम् ॥ २१६ ॥
रिङ्खन्नस्खलितं कृष्णः कण्ठीरवकिशोरवत् ।
गोकुले दधिदुग्धानां हठाद्भाण्डान्यलूलुठत् ।। २१७ ॥
सोऽभूत्तथापि गोपालप्रेयसीनामतिप्रियः ।
पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ।। २१८ ॥
सप्ताष्टहायनः सोऽथ यशोभिर्व्यानशे दिशः।
चम्पकप्रसवो नव्यः स्फुटन्परिमलैरिव ॥ २१९ ॥
गुणैर्लोकोत्तरैस्तैस्तैरिदानीं नन्दनन्दनः।
विजयी गोकुलेऽस्तीति पप्रथे मथुरान्तरे ॥ २२० ॥
कीर्तिकोलाहलं श्रुत्वा तं सूनोः कंसशङ्कितः ।
हिताय प्राहिणोच्छौरिर्बलदेवं तदन्तिके ।। २२१॥
कृष्णः प्रीत्या तमद्राक्षीदविदन्नपि बान्धवम् ।
जन्मान्तरकृतः स्नेहः प्रह्वयत्येव मानसम् ॥ २२२ ॥
बलदेवान्तिकेऽध्यैष्ट स कलाः सकला अपि ।
उपाध्यायश्च बन्धुश्च स तस्य द्वयमप्यभूत् ॥ २२३ ।।
अगस्तेः पिबतो वार्धीन्कालो यावानभूत्पुरा ।
तावानेव चतुर्विद्याबोधे कृष्णस्य बुध्यताम् ॥ २२४ ॥
रम्ये वपुषि कृष्णस्य बाल्ययौवनयोः समम् ।
त्रुट्यच्च वर्धमानं च प्रभुत्वमभवत्तदा ॥ २२५ ॥
अभिरूपेण रूपेण जितः कृष्णेन मन्मथः ।
जघान स तु गोपस्त्रीः कोपात्तत्रानुरागिणीः ॥ २२६॥
ताडिताः पञ्चभिर्बाणैः पञ्चबाणेन तास्तदा ।
कृष्णमेव न्यषेवन्त तज्जेतारमहर्निशम् ॥ २२७ ॥
काश्चिदत्युच्चरोमाञ्चाः सानन्दाश्चन्दनद्रवैः ।
मांसलेऽसस्थले तस्य लिलिखुः पत्रवल्लरीः ॥ २२८ ॥
उच्चित्य शिखिपुच्छानि प्रोच्छलत्पुलकाङ्कुराः ।
चक्रुः काश्चन कृष्णस्य मौलिमण्डनमद्भुतम् ॥ २२९ ॥
वेपमानकराः काश्चिन्नवैः कुसुमदामभिः ।
वक्षःखलमलंचक्रुस्तस्य श्रीवत्सलाञ्छितम् ॥ २३० ॥
गोप्यस्ताः परितः कृष्णमण्डलीबन्धबन्धुरम् ।
प्रदत्ततालमुन्मीलल्लीलं हल्लीसकं जगुः ॥ २३१ ॥
रतिस्तावत्सुखं तावत्तावद्दानं दधुः पृथु ।
गोपालसुदृशां तासां यावत्कृष्णस्य दर्शनम् ॥ २३२ ॥
ताभिरध्यापितः सोऽथ ललितं मन्मथं तदा ।
यथा कामकथावादे पराजीयन्त तेन ताः ॥ २३३ ।।
बन्धुना बलदेवेन रक्षमाणः प्रतिक्षणम् ।
इति कृष्णः सुखं क्रीडन्गोकुले कालमत्यगात् ॥ २३४ ॥
इतश्च श्रीशिवादेवी स्थिता शौर्यंपुरे पुरे ।
एकदा कार्तिके कृष्णद्वादश्यां क्षणदात्यये ।। २३५ ॥
गर्भावतारपिशुनान्महास्वप्नांश्चतुर्दश ।
दृष्ट्वा चित्रागते चन्द्रे निद्रामुद्रां व्यमुञ्चत ॥२३६।। (युग्मकम्)
प्रहृष्टा यावदाचष्टे देवी देवाय तान्प्रगे।
क्रोष्टुकिस्तावदागच्छच्चारणश्रमणोऽपि च ॥ २३७ ।।
तान्निशम्य वरस्वप्नांस्तत्फलं तावशंसताम् ।
तीर्थंकराणां जननी राजन्नेतान्समीक्षते ॥ २३८ ।।
ततो जगन्नयत्राणव्यवसायविशारदः ।
लोकोत्तरप्रभावोऽयं भावी तीर्थंकरः सुतः ।। २३९ ॥
श्रुत्वेति राजा राज्ञी च पीवरां प्रीतिमीयतुः ।
ज्ञानिनो बहुमानेन नत्वा व्यसृजतां च तौ ॥ २४० ।।
देवी विशेषलावण्यं देवश्चाभ्युदयं परम् ।
देशश्च दुरितध्वंसं लेभे गर्भानुभावतः ॥ २४१ ॥
श्रावणे श्वेतपञ्चम्यां चन्द्रे चित्रागते निशि ।
लग्ने सौम्यग्रहैर्दृष्टे शिवया सुषुवे सुतः ।। २४२ ।।
तदानीं दिक्कुमारीभिः सूतिकर्म विनिर्ममे ।
स्नात्रं चक्रे च शक्रेण तस्येत्यौपमाप्ततः ॥ २४३ ॥
कुन्ति देवि मयापीदमीक्षितं चक्षुपा पुनः ।।
यद्देवैर्यादवेन्द्रस्य रत्नैः सौधमपूर्यत ॥ २४४ ॥
आजन्मनाप्तसौख्यानामपि प्राणभृतां तदा ।
जातमात्रेऽप्यहो तत्र सुखाद्वैतमजायत ॥ २४५॥
तस्य जन्मोत्सवे देवः कारागारमशोधयत् ।
अमारिं (१) घोषयामास दीनांश्चोपचकार च ॥ २४६ ॥
सोऽरिष्टानि पिनष्टि स्म तदा नेमिर्लता इव ।
अरिष्टनेमिरित्यस्य ततो नाम विनिर्ममे ॥ २४७ ॥
उपास्यमानः स सुरैर्नन्द्यमानश्च यादवैः ।
पाल्यमानश्च धात्रीभिः सुखं सुखमवर्धत ।। २४८ ॥
निर्ममे शौरिणा पूर्वं क्षणे जातेऽपि नोत्सवः ।
मथुरायां ततश्चक्रे तज्जन्मनि विशेषतः ॥ २४९ ॥
आगतो देवकीं द्रष्टुं कंसः शौरिगृहेऽन्यदा।
छिन्नकनासिकां कन्यां क्रीडन्ती तामुदक्षत ॥ २५० ॥
तामालोक्य मुनेर्वाक्यं स्मृत्वा सोऽभूद्भयातुरः ।
न मृत्युसदृशं दुःखं न संतोषसदृक्सुखम् ॥ २५१ ॥
स सौधमेत्य पप्रच्छ कंचिन्नैमित्तिकं रहः ।
मुनिना यन्मयि प्रोक्तं तत्सत्यं किमुतान्यथा ॥ २५२ ॥
सोऽवोचन्नृप तत्सत्यं नान्यथा मुनिभाषितम् ।
जीवन्नेव तवारातिर्देवक्याः सप्तमः सुतः ॥२५३ ॥
न वेद्मि कचिदस्तीति ज्ञानोपायं तु ते ब्रुवे ।
प्रदीपेनेव ते वैरी येनावश्यं प्रकाश्यते ॥ २५४ ॥
वपुष्मानिव दर्पोष्माश्यामलोविन्ध्यबान्धवः ।
ऊर्जस्विर्जितो यस्ते दुष्टोऽरिष्टाभिधो वृषः ॥ २५५ ॥
यश्चास्ति भृशमभ्यस्तदौःशल्यः केशिसंज्ञकः ।
लोकोपद्रवनिशूकः शूकलस्ते तुरङ्गमः ॥ २५६ ॥
एतावानीय दीनत्वमुद्दाममदमेदुरौ ।
मुच्येतां मधुरापुर्या बहिःस्वच्छन्दचारिणौ ॥ २५७ ॥
तावुभाविभवन्मत्तौ हेलया यो हनिष्यति ।
केसरीवान्तकृत्तेऽसौ राजकुञ्जर नान्यथा ॥ २५८ ॥
शार्ङ्गं यदस्ति ते धाम्नि दुःस्पर्शमितरैर्जनैः ।
तस्याधिज्यस्य यः कर्ता प्राणहर्ता तवापि सः ॥ २५९ ॥
शार्ङ्गं तु शार्ङ्गपाणेस्तद्भविष्यति भविष्यतः ।
एतत्त्वादिष्टमुत्कृष्टज्ञानैर्मुनिवरैः पुरा ॥ २६० ॥ (युग्मम्)
मल्लस्ते प्रतिमल्लो यः शूरश्चाणूरसंज्ञकः ।
यस्ते(स्तं) हन्ता स ते हन्ता मा कृथाः कंस संशयम् ॥२६१
निर्दयः. २. दुविनीताश्वः. पाण्डवचरितम् ।
गजौ स्तस्ते श्रियः पद्मौ- पद्मोत्तरेतिसंज्ञको ।
एतयोर्जीवितान्तस्य यो विधाता तवापि सः॥ २६२ ।।
वास्तव्यो योऽस्ति कालिन्द्याः कालियो नाम पन्नगः ।
यस्तस्य दमकः स्वैरं प्राणानां गमकः स ते ।। २६३ ।।
श्रुत्वेति प्रोल्लसत्कम्पः कंसः कातरलोचनः ।
तं विसृज्य समादिक्षतूर्णमामन्त्र्य मन्त्रिणम् ।। २६४ ॥
स्वादुभिर्मृदुभिर्घासैरेतावानीय पीय(न)ताम् ।
वृषाश्वौ स्वेच्छया मुञ्च यमुनावनराजिपु ।। २६५ ।।
चाणूरमुष्टिको पुष्टिमुपानय रसायनैः ।
यथा नियुद्धे जीयेते तौ च मल्लौ न केनचित् ॥ २६६ ॥
मन्त्रिणा प्रौढमन्त्रेण यथादिष्टमनुष्ठितम् ।
निस्तन्द्रचन्द्रशालिन्या शरदा च विजृम्भितम् ।। २६७ ॥
जगुर्जगच्चमत्कारि कलं कलमगोपिकाः ।
मदः सप्तच्छदामोदैः सहैव करिणामभूत् ॥ २६८ ॥
सरोजानां रजःपुजैरयुज्यन्त जलाशयाः ।
दिगन्तास्तु व्ययुज्यन्त पयोदानां कदम्बकैः ।। २६९ ॥
गोष्ठोपकण्ठे सोत्कण्ठगोपीयुक्तोऽथ रासकैः ।
चन्द्रिकोन्निद्रचन्द्रासु कृष्णश्चिक्रीड रात्रिपु ॥ २७० ॥
दिवसे तु स धेनूनां वृन्दं वृन्दावने वने ।
पालयामास गोपालवालकैः परिवारितः ॥ २७१ ॥
अथ कूलेषु कालिन्द्यास्तदा स्वच्छन्दचारिणौ ।
अरिष्टकेशिनौ दुष्टौ क्रमागोष्ठमुपेयतुः ॥२७२ ।।
तत्र तौ चक्रतुर्लोक सशोकमुपमर्दनात् ।
पयांसि पपतुस्तक्रमन्थनीश्च ममन्थतुः ।। २७३ ॥
आभ्यां वृषतुरङ्गाभ्यां चक्रे गोकुलमाकुलम् ।
वत्सः कृष्णोऽत्र नास्तीति नन्दः खेदमुपासदत् ॥ २७४ ॥
कलमः शालिधान्यविशेष काव्यमाला ।
गोपेभ्यस्तदुपश्रुत्य वनगोष्ठमुपागतः ।
दुर्नयप्रह्वमाह्वास्त कृष्णस्तं दुर्मदं वृषम् ॥ २७५ ॥
सोऽपि शृङ्गे महाभीष्मे रोषादाधाय संमुखे ।
अधावत्कृष्णमाहन्तुं यमसैरिभसंनिभः ।। २७६ ॥
मृणालकन्दलीमोटं मोटयित्वा शिरोधराम् ।
निष्ठुरं मुष्टिना हत्वा सोऽन्तं कृष्णेन लम्भितः ॥ २७७ ॥
यः कृष्णे मुष्णति प्राणांस्तस्याभूद्विधुरो ध्वनिः ।
स एवासीत्तदा नान्दी कंसविध्वंसनाटके ॥ २७८ ॥
कृष्णे जयिनि गोपीनां योऽभूज्जयजयारवः ।
तदथ(त्र) स प्रबन्धस्य प्रथमः पणवोऽभवत् ॥ २७९ ॥
तदैवाथ जनोन्माथप्रवृत्तं वीक्ष्य केशिनम् ।
कृष्णस्तमक्षरै रूक्षैः साक्षेपमिदमभ्यधात् ।। २८० ॥
दुर्विनीतं विनेतारं किं रे मां न निरीक्षसे ।
अनाथमिव मथ्नासि यदेवं मम गोकुलम् ॥ २८१ ।।
इत्याक्षिप्तः स कृष्णेन खुरैः कुद्दालयन्महीम् ।
दशनैर्दशनान्पिंषन्नाभिमुख्यमुपागमत् ॥ २८२ ॥
प्रक्षिप्य कूर्परं तस्य यमदण्डोपमं मुखे ।
कृप्ता(त्ता)स्तजीर्णपटवत्पाटयामास लीलया ॥ २८३ ॥
अञ्चलोत्तारणैर्वृद्धास्तरुण्यस्त्ववगृहनैः ।
तस्य प्रचक्रिरे घोषयोषितः पारितोषिकम् ।। २८४ ॥
नन्दनन्दनचापल्यकर्तृकोऽरिष्टकेशिनोः ।
वधः शशंसे कंसाय घोषान्तश्चारिभिश्चरैः ॥ २८५ ॥
तं निशम्य मुनेर्वाचं सत्यां निश्चित्य सोऽन्यदा।
आहूयामिदधेऽमात्यं मृत्युभीतो बृहस्पतिम् ॥ २८६ ॥
अस्त्यमात्य ममारातिः सानन्दं नन्दगोकुले ।
ततस्तद्ग्रहणोपायं निरपायं विचिन्तय ।। २८७ ॥
पाण्डवचरितम् ।
बृहस्पतिरथोवाच देव देवसभोपमम् ।
रङ्गं शाार्ङ्गाधिरोपाय निर्मापय मनोरमम् ।। २८८ ।।
आहूयतां च भूपालाश्चापारोपमहोत्सवे ।
विहायाहवशौण्डीरान्दशार्हान्सुतवत्सलान् ॥ २८९ ॥
इदं चाघोष्यतां चापं यः समारोपयिष्यति ।
तस्मै कंसः स्वसारं स्वां सत्यभामां प्रदास्यति ॥ २९० ॥
निजैरनुत्सुकैः स्थेकैः(यैः) शौण्डीरैरद्भुतैर्भटैः ।
भृतासिदण्डैः कोदण्डमण्डपः परिवेश्यताम् ॥ २९१ ॥
आयातश्च ततश्चापसमारोपणकर्मणि ।
स तैपस्तवारातिर्जीवग्राहं ग्रहिष्यते ॥ २९२ ॥
इत्यासूत्रितमन्नं तं मन्त्रिणं मथुरापतिः ।
त्वमेवेदं विधेहीति सप्रसादं समादिशत् ॥ २९३ ॥
मन्त्रिणानुष्ठिते तस्मिन्मिलत्सु क्षोणिभर्तृषु ।
इमं वृत्तान्तमज्ञासीदनाधृष्टिर्बलाग्रजः ॥ २९४ ॥
छन्नं शौर्यपुरात्सोऽथ प्रस्थितो मथुरां प्रति ।
अवात्सीहन्धुवात्सल्यागोकुलं नाकुलं निशि ॥ २९५ ॥
बलं बलादनुज्ञाप्य कृष्णमादाय गच्छतः ।
प्रातर्द्रुमाकुले मार्गे वटेऽस्य स्यन्दनात्खलः(न्) ॥ २९६ ॥
रथं महारथो नेतुं नालङ्घेष्ठो(लं प्रेष्ठो) यदाग्रतः ।
तदा पूर्वामिवोन्मूल्य कृष्णो दूरेऽक्षिपद्वटम् ॥ २९७ ।।
वीक्ष्य विष्णोर्भुजस्थामारिष्टोनाधृष्टिरञ्जसा ।
तमालिलिङ्ग सर्वाङ्गं भूयो भूयश्चुचुम्ब च ॥ २९८ ।।
उपेत्य मथुरां सोऽथ पुष्पप्रकरदन्तुरम् ।
मुक्तमुक्ताफलोच्चूलं स प्रापच्चापमण्डपम् ॥ २९९ ॥
उच्चमञ्चस्थितान्पश्यन्स्वःपतीनिव भूपतीन् ।
रथं मुक्त्वा बहिस्तत्र स विवेश सकेशवः ॥ ३०॥
1. वितानम्. काव्यमाला ।
मण्डपान्तकृतार्थस्य धन्वनोन्तर्निषेदुषीम् ।
निर्जितामर्त्यरामां स सत्यभामां न्यभालयत् ॥ ३०१॥
निपेतुः सत्यभामायाः पीवरांसस्थले हरौ ।
मुग्धाः स्निग्धा विदग्धाश्च पञ्चेषुविवशा दृशः ॥ ३०२ ॥
कालिङ्गवाङ्गकाश्मीरकीरप्रभृतिभूमिपाः ।
आगम्य धनुरायम्य स्वं स्वं मञ्चं पुनर्ययुः ॥ ३०३ ॥
हसित्वा ताननाधृष्टिर्धुष्टो धन्वजिघृक्षया ।
व्यापारितकरो दूरात्पतति स्म विसंस्थुलः ॥ ३०४ ॥
भग्नमाणिक्यमुकुटः स्फुटन्मुक्तालतश्च सः ।
सतालं सत्यभामाया वयस्याभिरहस्यत ॥ ३०५॥
कोदण्डं चण्डदोर्दण्डकोपादारोप्य तं तदा ।
विष्णुरुत्थापयत्तासां हास्यस्थानेऽद्भुतं रसः(सम्) ॥ ३०६ ॥
कोऽयं दुर्वारदार्वीय इति चिन्ताकुले जने ।
पत्यामुना च भामायां कृतार्थंमन्यचेतसि ॥ ३०७ ।।
प्रसह्य गृह्यतामेष चापारोपणलम्पटः ।
मा स्म यासीदसौ येन रुष्टोऽस्मै मथुरापतिः ॥ ३०८ ॥
इति कंसटोत्तंसहक्कां केशिनिसूदनः ।
धीरं शुश्राव गोमायुनिनादमिव केसरी॥३०९॥(त्रिभिर्विशेषकम्)
अनाधृष्टिः पुरस्कृत्य तदानीमकुतोभयः ।
नि(नी)रागं तान्भटान्मित्त्वा कृष्णो भानुर्घनानिव ।। ३१० ॥
याति यात्येष गृह्णीत गृह्णीताह्वायसादराः ।
इति ब्रुवाणाः सुभटा या(वद्धावन्ति पृष्ठतः ॥ ३११ ॥
रथाश्ववेगतस्तावदनाधृष्टिर्जनार्दनम् ।
गोष्ठे वलान्तिके मुक्त्वा ययौ शौरिपुरे स्वयम् ॥ ३१२ ॥
नायमस्मादृशां साध्य इत्युपागत्य ते भटाः ।
कंसायावेदयामासुस्तस्योर्जितमनुत्तमम् ॥ ३१३ ॥
तदाकर्ण्य भृशं कीर्णज्वलिताङ्गारदुःसहम् ।
मनोदुःखं वहन्कंसः प्रकृतिव्यत्ययं ययौ ॥ ३१४ ॥
आराध्यमप्यनाराध्यं गुरुमप्यगुरुं तदा ।
मथुराधिपतिर्मेने प्रत्यासन्नविपत्तिकः ॥ ३१५ ।।
कोपप्रसादावस्थाने व्यवस्थाया व्यतिक्रमम् ।
न्यायस्यापि विपर्यास स चक्रे मरणातुरः ।। ३१६ ॥
नियुद्धच्छद्मना पेष्टुमरिष्टारिं स दुष्टधीः ।
चापस्योत्सवमारोप्य पुनर्भूपानजूहवत् ॥ ३१७ ॥
वसुदेवोऽथ दुर्भावं तस्य ज्ञात्वाप्तमानुषात् ।
रामाय दापयामास सर्वं शिक्षा मनोरमाम् ॥ ३१८ ॥
समुद्रविजयादीनां सर्वेषामग्रजन्मनाम् ।
शौरिर्विज्ञापयामास कंसाचरणमादितः ॥ ३१९ ॥
अजूहवच्च शौरिस्तान्कृष्णावष्टम्भहेतवे ।
अन्यैव हि मनःस्फूर्तिर्गुरुप्वभ्यर्णवर्तिपु ॥ ३२० ॥
अथ कंसाज्ञया राज्ञः प्रतीहारो यथोचितम् ।
तदोपदेशयामासुः पृथग्मश्चेपु गौरवात् ॥ ३२१ ॥
ततः क्षौमकृतोल्लोचं मञ्चमेकं मनोरमम् ।
कसोऽपि स्वयमध्यास्त विमानमिव वासवः ॥ ३२२ ॥
तदाह दशदिक्पालसमाः शौरिनिमन्त्रिताः ।
न्यवेश्यन्त कृतोचले मञ्चेः कंसेन सादरम् ॥ ३२३ ॥
अथालोक्य नृपान्कांश्चिद्गच्छतो गोकुलाध्वना ।
अवोचत बलं विष्णुर्मल्लालोकनकौतुकी ॥ ३२४ ॥
मथुरामार्य गच्छावः पश्यावो मल्लसंयुगम् ।
प्रसीद मान्यथा कार्षीः पूर्यतां मे मनोरथः ॥ ३२५ ॥
एतस्य पितुरादेशमाख्यातुं समयोऽधुना ।
इति रामोऽपि निश्चित्य यशोदामभ्यधात्तदा ॥ ३२६ ॥
मथुरां गन्तुमिच्छावस्ततो नौ स्नपय द्रुतम् ।
सा प्रत्यूचे न युवयोः स्वपनावसरो मम ॥ ३२७ ॥
क्रोधारुणाक्षः साक्षेपं बलस्तां प्रत्यभाषत ।
अरे दासि न जानासि स्वात्मानमतिर्गर्विता ॥ ३२८ ॥
तामित्युक्त्वा करे धृत्वा कृष्णं कृष्णमुखं रुषा ।
स्नानाद्यह्नाय कालिन्दी कालिन्दीकर्षणो ययौ ॥ ३२९ ॥
उपनीरं स वानीरतले विष्णुमभाषत ।
वत्स विच्छायवदनः किमिदानीं विलोक्यसे ॥ ३३० ॥
हरिः प्रत्याह दासीति किमात्थ मम मातरम् ।
मातुर्यकारमाकर्ण्य सकर्णो हि क्षमेत कः ॥ ३३१ ॥
रोहिणीतनयः कृष्णं मूर्ध्नि चुम्बन्नवोचत ।
यशोदा नैव ते माता न च नन्दः पिता तव ॥ ३३२ ॥
देवकाङ्गभवा देवी देवकी जननी तव ।
स्तन्यं या तुभ्यमभ्येत्य ददाति स्मान्तरान्तरा ॥ ३३३ ॥
पिता च वसुदेवो नौ सुभगः खेचरार्चितः ।
कुशााधिपतिर्यस्य समुद्रविजयोऽग्रजः ॥ ३३४ ॥
ममार्य किमु सोदर्य इत्युक्तो विष्णुना बलः ।
अवदद्वत्स बन्धुस्ते वैमात्रेयोऽस्ति केवलम् ॥ ३३५ ॥
उद्दामबहुधामानो यादवा ज्ञातयस्तव ।
भरतार्धपतिस्त्वं च ज्ञानिभिः कथितोऽसि नः ॥ ३३६ ॥
ईदृशि त्यादृशां जन्म न गोपालकुले भवेत् ।
मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ॥ ३३७ ॥
देवकीवसुदेवाभ्यां वत्सवात्सल्यतः परात् ।
पितृभ्यां गोत्रसर्वस्वं गोपितोऽसि भयादिह ॥ ३३८॥
कृष्णः पप्रच्छ संभ्रान्तः कुतो भयममूदृशाम् ।
येन क्षिप्तोऽस्मि पित्रास्मिन्गोकुले गोपसंकुले ॥ ३३९ ॥
७३
ततः कंसस्य वृत्तान्तं व्याजहार हरेर्बलः ।
कर्षकेणेव सद्बीजं गुप्तं काले फलेद्वचः ।। ३४०॥
अथ बन्धुवधोह्रद्धरोषोऽरिष्टारिरभ्यधात् ।
सर्वे मे सिद्धगन्धर्वाः प्रतिज्ञां शृणुत क्षणम् ॥ ३४१ ॥
सर्वेषां पश्यतां राज्ञां पाप कंसं न हन्मि चेत् ।
ध्रुवं तदाहं गृह्येयं तदीयभ्रूणहत्यया ॥ ३४२ ॥
रोहिण्यङ्गरुहो रोहत्पुलकाङ्कुरदन्तुरः ।
ततो भ्रातरमालिङ्गय निजगाद प्रमोदतः ।। ३४३ ॥
साधु वत्स त्वमात्मीयकुलस्य तिलकायितम् ।
भूभृदाक्रमणोर्जस्वी तेजो यस्य रवेरिव ॥ ३४४ ॥
तदिदानीमिह स्नात्वा व्रजावो मथुरां प्रति ।
इत्युदीर्य बलः कृष्णं निनाय यमुनाजले ॥३४५ ॥
तत्र दृष्टिविषः कालः कालियो नाम पन्नगः ।
तीरवासी जले क्रीडन्कृष्णं दष्टुमधावत ॥ ३४६॥
निःशूकं दन्दशूकं तं लोकः स्फारस्फटोत्कटम् ।
हरिं च बालमालोक्य हाहाकारपरोऽभवत् ॥ ३४७ ॥
सोऽतिभीष्मो विषोल्काभिर्यावद्दशति केशवम् ।
असौ तमग्रहीतावल्लीलया जलकन्दले ॥३४८॥
लीलाकमलनालेन नस्तयित्वा(?) जनार्दनः ।
आरुह्य वाहयामास तमहि जात्यवाजिवत् ॥ ३४९ ॥
दुर्दमं दम्यमानं तं पन्नगं वीक्ष्य विस्मिताः ।
तस्थुर्धृत्वा विमानानि नभोभागे नभश्चराः ॥ ३५० ॥
कृष्णेन दृढमूरुभ्यामाक्रम्य दमितस्तथा ।
स यथा सर्वथा जज्ञे निर्विषो मरणावधि ॥ ३५१ ॥
प्रमीतप्रायमालोक्य लोकोत्तरकृपापरः ।
दूरादुत्सृज्य तं विष्णुः स्नात्वा तीरमुपागमत् ॥ ३५२ ॥
'नाशयित्वा' इति भवेत्; 'नष्टयित्वा' इति वा नासधातुकल्पनेन भवितुमर्हति. . काव्यमाला।
यमुनातीरवास्तव्यैर्वीतविघ्नैस्तपस्विभिः ।
स यथार्थाभिराशीभिर्रभ्यनन्द्यत भूरिशः॥ ३५३ ॥
तेन नव्यावदातेन सानन्दैर्नन्दनन्दनः ।
घोषादागत्य वेगेन गोपालैः पर्यवार्यत ॥ ३५४ ॥
गायद्भिः कृष्णगीतानि वादयद्भिश्च शृङ्गिकाः ।
तैः समं रामगोविन्दौ चेलतुर्मथुरां प्रति ॥ ३५५ ॥
विस्मयोत्फुल्लनयनैर्वीक्ष्यमाणः पुरीजनैः ।
मथुरागोपुरं गोपैरुपेतः प्राप केशवः ॥ ३५६ ।।
अतुल्ययोः प्रतोल्यन्तर्विशतो रामकृष्णयोः ।
कंसादिष्टमहामात्रप्रयुक्तौ मदविह्वलौ ।। ३५७ ।।
पद्मोत्तरो हरिं हन्तुं चम्पकश्च हलायुधम् ।
उद्धरौ सिन्धुरौ प्रेतपतिप्रायावधावताम् ॥ ३५८ ॥
लीलायितशतैस्तैस्तैः पद्मोत्तरमनुत्तरैः ।
कुशलो गजशिक्षासु खेलयामास केशवः ॥ ३५९ ॥
उत्खाय दन्तमुशले सलीलं तस्य दन्तिनः।
निष्ठुरैर्मुष्टिभिर्विष्णुर्ददौ कीनाशदासताम् ॥ ३६० ॥
कण्ठीरव इवोत्प्लुत्य भित्त्वा कुम्भस्थलं बलात् ।
हन्ति स्म रौहिणेयोऽपि निष्कम्पश्चम्पकद्विपम् ॥ ३६१ ॥
विपुलं वालुकाकीर्ण विकीर्णकुसुमोत्करम् ।
सश्रीकमुत्पताक तौ जग्मतुमल्लमण्डपम् ॥ ३६२ ॥
रङ्गं विशति गोविन्दे निवृत्तविषयान्तराः।
लोकस्य विस्मयस्मेरा निपेतुर्युगपद्दृशः ॥ ३६३ ।।
स एष कोशिकीनाशः स एष वृषमर्दनः ।
नन्दस्य नन्दनः सोऽयं सोऽयं सर्पस्य दर्पहा ।। ३६४ ॥
गोपालतिलकः सोऽयं सोऽयं सिन्धुरघातकः ।
श्लाघ्यमानो जनैरेवमस्दर्श्यत परस्परम् ॥ ३६५ ॥
अपरं जनमुत्सार्य सोत्साहः सपरिच्छदः ।
आरुरोह दुरारोह मञ्चमेकं जनार्दनः ।। ३६६ ॥
अथाभ्यधत्त तं रामो वत्स सोदर वत्सल ।
व्यापार्यतामितो दृष्टिविपदृष्टिपिजने ॥ ३६७ ॥
इमं किरीटकेयूरहारकुण्डलमण्डितम् ।
उच्चैः सिंहासनासीनं पश्य कसं स्ववैरिणम् ।। ३६८ ॥
असौ ते बन्धुविध्वंसनवनाटकसूत्रभृत् ।
तदस्य दर्श्यतामङ्को मृत्युनामाद्य नूतनः ॥ ३६९ ।।
इतोऽपि ज्ञातिवर्ग स्वं दृशा स्वीकुरु सान्द्रया।
असौ तव पिता ज्येष्ठः समुद्रविजयो नृपः ॥ ३७० ।।
अयं च वसुदेवाख्यः ख्यातो जनयिता तव ।
अक्रूराधास्तवैतेऽत्र वन्धवः शौर्यसिन्धवः ॥ ३७१ ॥
इतश्चान्येऽपि राजानो जानन्तस्त्वामुदित्वरम् ।
विस्मयेन निरीक्षन्ते निरीक्ष्यन्तां त्वयाप्यमी ।। ७२ ।।
कंसे च ज्ञातिवर्गे च द्विष्टे प्रीतिपरेऽप्यथ ।
क्रोधरूक्षा बहुस्नेहमुग्धाश्चासन्दशौ हरेः ॥ ३७३ ॥
समुद्रविजयो राजा कृष्णं नेत्रपुटैः पिबन् ।
वसुदेवं प्रति स्निग्धां मुदा गिरमुदाहरत् ॥ ३७४ ॥
वत्स प्रसेदुरस्माकमद्यैव कुलदेवताः ।
सुतस्त्रैलोक्यमाणिक्यं यदसौ ददृशे दृशा ॥ ३७५ ॥
इयन्तं समयं यावद्वञ्चिते मम लोचने ।
वत्सकृष्णः सतृष्णाभ्यां यन्नैताभ्यामपीयत ।। ३७६ ॥
अथाभाष्यत कंसेन हरिं वीक्ष्य बृहस्पतिः ।
शत्रावमुत्र जैत्रे स्युर्वाचः कथमृषेर्मृषा ॥ ३७७॥
अरक्ष्यत कथं चासौ मयि वैरिणि शौरिणा ।
अथवा सति चाणूरे रक्षितोऽपि न रक्षितः ।। ३७८ ॥
इति कंसे वदत्येवं तुङ्गजूटोद्भटाकृती ।
चन्दनवलिप्ताङ्गौ न्यस्तांसस्थासकौ तदा ॥ ३७९ ॥
दृढं चण्डातको चण्डभुजौ पुष्टवपुष्टरौ ।
अध्यूषतुः सभामध्ये हृष्टौ चाणूरमुष्टिकौ ॥३८०॥ (युग्मम्)
ततोऽभ्यीभवन्मृत्युः कातरो मथुरापतिः ।
नियुद्धायादिशदूराच्चारं दृष्टिसंज्ञया ॥ ३८१ ॥
कृष्णं कटाक्षयन्दृष्टया चाणूरः क्रूरमानसः ।
वाचमुच्चारयांचके राजचक्रस्य पश्यतः ।। ३८२ ।।
योऽत्रास्ति क्षत्रियोत्तंसः शूरंमन्यश्च यः किल ।
अधुना मल्लयुद्धेन स मया सह युध्यताम् ।। ३८३ ।।
इत्याक्षिप्तो हरिः क्षिप्रं फालयो(लिनो)त्तीर्य मञ्चतः ।
चाणूरस्याग्रतो भूत्वा प्रगल्भमिदमभ्यधात् ।। ३८४ ॥
एषोऽस्मि क्षत्रियोत्तंसः शूरमान्य तथास्म्यहम् ।
तवास्मि रे कृतान्तश्च विपक्षक्षोददीक्षितः ॥ ३८५ ।।
अथावोचत चाणूरः सिन्दूरारुणलोचनः ।
अरे रे बालगोपाल किमलीकं प्रगल्भसे ।। ३८६ ॥
नाद्यापि ते मुखस्यास्य स्तन्यगन्धो निवर्तते ।
ततस्तपन्ते गात्रेऽस्मिन्पतन्तो मम मुष्टयः ॥ ३८७ ॥
पयःपानेन पीनत्वमानीतो गोष्ठतर्णकः ।
रे कक्षाकोटरे क्षिप्तो मया क्षिप्रं विनङ्क्ष्यसि ॥ ३८८ ॥
अरिष्टारिरभापिष्ट ततो धीरोचितं वचः ।
विकत्थनं तदापीत्थं मल्लराज न राजते ॥ ३८९ ।।
आजन्मविहिताभ्यासः क त्वं मल्लमतल्लिका ।
गोपालकुलविद्यानां पारदृश्वा क्व वास्म्यहम् ।। ३९० ॥
किंत्वनेन नियुद्धेन द्रक्ष्यतेऽन्तरमावयोः ।
चण्डेन पवनेनैव तृलपूलनगेन्द्रयोः ॥ ३९१ ॥
+
इत्युक्त्वा स भुजास्फोटं केशवे वल्गु वल्गति ।
हाहाकारपरो लोकः परस्परमभाषत ॥ ३९२ ॥
तरुणः क नु चाणूरः क्व चासौ गोकुलार्भकः ।
न युक्तमनयोर्युद्धं वृषतर्णकयोरिव ॥ ३९३ ॥
एवमाकर्ण्य लोकोक्तिं कंसः कोपादवोचत ।
असौ यदृच्छालापेषु दक्षो दुःशिक्षितो जनः ।। ३९४ ।।
इह केन समाहूतावायातो गोपदारको ।
दुग्धमत्तौ स्वयं खेतौ युध्येते को निषेधति ।। ३९५ ॥
इत्याक्षेपवचः श्रुत्वा शूरसेनमहीपतेः ।
लोकस्तदा तदाकृतं मत्वा मौनमशिश्रियत् ।। ३९६ ॥
गर्वात्कुर्वन्भुजास्फोट स्फोटयन्निव रोदसी ।
ततश्चाणूरमल्लोऽपि नियोद्धमुपचक्रमे ।। ३९७ ॥
तयोर्नवनवोन्मीलन्मल्लविज्ञानदर्शनः ।
तदेकताना राजानो जाताश्चित्रार्पिता इव ॥ ३९८ ।।
वाल्यचापल्यललितैहरेर्मल्लातिशायिभिः ।
समुद्रविजयादीनां तदा कन्दलिता मुदः ।। ३९९ ॥
विष्णुर्विज्ञाननिष्णातस्तदानी पाददर्दुरैः ।
कंसस्य मनसा सार्धं कम्पयामास मेदिनीम् ।। ४०० ।।
भीतस्ततो हरि हन्तुमपरं मथुरापतिः ।
दुष्टं मौष्टिकमादिक्षन्नास्त्यकृत्यं दुरात्मनाम् ॥ ४०१॥
श्रीपतिं प्रतिधावन्तं दृष्ट्वा मौष्टिकमादरात् ।
सीरपाणिरभाषिष्ट रोषपाटललोचनः ॥ ४०२ ॥
रेरे दुष्ट दुराचार योद्धमुत्तिष्ठसे कथम् ।
चण्डदोर्दण्डकण्डूतिमेष व्यपनयामि ते ॥ ४०३ ॥
इत्युदीर्य समुत्तीर्य मञ्चाद्रोमाञ्चितो हली ।
द्राग्योधयितुमारेमे स मुष्टामुष्टि मौष्टिकम् ।। ४०४ ॥
आहतो हृदये विष्णुश्चाणूरेणाथ मुष्टिना ।
यादवानां समं बाष्पैः पतति स्म भुवस्तले ॥ ४०५॥
हरिं मूर्खालमालोक्य चक्रे हाहारवं जनः ।
उच्छलन्नासनात्कंसः पुनः किलकिलारवम् ॥ ४०६ ॥
हरे पुनः प्रहाराय स स्वं मल्लं समादिशत् ।
भवेदासन्नपातानां मर्यादाया व्यतिक्रमः ॥ ४०७ ॥
स मुह्यते हरिं हन्तुं तस्मिन्नुत्सृज्य मौष्टिकम् ।
तं दृढैः कूपराघातैर्बलाव्यावर्तयदलः ॥ ४०८ ॥
अथोन्मीलितचैतन्यस्फारोजागरपौरुषः ।
उत्तस्थौ केशवः साकं यादवानां मनोरथैः ॥ ४०९ ॥
मूर्छामेघावलीमुक्तस्तेजस्तीनं वहन्हरिः ।
कंसस्य कौशिकस्येव भानुवदुःसहोऽभवत् ॥ ४१० ॥
कृष्णेन विकसद्धक्राम्भोजमोजायितं तथा ।
चाणूरेण यथा वेगात्कृतान्तस्यातिथीयताम् ॥ ४११ ॥
कंसस्य वदनाम्भोजे समुद्रविजयस्य च ।
हिमांशुश्वाहिमांशुश्च विष्णुरेकोऽप्यभूत्तदा ॥ ४१२ ॥
मृत्युमेभिरभिज्ञानात्वारिष्टादिदारिभिः ।
कंसः कक्षीकृतक्षोभः स्वान्भटानिदमब्रवीत् ॥ ४१३ ॥
रेरे गृह्णीत गृह्णीत चाणूरपरिपन्थिनम् ।
स्वयंभूमल्लमुन्मत्तमेनं गोपालबालकम् ॥ ४१४ ।।
एत'"ह्यश्च संगृह्य निग्राह्यो निर्भयैः परम् ।
चौरस्वीकारकर्तापि शीर्षच्छेद्यो हि चौरवत् ॥ ४१५ ॥
व्याजहार हरिः कंसं विकट कुटिस्ततः ।
किं दुरात्मानमात्मन्य(न)जिह्वामालोच्य नोच्यते ॥ ४१६ ॥
अस्मिन् रङ्गगृहान्त भुजसूर्योण्मणा कृतः ।
त्वया दुष्कर्मकिपाकपरीपाकोऽनुभूयताम् ॥ ४१७ ॥
इति व्याहृत्य संहर्तुं कंसं संततसोपमम् ।
हरिस्तन्मञ्चमारोहदुदयाचलसोदरम् ॥ ४१८ ॥
बालबान्धवविध्वंसस्मरणारुणलोचनः ।
तत्रारूढः पुनः प्रौढमभ्यधत्त स निर्भयः ।। ४१९ ॥
सन्ति ये तव मित्राणि सन्ति ये ते च बान्धवाः ।
राजानस्ते महौजस्काः सन्तु त्राणाय तेऽधुना ।। ४२०॥
अरे स्मरसि निस्त्रिंश जातमात्रान्ममाग्रजान् ।
निःशूकहृदयस्फारशिलास्वास्फालयिष्यसि ।। १२१॥
आसीद्दोर्दण्डशौण्डीर्यगर्वः खर्वेतरस्तव ।
तत्त्वया त्रातुमात्मानमायुधे दीयतां मनः ।। ४२२ ॥
इत्युक्ताङ्घ्रिप्रहारेण भक्त्वा मुकुटमुद्भटम् ।
क्षितौ चिक्षेप तं मञ्चाद्धृत्वा केशेषु केशिजित् ॥ ४२३ ॥
रामोऽपि युद्धमाधत्ते मौष्टिकेन समं दृढैः ।
बन्धैस्तथा यथा मश्चात्सर्वेऽप्युच्चैः प्रचक्रमुः ॥ ४२४ ॥
प्रस्विद्यद्वपमानाङ्गः साश्रुणी भयकातरे।
दिक्षु रक्षणसाकासः कंसश्चिक्षेप चक्षुषी ॥ ४२५ ॥
अत्रान्तरे कृतान्तामाः सुभटा मथुरापतेः ।
अरे पापमिमं गोपं हिंस्त हिंस्तेति वादिनम् ॥ ४२६॥
केचित्कुन्तकराः केचित्तीक्ष्णनिस्त्रिंशपाणयः ।
युगपत्ते हरिं हन्तुं स्वामिभक्त्या डुढौकिरे ॥ ४२७॥ (युग्मम्)
रुद्धं कंसभटैः कृष्णं वीक्ष्य दोःपाशपीडनात् ।
रामेण मौष्टिकश्चक्रे चाणूरपरिचारकः ।। ४२८ ॥
ततः समन्तादेकस्मादुत्पाट्य स्तम्भमुत्कटम् ।
भटान्निाटवयांचवे(?) तांस्तार्क्ष्यः पन्नगानिव ॥ ४२९॥
मध्येरङ्गं विडम्ब्योच्चैहृदि पादप्रहारतः ।
कीनाशग्रासतां निन्ये कंसः केशिविनाशिना ॥ १३०॥
१. 'निर्घाटयांचने' इति स्यात् काव्यमाला ।
कंसेन कृष्णभीतेन स्वात्मरक्षणकाङ्क्षिणा ।
जरासन्धस्य यत्पूर्वमानिन्ये सैन्यमुद्भटम् ॥ ४३१ ॥
हन्तुं कंसस्य हन्तारमहंकारवशादृशम् ।
सर्व संमर्दयामासुस्तं दुर्योधमुदायुधम् ।। ४३२ ॥
समुद्रविजयानीकैस्तद्वलं मगधेशितुः ।
प्रभञ्जनैरिव रजस्तूर्ण निन्ये विशीर्णताम् ॥ ४३३ ॥
बन्धुविध्वंससामर्षः कंसं स्वकुलपांसनम् ।
रङ्गाहहिर्निचिक्षेप धृत्वा कोशेषु केशवः ॥ ४३४ ॥
अतः किलकिलारावमुखराः शौरिवेश्मनि ।
दत्त्वा श्रीस्थानमास्थानं तस्थुः सर्वेऽपि यादवाः ॥ ४३५ ॥
हृष्टो रथमनाधृष्टिबलेन सह केशवम् ।
आरोप्य प्रापयामास शौरिर्मन्दरमादरात् ॥ ४३६ ॥
कृष्णमायान्तमालोक्य लोकोत्तरवपुःश्रियम् ।
पिबन्तो नेत्रपुटकैर्यादवाः प्रययुर्मुदम् ॥ ४३७ ।।
शौरिस्तु निकषापत्यस्खेहसोल्लासमानसः ।
प्रत्युद्दाय हृषीकेशमाशिश्लेष मुहुर्मुहुः ॥ ४३८ ॥
पादारविन्दं गोविन्दो ववन्दे ज्यायसः पितुः ।
तं सोऽप्युद्धररोमालिमालिङ्गयाङ्के न्यवेशयत् ।। ४३९ ॥
समुद्रविजयः पश्यन्नास्यतामरस हरेः ।
संपन्नसुमनोभावः स्वं चक्रे निर्निमेषताम् ॥ ४४०॥
अभ्येत्य देवकी तत्र प्रस्रवल्लिन्नकञ्चका ।
चिरेण पुत्रगात्रस्य स्पर्शसौख्यमशिश्रयत् ।। ४४१ ॥
चकार मथुरानाथमुग्रसेनं नरेश्वरम् ।
सत्यभामा सुतां सोऽपि जिष्णवे विष्णवे ददौ ॥ ४४२॥
दिव्यस्य धनुषः पूर्वमारोपणपणीकृताम् ।
गुरुभिस्तामनुज्ञातः परिणिन्ये जनार्दनः ॥ ४४३ ॥
इतः परीतः शोकेन कंससीमन्तिनीजनः ।
विललापं विलिप्ताङ्गः सर्वतः क्षोणिरेणुभिः ॥ ४४४ ॥
समस्ताभिः सपत्नीभिः समेत्यांत्यन्तदुःखिता ।
ययौ जीवयशास्तत्र यत्र कंसोऽस्ति संस्थितः ॥ ४१५॥
व्यात्तदीनाननं दूराद्रजोभिरवगुण्ठितम् ।
तमुवीक्ष्य मृगाक्ष्यस्ताः समस्ता मुमुहुर्मुहुः ।। ४४६ ॥
अवसाने च मूर्छायाः प्रोच्छलच्छोकविह्वलाः।
सोरस्ताडं सपूत्कारमरुदन्मेदिनीगताः ॥ ४४७ ॥
अथ कंसस्य संस्कारे जातेऽपि मगधात्मजा ।
यादवेष्वतिसाक्षेपा न निवापाञ्जलिं ददौ ॥ ४४८॥
उच्चैरवोचदेतच्च सरामैः सजनार्दनः ।
यादवैः सह दास्यामि प्राणेशाय जलाञ्जलिम् ।। ४४९ ॥
सप्रतापाज्जरासन्धात्क दवादिव यादवाः।
कान्दिशीकाः प्रयास्यन्ति शरणाय मृगा इव ॥ ४५० ॥
इति प्रतिज्ञामेतस्या निशशाम विशांपतिः ।
उद्बुद्धक्रोधकल्लोललोलमेतज्जजल्प च ॥ ४५१ ।।
प्रगल्भते किमत्रैवं मुधा मगधनन्दिनी ।
यच्छिक्षितं तदाख्यातु पितुर्गत्वाधुनैव सा ॥ ४५२ ।।
इत्यवज्ञागिरं राज्ञः श्रुत्वा राज्ञी समुत्सुका ।
जगाम प्रामनगराण्युल्लङ्घय पितुरालयम् ॥ ४५३ ॥
राजा राजगृहे जातामेतां विज्ञाय सादरम् ।
अभीत इव भीतोऽपि सर्वानाह्वास्त यादवान् ॥ ४५४ ॥
अथ क्रोष्टुकिमाहूय नृपः पप्रच्छ तैः सह ।
विरोधिनि जरासन्धे यत्कर्तव्यमतः परम् ॥ ४५५ ॥
स व्याजहार राजस्ते भवितारौ सुताविमौ ।
भरतार्धमहर्ध्दीनां विश्रामौ रामकेशवौ ॥ ४५६ ॥
किंतु क्षेत्रं च कालं च समाश्रित्य शरीरिणाम् ।
भवन्ति भागधेयानि विविधानि न संशयः॥ ४५७ ॥
ततः क्षेत्रमिदं मुक्त्वा पश्चिमाम्भोधिरोधसि ।
युष्माभिः सपरीवारैर्गम्यतामधुना द्रुतम् ॥ ४५८ ॥
तस्मिन्यत्र स्थितः कृष्णो भाग्यजागरडिण्डिमौ ।
सत्यभामा सुतौ सूते तत्र स्थाप्या पुरी वरा ॥ ४५९ ।
इत्युपश्चुत्य सत्कृत्य तं विसृज्य प्रजेश्वरः।
कृशार्तमथुरालोकैः सह प्रस्थानमादधे ॥ ४६० ॥
बिभ्राणो भाविकल्याणपिशुनैः शकुनैर्मुदम् ।
सरिद्भूधरकान्ताराण्यतिचक्राम स क्रमात् ॥ ४६१ ॥
स क्रोष्टुकिसमादिष्टे पश्चिमाम्भोधिरोधसि ।
सैन्यं निवेशयामास वितीर्णनगरभ्रमम् ॥ ४६२ ॥
सुतावसूत सत्यापि तत्र सौस्थ्येन तस्थुषी ।
कल्पद्रुमावविद्राणसुवर्णा मेरुभूरिव ॥ ४६३ ॥
ततो नैमित्तिकादेशात्केशवो लवणाधिपम् ।
सुस्थितं संमुखीकर्तुमकार्षीदष्टमं तपः ॥ ४६४ ॥
आइतस्तापसस्तेन रत्नप्राभृतसंभृतः ।
उपेन्द्रमुल्लसप्रीतिरुपतस्थेऽथ सुस्थितः ॥ ४६५ ॥
व्याहरच्च हृषीकेशं निदेशस्थितमात्मनः ।
जनमेनं विजानीहि ततः कार्ये नियोजय ॥ ४६६ ।।
प्रीत्या प्रत्याह गोविन्दस्तोयधेः संनिधेहि मे।
प्रवरं नगरीस्थानं पूर्वकेशवरूढितः ॥ ४६७ ॥
इत्युक्तो नगरीभूमि पाञ्चजन्यं च मञ्जुलम् ।
कौस्तुभं च मुकुन्दाय प्रदायान्तर्दधेऽम्बुधिः ॥ ४६८ ॥
अहोरात्रेण तत्रेन्द्रनिदेशाद्धनदः स्वयम् ।
चक्रे द्वारवतीं नाम विजितस्वपुरी पुरीम् ॥ ४६९ ॥
वप्रो वज्रमयस्तस्यां नमःस्पृक्कपिशीर्षकः ।
अभ्रंलिहानि वेश्मानि नानामणिमयानि च ॥ १७० ॥
दिनानर्धचतुर्थांश्च यक्षा वैश्रवणाज्ञया ।
रत्नैरनर्घैर्ववृषुर्जलैर्वर्षाधना इव ॥ ४७१ ।।
तत्राभिरामानारामानन्दनोद्यानवान्धवान् ।
किंकरैः कारयामास कुबेरो वासवाज्ञया ।। ४७२ ॥
ततो द्वारवतीराज्ये समुद्रविजयादिभिः ।
मुकुन्दः प्रोद्यदानन्दसौरभ्यैरभ्यषिञ्चत ॥ ४७३ ॥
पुरन्दरपुरीसख्यां राजन्वत्यां सुरा इव ।
तस्यां पुरि सदानन्दाः स्वैरं नन्दन्ति यादवाः ॥ ४७४ ।।
लीलावनेषु वापीषु क्रीडाद्रिषु यदृच्छया ।
समं नेमिकुमारेण रेमाते रामकेशवौ ॥ ४७५ ॥
आश्चर्यं पश्चिमा येयं ज्योतिषामस्तकारिणी ।
यादवानां पुनः सापि महाभ्युदयहेतवे ।। ४७६ ॥
इति प्रीतस्य देवस्य जनार्दनमहोदये ।
सांप्रतं त्वेतदायातमुत्सवादुत्सवान्तरम् ॥ ४७७ ॥
यद्देवि कुन्ति ते पुत्रजन्मना यादवेश्वरः ।
दिष्टयेति वर्धितश्चारैरायातेहस्तिनापुरात् ॥ ४७८ ॥
पुत्रोत्पत्तिं तवाकर्ण्य मुदमुद्वहताधिकम् ।
त्वन्माङ्गल्याय देवेन तदद्य प्रहितोऽस्म्यहम् ॥ ४७९ ॥
इति वृद्धिं स्वबन्धूनां श्रुत्वा सर्वातिशायिनीम् ।
कुन्ती वहन्ती रोमाञ्चं प्रत्यवोचत कोरकम् ॥ ४८० ॥
साधु कोरक साधु त्वं कथामिष्टामचीकथः ।
महोत्सवानुबन्धी मे जातोऽयं तनयोत्सवः ॥ ४८१ ॥
बान्धवा मम जीयासुर्जीयासुबन्धुसूनवः ।
ममाशिषमिमां तेषां प्रियंवद निवेदयेः ॥ ४८२ ॥
अन पुंस्त्वं चिन्त्यम्. काव्यमाला।
इत्थमाभाष्य सत्कृत्य कुन्त्या कृत्येषु दक्षया ।
कोरकः प्रोगतप्रीतिर्गमनाय व्यसृज्यत ॥ ४८३ ॥
युधिष्ठिरकुमारोऽपि बालकल्पानिपोपमः ।
मातृवात्सल्यपीयूषैः पोषितो ववृधे क्रमात् ॥ ४८४ ॥
अव्यक्तवर्णरमणीयवचःप्रचारो
रिङ्खन्कदाचन कदाचन पादचारी ।
नव्योल्लसद्दशनहास्यमनोहरास्यः
कस्य प्रतिक्षणमभून्न मुदे कुमारः ॥ ४८५ ॥
मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कृष्णनेमि
जन्मद्वारकास्थापनयुधिष्ठिरजन्मवर्णनो नाम द्वितीयः सर्गः ॥ २ ॥तृतीयः सर्गः।
धर्मकल्पद्रुमस्याथ पुनरेव फलार्थिनी ।
नाशिक्येऽकारयत्कुन्ति श्रीचन्द्रप्रभमन्दिरम् ॥१॥
प्रदीपा यत्र निस्त्रासनानामणिविनिर्मिते ।
प्रभाध्वस्ततमःस्तोमे मङ्गलायैव केवलम् ॥ २ ॥
प्रसादमुक्तिरात्मीया नाशिक्यमिति तत्र सा।
गत्वा गत्वा पुनश्चक्रे जिनधर्मप्रभावनाम् ॥ ३ ॥
धर्मकर्मैकनिर्माणव्यसनव्यवसायिनी।
पुनरापन्नसत्त्वाभूत्पाण्डुराजसधर्मिणी ॥ ४ ॥
तस्याः स्वप्ने क्षिपद्धृक्षमञ्जनोऽथ प्रभञ्जनः ।
आनीय नन्दनोद्यानादकै कल्पमहीरुहम् ॥ ५ ॥
पत्ये शशंस सा स्वप्नमेनमेनोविनाकृता ।
तदर्थमर्थिकल्पद्रुस्तत्पुरः सोऽप्यचीकथत् ॥ ६॥
पवमानोपमानस्ते बलिष्ठकशिरोमणिः ।
प्रदत्तजगदाश्वासो भविता तनयोऽद्भुतः ।। ७॥
इत्याकर्ण्य दधौ सान्यं हर्षरोमाञ्चकञ्चुकम् ।
उत्कल्लोलं भवेच्चेतः श्रुतेऽपि तनुजन्मनि ॥ ८ ॥
पाण्डवचरितन् ।
उत्पाटयामि शैलेन्द्रमपि निर्दलयामि वा !
तस्याः प्रादुरभूदेवं स्फूर्तिगर्भानुभावतः ।। २ ॥
दूरमुज्जागरौजम्का वज्रमप्यङ्गुलीमुखे ।
सा तदा पक्वकर्पूरकणचूरमचूरयत् ॥ १० ॥
इतश्च गर्भादौरात्म्यात्कृतैरौपायिकैरपि ।
गान्धारी प्रसवं प्राप न मासैस्त्रिंशतापि हि ॥ ११ ॥
उदरं बिभ्रती दूरमलिञ्जरसहोदरम् ।
लेशावेशवशाच्चित्ते गान्धारीदमचिन्तयत् ॥ १२ ॥
गर्भाविर्भावतस्थामनिजितोल्लाहसाहसा ।
अमन्दोन्माद्द्यदानन्दा सा दिनान्यत्यवाहयत् ॥ १३ ॥
अहो मे दत्ततापस्य पापस्य परमो विधिः ।
यदेतन्नरके दुःखमिहवानुभवाम्यहम् ॥ १४ ॥
यत्त्वीदृशं पुरस्तान्मे कुन्ती सुतमजीजनत् ।
पश्य सर्वकपस्यापि सा दुःश्वस्यापि चूलिका ॥ १५॥
अधुनापि निराधिर्यन्निकटप्रसवा पुनः ।
तन्मामन्तःशितैः कुन्तैः कुन्ति कुन्ती प्रतिक्षणम् ॥ १६ ॥
इति चिन्तापरस्वान्ता नितान्त दुःखविहला ।
उदरं ताडयामास सा शीघ्रप्रसवार्थिनी ॥ १७ ॥
पीडोत्पीडकृतावाधमाधिना ताडनेन च ।
अभूदपरिपूर्णोऽपि गर्भस्तस्यास्तदा बहिः ॥ १८ ॥
मांसपिण्डोपमं सा तं पश्यन्ती साथुलोचना ।
विपादमासदद्दूरं दत्वे क्रुद्धो विधिन किम् ॥ १९ ॥
त्वं मे मनोरथानित्थं किं न कृन्तसि निष्कृप ।
इति दैवमुपालभ्य लब्धार्तिः सा मुहुर्मुहुः ॥२०॥
विस्रेण मांसपिण्डेन किमनेन ममाधुना ।
इत्युत्स्रष्टुं समारेभे सा बहिस्तमवज्ञया ॥ २१ ॥
अथ ज्ञातप्रबन्धाभिरेत्य वृद्धाभिरादरात् ।
प्रत्यषिध्यत सा बाढं मा मा मेत्युक्तिपूर्वकम् ॥ २२ ॥
अजल्पंश्च पपातेदं पुत्ररत्नं तवोदरात् ।
अभाग्येनार्धनिष्पन्नं वायुनेव तरोः फलम् ॥ २३ ॥
एतत्तु तव कल्याणि न मौग्ध्यं ज्ञातुमीश्महे ।
यदुपक्रमसे त्यक्तुमवस्करमिवात्मजम् ॥ २४ ॥
अथ साकथयत्तथ्यं मातरः शृणुत क्षणम् ।
गर्भाधाने ममामुष्मिन्प्रवृत्तमिव चेतसा ॥ २५ ॥
अहं महीपतेः पत्नी न तावदभवं पुरा ।
भविष्यामि महीपालमाता त्वेतत्प्रसादतः ॥ २६ ॥
इत्थं मयि कृताशायां कुन्त्यसूत युधिष्ठिरम् ।
तां संप्रत्यहमश्रौषमासन्नप्रसवां पुनः ॥ २७ ॥
ततो मेदस्विनिर्वेदात्स्वं निन्दन्ती मुहुर्मुहुः ।
तूर्णप्रसवसाकाङ्क्षा कुक्षिं निजमकुट्टयम् ॥ २८ ॥
उशन्ति सत्यमेवैतद्बुद्धिः कर्मानुसारिणी ।
तदिदं जातमीक्षध्वं ब्रूत यत्तत्करोम्यहम् ॥ २९ ॥
ततस्तामभ्यधुर्वृद्धा आधिं वत्से मुधा व्यधाः ।
कर्माणि हि प्रतिप्राणि पृथक्प्रसवते फलम् ॥ ३० ॥
वत्से मात्सर्यमुत्सार्य परमार्थे मनः कुरु ।
पश्यैकाग्रमनाः कुन्ती धर्ममाराधयत्यलम् ॥ ३१ ॥
धर्मप्रभावसंपन्ननिःशेषाभीष्टसंपदि ।
ततश्च मत्सरं वत्से धत्से कुन्त्यां कथं वृथा ॥ ३२ ॥
स्वल्पैः कल्पद्रुमप्रायैर्धम नोपमिमीमहे ।
संकल्पतुलया ते हि यल्लोकमुपकुर्वते ॥ ३३ ॥
यदीच्छावीरुधं वत्से विधातासि फलेग्रहिम् ।
धर्मालवालमेतस्याः सिञ्च श्रद्धामृतस्ततः ।। ३४ ॥
पाण्डवचरितम् ।
लक्ष्यते लक्षणैरेभिर्भावी बहु युधिष्ठिरः।
तवात्मजोऽपि तन्मा स्म खिद्यथाः सर्वथा शुभे ॥ ३५ ॥
असौ ते त्रिंशतं मासान्गर्भ तस्थाविदं कियत् ।
द्वादशापि समाः कश्चित्तिष्ठत्युदरकन्दरे ॥ ३६॥
इदानीं तु सुतस्यास्य जीविताय यतामहे ।
इत्युक्त्वा ताभिरभ्यक्तसर्पिषा तूलसंचयः ।। ३७ ॥
तेन प्रावृत्य तं बालं स्वर्णकुड्यां निधाय च ।
एकान्ते तं व्यवस्थाप्य निधानमिव दधिरे ॥ ३८ ॥
अद्य संपूर्णसर्वाङ्गो मातुः स्तन्येन सोऽर्भकः ।
दधौ वृद्धिं परां वालविटपीव घनाम्भसा ॥ ३९ ॥
असूत दिवसे यस्मिन्गान्धारी तं तनूरुहम् ।
तस्मिन्यामैस्त्रिभिः पश्चात्सुतं कुन्त्यप्यजीजनत् ॥ ४०॥
तयोर्भाग्यमहो भिन्नमप्येकदिनजातयोः ।
यदाद्योऽजनि दुर्लग्ने सुलग्ने कुन्तिसूः पुनः ॥ ४१ ।।
उद्दिश्य पाण्डुजन्मानमभून्नभसि भारती ।
विजयी वज्रकायोऽयमुद्दामबलमन्दिरम् ।। १२ ।।
भक्तः सहोदरे ज्येष्ठे जगद्विदुरबान्धवः ।
भावी मोहच्छिदाच्छेकः क्रमात्सिद्धिवधूवरः ।। ४३॥ (युग्मम्)
प्रीता कुन्ती सुतेनैव दिवि देवा महोत्सवम् ।
चक्रुश्चकार पाण्डुस्तु युगपत्सुतयोर्द्वयोः ॥ १४ ॥
दुर्योधन इत्याद्यस्य भीम इत्यपरस्य च ।
धृतराष्ट्रश्च पाण्डुश्च पुत्रयो म चक्रतुः ॥ १५ ॥
भीमस्यातोऽभवन्नाम मरुत्तनय इत्यपि ।
स्वप्ने कल्पद्रुमव्याजाद्यतोऽसौ मारुतात्मजः ।। ४६ ॥
पञ्चमिालितौ यत्नाद्धात्रीभिर्मातृवत्सदा ।
तौ क्रमाजग्मतुर्वृद्धिं पञ्चास्यपृथुकाविव ॥ १७ ॥
रिङ्खन्दुर्योधनः पश्चादेत्य भीमेन रिङ्खता ।
बलिना बालचापल्याद्धृत्वा पादे जिघृक्षया ॥ ४८ ॥
कदाचिच्च स भीमेन प्रीत्या मात्रा समर्पितम् ।
भक्ष्यं हठेन हस्ताग्रादाच्छिद्योच्चैररोद्यत ॥ १९ ॥
मिथः कलिकरौ जातु जातु केलिपरायणौ ।
एकत्रैव भुजो जातु तावभूतामनारतम् ॥ ५० ॥
हासयन्नथ वासन्तीं चन्द्रिकाचन्दनाञ्चितः ।
मल्लिकामोदसुरभिः सुरभिः समजृम्भत ।। ५१ ॥
वसन्तेनोपनीतानि प्राप्य चूताङ्कुरच्छलात् ।
नवान्यस्त्राणि पुष्पास्वस्तृणं जगदजीगणत् ।। ५२ ॥
जगज्जिगीषोः पञ्चेषोः प्रयाणे जयशंसिनः ।
ध्वनयो दुन्दुभीयन्त मधुराः पिकयोषिताम् ॥ ५३ ॥
गलद्वहुलकिञ्जल्कपङ्किलीभूतभूतलम् ।
पुष्पडम्बरितं पाण्डुः क्रीडावनमथागमत् ॥ ५४ ॥
भीमं षण्मासदेशीयमादाय मधुराकृतिम् ।
पत्या सह ययौ कुन्ती वसन्तश्रियमीक्षितुम् ॥ ५५ ॥
विकाशिकेशरे पुष्प्यत् तिलके चारुचम्पके ।
पल्या साधै वने राजा विजहार मनोरमे ॥ ५६ ॥
लीलयापि क्षिपन्पाणिं बालः सुलभचापलः ।
मूलादुन्मूलयामास विविधान्सविधदुमान् ॥ ५७ ॥
प्रियया सार्धमासाद्य दोलान्दोलनकौतुकम् ।
आरुरोह महीपालः सहेलः केलिपर्वतम् ॥ ५८ ।।
कुन्त्यपि प्रेक्षितुं शीलग्रामणी रामणीयकम् ।
समारोहद्वरारोहा पत्यानुपदिका मुदा ॥ ५९॥
स्वैरमाराममारामं वापी वापी सरः सरः ।
सर्वमालोकयांचक्रे गिरेस्तस्य नृपप्रिया ॥६०॥
पर्यन्तशिखरस्याग्रे समासादितजन्मनः ।
कङ्केलिपादपस्याधः सा विधत्ते स्म विश्रमम् ॥ ६१ ॥
कुरुवंशनवोत्तंस जगन्नेत्रसुधाकर ।
इत्थमुल्लापयामास भीमं कृत्वाङ्कखेलिनम् ॥ ६२ ॥
एवमुल्लाप्यमानस्य भीमस्योत्सङ्गसङ्गिनः ।
श्रमध्वंसाय धात्रीवं निद्राभून्नेत्रगोचरा ॥ ६३ ॥
वने च विहरन्खैरममन्दानन्दकन्दलः।
स्वयं चम्पकपुष्पाणां स्रजे जग्रन्थ पार्थिवः ॥ ६४ ॥
तामुपादाय दायादतुल्यां निजतनुद्युतिम् ।
आत्मसंमुखमायान्तं कुन्ती कान्तं व्यलोकयत् ॥ ६५ ॥
वं कण्ठ वर्षसे दिल्या प्रेम्णा प्रेयानिमां स्रजम् ।
न तुल्यमुंपनेतेति मुदः साभूद्रशंवदा (१) ॥ ६६ ॥
पिबन्ती लोचनैर्नाथमभ्युत्तस्थौ झटित्यसौ ।
विस्मृतात्मा नचाबोधि भीममुत्सङ्गशायिनम् ॥ ६७ ॥
तदैव नृपतिः कान्ताकण्ठे चिक्षेप च स्रजम् ।
भीमोऽतिनिःसहवपुस्तदुत्सङ्गात्पपात च ॥ ६८॥
करौ व्यापारयामास पुत्ररक्षार्थमेकतः ।
स्रजोऽर्थे चान्यतः कण्ठं सा शोकप्रमदाकुला ॥ ६९ ॥
ततः शृङ्गाल्लुठन्बालो हाहारवमुखैर्जनैः ।
गण्डशैलकलां बिभ्रत्साश्रुनेत्रैरदृश्यत ॥ ७० ॥
अधोऽधः पततस्तस्य शिलासोपानतः क्रमात् ।
प्रादुर्बभूवुष्ठात्काराः कुन्तीहन्मर्मभेदिनः ॥ ७१ ॥
पूर्वकायनता कुन्ती विलापतुमुला सुतम् ।
तत्पीडागमनायैव सिञ्चति स्माश्रुवीचिभिः ।। ७२ ।।
पश्यतामेव सर्वेषां लोठं लोठं तदा तटे ।
स बालः स्थूलपाषाणानुपागमदुपत्यकाम् ॥७२||
१. 'तुभ्यमेवोपनेतेति' इति प्रतिभाति. काव्यमाली।
प्लवंगमा इवोत्प्लुत्य जङ्घाला वायुरंहसः।
तस्यानुपदमुत्तालमुत्तेरुर्नुपपत्तयः ॥ ७४ ॥
हा वत्स क्वा(प्य)[पि] दृश्योऽसि मया जीवन्पुनः कदा ।
दूरतः पेतुषों वत्स यद्वा ते जीवितं कुतः ॥ ७५ ॥
इत्थं विलापैरत्यन्तकरुणैमर्मभेदिभिः।
उच्चैः प्रतिरवव्याजाद्रोदयन्ती गिरीनपि ।। ७६ ॥
कुन्ती शोकाकुला जाता डिम्बेन सह पाण्डुना ।
पुत्रालोकनसोत्कण्ठा शनैःशोकादवातरत् ॥ ७७ ॥
(त्रिभिर्विशेषकम्)
उवाच राज्ञी प्राणेश केनैताश्चूर्णिताः शिलाः ।
न जानामीति देवोक्ता देवी पुनरभाषत ॥ ७८ ॥
अमू भीमद्रुहः कोऽपि दारुणो दारयिष्यति ।
शङ्के स्वेनैव पापेन शीर्णास्तु कणशः स्वयम् ॥ ७९ ॥
तेनानवाप्तपूर्वेण नगोत्तारक्लमेन च ।
पुत्रशोकेन चात्यन्तं कुन्ती वैक्लव्यमागमत् ॥ ८॥
अथातिरंहसा कांश्चिद्याकोशास्यकुशेशयान् ।
पत्तीनागच्छतो दूराद्वीक्षांचक्रे क्षितीक्ष्वरः ।। ८१ ॥
तत्प्रमोदानुमानेन परिज्ञाय नृपोऽभ्यधात् ।
देवि त्वं वर्धसे दिष्टया कुशली तव नन्दनः ॥ ८२ ॥
इति वर्धयतो राज्ञी राज्ञस्तेऽपि व्यजिज्ञपन् ।
अग्रेऽसौ विजयी स्वामिन्नक्षताङ्गस्तवात्मजः ॥ ८३ ॥
देवीकोडस्थितस्यैव त्वत्पुत्रस्य मनागपि ।
पेतुषोऽपि गिरेः शृङ्गान्मुखरागो न भिद्यते ।। ८४ ।।
एतत्कथितमस्माभिरन्यदत्यद्भुतं पुनः ।
पुरो गत्वा स्ववालस्य स्वयंमालोकयिष्यसि ।। ८५ ॥
इति वार्तासुधापानपोषिताशेषवैशसा ।
त्वरितं त्वरितं भीमजननी पुरतो ययौ ॥ ८६ ।।
पाण्डवचरितम् ।
राजापि राजमानास्यः प्रेयसीपृष्ठतो ब्रजन् ।
समाससाद तं देशं यत्रास्ति क्षेमवान्सुतः ॥ ८७ ॥
शिलाचूर्णमये तल्पे सुखोत्तानशयं सुतम् ।
अक्षतं शतपत्रांक्षं तौ निरीक्षांबभूवतुः ॥ ८८ ॥
तमुद्वीक्ष्य तयोरासीत्रीतिर्वाचामगोचरा ।
तौ समालोक्य बालोऽपि हर्षादुद्बाहु नृत्यति ॥ ८९ ।।
ऊर्ध्वमूर्ध्वं लसद्बाहुं भीममादाय वक्षसा ।
कुन्ती सानन्दमालिङ्ग्य चुचुम्ब प्रस्तुतस्तनी ।। ९० ।।
गतप्रत्यूहमुत्फुल्ललोचनं पाण्डुभूपतिः ।
बलादाच्छिद्य पत्नीतः सानन्दं सस्वजे सुतम् ॥ ९१ ॥
पृथा पप्रच्छ पृथ्वीशमार्यपुत्र द्रढीयसी।
असौ शिला समग्रापि बिभिदे कणशः कथम् ॥ ९२ ।।
पार्थिवः कथयामास प्रिये तव तनूरुहः ।
वज्रकायोऽयमाख्यायि भारत्या ननु दिव्यया ॥ ९३ ॥
तदस्य वपुषा बाढं वज्रेणेवामिताडिता ।
शिलेऽयं केलिशैलस्य चूर्णीभावमुपाययौ ॥ ९४ ।।
योऽपि खण्डीकृतो दृष्टः प्रस्तरोऽद्य त्वया पथि ।
तदपि त्वत्तनूजस्य तनूघातविजृम्भितम् ।। ९५॥
तच्छ्रुत्वा विस्मितस्वान्ता कुन्ती कान्तिमुपेयुषी ।
आदाय दयिताद्भीममालिलिङ्ग मुहुर्मुहुः ।। ९६ ।।
प्रपातभूमिं भीमस्य भृङ्गारावर्जितैर्जलैः ।
निषेव्य श्रेयसे वृद्धाः क्षणादानर्चुरक्षतैः ।। ९७ ॥
ततो मुदितयोः पाता सुतया प्रियया समम् (१) ।
उत्तम्भितध्वजां राजा राजधानीमुपाययौ ॥ ९८॥
अभ्रमूवल्लभारूढं निशाशेषे कदाचन ।
स्वप्ने महेन्द्रमद्राक्षीत्पृथा पृथुमनोरथा ॥ ९९ ॥
३. भीमकुन्त्योः. २. रक्षकः. ३ 'सुतेन' इति स्यात् काव्यमाला।
सा खप्नं कथयामास पत्युः प्रातः प्रमोदिनी।
तस्यै सोऽपि समाचख्यौ शक्राभं भाविनं सुतम् ॥ १० ॥
ततः प्रीतिं परां प्राप्ता श्लाघ्यं गर्भं बभार सा ।
प्रातःकालोपलब्धो हि स्वप्नः सद्यःफलप्रदः ॥ १०१॥
स्वयं सागरपर्यन्तां मेदिनीमनुपद्रवाम् ।
मण्डलीकृतकोदण्डा कर्तुमीहांबभूव सा ॥ १०२ ॥
समयेऽपि समागत्य प्रजाः संहरतस्तदा ।
कृतान्तस्यापि सा कर्तुं स्पृहयामास निग्रहम् ॥ १०३॥
सूर्याचन्द्रमसौ जातु यत्तुतोद विधुंतुदः ।
तस्मिन्नपि बभूवेयमभिषेचनकाटिणी ॥ १०४ ॥
इत्थं गर्भप्रभावोत्थधीरोदात्तमनोरथा ।
तनयं जनयामास सा मुहूर्ते मनोहरै ॥ १०५ ॥
तदेव दिवि वाग्देवी सर्वतः शुश्रुचेतराम् ।
असावाराधितज्येष्ठौ जगदेकधनुर्धरः ॥ १०६ ॥
दुर्धर्षोऽत्यन्तसौम्यास्यः सामर्षो नयवत्सलः ।
भविष्यति कमात्कर्मनिर्मुक्तो मुक्तिवल्लभः ।। १०७ ।। (युग्मम्
तदनन्तरमाकाशे संगीतमुदजृम्भत ।
रम्भोर्वशीप्रभृतयो नृत्यमप्सरसो व्यधुः ॥ १०८॥
जगुर्जगन्मनोहारि मूर्छनं किं नरेश्वराः।
अजायत पुनर्वाधनादाद्वैतं तथा दिवि ।। १०९ ॥
प्रदत्तत्रिदशानन्दे तस्मिन्नात्मजजन्मनि ।
प्रमोदकृतसंवादः पाण्डुश्चक्रे महोत्सवम् ॥ ११० ॥
तं चकार स नाम्नापि गुणैरर्जुनमर्जुनम् ।
इन्द्रस्य दर्शनात्स्वप्ने जातोऽसाविन्द्रमूरिति ॥ १११ ॥
अथ श्लाध्यतमस्वप्नसूचितौ निचितौ श्रिया ।
यमलौ जनयांचक्रे मद्रराजसुता सुतौ ॥ ११२ ॥
पाण्डवचरितम् ।
तावाप्याकाशभारत्या कथितौ यद्भविष्यतः ।
सत्त्वशौर्ययुतौ सिद्धिगामिनौ गुरुवत्सलौ ।। ११३ ॥
प्रदत्तया पितृभ्यां तौ विनीतौ नयशालिनौ ।
नकुलः सहदेवश्चेत्याख्यया ख्यातिमीयतुः ॥ ११४ ॥
अमी कुमाराः पञ्चापि दिविपत्पादपा इव ।
यशःकुसुमसौरभ्यसुभगां ख्यातिमाययुः ॥ ११५ ॥
गान्धारीप्रमुखाश्चाष्टौ धृतराष्ट्रस्य याः प्रियाः ।
अजायन्त सुतास्तासां क्रमाहुर्योधनानुजाः ॥ ११६ ॥
पुत्राणां नवनवतिस्तेषां नामानि तद्यथा ।
आसीदुःशासनः पूर्वो दुःसहो दुःशलस्तथा ॥ ११७ ॥
रणः श्रान्तः समाढ्यश्च विन्दः सर्वसहोऽपि च ।
अनुविन्दः सुभीमश्च सुबाहुर्दुष्प्रधर्षणः ॥ ११८ ॥
दुर्मर्षणः सुगात्रश्च दुष्कर्णो दुःश्रवास्तथा ।
चरवंशो विकर्णश्च दीर्घदर्शी सुलोचनः ॥ ११९ ॥
उपचित्रो विचित्रश्च चारुचित्र: शरासनः।
दुर्मदो दुष्प्रगाहश्च युयुत्सुर्विकटाभिधः ॥ १२० ॥
ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ।
चित्रबाणश्चित्रकर्मा सुवर्मा दुर्विमोचनः ॥ १२१ ॥
अयोबाहुमहाबाहुः श्रुतवान्पद्मलोचनः ।
भीमबाहुहीमबलः: सुषेणः पण्डितस्तथा ॥ १२२ ॥
श्रुतायुधः सुवीरश्च दण्डधारो महोदरः।
चित्रायुधो निषङ्गी च पाशो वृन्दारकस्तथा ॥ १२३ ॥
शत्रुजयः शत्रुसहः सत्यसन्धः सुदुःसहः ।
सुदर्शनश्चित्रसेनः सेनानीर्दुष्पराजयः ॥ १२४ ॥
पराजितः कुण्डशायी विशालाक्षो जयस्तथा ।
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥ १२५ ॥
महाभारते तु विविंशतिः. काव्यमाला।
आदित्यकेतुर्बह्वाशी निर्बन्धोऽपि प्रयास्यपि ।
कवची रणशौण्डश्च कुण्डधारो धनुर्धरः ॥ १२६ ॥
उग्ररथो भीमरथः शूरवाहुरलोलुपः ।
अभयो रौद्रकर्मा च तथा दृढरथाभिधः ॥ १२७ ॥
अनाधृष्टः कुण्डभेदी विराजी दीर्घलोचनः ।
प्रमथश्च प्रमाथी च दीर्घालापश्च वीर्यवान् ॥ १२८ ॥
दीर्घबाहुर्महावक्षा दृढवक्षाः सुलक्षणः !
कनकः काञ्चनश्चैव सुध्वजः सुभुजस्तथा ॥ ११९ ॥
विराजश्चेत्यमी सर्वे रणकर्मविशारदाः ।
सर्वे शौण्डीरदोर्दण्डाः सर्वे सर्वार्थकोविदाः ॥ १३० ॥
धृतराष्ट्रोऽथ भीष्मादीनुपावेश्य परे दिवि [ने] ।
मौहूर्तिकान्समाहूय पप्रच्छ स्वच्छमानसः ॥ १३१॥
आख्यातमशरीरिण्या भारत्या यद्युधिष्ठिरः ।
भविता भुवनश्लाघ्यो न कोऽप्यत्रास्ति संशयः ॥ १३२ ॥
किंत्वनन्तरमेतस्माद्राजा दुर्योधनः किमु ।
भविष्यति न वेत्येवं ज्ञानेनालोच्य शंसितः ॥ १३३ ॥
अत्रान्तरे दिगन्तेषु रजोभिः परिजृम्भितम् ।
उदतिष्ठन्त निर्घाताश्चकम्पे च वसुंधरा ।। १३४ ।।
शिवाश्चाशिवशंसिन्यो विरेसुर्विरसं तथा ।
मार्तण्डमण्डलं चाभूत्परिवेषेण भीषणम् ॥ १३५॥
एतानि दुनिमित्तानि प्रेक्ष्य तल्लक्षणानि च ।
ज्ञानिनः सर्वविदुरं विदुरं प्रत्यचीकथन् ।। १३६ ॥
अयमूर्जस्खलो राजा राजचक्रविजित्वरः ।
भविष्यति परं कालः कुलस्य च जनस्य च ।। १३७ ।।
इति नैमित्तिकादिष्टमनिष्टं विदुरस्ततः ।
सभासमक्षमाचख्यौ धृतराष्ट्रस्य शृण्वतः ।। १३८ ।
तच्चाकर्ण्य-विषं कर्णपुटयोरम्बिकासुतः ।
पुनःपर्यनुयुङ्क्ते स्म कुले शान्तिः कथं भवेत् ॥ १३९ ॥
अथ संदेहसंदोहच्छिदुरो विदुरस्तथा ।
अप्रेयोऽपि वचः पथ्यं तथ्यं च तमुदाहरत् ॥ १४० ॥
निखिलस्य कुलस्यास्य क्षेमं चेत्कर्तुमिच्छसि ।
तदेनमेनसां पात्रं दुष्पुत्रं त्यक्तुमर्हसि ॥ १४१ ॥
तनयेनापि किं तेन कुलप्रलयकारिणा ।
तेन हेम्नापि किं कार्यमार्यं कर्णौ छिनत्ति यत् ॥ १४२ ॥
आसतां शतमेकोनमपि खस्तिकृतः सुताः ।
अल्पमल्पेतरस्यार्थे त्याज्यमिस्थं विदुर्बुधाः ।। १४३ ॥
आम्बिकेयस्तदाकर्ण्य न यावत्प्रत्यभाषत ।
पाण्डुरुड्डामरप्रीतिस्तावद्विदुरमभ्यधात् ॥ १४४ ॥
ईदृशानि न लभ्यन्ते पुत्रभाण्डानि कुत्रचित् ।
ममोपयाचितैरेष जातो दुर्योधनः सुतः ॥ १४५ ॥
क्षयः कुलस्य चेत्पुत्रादृद्धिस्तर्हि कुतो भवेत् ।
भानोश्चेद् ध्वान्तमाकाशे प्रकाशः स्यात्कुतस्ततः ॥ १४६ ॥
युधिष्ठिरादपि ज्येष्ठः पूर्वं गर्भावतारतः ।
असौ राज्याब्जसविता भविता गोत्रवर्धनः ॥ १७ ॥
तच्छिवाः सन्तु पन्थानः स्वस्थानगमनाय वः ।
अभिधायेदमास्थानादुदस्थात्पाण्डुभूपतिः ॥ १४८॥
दुर्योधनस्य दुःशल्या नाम यामिर्बभूव या ।
सिन्धूनामधिराजस्तामुपयेमे जयद्रथः ॥ १४९ ।।
अथ ते धृतराष्ट्रस्य वर्धन्ते स्म शतं सुताः ।
दोष्णोर्येषां स्म जागर्ति स्फूर्तिस्त्रैलोक्यतोलने ॥ १५० ॥
धार्तराष्ट्राः शतं पञ्च पाण्डवास्ते तु संहताः।
शतं पञ्चोत्तरं स्वैरं रेमिरे हस्तिनापुरे ॥ १५१ ।।
. काव्यमाला।
भीष्मं च धृतराष्ट्रं च पाण्डुं च विदुरं तथा ।
प्रतिप्रभातमभ्येत्य नमस्यन्ति स्म भक्तितः ॥ १५२ ॥
ततः सत्यवती पूज्यामम्बिकाम्बालिके तथा ।
अम्बा-गन्धारिका-कुन्ती-मुख्याश्च प्राणमन्नमी ॥ १५३
मातॄणां च पितॄणां च तया वात्सल्यमत्तया ।
निर्विशेषं मनस्तेषु गुरवो हि समाशयाः ॥ १५४ ॥
शैशवादप्यजायन्त पाण्डवाः परमार्हताः ।
यस्य यादृक्परो लोकस्तस्य चेष्टा हि तादृशी ॥ १५५ ।।
दिवा वा यदि वा नक्तं भक्तिप्रह्वीकृता इव ।
चेतस्तेषां न मुञ्चन्ति पञ्चापि परमेष्ठिनः ॥ १५६ ॥
रहस्वितापरीक्षार्थं निर्णीतपणपूर्वकम् ।
सहस्रतालमुत्तालास्ते कदाचिद्दधाविरे ॥ १५७ ॥
गङ्गायाः पुलिने जातु सिकताकणकोमले ।
सर्वे कुमाराश्चिक्रीडस्ते शश्वत्पांशुकेलिभिः ॥ १५८ ॥
तुङ्गात्तटीविटङ्कात्ते जलकेलिकुतूहलात् ।
यमुनायां कदाचिच्च झम्पापातं वितेनिरे ।। १५९ ॥
रहःकेलिरजःकेलिजलकेलिषु लीलया ।
तान्बन्धूनवरीचक्रे बलोदारो वृकोदरः॥ १६० ।।
सदावदातप्रकृतिर्धर्मात्मा धर्मनन्दनः ।
बबन्ध बन्धुषु स्नेहं विशेषेण सुयोधने ॥ १६१ ॥
वत्सलोऽपि विशेषेण बान्धवेपु वृकोदरः ।
क्रीडया लोलयद्वालान्दुःशासनमुखानिति ॥ १६२ ॥
क्षिप्ताः कदाचित्कक्षायां भीमेन भुजपीडनात् ।
श्वासावरोधदौस्थ्येन संस्थिता इव तेऽभवन् ।। १६३ ॥
भीमः कदाचिदेतेषामन्योऽन्यं शिरसा शिरः ।
नालिकेरद्वयास्फालमास्फालयदनेकशः ॥ १६४ ॥
धृत्वा कदाचित्पादाग्रे क्रोशमात्री भुवं नयन् ।
नासाजानुललाटादौ त्वचयामासिवानसौ (1) ॥ १६५ ॥
तान्बध्वा बाहुपाशेन मज्जयित्वा चिरं जले।
भीमः केलिप्रियो जातु मृतप्रायानमुञ्चत ।। १६६ ।।
धार्तराष्ट्राः कनीयांसः क्रीडन्तस्ते कदाचन ।
कुतूहलात्कपित्थादीनुच्चानारुरुहुस्तरून् ॥ १६७ ॥
ततः पादप्रहारेण तानाहत्य महीरुहान् ।
फलैः सार्धमपात्यन्त ते भीमेन भुवस्तले ॥ १६८ ॥
खेदिता अपि भीमाय न ते किंचन चुक्रुधुः ।
स्नेहोऽयं न पुनर्द्रोहस्तस्येति ज्ञातपूर्विणः ॥ १६९ ॥
लब्धास्पदं मनोधात्र्यां वैरिभूरुहकारणम् ।
मात्सर्यबीजमाबाल्यादभूद्दुर्योधनस्य यत् ॥ १७० ॥
तदानीं भीमसेनस्य बलविस्फूर्तिकीर्तिभिः ।
तच्चक्रे किंचिदुच्छूनं नव्याभिरिव वृष्टिभिः ॥ १७१ ।।
ओजायितानि भीमस्य खिद्यमानांश्च बान्धवान् ।
वीक्ष्यावलेपात्कोपाच्च बाढं दुर्योधनोऽभ्यधात् ॥ १७२ ॥
कदर्थ्यन्ते कथं भीम भ्रातरोऽमी स्तनंधयाः ।
तव दोर्दण्डकण्डूतिहरोऽस्मि तदुपेहि माम् ॥ १७३ ॥
तेनेत्थं स्पर्धमानेन समाहूतो वृकोदरः।
अभ्यधत्त महाभाग नाहं बन्धुषु दुर्मनाः ॥ १७४ ॥
परमित्थं मम स्नेहचापल्यं पर्यवस्यति ।
वनेषु दन्तिनो दन्तक्रीडापि तरुभचिनी ।। १७५ ॥
ततोऽवलेप कोपं वा मुधा दुर्योधन व्यधाः।
यद्वा नैवास्ति मर्यादा काप्यनालोच्य वादिनाम् ॥ १७६ ॥
त्वया हि मम दोःकण्डूर्न मनागप्यपोह्यते ।
न ह्येरण्डो गजेन्द्रस्य कटकण्डूयने क्षमः ॥ १७७ ॥
अस्ति चेत्तव दोर्दर्पो यद्वासूया बलीयसी ।
तदेहि त्वं नियुध्यस्व बुध्यस्व बलमात्मनः ॥ १७८ ॥
इत्याक्षिप्तः स भीमस्य नियुद्धाय पुरोऽभवत् ।
किं लोकाधिकधामानः सहन्ते तेजसो वधम् ॥ १७९ ॥
यदा विरमतो नैतौ नियोद्धरि युधिष्ठिरे ।
तदा तौ परितस्तस्थुः कुमाराः प्रेक्षकाः परे ॥ १८०॥
मर्मप्रहारनिर्मुक्तमनलंकृतरम्ययोः ।
नियुद्धमेतयोरासीदशिक्षितमनोहरम् ॥ १८१ ॥
तयोर्द्वयोरपि ख्यातबलिभ्योऽपि बलिष्ठयोः ।
प्रावर्ततौत्तराधर्यपरावृत्तिः क्षणे क्षणे ॥ १८२ ।।
दिनेन्दुदिननाथाभैस्तयोर्जयपराजयौ ।
दुःशासनार्जुनादीनामकथ्येतां मुखैस्तदा ॥ १८३ ॥
नियुध्यमानोऽवज्ञाङ्गः क्रीडयापि दृकोदरः ।
क्रमादुर्योधनं दूरान्निन्ये निःसहदेहिताम् ॥ १८४ ॥
चिराददनं बिभ्राणः पराजयपराभवम् ।
श्यामास्यः प्रययौ बन्धुमध्यादुर्योधनः शनैः ॥ १८५ ॥
तथैवावस्थितं रङ्गे भीममेत्य युधिष्ठिरः।
रजोऽवगुण्ठनं प्रेम्णा प्रममार्ज प्रवाससा ।। १८६ ॥
बन्धोर्नियुद्धखिन्नस्य वपुर्विपुलमंसलम् ।
स्नेहात्संवाहयामास मृदुपाणिर्धनंजयः ॥ १८७ ॥
नकुलः सहदेवश्च प्रमोदादभितः स्थितौ ।
स्वाञ्चलव्यजनैर्भीमं वीजयांचक्रतुश्विरम् ॥ १८८ ॥
दुर्योधनो रहःस्थाने स्थित्वा चक्रे जडोचितान् ।
निजाशयप्रमाणेन विकल्पानजनालवत् ॥ १८९ ॥
अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् ।
किं पुनर्ब्रूमहे तस्य सर्वराज्यहरोऽपि यः ॥ १९० ॥
ततः सर्वप्रकारेण मम वध्यो युधिष्ठिरः।
उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवद्बुधैः ।। १९१ ।।
किं त्वसाध्यः परीतोऽयं भीमेन विजयेन च ।
भूपाल इव संपन्नो विक्रमेण नयेन च ॥ १९२ ।।
ततो भीमार्जुनावेव पुरस्ताद्वधमर्हतः ।
द्वौ दुर्वारमहावीर्यावजातारेर्भुजाविव ॥ १९३ ॥
तत्रापि प्रथमं निर्भिर्भीमो निःसीमविक्रमः।
कीनाशपुरवास्तव्यः कर्तव्यः प्रसभं मया ॥ १९४ ।।
व्यापादिते मयांमुष्मिन्युधिष्ठिरकिरीटिनौ ।
भवितारौ हठात्कृष्टस्तम्भप्रासाददुर्बलौ ।। १९५ ॥
तदा नियुद्धसंबन्धरजःपरिचयादिव ।
मलीमसामिमां सन्ध्यां चक्रे दुर्योधनो रहः ।। १९६ ।।
ततश्छिद्राणि दुष्टात्मा भीमस्य खच्छचेतसः ।
नित्यमन्वेषयामास स नटः कूटनाटके ॥ १९७ ॥
परं विविधकेलीषु गङ्गायाः कूलपालिषु ।
समः सर्वैः कुमारैस्तैः सोऽपि चिक्रीड सर्वदा ॥ १९८ ॥
कुमारान्क्रीडतस्तत्र विदित्वा सुतवत्सलः ।
भूपतिः कायमानानि कमनीयान्यकारयत् ॥ १९९ ॥
क्रीडाशौण्डतया तेषु भक्तिं सुप्तिं च ते व्यधुः ।
सर्वदाप्यधिकः किं तु भीमोऽभूद्भोजनावधि ॥ २००॥
कूले परेद्युर्गङ्गायाः सौगन्धिकसुगन्धिनि ।
सुष्वाप सिकतातल्पे केलिश्रान्तो वृकोदरः ॥ २०१॥
आहारं मधुरं स्निग्धं तस्य भुक्तवतस्तदा ।
बभूव सुखनिद्रापि दीर्घनिद्राविजित्वरा ॥ २०२ ॥
इदमन्तरमासाद्य दुष्टबुद्धिः सुयोधनः ।
भीमं बद्ध्वा लतापाशैः प्रचिक्षेप छलाज्जले ॥ २०३ ।।
लतापाशान्बिसच्छेदं छेकश्छित्वा वृकोदरः।
स्नात्वा क्षणेन गङ्गायाः करीन्द्र इव निर्ययौ ।। २० ॥
निद्रायमाणमन्येद्युस्तं तथैवाङ्गमर्मसु ।
धार्तराष्ट्रोऽपि धृष्टात्मा दन्दशूकैरदंशयत् ।। २०५॥
सकोपाः सफटाटोपा दंष्ट्रया गरलोग्रया ।
तीक्ष्णाग्रया दशन्तोऽपि बिभिदुस्ते तनुत्वचा ॥ २०६ ॥
क्रमाजागरितो निर्भिर्भीमस्तानवहेलया।
दूरेणापोहयन्नागाशिशुनागानिव क्षणात् ॥ २०७ ॥
ततः सुयोधनो दौष्ट्याद्भीमे भोक्तुमुपस्थिते ।
अज्ञातमशनस्यान्तर्विधर्म विषमक्षिपत् ॥ २०८॥
सद्यःप्राणहरे तस्मिन्दत्ते भीमं सुयोधनः ।
कृतं तदत्र यन्त्रान्तर्गतवन्तममन्यत ॥ २०९ ॥
प्रत्युतोर्जितमातेने तेन भीमस्य तत्क्षणात् ।
पुंसां जाग्रत्सु भाग्येषु विपत्तिरपि संपदे ॥ २१० ॥
क्रीडामात्रमिदं सर्वमेतस्येति विचिन्तयन् ।
भीमो न कोपमलिनं मनश्चक्रे मनागपि ॥ २११ ।।
धृतराष्ट्रतनूजास्तु निष्फलारम्भदुःस्थिताः ।
विदित्वा विदुरस्तेषामेनमुच्छृङ्खलं कलिम् ।
विजने भीष्ममुख्यानां पुरस्तादिदमभ्यधात् ॥ २१३ ॥
अमी वर्महराः सर्वे प्रतिभोत्कर्षशालिनः ।
कुमाराः समजायन्त तन्नोपेक्षितुमर्हथ ।। २१४ ॥
कलाकलापोपनिषन्निषण्णमनसो यथा ।
एते भवन्त्युपाध्यायाः प्रयतध्वं तथाधुना ॥ २१५ ॥
अस्त्वेषां कः कलाचार्यः सर्वविद्याब्धिपारगः।
साकाङ्क्षमिति पृष्टस्तैराचष्ट विदुरः पुनः ॥ २१६ ॥
१०१
अत्रैवास्ति कृपो नाम कलाचार्यः प्रसिद्धिभाक् ।
देवस्य शान्तनोनित्यं यत्रासीत्पुत्रवासना ।। २१७ ॥
स वः प्रार्थनया विद्वानेतानध्यापयिष्यति ।
लभ्यतेऽयमुपाध्यायः पुण्यैरत्यन्तपीवरैः ॥ २१८॥
तत्समाकर्ण्य गाङ्गेयः कुमारान्निखिलानपि ।
समाकार्य कृपाचार्यमध्यापयितुमार्पयत् ॥ २१९ ।।
अध्यगीषत ते शास्त्रं शब्दपारायणादिकम् ।
ततः प्रारेभिरेऽध्येतुं धनुर्वेदमनिर्विदः ।। २२०॥
लघुसंधानविच्छेदप्रहारच्छेकबाहवः ।
तेषामभूवन्भूयांसः शस्त्रे सब्रह्मचारिणः ॥ २२१ ॥
इतोऽभूत्तत्र वास्तव्यः सधर्मा विश्वकर्मणः ।
पुमानतिरथिर्नाम सदाचारैकमन्दिरम् ।। २२२ ॥
विधोरिवानुराधाभूत्तस्य राधा सधर्मिणी ।
कदाचिदपि या नैव ज्येष्ठोपास्तिमपास्यत ॥ २२३ ॥
तयोः कर्ण इति ख्यातः सुतः सत्त्वैकभूरभूत् ।
यत्रौदार्यं च शौर्यं च द्वयं निःसीमतां गतम् ॥ २२४ ॥
पङ्कोपमे कुले तस्मिन्परां वृद्धिमुपेयुषः ।
नलिनस्येव तस्यासीदुत्तमैरेव संगतिः ।। २२५॥
कलाकूपारपाराय स्पृहयालरहर्निशम् ।
स शिष्यान्शस्त्रशास्त्राणामियेष गुरुसंनिधौ ॥ २२६ ॥
प्रणिपत्य कृपाचार्यमेत्य सोऽपि खलूरिकाम् ।
कुमारैः सममाधत्त शस्त्रश्रममनारतम् ॥ २२७ ॥
कृपाचार्योपदेशस्य स्वातिवर्षस्य सर्वतः ।
तेषु कर्णकिरीटिभ्यां मुक्ताशुक्तिपुटायितम् ॥ २२८॥
आत्तेऽपि विद्यासर्वस्वे कृपाचार्यात्समंततः ।
किरीटिकर्णयोः प्रज्ञा मनागपि न तृप्यति ॥ २२९ ।।
शस्त्राभ्यासभूमिम् । २ काव्यमाला।
क्रीडाजुषां कुमाराणां पुरीपरिसरेऽन्यदा ।
तदीयाद्यातभीत्येव कूपान्तः कन्दुकोऽपतत् ॥ २३० ॥
विदधुर्विविधोपायान्कन्दुकाकर्षणं प्रति ।
परां क्लान्तिं कुमारास्ते वृथारम्भास्तु लेभिरे ॥ २३१ ॥
तेष्वेवं क्लिश्यमानेषु वर्षीयान्पथिको द्विजः ।
विप्रेण सममेकेन यूना कश्चिदुपागमत् ॥ २३२ ॥
ततो जगदिरे तेन कुमारास्ते द्विजन्मना ।
एतस्य कन्दुकस्यार्थे कथं ताम्यन्त पुत्रकाः ।। २३३ ॥
इयं वो मधुरा मूर्तिरियं विस्फूर्तिरुत्तरा ।
इयं वश्चातुरी चापे किणसंचयसूचिता ॥ २३४ ॥
तदल्पीयसि कार्येऽस्मिन्किमारम्भोऽयमीहशः।
करप्राप्ये फले को हि समारोहति भूरुहम् ।। २३५ ॥
तदेषोऽहमिदानी वः करिष्यामि समीहितम् ।
इत्युक्त्वादर्शयत्तेषामिषीकां करवर्तिनीम् ॥ २३६ ॥
मयाभिमन्त्रिता ह्येताः समानेष्यन्ति कन्दुकम् ।
इत्याख्यायाक्षिपत्तासामेकं विप्रोऽनुकन्दुकम् ॥ २३७ ॥
बिभेद कन्दुकं सद्यः सा च नाराचलीलया।
सुहस्तहस्तमुक्तानि बाणायन्ते तृणान्यपि ॥ २३८ ॥
अन्ते तामन्ययाविध्यतामप्यपरया तथा
एवं परम्परायोगादुपादत्त स कन्दुकम् ।। २३९ ॥
भुवनाद्भुतभूतेन कर्मणा तेन विस्मिताः ।
प्रणम्य बद्धाञ्जलयः कुमारास्तं व्यजिज्ञपन् । २४० ॥
आयक्षांचक्रिरेऽस्माभिश्चापाचार्याः सहस्रशः।
परं नृलोके नालोकि कस्यापि प्रौढिरिदृशी ॥ २४१ ।।
गुरुर्वा त्वं पिता वा त्वमस्माकमसि संप्रति ।
एते स्मः किंकराः सर्वे ब्रूहि कि करवाम ते ॥ २४२ ॥
२०३
कुरुवंशे ध्वजायध्वमध्वनीनाः सदध्वनि ।
इत्याश्वास्य द्विजः सर्वान्प्रसन्नांस्तानवोचत । २४३ ।।
अध्वश्रमाविलं दूरमनेन विनयेन च ।
मनो मे कटकेनेव वारि निन्ये प्रसन्नताम् ॥ २४४ ॥
दर्शयध्वमुपाध्यायं ममेदानीं तवात्मनः ।
ननु युष्माकमातिथ्यं भवतादिदमेव मे ॥२५॥
स हि युष्मदुपाध्यायः कृपाख्यः स्वजनो मम ।
तस्यान्तेवासिनो युष्मान्दृष्ट्वा हृष्टोऽस्मि संप्रति ॥ २४६ ॥
इत्युक्तैर्मण्डलीभूय सर्वैस्तैः परिवारितः ।
पार्थदत्तभुजालम्बः प्रविवेश द्विजः पुरे ॥ २४७ ।।
गृहाभिमुखमायान्तं तमालोक्य गुणालयम् ।
प्रत्युज्जगाम रोमाञ्चसंवर्मितवपुः कृपः ॥ २४८ ॥
खच्छन्दनिर्यदानन्दबाष्पवीचिविलोचनः ।
पञ्चाङ्गालिङ्गितक्षोणिर्नमस्यति च तं कृपः ॥२४९ ॥
कृपं दृशा पिबन्सोऽपि प्रसारितभुजद्वयः ।
तथालिङ्गद्यथा जातो तावेकवपुषाविव ॥ २५० ॥
कृपः सिंहासने भक्त्या निवेश्य तमभाषत ।
अद्येदं मन्दिरं पूतं यदाक्रान्तं भवत्क्रमैः ॥ २५१ ॥
संवत्सरे समग्रेऽपि वासरोऽयं सुवासरः।
अवतारः सरखत्यास्त्वं यत्रातिथिरागतः ।। २५२ ॥
अनम्यत कृपाचार्यमादरेण द्विजो युवा ।
अभ्यनन्दत्तमाशीभिः सोऽपि खजनवत्सलः ॥ २५३ ॥
कोऽयं महात्मा यस्येत्थं कुरुध्वे पर्युपासनाम् ।
इति राजसुतैः प्रष्टः कृपः पुनरवोचत ।।२५४ ।।
वत्साः सोऽयं गुरुर्द्रोणः कलानां कुलमन्दिरम् ।
अयमेव रहस्यज्ञो धनुःपारायणे पुनः ॥ २५५ ॥
काव्यमाला।
प्रख्यातः सूनुरस्यायमश्वत्थामेति नामतः ।
न परं पितरं मूर्त्या योऽनुचक्रे गुणैरपि ॥ २५६ ॥
इत्याख्याय बिसृष्टेषु कुमारेषु मुदा कृपः।
द्रोणाचार्याय विदधावातिथ्यमतिथिप्रियः ॥ २५७ ॥
प्रसन्नमन्यदा द्रोणं व्याजहार रहः कृपः ।
प्रणयात्प्रार्थ्यसे किंचिन्नान्यथा कर्तुमर्हसि ॥ २५८ ॥
चापाचार्यस्त्वदन्योऽस्ति यथा न भुवनत्रये ।
तथामीभ्यः कुमारेभ्यो नास्ति सप्रतिभः परः ॥ २५९ ॥
व्याकुरुष्व तदा तेभ्यश्चापोपनिषद निजाम् ।
स्थानन्यासेन विद्यायास्त्रैलोक्यप्रथितो भव ॥ २६० ॥
शालिबीजं च विद्यां च वप्नुकामैर्मनीषिभिः ।
सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥ २६१ ॥
एतावद्भिर्दिनैरेते भित्तिवच्चित्रकर्मणाम् ।
मया त्वदुपदेशानामुपानीयन्त योग्यताम् ॥ २६२ ॥
तथेत्यङ्गीकृते तेन गत्वा भीष्मान्तिकं कृपः ।
सर्वमावेदयामास द्रोणवृत्तान्तमादितः ॥ २६३ ॥
द्रोणाचार्यमथाकार्य सत्कृत्य कनकोत्करैः ।
अर्पयामास गाङ्गेयः पौत्रान्याहयितुं कलाः ॥ २६४ ॥
तदा वैकटिकस्येव माणिक्येषु सुजातिषु ।
संस्कारस्तेषु सर्वेषु दिदीपे सुतरां गुरोः ।। २६५ ॥
संयोगो गुरुशिष्याणामन्योन्यं प्रीतिशालिनाम् ।
तेषामत्यद्भुतः सोऽभूदिन्दुकैरवयोगवत् ॥ २६६ ॥
वृष्टिं मेघ इवाचार्यः शिक्षां समतया ददौ ।
सा त्वाधारवशाभ्रे परिणाम पृथक्पृथक् ॥ २६७ ॥
उपदिष्टं धनुर्वेदं सर्व वेत्ति स्म फाल्गुनः ।
विवेदानुपदिष्टं तु स्वयं शुश्रूषणं गुरोः ॥ २६८ ॥
धनंजयस्य गुर्वङ्गसंवाहनभवश्रमः ।
महान्तमपि हन्ति स्म शस्त्राभ्यासपरिश्रमम् ॥ २६९ ॥
सुधास्वादं गुरोः पादपयः पीत्वा रजस्वलम् ।
निजां कपिध्वजश्चक्रे चित्रप्रज्ञामनाविलाम् ॥ २७० ॥
विनयं कुर्वतात्यर्थमर्जुनेन विशेषतः ।
सर्वशिष्यप्रियस्यापि गुरोरावर्जितं मनः ।। २७१ ॥
गुरुभक्तिसुधासेकसंपत्त्या सितवाजिनः ।
शिक्षावल्लिः फलस्फीतिमाततानातिशायिनीम् ।। २७२ ॥
सर्वातिशायिसबोधमकरन्दकरम्बिते ।
शिष्यप्रसूनपुञ्जेऽस्मिन्नर्जुनेनाम्बुजायितम् ॥ २७३ ॥
लक्ष्ये स्थिरे चले दूरेऽनपराद्धेपुमर्जुनम् ।
पश्यञ्जज्ञे सकर्णोऽपि कर्णा मनसि मत्सरी ॥२७४||
असौ साधारणः पन्थाः पुत्रो भवति यत्प्रियः ।
गुणैर्गुरोस्ततोऽप्यागात्मियतामर्जुनः पुनः ।। २७५ ।।
अवोचदेकदाचार्यों विनयावर्जितोऽर्जुनम् ।
कास्मि त्वां गुणैरेभिर्जगत्येकधनुर्धरम् ॥ २७६ ॥
प्रसादः स गुरोस्तच्च चापचातुर्यमद्धतम् ।
पार्थस्येदं द्वयं बाढं बाधते स्म सुयोधनस् ।। २७७ ।।
सद्गुणैः पाण्डवैः सार्धमुत्सलन्मत्सरौ तदा !
कर्णदुर्योधनौ मैत्रीमन्वभूतां परस्परम् ॥२७८ ॥
अनध्यायदिने क्वापि गोधाधारी धनुर्धरः ।
वने पुष्पकरण्डकाख्ये किरीटी क्रीडितुं ययौ । २७९ ॥
अपश्यत्तत्र तूणीवत्पूर्णास्यमफलैः शरैः ।
सारमेयममेयात्तविस्मयात्कंचिदर्जुनः॥ २८०॥
अभूत्तस्य मनस्येव तं वीक्षितवतस्तदा ।
अस्ति कापि प्रदेशेऽस्मिन्धुर्यः कश्चिद्धनुष्मताम् ॥ २८१ ।। १४ काव्यमाला।
अथासावग्रतो गच्छन्योग्यानिरतमुन्नतम् ।
एकं पुमांसमद्राक्षील्लक्ष्यभेदैककोविदम् ॥ २८२ ॥
संधानादानमोक्षेषु तस्य संप्रेक्ष्य लाघवम् ।
पार्थस्तं विस्मितोऽपृच्छत्कोऽसि त्वं कश्च ते गुरुः ॥२८३
सोऽवदद्भद्र पल्लीन्दोर्हिरण्यधनुषः सुतः।
एकलव्याभिधानोऽस्मि पुलिन्दकुलसंभवः ॥२८४ ॥
शास्त्रतत्त्वाम्बुधिद्रोणी द्रोणाचार्यश्च मे गुरुः ।
श्रूयते धन्विनां धुर्यः शिष्यो यस्य धनंजयः ॥ २८५ ॥
प्रत्यावृत्तस्ततः पार्थो विच्छायवदनः पथि ।
आगच्छन्नुच्छलन्मन्युर्मनस्येवमचिन्तयत् ॥ २८६ ॥
कुन्देन्दुधवलैरेष मा पराजयते गुणैः ।
शङ्के शिष्यप्रसादोऽपि चक्रेऽस्य गुरुणाधिकः ।। २८७ ॥
इति चिन्तामषीलेपश्यामलः साश्रुलोचनः ।
पार्थो व्यर्थश्रममन्यो गुर्वन्तिकमुपाययौ ॥ २८८ ॥
अथोन्नमय्य चिबुकं तं स्नेहाद्गुरुरब्रवीत् ।
दिनेन्दुवत्कथं वत्स वहसि म्लानमाननम् ॥ २८९ ।।
कृतान्तः कुपितस्तस्य तस्य संनिहितोऽशनिः ।
साक्षेपस्तक्षकस्तस्य निकारं ते चकार यः ॥ २९०॥
यथार्थमवदत्पार्थः कः प्रभोऽन्यः करोति माम् ।
किं केशरिकिशोरोऽपि केनचित्परिभूयते ॥ २९१॥
किंत्वाश्लिष्य पुरा प्रोक्तस्त्वयाहं वत्स ते समः ।
मम शिक्षामधीयानो न धन्वी भविता परः ॥ २९२ ।।
इति प्राक्सुकृतासाद्यात्प्रसादाचदुदीरितम् ।
वचस्ततोऽभवन्मिथ्या मनाति मम मानसम् ॥ २९३ ॥
यत्ते शिक्षाग्रणीरेको मयाद्य ददृशे वने ।
अहं प्रभो पुरस्तस्य कलां नामोमि षोडशीम् ।। २९४ ॥
१०७
उज्जगार गुरुर्वत्स शिष्यो मे नास्ति कश्चन ।
यस्त्वया हन्त तुल्योऽपि त्वयाधिक्ये तु का कथा ।। २९५ ॥
एवंवादिनमाचार्यमर्जुनो विनयान्वितः ।
एतं वो दर्शयामीति वदन्तिन्ये तदन्तिके ।। २९६ ॥
पादपान्तरितो भूत्वा तत्तादृक्तस्य लाघवम् ।
गुरुं प्रथममालोक्य जगाम पुरतस्ततः ।। २९७ ॥
आयान्तमेकलव्योऽपि द्रोणमुद्वीक्ष्य दूरतः ।
आगत्य भूमिलठनपतत्तस्य पादयोः ॥ २९८ ।।
ज्याकठोरप्रकोष्ठङ्कं प्रशान्तं ब्रह्मचारिणम् ।
चिरं संभावयामास द्रोणस्तं सान्द्रया दृशा ॥ २९९ ।।
अब्रवीच्च कुतो वत्स सैप शिक्षाक्रमस्तव ।
नहीदृशं ममाम्नायं भवेत्कार्मुककौशलम् ॥ ३० ॥
विहस्य गुरवेऽशंसदेकलव्यः कृताञ्जलिः ।
विदांकुरुत मे विद्या द्रोणाचार्याज्जगद्गुरोः ॥ ३०१ ।।
नसौ विद्योपदेशस्ते मत्तः किं भाषसे मृषा ।
यथार्थं भद्र जल्पेति गुरुस्तं भृशमभ्यधात् ॥ ३०२ ॥
एवमुक्तो विनीतात्मा पल्लीपतितनूरुहः ।
मृण्मयं दर्शयामास स द्रोणं द्रोणपार्थयोः ॥ ३०३ ॥
पार्थः पृथुलवेदिस्थां चम्पकैरचितार्चनाम् ।
तां गुरोः प्रतिमां वीक्ष्य वन्दते स्म मुहुर्मुदा ॥ ३०४ ॥
एकलव्यं च पप्रच्छ भ्रातरावेद्यतां मम ।
आजगाम गुरुद्रोणः कुत्र ते नेत्रपात्रताम् ॥ ३०५॥
सोऽप्यस्मै कथयामास महाभाग मयैकदा ।
गुरुरभ्यर्थितश्चापशिक्षाहतो रहःस्थितः ॥ ३०६ ॥
तदा विनयनम्रोऽपि योग्योऽयोग्योऽप्यहं सखे ।
हेतोः कुतोऽपि गुरुणा सर्वथापि निराकृतः ॥ ३०७ ॥
गुरुपादाः प्रसादाय ध्यानाध्यक्षीकृता अपि ।
भवन्त्येवेति निश्चित्य प्रदेशेऽत्र समागमम् ॥ ३०८॥
साक्षादिव गुरुं पश्यन्नभ्यर्च्य प्रतिमामिमाम् ।
दिवानिशमिषून्पश्यन्नभ्यासमहमादधे ॥ ३०९ ॥
नमोऽस्तु गुरवे तस्मै प्रसादाद्यस्य पश्यतः ।
मादृशो मलिनात्मापि विधत्ते चापचापलम् ॥ ३१० ॥
यो हि स्मरणमात्रेण हन्ति संतमसं भृशम् ।
अवाप्नोतु गुरोस्तस्य तरणिः करणिः कथम् ॥ ३११ ॥
इति जल्पन्तमानन्दात्तं सरोमाञ्चकञ्चकम् ।
अतुच्छपार्थवात्सल्यविवशो गुरुरब्रवीत् ॥ ३१२ ..]
पल्लीन्द्रपुत्र चेदस्मि गुरुरङ्गीकृतस्त्वया ।
तदत्रार्थे कृतार्थेन दीयतां गुरुदक्षिणा ॥ ३:१३ ॥
एकलव्यस्तदाकर्ण्य विकखरमुखाम्बुजः ।
तं बभाषे प्रभो ब्रूहि वस्तु किं ते सुदक्षिणा ॥ ३१४ ॥
विभवो वा शिरो वास्तु मदीयं तव दक्षिणा ।
एतेनाप्याधमा ते न विमुच्येय निश्चितम् ॥ ३१५ ॥
इत्युक्तो गुरुरप्यूचे वाचं निस्त्रिंशतोचिताम् ।
वामेतरकराङ्गुष्ठो निलयं मम दीयताम् ॥ ३१६ ॥
तन्निशम्य प्रसन्नास्यः कृतार्थमन्यमानसः ।
सोऽसिधेनुकया छित्वा गुरवेऽङ्गुष्ठमर्पयत् ॥ ३१७ ॥
पुष्पवृष्टिः सुरैर्मुक्ता तस्योपर्यपतत्तदा ।
गुरुभक्तिर्द्वितीयेन कः सत्त्वेन न रज्यते ॥ ३१८ ॥
द्रोणाचार्योऽपि साश्चर्यः प्रीतचेतास्त्रपानतः ।
तमाश्लिष्याभ्यधावत्स दुष्करं कृतवानसि ॥ ३१९ ॥
अतःप्रभृति कोदण्डमङ्गुलीभिरपि स्फुटम् ।
आकर्षन्नपराद्धेपुः कदाचिन्न भविष्यसि ॥ ३२० ॥
इति प्रीत्या तमाश्वास्य व्यावृत्तो वर्त्मनि ब्रजन् ।
गुरुर्धनजयेनैतद्विनयादन्वयुज्यत ॥ ३२१ ॥
तैस्तैः शिष्यगुणैः काममुपेतोऽपि प्रभो त्वया ।
असौ गुणैकगृह्येण कथं न ग्राहितः श्रमम् ॥ ३२२ ॥
इति पर्यनुयुक्तोऽथ द्रोणाचार्योऽप्यचीकथत् ।
शृणु कारणमत्रार्थे वत्स त्वं गुरुवत्सल ॥ ३२३ ।।
शस्त्रे शास्त्रे च केनापि मा स्म पार्थोऽतिरिच्यताम् ।
इयं मम प्रतिज्ञास्मिन्नवज्ञाहेतुतां ययौ ।। ३२४ ॥
यथार्थमिदमासाद्य गुरोरुत्तरमर्जुनः।
मेने प्रत्युपकाराय प्राणानपि न किंचन ।। ३२५ ॥
अथागत्य विनीतांस्ताशिप्यानध्यापयद्रुः ।
अमुक्ते करमुक्ते च शस्त्रे तेऽपि व्यधुः श्रमम् ॥ ३२६ ॥
अशिक्षतां गदायुद्धं भीमदुर्योधनौ पुनः ।
कलापारंगमैर्यातं कुमारैरखिलै क्रमात् ॥ ३२७ ॥
शिखिपिच्छमवस्थाप्य तालपादपमूर्धनि ।
द्रोणाचार्योऽथ कोदण्डे तानारोप्य परीक्षितुम् ॥ ३२८ ॥
लक्ष्याभिमुखमालीदं स्थानमास्थाय तिष्ठतः।
शरस्तु मद्गिरा मोच्यो गुरुस्तानित्यशिक्षयत् ।। ३२९ ॥
मण्डलीकृतकोदण्डं गुर्चादेशानुसारतः ।
निक्षिप्तचक्षुषो लक्ष्ये ने तस्थुः स्थिरचेतसः ॥ ३३० ।।
प्रत्येकं तेऽन्वयुज्यन्त गुरुणा किमु पश्यथ ।
मां च वृक्षं च लक्ष्यं च बन्धूनेतांश्च पुत्रकाः ॥ ३३१ ॥
तेऽप्यभाषन्त पश्यामस्त्वां चैनं च महीरुहम् ।
सर्वांश्च बान्धवानेताल्लक्ष्यं चैव पुरःस्थितम् ॥ ३३२ ॥
तेन तद्वचसाचार्यः सव्यथोऽन्तरचिन्तयत् ।
अजात्यरत्नवदमी योग्या नोत्तरकर्मणाम् ॥ ३३३ ॥
अथ पार्थं व्यवस्थाप्य तथैव गुरुरादिशत् ।
प्रेक्षे चन्द्रकमेवाहं पिच्छेऽस्मिन्निति सोऽवदत् ॥ ३३४ ॥
तामर्जुनगिरं श्रुत्वा निश्चिक्ये मुदितो गुरुः ।
राधावधोपदेशस्य योग्योऽयमिति चेतसि ।। ३३५॥
अन्यदा स्वर्णदीतोये मज्जनाय गुरुर्ययौ। .
कुमारा अपि सर्वेऽपि सुविनीतास्तमन्वयुः ॥ ३३६ ॥
मज्जन्तमन्तःसलिलं गम्भीरिमगुरुं गुरुम् ।
जङ्घाकाण्डेऽथ जग्राह ग्राहः कश्चिद्दृढग्रहः ॥ ३३७ ॥
स विक्रमकलासारान्कुमारानखिलानपि ।।
अलंभूष्णुरपि ग्राहनिग्राहाय समादिशत् ।। ३३८ ॥
अगाधजलदुर्गस्थं ते च तं हन्तुमक्षमाः ।
उदासांचक्रिरे सर्वे गुरोः पार्श्वचराश्विरम् ॥ ३३९ ।।
अकिंचित्करतां तेषां विभाव्य गुरुरादरात् ।
मुखमालोकयामास प्रह्वबाहोः किरीटिनः ॥ ३४०॥
गुरुं रक्षन्निजग्राह ग्राहं पार्थः पतत्रिभिः । ..
हस्तवांश्च मनस्वी च किं न कुर्याद्धनुर्धरः ॥ ३४१ ॥
द्रोणाचार्योऽथ पार्थाय पृथुदोर्वीर्यशालिने ।
राधावेधोपदेशाख्यं प्रददौ पारितोषिकम् ॥ ३४२ ॥
प्रदत्तोपनिपत्तेन भृशं रेजे धनंजयः ।
वार्धिविश्राणितसुधासर्वस्व इव वासवः ॥ ३४३ ॥
आकलय्य कुमारांस्तान्सर्वविद्यावधीतिनः ।
द्रोणाचार्योऽथ भीष्माद्यैरुपेतं पाण्डुमभ्यगात् ॥.३४४ ॥
सत्कृत्य विष्टरेऽभ्यर्णः स भूपेनोपवेशितः ।
अभाषत सभां दन्तज्योत्स्नाभिः स्नपयन्निव ।। ३४५ ॥
परमां प्रौढिमारूढाः परीक्ष्यन्तां ततोऽधुना ।। ३४६ ॥
अभिनन्द्य गुरुं प्रीत्या राजा विदुरमादिशत् ।
"पुरीपरिसरे रम्ये रच्यतां रङ्गभूरिति ॥ ३४७ ।।
अपशल्यां समां सौम्यां भुवमभ्यर्णपाथसम् ।
अदर्शयत्तदोपेत्य विदुरस्य गुरुस्ततः ॥ ३४८ ॥
तत्रादृतेन गुरुणा निर्मिते बलिकर्मणि ।
विदुरोऽपि क्षितीशार्थं प्रेक्षागारमकारयत् ।। ३४० ॥
अवरोधवधूहेतोर्वेदिकाश्च गरीयसीः ।
उर्वीशवर्गयोग्यांश्च मञ्चानुच्चानचीकरत् ।। ३५० ॥
दिने गुरुसमादिष्टे दूताहूता महीभुजः ।
'एत्य मञ्चानलंचगिरीनिव मृगारयः ॥ ३५१ ।।
सहितो धृतराष्ट्रेण जाह्नवीयेन चान्वितः ।
प्रेक्षागारमगात्पाण्डुः पुत्रशिक्षादिक्षया ।। ३५२ ।।
कुन्ती निजतनूजानां विक्रमालोकनोत्सुका ।
सत्यवत्यादिभिस्तत्र समं श्वश्रूमिराययौ ।। ३५३ ।।
कुमारास्त्रपरीक्षार्थं क्ष्माचरव्योमचारिणाम् ।
रेजे समाजो निर्व्याजप्रीति संमीलितस्तदा ॥ ३५४ ।।
द्रोणाचार्यकृपाचार्यैर्विविधायुधपाणिभिः ।
तैरानुपदिकैः सार्धं रङ्गे प्रविशतां तदा ।। ३५५ ॥
युधिष्ठिरं तथा भीमं कर्णदुर्योधनार्जुनान्।
मुक्त्वान्येषां गुरुः प्रादादनुज्ञा श्रमदर्शने ॥ ३५६ ।।
केचित्तेषु कुमारेषु गजाश्वाधधिरोहिणः ।
कोदण्डे दर्शयामासुनि शिक्षासु कौशलम् ।। ३५७ ॥
तेषामाबाणसंधानलक्ष्यभेदावधेरपि ।
एकमेव जनः कालं कलयामासिवांस्तदा (१) ॥ ३५८ ॥
संचरत्सु यथालक्ष्यं तहाणेषु नभोऽङ्गणे ।
भयेन संकुचन्ति स्म सर्वतःप्रेक्षिणो जनाः ॥ ३५९ ॥
राजन्यतनयोपतज्ञे लक्ष्यभेदे पदे पदे ।
साधु साध्विति लोकस्य कल: कलकलोऽभवत् ॥ ३६० ॥
स्थिरत्वं सौष्ठवं केचिल्लाघवं दृढमुष्टिताम् ।
आश्रित्य दर्शयामासुस्ते खड्गादिषु कौशलम् ।। ३६१ ॥
अमुक्ते यन्त्रमुक्ते च पाणिमुक्तेऽप्यदर्शयन् ।
समस्तेऽप्यायुधे किंचिद्गुरुशिक्षा विचक्षणाः ॥ ३६२ ॥
अथोपतस्थे रङ्गान्तर्गुर्वादिष्टो युधिष्ठिरः।
लोकश्च तत्र चिक्षेप सम्ग्रामसदृशो दृशः ॥ ३.६३ ॥
एकां लक्ष्ये निचिक्षेप निजां दृष्टिं सुनिश्चलाम् ।
तस्मिन्विस्मयनिष्पन्दा कोटिसंख्यां जनः पुनः ॥ ३६४ ।।
असावचिन्त्यमाहात्म्यः प्रहीकृतजगत्रयः ।
असावशेषशौण्डीरचूडारत्नमनुत्तरम् ॥ ३६५॥
असावनुपमज्ञाय यथैकपथिकोत्तमः ।
असावनन्यसामान्यसत्यपूतवच क्रमः ॥३६६ ॥
इत्थं लोककृतां श्लाघां श्रुत्वातिप्रीतचेतसः ।
पुण्डरीकोपमाः पाण्डोर्दृशः पेतुर्युधिष्ठिरे ॥ ३६७ ।।
(त्रिभिर्विशेषकम् )
रथी सोऽथ रथारूढः प्रौढविक्रमसंक्रमः ।
निःशेषं दर्शयामास शस्त्रकौशलमात्मनः ॥ ३६८ ॥
अथातो नित्यसंसृष्टौ दुर्योधनकोदरौ ।
गदायुद्धाय संनद्धौ रङ्गोत्सङ्गेऽवतेरतुः ।। ३६९ ।।
रङ्गेण रङ्गगगने सूर्याचन्द्रमसावित्र ।
तौ प्रदक्षिणवारीभिरभितश्चेरतुश्चिरम् ॥ ३७० ॥
तौ विस्मयेन पश्यन्तस्तदा दिविषदो दिवि ।
फलमाकलयामासुर्नेत्रयोर्निनिमेषयोः ॥ ३७१ ॥
दुर्योधने च भीमे च पक्षपातात्पृथक्पृथक् ।
एकापि परिपत्तत्र द्वैधीभावमुपाययौ ॥ ३७२ ॥ पाण्डवचरितम् । ११३
धैर्यं दुर्योधनस्याहो भीमस्याहो सुसौष्ठवम् ।
इति लोकप्रशंसाभिः शब्दाद्वैतं तदाभवत् ॥ ३७३ ॥
ततो हृदि स्थिते भीमे प्राणनाशोपदेशकृत् ।
गुरुर्दुर्योधनस्योच्चैर्जागरामास मत्सरः ॥ ३७४ ॥
ततो लोचनयोः किंचिद्गान्धारीतनुजन्मनः ।
क्रोधाश्रयाशज्वालेव प्रादुरास पिशङ्गता ॥ ३७५ ।।
धृतराष्ट्रतनूजस्य क्रोधान्धस्य शरीरतः ।
स्वेदविन्दुब्रजव्याजान्निर्ययुमत्सरोर्मयः ॥ ३७६ ।।
ततो वीक्ष्य तदाकारं निर्विकल्पमना अपि ।
विदाञ्चकार परितस्तदाकूतं वृकोदरः॥ ३७७ ॥
क्रोधधूमध्वजस्फूर्जद्धमसंचयसंनिमः ।
उज्जृम्भते स्म भीमस्य मूर्ध्नि मूर्धरुहोचयः ॥ ३७८ ॥
क्षणाद्दशनमीत्येव स्फुरति स्मौष्ठपल्लवः ।
तस्याङ्गान्यपि रोमाञ्चव्याजात्प्रासानसञ्जयन् ॥ ३७९ ॥
कोपावेगादधावेतां तावुद्र्णगदौ ततः ।
संहारमारुतोद्भूताविव विन्ध्यहिमालयौ ॥ ३८० ।।
संजग्माते न तो यावत्प्रहाराय परस्परम् ।
अभाषिष्ट गुरुस्तावदश्वत्थामानमात्मजम् ॥ ३८१ ॥
वत्स वत्सौ महावीरौ निवारय जवादिमौ ।
माभूत्क्षोभः क्षणादेवं रङ्गस्यास्य गरीयसः ।। ३८२ ॥
उभावपि ततस्तेन वारितौ गुरुसूनुना ।
तावुपाविशतां स्थानं सावहित्थौ निजं निजम् ॥ ३८३ ॥
निवार्य तूर्यनिर्घोष रोदसीभेदभैरवम् ।
कोलाहलं च लोकानां गुरुर्गिरमवोचत ।। ३८४ ।।
यो मे पुत्रादपि प्रेयान्प्राणेभ्योऽपि प्रियंकरः।
सर्वास्त्राम्भोधिपारीणस्तं पार्थं पश्यताधुना ।। ३८५ ॥
१५ काव्यमाला।
आनद्धोभयतूणीरः करोपहितकार्मुकः ।
बद्धगोधाङ्गुलित्राणः कवचच्छन्नविग्रहः ॥ ३८६ ॥
ततो विवेश बीभत्सुर्गिरान्तःसदसं गुरोः ।
मध्येसुरपुरं जन्तुर्यत्नेनेव सुरद्विपः ।। ३८७ ॥ (युग्मम् )
त्रिजगत्येकवीरोऽयमयमस्त्रविदां वरः ।
कुरुगोत्रप्रदीपोऽयमयं भुवनरक्षिता ॥ ३८८ ॥
तेजसामेकधामायमयं न्यायनिकेतनम् ।
कीर्तीनां कुलवेश्मायमयमुत्साहमन्दिरम् ॥ ३८९ ॥
इत्यानन्दाजनैरुक्ताः शृण्वत्याः सर्वतो गिरः ।
प्रश्रयेण समं कुन्त्याः पेतुः प्रीत्याश्रुविषुषः ॥ ३९० ॥
धृतराष्ट्रस्य पाण्डोश्च पुलकच्छद्मना बहिः ।
फाल्गुनं पश्यतोर्जाताः शुभस्नेहाङ्कुरा इव ॥ ३९१ ।।
दिदृक्षयेव पार्थस्य लोकवत्रेषु राकया ।
एत्यामावस्यया तस्थे गान्धारीवदने पुनः ॥ ३९२ ॥
संसज्जनैः स्थितैस्तैस्तैरर्जुनस्तुतिघट्टनैः ।
दिदीपे कोपसप्तार्चिः सुयोधनशमीतरौ ॥ ३९३ ॥
कर्णस्तु सर्वशास्त्राब्धिकर्णधारभुजोर्जितः ।
सार्जुनं तं जनं हन्तुमियेष प्रस्तुतस्तुतिम् ॥ ३९४ ॥
कलितोद्दण्डकोदण्डमालीढस्थानमास्थितः ।
किरीटी ददृशे साक्षाद्धनुर्वेद इवाङ्गवान् ॥ ३९५ ॥
जनस्याभून्मुदा तूर्यनिनादैरभिनन्दितः ।
ब्रह्माण्डमाण्डभेदीव कलः कोलाहलो महान् ॥ ३९६ ॥
उपजग्मुषि विश्रान्तिमथ तस्मिन्कथंचन ।
अस्त्रकौशलमात्मीयं दर्शयामास फाल्गुनः ।। ३९७ ॥
लक्ष्ये चले स्थिरे स्थूले लघीयसि च लाघवम् ।
के नाम विस्मयं नापुः पश्यन्तः सव्यसाचिनम् ॥ ३९८ ॥
दृढानि दृढमुष्टित्वाद्दुर्भेद्यान्यपि भिन्दता ।
जिष्णुना वैरिवारस्य दृढं चेतोऽप्यभिद्यत ।। ३९९ ॥
तस्मिन्बहूनि चित्राणि विचित्राणि वितन्वति ।
चित्रीयन्ते स्म के नाम न माद्यद्दोर्मदा इव ॥ ४०० ।।
शरग्रहणसंधानसमाकर्षणमुक्तयः ।
शतशो लक्ष्यभेदाश्च तस्यैक्ष्यन्त समं जनैः ॥ ४०१॥
न यत्र निपतन्ति स्म नायना अपि रश्मयः ।
लक्ष्यं तत्राप्यणीयोऽपि भिन्दन्ति स्मार्जुनेपयः ॥ ४०२ ॥
चक्रवद्रमतो लोहवपुषो यत्र पोत्रिणः ।
निचखान मुखे पञ्च वाणान्युगपदर्जुनः ॥ ४०३ ।।
राधावेधादिकं तत्तत्पार्थोऽन्यदपि दुष्करम् ।
करोति स्म यदालोक्य सुरैरपि विसिष्मिये ।। ४०४॥
चक्रप्रासगदाखड्गप्रभृतिष्वपि कौशलम् ।
शस्त्रेषु क्षेत्रवाहस्य निर्वाहमगमत्परम् ॥ ४०५ ॥
क्षणात्पांशुः क्षणाद्भवः क्षणाद्भूमौ क्षणादिवि ।
क्षणात्क्रीडव्रथकोडे तत्र जिष्णुरदृश्यत ।। ४०६ ॥
मन्त्रास्त्राण्य(प्य)नुध्यानमात्रजातोदयानि सः ।
आमेयवारुणादीनि कुरुभर्तुरदर्शयत् ॥ ४०७ ॥
ततः समर्थितप्राये तस्मिन्महति कर्मणि ।
समालोके च सर्वस्मिन्नानन्दमकरन्दिते ॥ ४०८ ॥
संवर्तपुष्करावर्तनिध्वानप्रियबान्धवः ।
भुजास्फोटध्वनिः कर्णस्फोटकृद्धैरवोऽभवत् ।। ४०९ ॥(युग्मम्)
भूभृतः किमु शीर्यन्ते दीर्यते किमु मेदिनी ।
पतन्ति विद्युतः किंचित्क्षुभ्यन्ति किमुताब्धयः ॥ ४१० ॥
विकल्पजातमत्यन्तं कुर्वन्नुभ्रान्तमानसः ।
विसंस्थुलं समुत्तस्थौ सर्वोऽथ स सभाजनः ॥ ४११ ॥
आवव्रे पञ्चभिर्द्रोणः पाण्डवैः सायुधैस्तदा ।
मूर्तिमान्परमात्मेव महाभूतैः शरीरिमिः ॥ ४१२ ॥
अश्वत्थामान्विताः स्थामवन्धुरा बान्धवाः शतम् ।
तारका इव शीतांशुं परिचक्रुः सुयोधनम् ॥ ४१३ ॥
अमन्दरमदक्षुब्धक्षुभ्यदम्भोधिभैरवम् ।
कातरीकृतशौण्डीरं सिंहनादं समावहत् ॥ ४१४ ॥
भुजास्फोटानुसारेण प्रक्षिप्तनयनाम्नुजैः ।
विस्मयस्तिमितैस्त्रासलोलैश्यालोकितो जनैः ॥ ४१५॥
भीमाकृतिरपि प्रांशुः सासितूणीरकार्मुकः ।
काञ्चनं कवचं बिभ्रत्सुमेरुरिव जङ्गमः ॥ ४१६ ।।
बीभत्सुं प्रति बीभत्से क्षिपन्गुञ्जारुणे दृशौ ।
रङ्गमध्यमथाध्यास्त कर्णः शौर्यमहार्णवः ॥ ४१७ ॥
(चतुर्भिः कलापकम्)
ततः कर्णः कृपाचार्यं द्रोणं च द्रुहिणोपमम् ।
ननाम नामितारातिर्नातिप्रान्तराशयः ॥ ४१८॥
ततः सगर्वं सोऽवोचत्पार्थ मानेन कर्मणा ।
मंस्थाः कर्मठमात्मानं मामालोकय संप्रति ।। ४१९॥
अथ पार्थो यथा यद्यत्कर्म निर्मितवान्पुरा ।
कर्णः सातिशयं तत्र प्रथयामासिवांस्तथा ॥ ४२० ॥
ततः सहर्षमुत्थाय धृतराष्ट्रात्मजाग्रणीः ।
कर्णं निबिडमालिङ्ग्य प्रणयादित्यवोचत ।। ४२१ ॥
कर्ण त्वमेकवीरोऽसि त्वं त्रिलोकीविभूषणम् ।
त्वं धनुर्वेदविद्यायाः परां सीमानमीयिवान् ॥ ४२२ ।।
त्वमेव वैरिदोर्दर्पसंपदां पश्यतोहरः ।
त्वमेव कीर्तिनिर्यासडिण्डिमः सर्वधन्विनाम् ।। ४२३ ॥
इदं राज्यमिमे प्राणा इमाः कुरुकुलस्त्रियः ।
सर्वं त्वदीयमेवैतद्ब्रूहि येन प्रयोजनम् ॥ ४२४ ॥
कर्णोऽप्युवाच मेऽस्त्येव समस्तं सुहृदि त्वयि ।
पार्थाय केवलं भूयात्सौहार्दं ते मयि स्थिरम् ॥ ४२५ ।।
किंतु पार्थस्य दोर्दण्डकण्डूतिज्वरितात्मनः ।
इच्छन्ति द्वन्द्वयुद्धेन भुजो भिषजितुं मम(?) ॥ ४२६ ॥
गिरमाकर्ण्य कर्णस्य तामधिक्षेपपांसुलाम् ।
हुतो वह्निरिव क्रोधाज्ज्वलितः फाल्गुनोऽभ्यधात् ॥ ४२७॥
कर्ण निर्गम निर्मज मदीयशरसागरे ।
अस्त्रोदकैर्निजस्त्रीणां दृशः किं प्लावयिष्यसि ॥ ४२८ ।।
कर्णस्ततोऽब्रवीत्कोपात्पार्थ केयं विभीपिका ।
गृहाणास्त्रं हराम्येष सर्वं गर्वं तवाधुना ॥ ४२९ ॥
ततो द्रोणाभ्यनुज्ञातः प्रगृश्य सशरं धनुः ।
युद्धश्रद्धाय कर्णाय कपिकेतुरतिष्ठत ।। ४३० ॥
तयोः समरसंरम्भदर्शनोत्सुकचेतसाम् ।
आसीत्कुसुमितेव द्यौर्विमानैस्त्रिदिवौकसाम् ॥ ४३१ ॥
तदीयसमरारम्भविलोकनकुतूहली ।
अनूरुसारथिस्तस्थौ स्थिरीकृतरथः क्षणम् ॥ ४३२ ।।
तौ प्रजाभिरदृश्येतां रणायान्योन्यसंमुखौ ।
विन्ध्याद्रिविपिनोत्सङ्गे मत्तौ दन्तावलाविव ॥ ४३३ ॥
अभूवन्कर्णतः केचित्केचिदर्जुनतः पुनः ।
खेचरामरमरमर्त्यानां तदा द्वैधमजायत ॥ ४३४ ॥
पुरः कर्णस्य को जिप्णुरिति दुर्योधनादयः ।
कः कर्णोऽग्रेऽर्जुनस्येति दधुर्घीमादयो मुदम् ॥ ४३५ ॥
कुन्ती तु कुन्तभिन्नेव तनयस्नेहविक्लवा ।
मूर्च्छान्धकारविधुरा पपात जगतीतले ॥ ४३६ ॥
तां तथा विदुरः प्रेक्ष्य प्रेक्षाभिश्चन्दनद्रवैः ।
क्षणादाश्वासयामास शीतैश्च व्यजनानिलैः ॥ ४३७ ।।
विषमैव गतिः कामं समरस्येति कातरम् ।
पाण्डोर्वदनमालोक्य राधेयमवदत्कृपः ॥ ४३८ ॥
कुन्तीकुक्षिसरोहंसः कुरुवंशैकमौक्तिकम् ।
पाण्डुहेमाद्रिकल्पद्रुर्बीभत्सुर्विदितोऽस्ति नः ॥ ४३९ ॥
तत्त्वमप्यात्मनो ब्रूहि मातरं पितरं कुलम् ।
ताम्यतस्तव चेद्बाहू रणाय कपिकेतुना ॥ ४४०॥
तां कृपस्य कृपाणाग्रशितामाकर्ण्य भारतीम् ।
झटित्युत्थाय संरम्भादभाषत सुयोधनः ।। ४४१ ॥
किं कुलेन पितृभ्यां वा गौरवं हि गुणैर्नृणाम् ।
अधिरोहति मूर्धानमरविन्दं किमन्वयम् ॥ ४४२ ॥
रणः शौण्डीरिमप्रेक्ष्यः कुलं न कापि प्रेक्ष्यते ।
शौण्डीरस्तद्बलात्कर्णः फाल्गुनं योधयिष्यति ॥ ४४३ ॥
किं नाम सोऽपि शौण्डीरः क्षमते यः परानपि ।
न नाम सहते सिंहो गर्जाभिः स्फूर्जतो घनान् ॥ ४४४ ॥
अथ जल्पवता राज्ञा विधत्ते युद्धमर्जुनः ।
राज्ये कर्णस्तदङ्गानामभिषिक्तो मयाधुना ॥ ४४५ ॥
इत्युदीर्य कृपाचार्यप्रभृतीन्धृतराष्ट्रसूः ।
कर्णराज्याभिषेकाय तत्कालमुपचक्रमे ॥ ४४६ ॥
पुरोहितमथाहूय कर्णं स्वर्णनासनस्थितम् ।
स्वभुक्ते सोऽङ्गसाम्राज्येऽभ्यषिञ्चत्तीर्थवारिभिः ॥ ४४७ ॥
निष्कलङ्कमृगाङ्काभं तस्य च्छत्रमधार्यत ।
अर्जितं निजदोर्दण्डैर्यशः स्वमिव पिण्डितम् ।। ४४८॥
प्रकीर्णकानि कर्णस्य धूयन्ते स्म वधूजनैः ।
अभिषेक्तुं तमायान्त्यो गङ्गोर्मय इवाम्बरात् ॥ ४४९ ।।
चिरं जयाङ्गराजेति शब्दोद्गारपुरःसरम् ।
तस्य भोगावलीं पेठुर्बन्दिनो विश्ववन्दिनः ॥ ४५० ॥
कर्णः प्रत्युपकाराय ययाचेऽथ सुयोधनम् ।
स्थेमानमर्थयामास सोऽपि सौहार्दसंपदः ।। ४५१ ॥
सौहार्दं हि कियन्मात्रं प्राणा अपि तवैव मे ।
इत्युक्तवन्तं राधेयं मुदाश्लिष्यत्सुयोधनः ॥ ४५२ ॥
ततः प्राप्ताङ्गसाम्राज्यः पुनरादाय कार्मुकम् ।
रणारम्भाय राधेयो दूरादाहास्त फाल्गुनम् ॥ १५३ ।।
साम्राज्यमङ्गदेशानामुपश्रुत्यात्मजन्मनः ।
स्मरदानन्दसंदोहविसंस्थुलपदक्रमः ॥ ४५४ ॥
स्रस्तोत्तरीयसिचयः प्रफुल्लनयनोत्पलः ।
कर्णस्य जनकोऽभ्यागात्तत्रातिरथिसारथिः ॥ ४५५ ।।
कर्णः पितरमालोक्य दूरादुत्सृज्य कार्मुकम् ।
पपात पादयोस्तस्य दैवतं हि परं पिता ॥ ४५६ ॥
अङ्गराज्याभिषेकार्द्रमानन्दाश्रुकणोदकैः ।
पुनरुक्तं शिरः सोऽपि तनूजस्यामिपिञ्चति ॥ ४५७ ।।
आलिङ्गति स्म सर्वाङ्गं सुतमुत्थाप्य सारथिः ।
उन्मीलत्पुलको मूर्ध्नि भूयोभूयश्चुचुम्ब च ॥ ४५८ ॥
विज्ञाय विज्ञतिलकस्तमित्थं सारथेः सुतम् ।
कर्णमभ्यर्णमागत्य वदति स्म वृकोदरः ।। ४५९ ॥
सूतात्मज न पार्थेन कथंचिद्योद्भुमर्हसि ।
गृह्यतां प्राजनं चापमपहाय कुलोचितम् ॥ ४६० ॥
अङ्ग त्वमङ्गसाम्राज्ययोग्योऽसि न कथंचन ।
मृगारातिपदे हन्त गोमायुः किमु जायते ॥ ४६१ ।।
इति व्याहरति स्वैरं भीमे भीमभुजोर्जिते ।
आगत्य रभसाद्भातृमध्याद्दुर्योधनोऽभ्यधात् ॥ ४६२ ॥
वीराचारानभिज्ञोऽसि भीम यत्कुलमीक्षसे ।
चुलुकाचान्तसप्ताब्धेः कुलं कुम्भोद्भवस्य किम् ॥ ४६३ ॥
तत्त्वान्तरं किमप्येतत्कर्ण इत्युदितं भुवि ।
दिव्याङ्गलक्षणं सूती न सूते सुतमीदृशम् ॥ ४६४ ॥
अथातिरथिराह स्म साधु साधु सुयोधन ।
असौ मे नाङ्गजः सूनुर्यथा प्राप्तस्तथा शृणु ॥ ४६५ ॥
त्रिःस्रोतःस्रोतसि पुरा प्रभाते गतवानहम् ।
अपश्यं रत्नमञ्जूषां पुण्यैर्लक्ष्मीं निजामिव ॥ ४६६ ॥
गृहे नीत्वा पुरः पत्न्यास्तामुद्धाट्य तदन्तरे ।
सकुण्डलं स्फुरत्कान्तिं वचनागोचरश्रियम् ॥ ४६७ ॥
राजकुञ्जरदर्पोष्मध्वंससंभाविताकृतिम् ।
एकमालोकयं बालं सिंहार्भकमिवोद्भटम् ॥ ४६८ ॥
तमालोक्य कृतालोकं पत्नीं राधामथाभ्यधाम् ।
अनपत्या प्रिये संप्रत्यनेन भव पुत्रिणी ।। ४६९ ॥
इत्युक्ता सापि मामाह प्राणेश धुसृणारुणे ।
जाते प्राच्या दिशो चक्रे स्वामोऽद्य ददृशे मया ॥ ४७० ॥
जानामि भानुमानेत्य सप्रसादं जगाद माम् ।
वत्से संपत्स्यते तेऽद्य शौण्डीरतिलकः सुतः ॥ ४७१ ॥
तं दृष्ट्वा दधती हर्षमुज्जागरमजागरम् ।
तदैव च त्वयानेन दिष्टया पुत्रेण वर्धिता ॥ ४७२ ॥
इत्याख्याते शुभे स्वप्ने प्रियायाः पुलकस्पृहः ।
मञ्जूषातः समाकृष्य तमङ्के बालमक्षिपम् ॥ ४७३ ॥
कर्णस्याधः करं कृत्वा सुतः प्राप्तोऽयमित्यसौ ।
प्रापितः कर्ण इत्याख्यां तनयः सुदिने मया ॥ ४७४ ॥
स्वप्ने रविवितीर्णत्वादपरं रविभूरिति ।
अस्य यद्भागधेयस्य नामधेयमजायत ॥ ४७५ ॥
भवन्ति स्म गुणा बाल्यादस्मिन्नस्मत्कुलातिगाः ।
पङ्के पङ्केरुहो वृद्धिः सौरभ तु स्वतोभवम् ॥ ४७६ ॥
१२१
असौ राजकुले क्वापि लब्धजन्मा न संशयः ।
इति कुन्दोज्ज्वलैरस्य गुणैरनुमितं मया ॥ ४७७ ॥
असौ मद्वंशजत्वेन यदधिक्षिप्यते मुहुः ।
काकोलकुलजत्वेऽपि कुत्सनं कोकिलस्य तत् ।। ४७८ ॥
इमामाकर्ण्य कर्णस्य कथामतिरथेर्मुखात् ।
दधुः सभासदः सर्वे विस्मयस्तिमितं मनः ।। ४७९ ॥
कुन्तीति चिन्तयामास दिष्ट्या जीवति मे सुतः ।
नेत्रयोश्चिररात्राय ममाभूत्पारणाव(वि)धिः ।। ४८० ॥
सैवेयं यन्मणिस्तोममण्डिता कुण्डलद्वयी ।
अहमेकैव धन्यास्मि यस्याः कर्णार्जुनौ सुतौ ।। ४८१ ॥
कोऽन्यः स्पर्धेत पार्थेन यो हि न स्यात्सहोदरः ।
अमृतेनामृताभीशुरेव स्पर्धितुमर्हति ॥ ४८२ ॥
कर्णो वः सोदरो बन्धुरिति संबन्धमादितः ।
समये धर्मजादीनां ज्ञापयिष्यामि जातुचित् ॥ ४८३ ।।
एवं विकल्पकल्लोलैः कुन्त्यामानान्तचेतसि ।
सभायां भुजमुक्षिप्य क्रुधा दुर्योधनोऽभ्यधात् ।। ४८४ ॥
अभिषिक्तोऽयमङ्गेषु यादृशस्तादृशो मया ।
नाभीष्टो यस्य कस्यापि स नामयतु कार्मुकम् ॥ ४८५ ॥
तामाकर्ण्य गिरं पाण्डुसूनुपु ज्वलितात्मसु ।
भयोद्धान्तस्य लोकस्य जज्ञे कोलाहलो महान् ॥ ४८६ ॥
पाण्डुद्रोणमभाषिष्ट दृष्ट्वा तदसमञ्जसम् ।
प्रचण्डपुत्रभाण्डानामकाले कलहः किमु ॥ ४८७ ॥
एषामस्माभिरासूत्रि कलामात्रपरीक्षणम् ।
कुमाराणां विरोधोऽयं तदाचार्य निवार्यताम् ॥ ४८८ ॥
मिथो विरोधं बन्धूनामवेक्षितुमिवाक्षमः ।
तदानीं च पतिर्भासामस्तगह्वरमाविशत् ।। ४८९ ॥
१२२
काव्यमाला।
अथोत्क्षिप्य भुजं द्रोणः पाण्डवान्कौरवानपि ।
सिंहपोतानिवान्योन्यं युध्यमानान्न्यवारयत् ॥ ४९० ॥
भुजोत्कर्षाच्च बीभत्सोः कुमाराणां च मत्सरात् ।
आनन्दश्च विषादश्च समं पाण्डोरभूद्वयम् ।। ४९१ ॥
धृतराष्ट्रकृपद्रोणगाङ्गेयादिभिरन्वितः ।
विसृज्य संसदं पाण्डुर्निजमन्दिरमासदत् ।। ४९२ ॥
कृतकर्णस्तुतिः कश्चित्कश्चित्पार्थस्तवोल्वणः ।
कश्चिदुर्योधनस्तोता जनः स्वं स्वं गृहं ययौ ॥ १९३ ॥
इतरेतररन्ध्रवीक्षिणस्ते विनयाच्छादितमत्सराः कुमाराः।
सकलासु कलासु केलियोग्या मिलिता एव वितन्वते स्म नित्यम्॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये भीमर्योधनादिजन्मकुमारकलारोपणास्त्रदर्शनवर्णनो नाम तृतीयः सर्गः ॥३॥
चतुर्थः सर्गः।
अथान्यदावदातश्रीः श्रीमान्पीनांसकुट्टिमः ।
खण्डितारातिदोष्काण्डः पाण्डुः संसदमासदत् ॥ १॥
हिरण्मयमयं भेजे शारदाम्भोधरद्युतिः ।
भद्रासनं शशिकान्तसुमेरुशिखरोपमम् ॥ २ ॥
दधार रत्नकेयूरे स(ख)प्रभारुणिताम्बरे ।
वमभ्यामिव बाहुभ्यां प्रतापं मूर्ततां गतम् ॥ ३ ॥
अरातिकीर्तिसर्वखमावर्त्यैव विनिर्मितम् ।
स बभारोज्वलं हारमुरःस्थलविलम्बिनम् ॥ ४॥
शिरस्युवाह पीतानां विपक्षमहसामिव ।
अमान्तमन्तः संदोहं स रत्नमुकुटच्छलात् ।। ५ ॥
कपोलदर्पणे द्रष्टुमात्मीयकमनीयताम् ।
विकर्तनाविवायातौ स दधौ स्वर्णकुण्डले ॥ ६ ॥
जयप्रशस्तिमेतस्य चामरग्राहिणीजनाः ।
कङ्कणौधरणत्कारकैतवेन वितेनिरे ॥ ७॥
पाण्डवचरितम् ।
१२३
हारयष्टिमहीपृष्ठे तस्यैव विशदं यशः ।
पुञ्जयन्तः क्षितीशास्तं प्रणम्योपाविशन्पुरः॥ ८॥
मणिकोटीरसंक्रान्तमूर्तिरार्तैकबान्धवः ।
उह्यमान इव भ्रेजे शिरोभिः सोऽवनीश्वरैः ॥९॥
स्त्यानीभूय गतैर्मूर्तिमद्भिः कामरसैरिव ।
निर्मिताः परतो वारनार्यस्तं पर्यवृण्वत ॥ १०॥
गाङ्गेयधृतराष्ट्रादिगुरुवर्गोऽपि गौरवात् ।
अलंचक्रे तदास्थानमानन्दभरमेदुरः ॥ ११ ।।
यथास्थानमथासीने सामन्तामात्यमण्डले ।
स्तुवत्सु तद्यशो विश्वश्रोत्रानन्दिषु वन्दिषु ॥ १२ ॥
पुष्पावचूलरोलम्बकदम्बध्वनिडम्बरैः ।
मुहुर्निह्रूयमानासु गाथकीकलगीतिषु ॥ १३ ॥
नानासूक्तीः कवीन्द्रेषु रसभङ्गतरङ्गिताः ।
उद्विरत्सु जनश्रोत्रपटुपीयूषवर्षिणीः ॥ १४ ॥
विशारदेषु पुरतो भरतादिमहीभुजाम् ।
प्रथयत्सु कथास्तथ्या नितान्तमघमर्षणीः ॥ १५॥
अभ्येत्य भूमिन्यस्तैकजानुरानभ्य भूपतिम् ।
मूर्धन्यञ्जलिमाधाय प्रतीहारो व्यजिज्ञपत् ॥ १६ ॥
देव सेवककल्पद्रो द्रुपदस्य महीपतेः ।
आकारविदिताकूतो दूतस्ते द्वारि वर्तते ॥ १७ ॥
जाह्नवेयधृतराष्ट्रविदुराणामथाशयम् ।
ज्ञात्वोर्वीपतिरादिक्षत् तत्प्रवेशाय तं ध्रुवा ॥ १८ ॥
आक्षिप्तचक्षुरालानलालितैः केलिलोलुपैः ।
सविभ्रमाभ्रमातङ्गबन्धुभिर्गन्धसिन्धुरैः ॥ १९ ॥
वनायुदेश्यैर्देवाश्वदेशीयैर्मन्दरोदरे ।
भृशमोजस्विभिः क्लृप्तनेत्ररङ्गसुरङ्गमैः ॥ २० ॥
काव्यमाला।
संगीतरङ्गनिःसङ्गमृदङ्गध्वनिलासिमिः।
हृष्यन्नजस्रविस्रम्भादलोलैः केलिकेकिभिः ॥ २१॥
वपुर्विसारिसौरभ्यसंभावितनभोन्तरे ।
निविष्टदृष्टिरुत्फाले केलिकस्तूरिकामृगे ॥ २२ ।।
स दूतः पूतवाङ्गिन्दन्संसदं शातमन्यवीम् ।
उपतस्थे नृपास्थानं प्रतीहारपुरःसरम् ॥ २३ ॥
(पञ्चभिः कुलकर
स प्रणम्य यथास्थानमुपविश्य विशांपतिम् ।
विज्ञो विज्ञापयामास मौलिकुङ्मलिताञ्जलिः ॥ २४ ॥
अरिव्रातकृतासेव देव द्रुपदभूपतिः ।
प्राहिणोदनणुप्रेमप्रणयी मां त्वदन्तिके ॥ २५ ॥
सुतास्य द्रौपदीत्यस्ति प्राणेभ्योऽपि प्रियंकरी ।
इमां स यस्मै कस्मैचिद्दातुमुत्सहते नहि ॥ २६ ॥
व्यक्तं च वक्ति यः कोऽपि राधावेधं विधास्यति ।
तस्मै सुतेयमस्माभिर्दास्यते पारितोषिकम् ।। २७ ॥
आम्नाति नो धनुर्वेदे सर्वाञ्जित्वा सुकोविदान् ।
वर्तन्ते भवतो विश्वविश्वानन्दननन्दनाः ॥ २८ ॥
ततः सत्यपि दोर्दण्डमण्डने राजमण्डले ।
नेतुर्नः( र्मे) पूरयिष्यन्ते नूनमेतैर्मनोरथाः ॥ २९ ॥
मत्तद्विपकपोला हि मदपानकुतूहलम् ।
पूरयन्ति द्विरेफस्य नालेख्यकरिणां कटाः ॥ ३०॥
जगत्यामेकधानुष्कैरागत्य सह सूनुभिः ।
स्वयंवरं भुवो भर्तुस्तदलंकर्तुमर्हसि ॥ ३१ ॥
मतमादाय गाङ्गेयप्रभृतीनां कुरूद्वहः ।।
दूतस्य भारतीमेतामोमिति प्रत्यपद्यत ।। ३२ ।।
१. चिन्त्यम्,
पाण्डवचरितम् ।
१२५
रत्नकुण्डलकेयूरकङ्कणाद्यैरनेकशः ।
काममानन्द्य तं दूतं विससर्ज विशांपतिः ॥ ३३ ॥
अथ प्रतस्थे काम्पिल्यं पृतनाभिः प्रकम्पयन् ।
मेदिनीमण्डलं पाण्डुर्भुग्नभोगीन्द्रधारितम् ॥ ३४ ॥
प्रस्थानमङ्गलं तस्य सहितस्य तनूरुहैः ।
विदधे कुलवृद्धाभिर्मूर्ताभिरिव सिद्धिमिः ।। ३५ ।।
तत्कालोन्मीलदानीलदानाम्भःश्रु(सु)तिभिर्मुवि ।
द्वैतीयिकीं वितन्वन्तं कलिन्दतनयामिव ॥ ३६ ॥
गर्जाभिः स्निग्धमन्द्रामिः शिखण्डिकुलताण्डवम् ।
कुर्वाणं वारणाधीशमारुरोह महीपतिः ।। ३७ ।। (युग्मम् )
दुकूले कलयामास स प्रयाणक्षणोचिते ।
दधच्चन्द्रातपाश्लिष्टगिरीशगिरिविभ्रमम् ।। ३८ ॥
नासौ मदुपजीव्यस्य रवेस्तेजः क्षमिष्यते ।
इति छत्रच्छलान्मन्ये तस्येन्दुरुपरि स्थितः ॥ ३९ ॥
युधिष्ठरादयः पञ्च शतं दुर्योधनादयः ।
विविधं यानमारूढाः परिवत्रुस्तमात्मजाः ॥ ४० ॥
हयौघह्वेषितैर्दन्तिबृंहितैरुपबृंहितः ।
आविर्बभूव गम्भीरः प्रयाणपटहध्वनिः॥४१॥
वाहिनी हास्तिकाश्वीयरथ्या पादातिमेदुरा ।
तमन्वगच्छदह्याय जाह्नवीव भगीरथम् ॥ ४२ ।।
निश्वा(स्वा)ननिश्व(स्व)नस्तस्य दारयनिगरिकन्दरान् ।
उच्चचार स्वमाधारमम्बरं स्फारयन्निव ॥ १३ ॥
अनुकूलानिलोद्भूताः स्वयंवरदिदृक्षया ।
पुरो गन्तुमिवेच्छन्त्यो वैजयन्त्यो विरेजिरे ॥ ४४ ॥
अनुयातः स सामन्तैः समन्तात्परमर्द्धिभिः ।
साक्षात्सुरैरिव हरिः परीतो ददृशे जनैः ॥ ४५ ॥
१२६
काव्यमाला।
असौ कुन्त्या च माद्र्या च याप्ययानाधिरूढया।
बभौ गङ्गामृडानीभ्यां चन्द्रचूड इवाञ्चितः ॥ ४६॥
धृतराष्ट्रादिभिः सर्वैः स्वस्वशुद्धान्तशालिभिः ।
स बभौ वल्लभाबद्धसङ्गैर्भृङ्गैरिव द्रुमः ॥ १७ ॥
सैन्धवोद्भूतधूलीभिः पिदधे धर्मदीधितिः ।
तद्यशश्चन्द्रमाः कामं जगत्यामद्युतत्पुनः ॥ ४८॥
नेत्राः सेन्दीवरा वक्त्रैः सेन्दवोऽङ्गैः सवीरुधः ।
तद्दिदृक्षुमृगाक्षीणां विरेजुः पुरवीथयः ॥ १९॥
अभिरामगुणग्रामगरीयान्नगरश्रियम् ।
अवेक्ष्यमाणः स पाप प्रतोलीमतुलद्युतिः ॥ ५० ॥
अन्योन्यजङ्घासंघट्टसीदन्निखिलसादिका ।
दूरत्रस्तजनोर्जस्विगर्जत्तुङ्गमतङ्गजा ॥ ५१ ॥
जाह्नवीव तुषाराद्रिसद्मपद्मह्रदोदरात् ।
निर्जगाम चमूः पाण्डोः शनकैः पुरगोपुरात् ॥५२॥ (यु
कुरूणां प्रवरे छायाप्रवालफलकुड्मलैः ।
प्रथयामासुरातिथ्यं जाह्नवीतीरभूरुहः ॥ ५३ ।।
सैनिकानां नगोत्तुङ्गवीचिसंचारमन्थरैः ।
स्वेदाम्बुततिराचेमे गाङ्गेयैः पवनोर्मिभिः ॥ ५४ ॥
हैयङ्गवीनगोमुख्यैर्ग्रामीणोपायनैरसौ ।
मुमुदे मेदिनीपालः कालः प्रत्यर्थिनां पथि ।। ५५ ॥
रथाश्वसादिमिः सीमसामन्तानभ्युपस्थितान् ।
स पश्यन्नन्दयामास प्रसादस्निग्धया दृशा॥ ५६ ॥
मनोहरसरःशैलकेलिदुर्ललिता क्रमात् ।
कौरवी दूरमध्वानमतिचक्राम सा चमूः ।। ५७ ॥
काम्पिल्यस्याथ सीमानमाससाद कुरूद्वहः ।
प्रमोदस्तु विवेशान्तरुत्फुल्लजनसूचितः ।। ५८ ।।
पाण्डवचरितम् ।
१२७
तमभ्यगच्छदुत्सर्पिबलोर्मितुमुलैर्दिशः
द्रुपदो बधिरीकुर्वन्मृगाङ्गमिव नीरधिः ॥ ५९ ॥
अम्भोदरवगम्भीरः परस्परचमूचरैः ।
दूरमाकर्णयामास वाहिनीतुमुलध्वनिः ।। ६० ॥
तुरङ्गमखुरक्षुण्णः क्षोणिरेणुः परस्परम् ।
सस्वजे प्रणयेनैव सैन्ययोरुभयोरपि ॥ ६१॥
द्वयोरपि वरूथिन्योर्दुन्दुभिध्वनिभिस्तयोः।
स्वैरं दिगन्तविश्रान्तैः प्रतिशब्दायितं मिथः ॥ ६२ ।।
बलौघ- पाण्डुजन्मा च द्रौपदी च पताकिनी ।
अयुध्येतां तदा तावद्भाव्यर्थपिशुनाविव ॥ ६३ ।।
ते वाहिन्यौ तदान्योन्यमेकीभावमुपागते ।
चकासामासतुर्गङ्गापतङ्गतनये इव ॥ ६४ ।।
पदातौ द्रुपदे जाते संत्यज्य जयकुञ्जरम् ।
उज्झांचकार कररिप्रकाण्डं(१) पाण्डुभूपतिः ॥६५॥
तौ वितत्य भुजौ प्रीत्या सस्वजाते यशस्विनौ ।
अन्योन्यं विकटं वक्षो मिमानाविव वक्षसा ।। ६६ ।।
बालवायुजनीलाश्मकुरुविन्दकरम्बितम् ।
बिडौजसा जितेनेव प्रतापैरुपदीकृतम् ।। ६७ ।।
रथं पवनजङ्घालोत्तालकाम्बोजवाजिनम् ।
उपानिनाय काम्पिल्यकाश्यपीनाथसारथिः॥ ६८।। (युग्मम् )
दत्तहस्तावलम्बस्तं स्वयं काम्पिल्यभूभुजा ।
पुरः प्रेङ्खत्पताकाङ्कमारुरोह कुरूद्वहः ॥ ६९ ॥
क्रान्तविश्वस्य तेजोभिरुष्णरश्मिरिवारुणः ।
चकार कुरुनाथस्य सारथ्यं पृथिवीपतिः ॥ ७० ॥
प्रियालापमिवान्योन्यं प्रीत्या जाते(ती)यजातया।
कुर्वाणे किङ्किणीक्वाणैस्तयोश्छत्रे विरेजतुः ॥ ७१ ॥
१२८
काव्यमाला।
दुन्दुभिध्वनिनिस्तारैरवश्यमुभयोरभूत् ।
ब्रह्माण्डभाण्डनिर्भेदशङ्की पङ्केरुहासनः ॥ ७२ ॥
ईक्षांबभूव काम्पिल्यमावासैरवनीभुजाम् ।
परीतं परितं प्रीत्या पाण्डुः शाखापुरैरिव ॥ ७३ ॥
तरङ्गहस्तविन्यस्तविकस्वरसरोरुहा ।
मुदार्घमुत्क्षिपन्तीव ददृशे तेन जाह्नवी ॥ ७४ ॥
उदारमञ्जरीसारसहकारप्रियंकरे ।
विकासिवकुले फुल्लमल्लिकामोदमालिनि ।। ७५ ॥
कदम्बजम्बूजम्बीरनिकुरम्बकरम्बिते ।
विपाकपिङ्गनारङ्गपिशङ्गितदिगन्तरे ॥ ७६ ॥
असङ्गभृङ्गसंगीतसुभगंभावुकद्रुमे ।
रसालाङ्कुरवाचालकोकिलालापशालिनि ॥ ७७ ॥
द्रुपदस्य गिरागृह्णान्निवासान्भूमिवासवः ।
वसन्त इव कुत्रापि स्वःसरित्तीरकानने ॥ ७८ ॥ (कुलक
तस्मिन्विलासवापीषु स्नायं स्नायमनेकशः।
विनिन्ये सैनिकर्दूरमाग्रीवं क्रमणक्लमः ॥ ७९ ॥
हित्वा हिरण्यकोटीरान्कुरुविन्दाङ्कुराङ्कितान् ।
चक्रुः स किंशुकैः केचिच्चम्पकैरवतंसकान् ॥ ८ ॥
नित्यमेकधुरीणानि पूर्णेन्दुकरकन्दलैः ।
केचिन्मृणालनालानि मुक्ताहारपदे दधुः ।। ८१ ।।
नवस्रस्तरमास्तीर्य किङ्केल्लिद्रुमपल्लवैः ।
केऽपि च्छायासु सान्द्रासु पथि श्रान्ता विशश्रमुः ॥ ८२ ।
पीयूषरसगण्डूषमदमोषीणि हर्षुलैः ।
नालिकेरीफलाम्भांसि कैश्चिदापपिरे भृशम् ॥ ८३ ॥
मृगारिकरजाकारान् वीक्ष्य किंशुककोरकान् ।
वारणेन्द्राः प्रणश्यन्तः कथंचित्तत्र धारिताः ॥ ८४ ॥
पाण्डवचरितम् ।
१२९
सैकते कुसुमभ्रश्यत्परागपरिपिञ्जरे ।
वाह्णिकान्वेल्लयांचक्रुरक्रमेण तुरङ्गिणः ।। ८५ ॥
भारावरोहणायान्यैः कृतयन्त्रशतैरपि ।
नाक्षम्यतऔक्षिकं नेतुं सारणीतृणलोलुपम् ॥ ८६ ॥
क्षुद्रेतरैः परिक्षिप्ते कदलीकेलिकानने ।
आदर्शदर्शितातङ्कमृगाङ्गमणिकुट्टिमे ॥ ८७ ॥
सारणीसीकरासारलघुसंचारमारुते ।
उन्मीलन्मुकुलामोदमदिरामोदितालिनि ।। ८८॥
सान्द्रशीततरच्छाये वकुलोर्वीरुहस्तले।
द्रुपदादेशिनस्तेनुः पाण्डवं पटमण्डपम् ॥ ८९ ।।
(त्रिभिर्विशेषकम् ।।
स्थलेभ्योऽभ्यधिकं दुर्वासहजास्तरणाव्यधुः।
प्रमोदमवरोधानामतिमुक्तकमण्डपाः ॥ ९०॥
स्मारयन्तोऽधिकं दर्पं श्रियः साक्षादिवर्तवः ।
महीरुहः श्रयन्ति स्म सामन्ताः केऽपि कानपि ॥ ९१ ॥
तस्मिन् युधिष्ठरः प्रष्ठकुमारकुलकैतवात् ।
कानने विहरन्रेजेऽनेकमूर्तिरिव स्मरः ॥ ९२ ॥
काम्पिल्यनाथकल्याणीभक्तिप्रीतेन पाण्डुना।
अनुज्ञातोऽथ सानन्दमन्तर्नगरमाविशत् ॥ ९३ ।।
साप्रीणयत्तथा पाण्डोरुपचारैश्चमूचरान् ।
निजस्य न यथाकामं सरन्ति स पुरस्य ते ॥ ९४ ॥
शिल्पिभिः कलयामास स वंश्यैर्विश्वकर्मणः।
सधर्माणं सुधर्मायाः स खयंवरमण्डपम् ॥ ९५ ॥
महानीलमयी तत्र बभार तलमेदिनी।
प्रतिच्छायाच्छलादन्तर्द्धितीयमिव मण्डपम् ॥ ९६ ॥
१७
१३०
काव्यमाला ।
नीलाश्मकुट्टिमे तस्मिन्श्वेतसोपानभूर्बभौ ।
कालिन्दीशङ्कयोद्वीचिरारोहन्तीव जाह्नवी ॥ ९७ ॥
स्तम्भाः स्वर्णमयास्तस्मिन्नश्मगर्भमयक्षितौ ।
वातोत्थयमुनापद्मपांशुदण्डनिभा बभुः ॥ ९८॥
तस्मिन्स्वयंवरालोककौतुकास्त्रिदिवाङ्गनाः।
प्रतिस्तम्भमुपारूढाः शालभञ्जीनिभा बभुः ॥ ९९ ॥
नीलवेदीपरिक्षिप्ता क्वचिदिन्दूपलक्षितिः ।
वनीवलयितक्षीरनीरधिश्रियमश्नुते ॥ १० ॥
तस्मिन्हरिन्मणिस्तम्भाः पद्मरागप्रभाञ्चिताः ।
लीनां नीलत्विषः क्वापि तन्वते पीतवाससः ॥ १०१ ॥
क्वचित्कार्तस्वरस्तम्भास्तस्मिन्नीलाश्मकन्दलैः ।
मेरुं विडम्बयामासुर्जम्बूराजिविराजितम् ॥ १०२ ॥
क्वचिन्नीलमणिक्षोणी परितोऽर्काश्मवेदिका ।
दध्रेऽम्भोधितटाश्लिष्टनिर्वृष्टाम्भोदविभ्रमम् ॥ १०३ ॥
कर्केतनार्कमाणिक्यवज्रवैडूर्यकांन्तिमिः ।
तस्य च्छन्नः करामर्शाद्वारदेशोऽध्यगम्यत ॥ १०४ ॥
नीलाश्मद्वारशाखासु श्रेणिरुत्पलकोमला।
तत्र शाश्वतिकं दध्रे कदलीस्तम्भविभ्रमम् ।। १०५ ॥
संध्याम्भोधिसनाभीनि तत्प्रदेशेष्वनेकशः।
शिल्पिनः पञ्चरूपाणि वितानानि वितेनिरे ॥ १०६ ॥
तस्मिन्मुक्तावचूलेषु स्थानस्थानावलम्बिषु ।
पेतुर्मधुव्रतवाताः पुष्पस्तबकशङ्किनः ॥ १०७ ।।
तस्मिन्भान्ति स्म संक्रान्तकान्तप्रालम्बमौक्तिकाः ।
पुष्पोपहारहारिण्यः सदैव मणिभूमयः ।। १०८ ।।
कुर्वतः सर्वतः स्वर्गिविमानश्रीविमाननम् ।
नृपस्तत्परितो मञ्चानुच्चकैर्निरमापयत् ॥ १०९ ॥
पाण्डवचरितम् ।
विश्वकर्मापि निर्माणनैपुण्यमवलोकयन् ।
मन्ये तच्छिल्पिनामैच्छदन्तेवासित्वमात्मनः ॥ ११०॥
नानारत्नमयं तेषामेकैकमपि पश्यतः ।
द्रुपदे स्वर्गलुण्टाकवासना कस्य नाभवत् ।। १११ ॥
तानालोक्यात्मनः संपल्लोपाशङ्कां पिशाचकी(१)।
भूमौ लुठन् रसत्युच्चैरद्यापि ध्रुवमर्णवः ॥ ११२ ॥
सुदुस्तरतपःक्लेशप्राप्तं(तान्) नूनमवेक्ष्य तान् ।
अनिन्द्यत गतानन्दैः सुरैः स्वर्वासवैशसम् ॥ ११३ ॥
स्तम्भमुत्तम्भयामास हैमं मध्येस्वयंवरम् ।
पञ्चालभूपतिर्जम्बूद्वीपान्तर्मेरुविभ्रमम् ॥ ११४ ।।
रेजुर्भमन्ति चत्वारि वामं चत्वारि दक्षिणम् ।
रत्नचक्राणि नक्षत्रचक्राणीवास्य मूर्धनि ॥ ११५ ।।
भाति स्म रत्नपाञ्चाली मूर्ध्नि तेषामवाङ्मुखी ।
तद्भ्रमोग्रजवालोककौतुकेनेव निश्चला || ११६ ॥
अधःस्तम्भस्य दम्भोलिसारैरिव विनिर्मितम् ।
राजामुश्चक्रमायातं देवताधिष्ठितं धनुः ॥ ११७॥
अथ मौहूर्तिकादिष्टे दृष्टे पूर्णशुभग्रहैः ।
उच्चस्थैश्चास्थिते लग्ने प्रीतिनिर्मग्नमानसः॥ ११८ ॥
पञ्चालपृथिवीपालः सायमर्वाचि वासरे
प्रातराहूय तान्दूतान्प्राहिणोत्प्रतिपार्थिवम् ॥ ११९ ॥ (युग्मम्)
तदा रविरलंकर्तुमिव द्रुपदनन्दिनीम् ।
रत्नसारमुपादातुमाशु रत्नाकरेऽविशत् ॥ १२० ॥
वयं दवीयोवास्तव्याः स्वयंवरकुतूहलम् ।
न द्रक्ष्याम इतीवाशास्तमःश्यामास्यतां दधुः॥ १२१ ।।
कला काप्यस्ति भूपानां द्रौपदीप्राप्तिकारणम् ।
इति ज्ञातुमना मन्ये कलानां निधिरुद्ययौ ॥ १२२ ॥
१३२
काव्यमाला।
पाञ्चाली नयनौपम्यमहमेव लभे परम् ।
इत्यवश्यमिदं हर्षादुन्मिमील महोत्पलम् ॥ १२३ ॥
पाञ्चालीस्पृहयालूनां भूभुजामथ मन्मथः ।
मुमोच मार्गणश्रेणिमीर्ष्ययेव समं हृदि ।। १२४ ॥
अङ्गेष्वनल्पसंकल्पसूतिसंतापशान्तये ।
रचयांचक्रिरे केचिज्जाह्नवीमसरोरुहाम् ।। १२५ ॥
द्रौपदीवदनाम्भोजप्रतिस्पर्धितया स्फुटम् ।
अभूत्केषांचिदानन्दन्निन्दुरप्यास्पदं रुषः ॥ १२६ ॥
प्रेङ्खोलयद्भिरत्युष्णनिश्वासपवनोर्मिभिः ।
शातितः शीतिमा कैश्चित्कदलीदलमारुतैः ॥ १२७ ॥
भ्रातर्जानीहि जातेयमस्मदुत्सङ्गसङ्गिनी।
सुहृदं केचिदित्यूचुः कार्मुकाभ्यासकर्मठाः ॥ १२८ ॥
अङ्गारीयति हारोऽयं हिमांशुस्तपनीयति ।
तमस्तोमीयति ज्योत्स्ना स्वगुप्तीयति()पङ्कजम् ॥ १२९ ॥
नाडिका यामकल्पाद्य यामोऽभूद्यामिनीसमः।
यामिनीवर्षदेश्या च धिक्केयं विपरीतता ।। १३० ॥
द्वीपान्तरेऽपि कस्याश्चित्स्यंवरमहोत्सवम् ।
रविरालोकयत्यद्य नाभ्युदेति किमन्यथा ॥ १३१ ॥
इति द्रुपदकन्याङ्गसंगमोत्सवमिच्छताम् ।
बभूव सर्वभूपानां कोटियामेव यामिनी ॥ १३२ ।।
(चतुर्भिः कलापकम् ॥
अन्तर्विचिन्त्य पाण्डस्तु दोर्दण्डानात्मजन्मनाम् ।
अपास्तचिन्तासंतापः सुखी सुष्वाप निर्भरम् ।। १३३ ॥
कुरुवंशाङ्कुराणां तद्विलोक्य ललितं वपुः ।
परं पाञ्चालभूपालः स्वं निनिन्द मुहुर्मुहुः ॥ १३४ ।।
इत्थं पृथ्वीभुजां नानाविकल्पाचान्तचेतसाम् ।
कृच्छ्रलब्धाल्पनिद्राणां विरराम विभावरी ।। १३५ ॥
पाण्डवचरितम् ।
दिगुद्भूतारुणोद्भेदा बभासे शातमन्यवी ।
सकाश्मीराङ्गरागेव पत्यौ भास्वत्युपेयुषि ॥ १३६ ॥
राजास्मि निर्वसुः प्रातर्लजिष्ये राजमण्डले ।
इत्यालोच्येव पीपूषद्युतिर्देशान्तरं ययौ ॥ १३७ ।।
मुक्ताकणभ्रमादुच्चैः पाञ्चालीहारहेतवे ।
उच्चितानीव केनापि नक्षत्राणि क्षणाद्ययुः ।। १३८ ।।
कलङ्कयपि ममोच्छेदकारीन्दुः किमु निर्मलः ।
कृष्णास्येन्दुर्विधातेति मियेव बिभिदे तमः ॥ १३९ ।।
संमुखं सर्वभूपालमनोभिरभिधावितैः ।
रविः करेण्विवाकृष्य पूर्वाद्रिमधिरोपितः ॥ १४० ॥
राजन्यमुखराजीव सरोराजीवकानने ।
तुल्यमुल्लासयन्भानुर्नभोङ्गणमगाहत ॥ १४१ ॥
अथ काम्यतमाकल्पकल्पनाल्पेतरश्रियः ।
मञ्चानारोढुमौत्सुक्याद्धावन्ति स्म धराभुजः ॥ १४२ ॥
मङ्गलैमङ्गलातोद्यैर्र्बन्दिकोलाहलैरपि ।
विहाय विकसच्चक्षुः शनैर्निद्रां सुखासिकाम् ॥ १४३ ॥
विधाय विधिवत्सर्वप्रातःकृत्यानि कृत्यवित् ।
प्रतिपाल्य मिलत्सैन्यसामन्तामात्यमण्डलम् ॥ १४४ ॥
औचित्यरचिताकल्पान्कल्पवृक्षाङ्कुरानिव ।
कुमारान्स्वान्पुरस्कृत्य नित्यदोर्दण्डमण्डनान् ॥ १४५॥
ययौ स्वयंवरं पाण्डुरखण्डमहिमोदयः ।
रम्यं च मञ्चमारोहकाम्पिल्यपतिदर्शितम् ॥ १४६ ॥
(चतुर्भिः कलापकम् ॥
सिंहासने स नीलाश्ममयूखपरिवेषेणि ।
स्वरक्षार्थमयःशालशालिनीव न्यविक्षत ॥ १७ ॥
१३१
काव्यमाला।
बद्धकायानिव न्यायानुत्साहानिव देहिनः ।
वपुष्मन्तीव तेजांसि मूर्तान्कीर्तिचयानिव ॥ १४८ ॥
कुमारान्मारजैत्रास्तान्पश्यतां काश्यपीभुजाम् ।
राज्येऽप्यभवदाच्छेदशङ्कापङ्काविलं मनः ॥ ११९ ॥
साक्षादिव धनुर्वेदं वीरं रसमिवाङ्गिनम् ।
ज्योतिर्विवर्तमुत्तीर्णमादिपुंस इवावनौ ॥ १५० ॥
तेषामपि विशेषेण विलोक्य कपिकेतनम् ।
नात्मानमपि के नाम विस्मरन्ति स भूभुजः ॥ १५१ ॥
(
।
तनूरुहपरीवारस्तस्मिन् रेजे स राजके।
पाण्डुर्बद्धफलः कल्पशिखरीवावकेशिषु ॥ १५२ ॥
अथ स्वयंवरागारमानेतुं नित्ययौवनाम् ।
साधु प्रसादयामासुः प्रीतिप्रह्वाः प्रसाधिकाः ॥ १५३ ॥
अलक्तकरसस्तस्याः पादयोर्निहितो बभौ
जितैः पङ्केरुहैः शङ्के स्वकान्तिरुपदीकृता । १५४ ॥
तस्याः स्वर्णाभमत्यच्छचन्दनच्छुरितं वपुः ।
बिभर्ति स्माम्रकच्छन्नप्रदीपकलिकोपमाम् ॥ १५५ ॥
तस्या बिम्बोष्ठयोर्व्यक्तमलक्तकरसच्छलात् ।
आदधे रागसर्वस्वनिधानं कुसुमायुधः ।। १५६ ॥
अरालनीलभ्रूवल्लिप्रतिविम्बविडम्बिनी।
बभौ कपोलयोस्तस्याः कस्तूरीपत्रवल्लरी ।। १५७ ॥
तस्याः शङ्के दृशौ पुष्पधन्वनः केलिदीर्घिके ।
लावण्यजलजम्बालमञ्जुलं कज्जलं पुनः ॥ १५८ ॥
तस्याः स्म भासते भाले मृगनाभिललाटिका ।
कृताक्रान्तिरिव क्रुद्धो विधुबुद्ध्या विधुंतुदः ॥ १५९ ॥
धम्मिल्लो मल्लिदामाङ्कस्तस्या मूर्धन्यधारयत् ।
मुक्तवैरमिथःश्लिष्टशशिस्वर्भानुविभ्रमम् ॥ १६० ।।
पाण्डवचरितम् ।
असौ विशदकौशेयसंवीतवपुरावभौ ।
तपस्यासमये गङ्गावीचिश्लिष्टेव पार्वती ॥ १६१ ।।
तस्याश्चकाशे माणिक्यकिरीटकिरणोत्करः ।
उदेष्यत इवानङ्गतरणेररुणोदयः ॥ १६२ ॥
निर्मलः संपदे सद्यः श्रितानामिति नान्यथा (1)।
द्विरुक्तिमीयतुस्तस्याः कुण्डले तेन गण्डयोः ॥ १६३ ॥
कर्णोत्तंसमणिन्याजादेत्य देवः स्वयं सरः ।
तस्याः कटाक्षविक्षेपनिदेशाकाङ्क्षया स्थितः ॥ १६ ॥
जगज्जिगीषोः कामस्य तस्या वक्षःस्थलाश्रमे ।
तपस्यतोऽक्षमालेव भाति स्मैकावलिच्छलात् ॥ १६५ ॥
परितो रत्नकेयूरमरीचिपटलच्छलात् ।
रागोऽन्तर्मानसं तस्याः प्रविविक्षुरिवैक्ष्यत ॥ १६६॥
लक्ष्म्यादिललनाकीर्तिमावत्यैव विनिर्मिते ।
करयोः कङ्कणे मुक्तामये तस्या विरेजतुः ॥ १६७ ॥
तस्याश्चकाशे जघने रसनागुणनिस्वनः ।
तुमुलः कामसैन्यस्य निवासानिव गृह्णतः ॥ १६८ ॥
झङ्कारमुखरौ तस्याः पादयोर्मणिनूपुरौ ।
विभ्राजेते स्म सर्वाङ्गालक्ष्मीवैतालिकाविव ॥ १६९ ॥
इति प्रसाधिका साभूदतिमात्रमनोहरा ।
कामं रम्या हि वासन्ती वसन्तश्रीवतंसिता ॥ १७० ॥
अथ बन्धुपुरंध्रीणामुलूलुध्वनिबन्धुरे ।
स्फुरत्यम्भोधिगम्भीरे विश्वतस्तूर्यनिस्वने ॥ १७१ ॥
उन्मीलत्यमितो वैतालिककोलाहले मुहुः ।
वेत्रिणां बद्धतुमुले मूर्च्छत्युत्सारणाध्वनौ ॥ १७२ ॥
किङ्किणीकाणनिर्वाणपुष्पोच्चूलालिनिक्वणम् ।
तपनीयपताकान्तर्मूर्च्र्छन्मार्तण्डदीधिति ॥ १७३ ।।
काव्यमाला।
विमानरत्नमारुह्य नरवाह्यं नृपात्मजा ।
व्योमाङ्कमिन्दुलेखेव स्वयंवरमवातरत् ॥ १७३ ॥
(चतुर्भिः कलापकम्
तां भवानीभ्रमान्नेत्रैरेकहेलानिपातिभिः ।
भूपाः सौभाग्यभाग्याय भेजुरिन्दीवरैरिव ॥ १७५ ॥
तस्मिन्शिल्पाद्भुते विश्वशिल्पिनः कन्यकामये ।
दूत्यायेव मनः सर्वे प्राहिण्वन्नवनीभुजः ॥ १७६ ॥
तां पश्यन्तोऽतिनिर्बन्धात्सर्वेऽप्युर्वीभुजस्तदा ।
स्वनेत्रायापि तेऽकुप्यन्निमेषमधिकुर्वते ॥ १७७ ॥
तां दृशामुत्सवं ज्योत्स्नामेवमेवापि पश्यते ।
ईर्ष्यामासुर्मुहुः प्राणप्रियाय सुहृदेऽपि ते ॥ १७८ ॥
समस्तकरणस्तोमस्तैस्तदा निखिलैरपि ।
व्यापार लोचनस्यैव कलयन्नभ्यलक्ष्यत ।। १७९ ॥
तेषामनीक्षमाणस्य मृगाक्षीं तां शतक्रतोः।
निन्दास्पदं तदा नेत्रसहस्रत(?)मप्यभूत् ।। १८० ॥
प्रलोभनाय तच्चेतोमृगस्य स्वैरचारिणः ।
रोमहर्षमियादेते दधुर्दूर्वाङ्कुरोत्करान् ।। १८१ ।।
जगन्नयनपीयूषनवकादम्बिनीमिमाम् ।
पश्यन्तश्चिन्तयामासुरन्तः सर्वेऽपि भूभुजः ।। १८२ ।।
भुवनस्य य एवास्य निर्मातास्याः स एव न ।
तदीयशिल्पिसीमा हि स्थिता गौरीन्दिरादिषु ॥ १८३ ॥
यद्वा तस्यापि यः कश्चिदाचार्यः शिल्पकर्मणि ।
त्रिलोकीमण्डनं नूनमियं तेनैव निर्ममे ॥ १८४ ।।
मुखेन्दू रचयत्यस्या नित्यराकामयीं महीम् ।
जडप्रकृतिरेवायमुद्गच्छन्मृगलाञ्छनः ।। १८५ ॥
चक्षुर्निमज्जदेतस्या लावण्यक्षीरसागरे ।
उरोन्तरीयमासाद्य निर्वृतिं लभते यदि ॥ १८६ ॥
पाण्डवचरितम् ।
१३७
इत्यादीकोटिशस्तर्कास्तन्वन्त स्मेरितस्मरम् ।
विलोकयन्तः पाञ्चालीमचेष्टन्तेति भूभृतः ॥ १८७ ॥
तस्याः किमिह वास्तव्या लक्ष्मीरभ्येति तुल्यताम् ।
इतीवालोकयांचके कश्चिल्लीलासरोरुहम् ।। १८८ ॥
अन्यस्य करमारूढामप्याच्छेत्तुमलंतमाम् ।
इमामहमितीवांसं मुहुः कश्चिदवैक्षत ॥ १८९ ।।
निपतन्ति मयि स्वैरं कुतोऽमी स्मरमार्गणाः ।
इतीव पार्श्वतः कश्चित्पश्यति स्म मुहुर्मुहुः ।। १९० ॥
कश्चिदैक्षिष्ट कस्तूरीतिलकं रत्नकङ्कणे ।
भालाक्षरलिपीस्तस्या लाभायेव न्यभालयत् ।। १९१ ।।
राधावेधे तवैवास्मिन्मुखमीक्षामहे वयम् ।
इतीव भुजमस्पृक्षत्कोऽपि केयूरकैतवात् ॥ १९२ ॥
कश्चित्कुपितपुष्पेषुशरपातमयादिव ।
प्रावारं वाससा चक्रे सर्वाङ्गम(स्या)वगुण्ठनम् ॥ १९३ ॥
कश्चिन्नागरखण्डानि खण्डयन्दशनाङ्कुरैः ।
प्रकुप्यतः स्मरस्याग्रे क्षिपतीव मुखेऽङ्गुलिम् ॥ १९४ ।।
बहिर्विभाव्यमानापि योगिनीवेयमीक्ष्यते ।
कथमन्तरितीवान्यो हृदयं मुहुरैक्षत ॥ १९५ ॥
परिभ्रष्टमिव क्वापि निजमालोकयन्मनः ।
लिलेख कश्चिदानम्रपादाङ्गुष्ठेन पीठिकाम् ॥ १९६ ॥
इत्याविर्भूतभावेषु तेषु सर्वेषु राजसु ।
चिक्षेप क्षोणिमृत्कन्या स्वभावसरलां दृशम् ॥ १९७॥
पाण्डोः पुत्रांस्तु पञ्चापि विभाव्य मधुराकृतीन् ।
धृति बबन्ध तच्चक्षुः पणमुद्वीक्ष्य चाधृतिम् ॥ १९८॥
विमानादथ रम्भेव देवभूमीभृतस्तले ।
हेममूर्तेरघो राधास्तम्भस्येयमवातरत् ॥ १९९ ।।
१३८
काव्यमाला।
तस्मिन्नूर्ध्वमस्तिर्यक्संक्रान्तप्रतियातना ।
पाञ्चाली काममेकापि बभार बहुरूपताम् ॥ २००॥
ऊर्ध्वीकृत्य भुजं लोकतुमुलं प्रतिषिध्य च ।
धृष्टद्युम्नस्ततो वाचमुवाच द्रुपदात्मजः ।। २०१॥
दोर्दण्डचण्डिमाक्रान्तजगतो जगतीभृतः ।
गिरमेतां शुभां कर्णे सर्वेऽप्याकर्णयन्तु मे ॥ २०२॥
साक्षीकृत्य वियत्यर्कसिद्धगन्धर्वखेचरान् ।
क्षितौ च ललनाबालगोपालप्रमुखं जनम् ॥ २०३ ॥
इदमस्मत्कुलोत्तंसं देवताशतसेवितम् ।
चापमारोपयन्कोऽपि राधावेधं विधास्यति ॥ २०४ ॥
भुवनाद्भूतसौभाग्यभागिनी भगिनी मम ।
शौण्डीर्यवेतनं तस्मै क्लृप्तोऽयं कल्पयिष्यते ॥ २०५॥
(त्रिभिर्विशेषकम्
अथाभ्युत्तिष्ठतो भूपान्कार्मुकारोपकर्मणि ।
प्रगल्भवाक्प्रतीहारी याज्ञसेन्यै व्यजिज्ञपत् || २०६॥
भूपतिर्दमदन्तोऽयं रिपुदन्तिमदान्तकृत् ।
चापारोपार्थमुत्तस्थौ देवि त्वदभिलाषुकः ॥ २०७ ।।
श्रियो विहितविश्रान्तर्यस्य दोर्दण्डमण्डपे ।
भाति वैडूर्यपर्यङ्क इव ज्याकर्णपद्धतिः ॥ २०८ ॥
संमुखीनकृतेनायमागच्छन्विनिवारितः ।
आसने पुनरप्राप्ततेजोहानिरुपाविशत् ॥ २०९ ॥
उत्तिष्ठत्येष वामाक्षि धरो नाम धराधवः ।
नवालवालं यत्कीर्तिवीरुधो मधुरापुरी ।। २१० ॥
यच्छुद्धान्तवधूनेत्रकजलैर्जलकेलिषु ।
हृतैरिव बभूवेयं कालिन्दी कालिमास्पदम् ॥ २११ ॥
यमुनाया इवासत्तेः प्रकामश्यामलत्विषः ।
तन्वते तन्वि यन्नेत्रानन्दं वृन्दावनद्रुमाः ॥ २१२ ॥
पाण्डवचरितम् ।
उपत्यकावने यस्य क्रीडतः प्रेयसीजुषः ।.
विलासवेश्मतां यान्ति गोवर्धनगिरेर्गुहाः ।। २१३ ॥
किमेकपर्षदं राज्ञामवज्ञायोपहासिनीम् ।
अवतीर्यावनौ मञ्चं पुनरप्यधिरोहति ॥ २१४ ।।
विराटाधिपतिः सोऽयमासनादुच्चलन्निव ।
लक्ष्यते मृगशावाक्षि वीरलक्ष्मीस्वयंवरः ॥ २१५॥
काङ्क्षन्ती कीर्तिसंहर्षात् द्यामारोढुमिवोच्चकैः ।
देवि यस्यांसशैलाग्रमश्रान्तं श्रीरशिश्रियत् ॥ २१६॥
करसंपर्कमासाद्य यस्य सूते धनुर्लता ।
शरश्रेणीं च कीर्ति च युगपद्वैरिदुःसहाम् ।। २१७ ॥
भूपतिः किमियं भूमिमागत्य कियतीमपि ।
जातस्तम्भ इवाकस्मात्तस्थौ चित्र इवार्पितः ॥ २१८ ॥
असौ वैरिमनःशल्यं शल्यो नाम सुमध्यमे ।
उज्जिहीते जगन्नेत्रानन्दी नन्दिपुरेश्वरः ॥ २१९ ॥
आरोहति परां कोटिं गुणश्चापस्य चास्य च ।
परेभ्यः शरणायातानरातीनपि रक्षतः ।। १२० ॥
यत्खङ्गदण्डे निःश्वासपवनं पीडयत्यपि ।
स्फुरन्ति चित्रं शत्रूणां भाले धर्मोदबिन्दवः ॥ २२१ ।।
उल्लसद्दैवतज्योतिःपराहतविलोचनः ।
चापमप्येतदब्जाक्षि क्षमते नायमीक्षितुम् ।। २२२ ।।
कुमारः सहदेवोऽयं देवि देवसमाकृतिः ।
दूरादुपहसन्नेनं झगित्यासनमत्यजत् ॥ २२३ ॥
अस्ति दोर्विक्रमाक्रान्तत्रिखण्डक्षितिमण्डलः ।
जैत्रकीर्तिर्जरासन्धो राजा राजगृहेश्वरः ।। २२४ ॥
आहुतीकृत्य भूदेवो यश्चक्रोदर्चिषि द्विषः ।
प्रतापं वर्धयामास यशश्चागमयद्दिवम् ॥ २२५ ॥
१४०
काव्यमाला।
+
नमद्भूपालमालेषु राजेति लिपिमुल्बणाम् ।
असूययेव लुम्पन्ति यस्य पादरजःकणाः ॥ २२६ ॥
आस्थानीमास्थिते यसिन्निदेशैकामिलाषिणः ।
अश्रान्तमेव तिष्ठन्ति देवा अप्यौपजानुकाः ॥ २२७ ॥
तस्मादसौ महातेजाः प्रदीप इव पावकात् ।
अजायत जगन्नेत्रो जयन्त इव वासवात् ॥ २२८॥
शुचिर्यद्विक्रमस्तालुवारीणि (1) रिपुयोषिताम् ।
भालव्योमाङ्कमारोप्य वर्षयश्रुकणच्छलात् ॥ २२९ ॥
आत्मनेकधुरीणेऽस्मिन्न्यस्तविश्वंभराभरः ।
अपरां विषयग्रामचिन्तां वितनुते पिता ॥ २३० ॥
कोदण्डमिदमादाय कान्तिदायादचन्द्रिके।
पुनर्विमुञ्चत्यानम्य सोऽयमुत्फुल्लसत्रपः ॥ २३१ ।।
कृशाङ्गि शिशुपालोऽयं चेदीनामधिदैवतम् ।
बान्धवरुपरुद्धोऽपि राधावेधाय धावति ॥ २३२॥
स्वड्नेनाम्बुभृता सिक्ता प्रतापग्रीष्मतापिते ।
हृदये नोदगुः कस्य यस्य विक्रान्तिवीरुधः ॥ २३३ ॥
शौण्डीर्याहंकृती कामं निर्वास चिरवासिनी ।
तेनिरे येन वास्तव्या विद्विषां हृदये मियः ॥ २३४ ॥
क्षणं बाणावलीर्वर्षन् जिहीर्षोः किल रुक्मिणीम् ।
चक्रे यश्चक्रिणोऽप्यन्तःशङ्कापङ्काकुलं मनः ॥ २३५ ॥
अरिकीर्तीः क्षिपंस्तारा पद्मोल्लासं दिशन् युधि ।
प्राक्सन्ध्यां करिसिन्दूरैर्यस्य कालः करोत्यसिः ॥ २३६ ॥
कार्मुकं नमयन्बाहुसारसर्वाभिसारतः ।
अयमप्यवनीपालैः सस्मितैरवलोक्यते ॥ २३७ ॥
देवि दर्पादनुस्थास्नुरपि मित्रोपरोधतः ।
नृपः कर्णोऽयमभ्यर्णमभ्येति धनुषः शनैः ॥ २३८॥
पाण्डवचरितम् ।
१४१
धनुर्वेदकृतं ज्ञानचक्षुरागवस्थितम् ।
प्रयोगः पुनरेतस्य ततोऽपि पुरतोऽगमत् ॥ २३९ ।।
समरे येन निर्माय मण्डपं काण्डपङ्क्तिभिः ।
पाणौ चक्रे परासूनां द्विषां श्रीरपि रक्षिता ॥ २४० ॥
मार्गणाः संगरे यस्य पश्चान्मुञ्चन्ति कार्मुकम् ।
द्विषां प्राणास्तु तद्भेदभियेव पुरतो ययुः ।। २११ ।।
संयुगे यस्य पश्यद्भिरिष्वासाभ्यासलाघवम् ।
स्ववीरैः कृतकृत्यैव मन्यते निर्निमेषता ॥ २४२ ॥
दत्ते लक्ष्यमसौ प्राणानप्यस्य रिपवः पुनः।
तत्कं स्तुम इतीवावाङ्मुखा यन्मार्गणा रणे ।। २४३ ॥
अथास्यामिति जल्पाक्यामुन्मीलत्स्वेदमेदुरा ।
श्यामीभवन्मुखाम्भोजा पाञ्चालीदमचिन्तयत् ॥ २४४ ॥
सूतसूतिरिति ख्यातो जगत्येकधनुर्धरः ।
असिंश्च रमते हन्त मनो मे न मनागपि ॥ २४५ ॥
रति त्वेतेऽङ्गजन्मानः पाण्डोस्ताण्डवयन्ति मे ।
विडम्बयितुमारब्धा तत्किं नामास्मि वेधसा ।। २४६ ।।
मया बद्धोऽञ्जलिर्बाढमयं वः कुलदेवताः ।
रक्षणीयः पतिः पाण्डोरात्मजेभ्यो ममापरः ॥ २४७॥
इति पृथ्वीपतेः पुत्रीमन्तश्चिन्तां वितन्वतीम् ।
व्याजहार प्रतीहारी पुनः श्रोत्रामृतं वचः ॥ २४८॥
हेलया चापमारोप्य हठग्रहकुतूहली ।
राधावेधी न राधेयो जनन्या नामसाम्यतः ॥ २४९ ॥
परं त्वत्कुलदेवीनां प्रभावः प्रहतौजसः ।
नहि स्वयंवरक्षोभे कस्यापि प्रभविष्णुता ॥ २५० ॥
बलपद्युम्नसाम्बाद्यैः प्रवीरैः परिचारितः ।
अद्याप्यासीन एवास्ते कृष्णः केनापि हेतुना ।। २५१ ॥
१४२
काव्यमाला।
अन्धसा कंसरूपेण कीनाशं भोजयिष्यता।
चाणूराद्याः कृता येन तेऽफलाः फलिकापदे ॥ २५ ॥
कंसः क्षेत्रेषु भास्वान्यत्प्रतापः पत्रवल्लरीः ।
अशोषयत्तथा भूयः प्ररोहन्ति स्म नो यथा ॥ २५३ ॥
द्वैराज्यस्य द्विषन्कंचित्स्वदायादमवेक्षितुम् ।
विवेश हृदि नो कस्य यद्भुजस्तम्भविक्रमः ॥ २५४ ॥
वैरिनारीदृशो यस्य ददतीवाश्रुकैतवात् ।
प्रियस्यास्तमुपेतस्य विलासस्य जलाञ्जलिम् ॥ २५५ ॥
वक्षोऽङ्कितं द्विषद्दन्तिदन्ताघातकिणार्बुदैः ।
यस्य श्रीराश्रयद्दुर्गमिवानेकाद्रिदुर्ग्रहम् ॥ २५६ ॥
असौ लोलेक्षणे सर्वकर्मीणभुजवैभवात् ।
कर्मणीह कृतोत्साहान्सुतानपि निषेधति ।। २५७ ॥
धृतराष्ट्राङ्गभूर्योधलक्षयोधी सुयोधनः ।
स एष मातुर्गान्धार्या रोमाञ्चेन सहोत्थितः ।। २५८ ॥
यस्यांसशैलमालम्ब्य घनपल्लवितश्रियम् ।
कुरुवंशः परां कांचिदुत्तंसयति संपदम् ॥ २५९ ॥
आकृप्य प्रीतिलुण्टाकीः सुहृच्चेतोनिकेतनात् ।
योऽसूत्रयद्भियः शत्रुमनःकाराकुटुम्बिनीः ॥ २६० ।।
केचित्तत्कालमानम्राः क्षणात्केऽपि पलायिताः ।
नास्य यस्याभ्यमित्र्यस्याप्यपश्यन्वैरिणो रणे ॥ २६१ ॥
त्राणाय शत्रुभिर्यस्य बृहत्कटकशालिनः ।
उभयेऽपि निषेव्यन्ते महीयांसो महीभुजः ॥ २६२ ॥
दर्पादिप्वासमादातुं नम्रीभूतोऽपि भामिनी ।
हेतोः कुतोऽप्यसौ कामं नमस्यति महाभुजः ॥ २६३ ॥
अन्येऽपि धृतराष्ट्रस्य सुता दुःशासनादयः ।
दोर्वैभवावधिं वीक्ष्य निपीदन्ति विपादिनः ।। २६४ ॥
पाण्डवचरितम् ।
एते तु भगदत्ताश्वत्थामभूरिश्रवाशलाः।
जयद्रथमहासेनचारुदेष्णादयोऽपि च ॥ २६५ ॥
तथैव तस्थुर्दोःस्थाम निजमालोच्य चेतसि ।
सतामात्मज्ञता नाम महर्द्धिमहिमास्पदम् ॥ २६६ ॥ (युग्मम् )
प्रचेलुर्मञ्चतः पश्य देवि भ्रूसंज्ञया हरेः।
विस्मयस्मेरराजन्यनेत्रनीराजिताननाः ॥२६७ ॥
कटाक्षकोटिमिः प्रत्युद्याताः कस्याश्चिदादरात् ।
स्मरेषव इवोच्चण्डाः पाण्डोः पञ्चापि सूनवः ।। २६८ ॥
देवि पञ्चभिरप्येतैः कुलं कुरुनरेशितुः ।
पाण्डवैर्मण्डयांचक्रे शरीरं करणैरिव ॥ २६९ ॥
रसो वीरश्च शान्तश्च व्योम्नीवार्कनिशाकरौ ।
तिष्ठतो यत्र किं नाम तस्याजातरिपोस्तु वै ॥ २७० ॥
भुजैर्युद्धेष्वरिस्तोमयमयोर्यमयोरपि ।
स्वकुरङ्गादृशां भर्तृसुभिक्ष निर्ममेतमाम् ॥ २७१ ॥
रिपुघ्नं युधि नामापि भीमफाल्गुनयोः पुनः ।
हरेर्वित्रासयत्येव प्रतिशब्दोऽपि दन्तिनः ॥ २७२ ॥
योम्नि त्रस्तसुरस्त्रैणे प्रहितैः कलितैः पुनः ।
युधि क्रीडति भीमोऽयं कुञ्जरैः कन्दुकैरिव ॥ २७३ ॥
अर्जुनस्य पुनर्बाणाः शत्रुप्राणापहारिणः ।
अभुक्ता अपि चापेन विविशुः कस्य नो हृदि ।। २७४ ॥
शरैर्यस्यारिनारीणां लूनाः पत्रलतास्तथा ।
यथा सह व्यलीयन्त कटाक्षसुमनोलिहः ॥ २७५ ॥
इयमस्थादकल्पान्तस्थायिन्येषां तु भूरिति ।
मन्ये यन्मार्गणा लक्ष्यमादायापि श्रयन्ति ताम् ॥ २७६ ।।
यस्य वाणा रणे वक्षो मन्थन्ति प्रतिपन्थिनाम् ।
तच्छुद्धान्तवधूनां तु स्रंसन्ते हारवल्लयः ॥ २७७ ॥
१४४
काव्यमाला।
1
केयमार्तविमुक्तीनामपि नः कर्मनिघ्नता ।
इत्यादित्यमिव प्रष्टुं द्यां ययुर्यच्छरा रणे ॥ २७८ ॥
धनुर्वेदोपनिषदं पश्यन् यत्रात्मनोऽधिकाम् |
गुरुद्रोणोऽपि नियतं यं गुरुं कर्तुमिच्छति ॥ २७९ ॥
इत्यस्यां वेत्रधारिण्यां धात्रीशदुहितुः पुरः ।
निगदन्त्यां मुदा प्राप चापसामीप्यमर्जुनः ॥२८॥
कस्यापि विस्मयस्मेराः कस्याप्युत्मासपा(भा)सुराः ।
क्रोधताम्राश्च कस्यापि दृशः पेतुः किरीटिनि ॥ २८॥
क्षणात्प्रदक्षिणीकृत्य प्रणिपत्य च कार्मुकम् ।
ज्येष्ठबन्धोरथादेशादुच्चिक्षेप कपिध्वजः ॥ २८२ ॥
साहंकारस्ततस्तारमुज्जगार वृकोदरः।
एतदत्यद्भुतं कर्म कुर्वाणे कपिकेतने ॥ २८३ ॥ .
दोर्भृतो यस्य कस्यापि शिरःशूलमुदेष्यति ।
गदेयमगदंकारा तस्य जागर्ति मामकी ॥ २८४ ॥ (युग्मम्
पार्थोऽप्यनमयच्चापं समं भानैर्महीभृताम् ।
निनाय शिञ्जिनीकोटिमात्मना सह धन्विषु ॥ २८५ ॥
तदानीमासदन्कान्तिं सुहृदां वदनेन्दवः ।
तत्प्रणुन्न इव ध्वान्तो मुखमाशिश्रियदूषाम् ।। २८६ ॥
अमुञ्चदङ्कुरान्कुन्ती मनस्यानन्दकन्दलान् ।
गान्धारी हृदि तु स्वैरमप्रीतिविषवल्लरीम् ॥ २८७ ।।
आसन्युधिष्ठिरादीनां प्रमोदविशदा दृशः।
तदा दुर्योधनादीनां पुनर्दोषकषायिता ॥ २८८॥
अभूत्कर्मेदमेतावत्पुरो भवतु देवता ।
इत्याशंसारसाद्भेजे द्रौपदी विशदां दृशम् ॥ २८९ ॥
पाण्डु च धृतराष्ट्रं च भीमं च गुरुरब्रवीत् ।
अर्जुनस्य भुजौर्जित्यमितः पश्यत पश्यत ।। २९० ॥
पाण्डवचरितम् ।
१४५
शनकैराकृषेर्वत्स चाफ्मेतच्चिरंतनम् ।
सहिष्यते न ते सारमिति भीमेऽनुशासति ॥ २९१ ॥
आसनाद्रभसोत्तालवाचालवदनोदरे ।
पश्यति द्रुतमुत्थाय पृथिवीपालमण्डले ॥ २९२ ॥
कुतूहलान्मिलन्तीनां सिद्धगन्धर्वयोषिताम् ।
व्योम्नि चक्रैर्विमानान्तर्लक्षितैः शतचन्द्रिते ॥ २९३ ।।
सुहृद्वपुषि रोमाञ्चः प्रस्वेदो द्वेषिवर्ष्मणि ।
काण्डः कोदण्डदण्डे च संदधे सव्यसचिना ॥ २९४ ॥
(चतुर्भिः कुलकम् )
अथान्तस्तैलकुण्डस्य प्रतिबिम्बवतामधः ।
जवेन भ्राम्यतां तेषां चक्रकाणामरान्तरे ॥ २९५ ॥
लक्ष्यीकुर्वन्नमद्वक्रो राधाया वाममीक्षणम् ।
ऊर्ध्वीकृत्य दृशं पूर्वा वक्षोऽन्तम(र)परां नयन् ॥ २९६ ॥
कटाक्षैः सह कृष्णायाः कुन्त्याः प्रस्रवनिर्झरैः ।
पितुरानन्दबाष्पैश्च चकर्ष धनुरर्जुनः ॥ २९७ ॥
(त्रिभिर्विशेषकम् )
तथाभूतः स भाति स्म हन्तुं देवानिवोद्यतः ।
दीनं च तन्मुखाम्भोजमनीक्षितुमना इव ॥ २९८॥
अदभ्रसंभ्रमैः कैश्चिदासनात्पतयालुभिः ।
स्थगयद्भिः श्रुती पाणिपल्लवाभ्यां च कैश्चन ॥ २९९ ॥
उद्बुद्धसाध्वसैः कैश्चित्परिभ्रष्टोत्तरीयकैः ।
अभिभूरिभयोद्भ्रान्तैर्वेपमानैश्च कैश्चन ॥ ३०॥
मिन्दानोऽद्रितटीस्तन्वन् शब्दाद्वैतमयं जगत् ।
फाल्गुनाकृष्टकोदण्डक्रेंकारः श्रूयते स्म सः ॥ ३०१ ॥
(त्रिभिर्विशेषकम् )
मन्ये तस्माद्धनुर्ध्वानात्रस्तैरश्वैर्विवस्वतः ।
एकचक्रो रथश्चक्रे मेरोरास्फाल्य सानुषु ॥ ३०२ ॥
१९
ar
साधु साधु वृत राजकन्यया मा स्म शङ्कयताम् ॥ ३१४ ॥
काव्यमाला।
भुजैः सह महीशानां मार्गणो गुणमत्यजत् ।
बिभेद मङ्क्षु लक्ष्यं च तदीयहृदयैः समम् ॥ ३०३ ॥
क्षणादूर्ध्वं शरः प्राप शरव्यं सव्यसाचिनः ।
लोकाग्रं पुनरासेदुर्भुजविस्फूर्तिकीर्तयः ॥ ३०४ ॥
पुष्पवर्षं मरुत्पर्षदुपरिष्टाकिरीटिनः ।
दिवोऽङ्कादमुचत्प्राप्तमानन्दमिव मूर्तिताम् ॥ ३०५ ॥
विलेसुर्दिवि गीर्वाणदुन्दुभिध्वनयोऽधिकम् ।
धनंजयधनुर्ध्वानप्रतिध्वानसनाभयः ॥ ३०६ ।।
मुदा लोकस्य सर्वस्यात्यु(प्यु)ल्ललास जयध्वनिः ।
सूत्रयन्मातृकां देवीं वर्णद्वयमयीमिव ।। ३०७ ॥
आनन्दैकमयं संपन्मयं स्फीतयशोमयम् ।
तदा कुन्त्याश्च पाण्डोश्च बभूव निखिलं जगत् ॥ ३०८ ॥
साकाङ्क्षमथ पश्यन्ती दृशः कोणेन कोटिशः ।
सुतान्पञ्चापि पाञ्चाली पाण्डोरुद्दण्डविक्रमान् ॥ ३०९ ॥
रोमहर्षमिषान्नव्यस्सराङ्कुरकरम्बितम् ।
वपुर्लीलावनं भूम्ना सिञ्चन्ती स्वेदवारिभिः ॥ ३१० ॥
स्वैरमुज्जृम्भितस्तम्मा पृथुप्रथितवेपथुः ।
मदौत्सुक्यत्रपाहर्षसाध्वसस्फारचारिमा ॥ ३११ ॥
वरीतुकामा पञ्चापि लोकनिर्वादशङ्किता।
दौवारिकीकराब्जाभ्यां कण्ठपीठे किरीटिनः ॥ ३१२ ॥
वरमालां निचिक्षेप सा तु दिव्यानुभावतः ।
लोकैः प्रत्येकमेकापि तेषां कण्ठेष्वदृश्यत ।। ३१३ ॥
उच्चचार ततस्तारा व्योन्नि वागशरीरिणी ।
चिन्ता चतुर्णामन्येषामनुरूपा स्नुषास्तु मे ।
इदानीमपयातेयमिति कुन्ती मुदं दधौ ।। ३१५ ॥
पाण्डवचरितम् ।
१४.७
किमेषामपि भाग्येन दत्तभूयिष्ठसौष्ठवः ।
कर्मेदमादधे जिष्णुरिति पाण्डुर्विसिष्मिये ॥ ३१६ ॥
परिवेत्ता भविष्यामि नाहमुद्वाहशालिनि ।
तपासुते च भीमे चेत्यप्रीयत कपिध्वजः ॥ ३१७ ॥
पञ्चभ्यस्तनयामेकां नामीभ्यो दातुमुत्सहे।
ददानो हि गमिष्यामि साधूनामुपहास्यताम् ॥ ३१८ ॥
वरमाला च पञ्चानामपि कण्ठे लुलोठ सा ।
दिव्यवाक् क्वेयमुत्तस्थौ तत्किं नाम भविष्यति ॥ ३१९ ॥
इति चिन्तातुरो यावदभूद्रुपदभूपतिः ।
चारणश्रमणः कश्चित्तावदागादिवोऽध्वना ॥ ३२० ॥
(त्रिभिर्विशेषकम् )
दिशः काञ्चनकान्ताभिर्दिहानं देहकान्तिभिः ।
परमज्योतिषः प्रान्तं विवर्तमिव मूर्तताम् ॥ ३२१ ॥
तमभ्युदस्थुः पाञ्चालविष्वक्सेनादयो नृपाः ।
स्फुरदम्भोरुहारामपवमानमिवालिनः ॥ ३२२ ॥ (युग्मम् )
तमासयित्वा सर्वेऽपि रत्नसिंहासने मुनिम् ।
धात्रीलुठितमूर्धानः प्रणेमुः पृथिवीभुजः ॥ ३२३ ॥
अथावसरमासाद्य देशनान्ते मुनीश्वरम् ।
किं धवाः पञ्च पाञ्चाल्या इत्यपृच्छज्जनार्दनः ॥ ३२४ ॥
सोऽब्रवीदेतया पूर्वजन्मोपात्तनिदानया ।
वृताः पञ्च धवास्तद्भो कृतं मीमांसयानया ।। ३२५ ॥
पुरा हि पुरि चम्पायां भूमिदेवास्त्रयोऽभवन् । '
सोमदेवसोमभूतिसोमदत्ताः सहोदराः ॥ ३२६॥
तेषामासन्क्रमात्तिस्त्रः प्रेमजन्मभुवः प्रियाः ।
नागश्रीरथ भूतश्रीर्यक्षश्रीश्चेति नामतः ॥ ३२७ ।।
मिथः स्निग्धतया तेषामियमासीब्द्यवस्थितिः ।
यत्पर्यायेण भोक्तव्यं सर्वैरेकस्य वेश्मनि ॥ ३२८ ॥
काव्यमाला।
अथ क्रमात्समायाते भुक्तिवारकवासरे ।
नागश्रीराश्रितानेकरसां रसवतीं व्यधात् ॥ ३२९ ॥
कटुतुम्बीफलं तस्यामनेकद्रव्यसंस्कृतम् ।
अपाक्षीदियमज्ञासीत्पाकान्ते च कथंचन ।। ३३०॥
नानावस्तुव्ययोद्भूतकार्पण्येन न सात्यजत् ।
केवलं क्वचिदेकान्ते निधाय तदधारयत् ॥ ३३१ ।।
तदन्यैर्विविधैर्भोज्यैः स्वादुभिः पतिदेवरान् ।
भोजयामास सा प्रीता क्षणात्तेऽपि बहिर्ययुः ॥ ३३२ ॥
तदा सुभूमिभागाख्ये पुरोधाने महामनाः ।
धर्मघोषाभिधः सूरिनिवान्समवासरत् ॥ ३३३ ॥
तस्य धर्मरुचिः शिष्यो मासक्षमणपारणे ।
किरात्या इव कल्पद्रुर्गृहं नागश्रियो ययौ ॥ ३३४ ॥
वृथा मा भूदिदं तावद्भवेदेषोऽपि तोपितः ।
इत्यालोच्य तथा तस्मै तत्तुम्बीव्यञ्जनं ददे ॥ ३३५ ॥
अपूर्वमिति संचिन्त्य तद्ग्रहानुग्रहेच्छया ।
असौ वसतिमागत्य गुरूणां तददर्शयत् ॥ ३३६ ॥
तेऽपि तद्गन्धमाघ्राय वात्सल्यादिदमूचिरे ।
यदीदं भोक्ष्यसे वत्स सद्यो मृत्युमवाप्स्यसि ॥ ३३७ ॥
विशुद्ध स्थण्डिले मङ्क्षु तत्परिष्ठापय क्वचित् ।
इत्यादेशाद्गुरोः सोऽपि जगाम नगराद्बहिः ।। ३३८ ॥
बिन्दौ निपतिते तस्य कथंचित्तत्र पात्रतः ।
सक्ताः स मुनिरद्राक्षीन्म्रियमाणाः पिपीलिकाः ॥ ३३९ ॥
दध्यौ च बद्धसंवेगो बिन्दुरप्यस्य यद्यसौ ।
प्राणिनामियतां हन्ता तत्सर्वं किं करिष्यति ॥ ३४० ॥
वरमेकस्य मे मृत्युः कोटिशो न तु देहिनाम् ।
इत्यालोच्य सरोमाञ्चस्तदसौ बुभुजे स्वयम् ॥ ३४१ ॥
पाण्डवचरितम् ।
१४९
सिद्धप्रत्यक्षमालोच्य समाधिमधुरं मनः ।
दधत्सर्वार्थसिद्धेऽगान्मुनिः प्राणान्विहाय सः ॥ ३४२ ॥
बहिर्धर्मरुचेः कस्माद्विलम्ब इति वेदितुम् ।
गुरुः श्रीधर्मघोषोऽथ निदिदेश परान्मुनीन् ॥ ३४३ ॥
तं परासुं बहिर्वीक्ष्य तद्रजोहरणादिकम् ।
आदाय गुरुपादानां तेऽपि सर्व न्यवेदयन् ॥ ३४४ ॥
विज्ञायातीन्द्रियज्ञानोपयोगेन यथास्थितम् ।
सर्वं मुनीनां नागश्रीवृत्तान्तं तेऽप्यचीकथन् ॥ ३४५॥
ज्ञात्वा कथंचिल्लोकानां वाक्परम्परया जनाः ।
सोमदेवादिविप्राणां तस्था दुश्चेष्टितं जगुः ॥ ३४६॥
काममाक्रुश्य विप्रास्ते तां गृहान्निरवासयन् ।
लोकैर्धिक्क्रियमाणा च सापि बभ्राम सर्वतः ॥ ३४७ ॥
कासश्वासजरोत्कम्पकुष्ठाद्यैः क्रान्तविग्रहा ।
रोगैः षोडशभिर्लेभे सात्रैव नरकव्यथाम् ॥ ३४८॥
क्षुत्पिपासार्दिता लोकैर्निन्धमाना पदे पदे ।
दुःखं भ्रमन्ती सा मृत्वा षष्ठं नरकमासदत् ॥ ३४९ ॥
तस्मादुत्पद्य मीनेषु सप्तमं नरकं ययौ
पुनर्मीनत्वमासाद्य तस्मिन्नेव जगाम सा ॥ ३५० ।।
द्विर्द्विरेवं सिषेवेऽसौ नरकान्सकलानपि ।
पृथ्वीकायादिषूत्पेदे तदुद्वृत्ता च भूरिशः ॥ ३५१ ॥
चम्पायामथ सा कर्मलाघवात्सुकुमारिका ।
सुता सागरदत्तस्य सुभद्राकुक्षिभूरभूत् ।। ३५२ ॥
जिनदत्तात्मजस्तत्र भद्राजश्वास्ति सागरः।
वेश्मस्थां तत्पितान्येद्युर्ददर्श सुकुमारिकाम् ।। ३५३ ॥
तनयस्य मदीयस्य योग्येयमिति चिन्तयन् ।
सह बन्धुभिरभ्येत्य पितरं तामयाचत ॥ ३५४ ।।
&
१५०
काव्यमाला।
सोऽप्यूचेऽतिप्रिया मेऽसौ न भवाम्यनया विना ।
ममास्तु गृहजामाता सागरस्तत्तवात्मजः ।। ३५५ ॥
सुतमालोचयामीति जिनदत्तोऽगमद्गृहम् ।
सागरस्य तदाख्यच्च मौनमालम्ब्य स स्थितः ॥ ३५६ ॥
अनिषिद्धं ह्यनुमतमिति न्यायेन तत्पिता ।
मेने
सागरदत्ताय गृहजामातरं सुतम् ।। ३५७ ॥
आश्चर्यकृत्तयोर्जज्ञे पाणिग्रहमहोत्सवः ।
नक्तं शिश्रियतुस्तौ च पल्यङ्कं वासवेश्मनि ॥ ३५८ ॥
पूर्वकर्मवशात्तस्याः स्पर्शमङ्गारसोदरम् ।
आसाद्य सागरस्तस्थौ क्षणं तत्र कथंचन ॥ ३५९ ॥
तस्यां सुखप्रसुप्तायां स प्रणम्य गृहं ययौ ।
निद्रात्ययेऽरुदत्कान्तमपश्यन्तीं च सा भृशम् ।। ३६० ।।
अथादिष्टा तयोर्दन्तशौचहेतोः सुभद्रया।
प्रातरैक्षिष्ट तां चेटी रुदन्तीं वल्लभोज्झिताम् ॥ ३६१ ॥
सा गत्वाख्यत्सुभद्रायै सापि स्वप्रेयसे क्षणात् ।
पितुरेषोऽपि जामातुरुपालम्भं ददौ स्वयम् ॥ ३६२ ॥
सोऽप्याह तनयं वत्स न युक्तं विदधे त्वया ।
गच्छाधुनापि तत्तत्र मान्यथा मद्वचः कृथाः ॥ ३६३ ॥
सागरेऽप्यूचिवानग्नौ वरं झम्पां तनोम्यहम् ।
न पुनस्तात गन्तास्मि वेश्म तस्याः कदाचन ॥ ३६४ ॥
इदं सागरदत्तोऽपि तत्कुड्यान्तरितोऽशृणोत् ।
जगाद च गृहं गत्वा निराशः सुकुमारिकाम् ॥ ३६५ ॥
कथंचित्सर्वथा वत्से विरक्तः सागरस्त्वयि ।
तन्मा खिद्यस्व कोऽप्यन्यः पतिस्तव विधास्यते ॥ ३६६ ॥
कौपीनाम्बरमात्रैककर्परं मक्षिकावृतम् ।
भिक्षुकं कंचिद्राक्षीत्स गवाक्षस्थितोऽन्यदा ॥ ३६७ ॥
पाण्डवचरितम् ।
१५१
आहूय तेन सोऽम्भोभिः स्नापयित्वा सुगन्धिभिः ।
विलिप्य चन्दनैर्दिव्यवासांसि परिधाप्य च ॥ ३६८ ॥
ऊचे तुभ्यं मया दत्ता पुत्रीयं सुकुमारिका ।
मदीयां विलसन् लक्ष्मीं सुखमास्व सहानया ॥३६९॥(युग्मम्)
इत्युक्तः सोऽविशद्वासवेश्म साकं तया निशि |
मेने च तद्वपुःश्लेषमग्निप्लोषमिवात्मनः ॥ ३७० ॥
सहसोत्थाय वेषं स्वमादाय स पलायितः ।
तथैव रुदतीं तां च विलोक्य जनकोऽब्रवीत् ॥ ३७१ ॥
सोऽयं प्राक्कर्मणां वत्से विपाकोऽन्यन्न कारणम् ।
तदास्व ददती दानं शान्तात्मा मम वेश्मनि ॥ ३७२ ॥
तथैव कुर्वती तस्थौ सा धर्मैकपरायणा ।
प्रापुस्तद्गेहमन्येद्युः साध्व्यो गोपालिका इति ॥ ३७३ ॥
शुद्धैरशनपानाद्यैः सा भक्त्या प्रतिलाभ्य च ।
तन्मुखाद्धर्ममाकर्ण्य विरक्ता व्रतमग्रहीत् ॥ ३७४ ॥
तपोऽथ कुर्वती नित्यं तुर्यषाष्ठाष्टमादिकम् ।
आर्यिकाभिः सहैताभिर्विहारमकरोदियम् ॥ ३७५ ।।
आर्यास्ताः सा कदाप्यूचे तनोम्यातापनामहम् ।
सुभूभिभागोद्यानस्था दत्तदृष्टिर्विवस्वति ॥ ३७६ ॥
सा प्रत्यभिदधे ताभिरिति ह स्मागमोक्तयः।
आतापना न साध्वीनां कल्पते वसतेर्बहिः ॥ ३७७ ॥
अनाकर्ण्य च तद्वाचं वने तस्मिन्नुपेत्य सा ।
यावदारभते क्षिप्तचक्षुरातापनां रवौ ॥ ३७८ ॥
तावदुत्सङ्गमेकस्य श्रयन्तीमपरस्य तु ।
अङ्के न्यस्ताङ्घ्रिमन्येन बध्यमानावतंसकाम् ॥ ३७९ ॥
परेणावधृतच्छत्रां वीजितामितरेण च ।
गणिकामागतां तत्र देवदत्तां ददर्श सा ॥ ३८० ॥
(त्रिभिर्विशेषकम् )
1
भर्तारो जज्ञिरे मुख्याः पञ्चैते कोऽत्र विस्मयः ।। ३८६ ॥
कृष्णा सुगन्धिभिस्तैलैः कृताभ्यङ्गा स्म भासते ॥ ३९१ ॥
१५२
काव्यमाला।
तां वीक्ष्यापूर्णभोगेच्छा निदानमिति साकरोत् ।
भवेयं तपसानेन पञ्चप्रेयस्यसाविव ।। ३८१ ॥
तन्वती देहशौचाद्यमभ्युक्षन्ती क्षणे क्षणे ।
वार्यमाणेयमार्याभिर्मनसीदमधारयत् ॥ ३८२ ॥
पुरा बहुमताभूवमार्थिकाणामगारिणी ।
तिरस्कुर्वन्ति मामेता भिक्षुकीमधुना पुनः॥ ३८३ ॥
इत्यालोच्य विनिर्गत्य विभिन्नवसतिः स्थिता ।
व्रतं सा पालयामास चिरं स्वच्छन्दवर्तिनी ॥ ३८४ ॥
मासान्संलेखनामष्टौ कृत्वानालोच्य संस्थिता ।
नवपल्योपमायुष्का सौधर्मे देव्यभूदियम् ॥ ३८५ ॥
च्युताभवच्च कृष्णेयं प्राचीनाञ्च निदानतः ।
इत्येतां गिरमुद्गीर्य जगाम नभसा मुनिः ।
कुर्वते चिरमेकत्रावस्थितिं नहि तादृशाः ॥ ३८७ ॥
पाण्डवानां वधूलामे दधुः स्वजनभूभृतः ।
विकासमुदये भानोररविन्दाङ्कुरा इव ॥ ३८८ ॥
अथ वैवाहिकं कर्म प्रारमेते स तत्क्षणात् ।
पाण्डुः पाञ्चालभूपश्च लक्ष्मीसंभारभासुरम् ॥ ३८९॥
प्रमोदोत्फुल्लनेत्राभिः सौधमानीय सादरम् ।
पाञ्चाली कुलवृद्धाभिः स्नानपीठे न्यवेश्यत ।। ३९० ॥
उद्गिरन्ती बहिःस्नेहं पाण्डुपुत्रेष्विवान्तरम् ।
तस्याः पिष्टातकक्षोदक्षरदद्वर्तनीमिपात् ।
विक्षिप्तं यौवनेनाङ्गान्खण्डयित्वैव शैशवम् ॥ ३९२ ॥
रतेरिव निधानानि श्रीखण्डतिलकान्नव ।
तस्याः सहर्षमङ्गेषु चक्रिरे कुलयोपितः ।। ३९३ ॥
पाण्डवचरितम् ।
१५३
नवीनयौवनावासहेतोरिव तदङ्गके ।
तर्कुसूत्रमिषात्सूत्रं स्वगोत्राविधवा दधुः ।। ३९४ ।।
जृम्भते स्म भृशं विश्वश्रोत्रपीयूषवर्षिणः ।
कुललीलावतीवर्गमङ्गलध्वनयस्तदा ॥ ३९५ ॥
चिक्षिपुः कुलवामाक्ष्यो द्रौपदीमिति वर्णके ।
तथैव तस्याः सानन्दमुद्वर्णकमपि व्यधुः ।। ३९६ ॥
अथान्तःक्षिप्तकर्पूरकस्तूरीकुङ्कुमैरिव ।
वारिभिः स्नपयांचक्रुः कवोष्णैर्नित्ययौवनाम् ॥ ३९७ ॥
मार्जितं गन्धकाषाय्यात्पाञ्चाल्याः शुशुभे वपुः ।
नवमाणिक्यपाञ्चाल्या इव तत्कालसंस्कृतम् ॥ ३९८ ॥
आचार इति तास्तैस्तैभूषणैस्तामभूषयन् ।
नहि प्रकृतिरम्याणामाहार्यैः काप्यलंकृतिः ॥ ३९९ ॥
लावण्यवारिधाराभिर्वर्षन्तीव दशामिषात् ।
पारिनेत्रदुकूलानि सा तदा पर्यधाप्यत ॥ ४००॥
उत्पाद्य योषितो हर्षादिमां मातृगृहेऽनयन् ।
आसयंश्च स्मरस्मेरलोचनां काञ्चनासने ॥ ४०१ ॥
पाण्डवा अपि निर्वृत्तवर्णकोद्वर्णकक्रियाः ।
निर्माय मङ्गलस्नानमामुक्तोचितभूषणाः ॥ ४०२ ॥
औपवाह्यानथारुह्य वारणेन्द्रान्पृथक्पृथक् ।
समं पञ्चापि पाञ्चालीं परिणेतुं प्रतस्थिरे ॥४०३॥ (युग्मम्)
मौलिनीलमणिज्योतिर्भानुज्योतिःपराहतम् ।
मूर्ध्नीव पिण्डितं तेषां मायूरच्छत्रमाबभौ ॥ १० ॥
रेणुर्मङ्गलतूर्याणि पुरस्तेषामनेकशः ।।
तारैराकारयन्तीव दिशामीशान्प्रतिस्वनैः ॥ १०५ ॥
पश्चादुच्चेरुरद्रीन्द्रकन्दरादारणोल्बणाः ।
शात्रवावस्थितिक्रोधादिव निस्वाननिस्वनाः ।। १०६ ।।
.
अथ क्रमात्समाजग्मुर्मण्डपद्वारि पाण्डवाः ।। ४१५॥ (युग्मम्)
कथंचिन्मिश्रयामास दृशा(ग्भिः) पाण्डुतनूरुहाम् ।। ११८
१५४
काव्यमाला।
सर्वंकषेषु तेजखितेजसा पाण्डुसूनुषु ।
पतन्ति नित्यमेतस्य जगत्यां किममी कराः ॥ ४०७ ॥
मिलत्स्वजनभूपालतुरङ्गमखुरोद्धतः ।
इतीव स्थगयामास पांशुरंशुमतो वपुः ॥ ४०८ ॥ (युग्मम्)
अध्यासितुं मदश्रो(स्रो)तो भूषा कुसुमदाम च ।
सामन्तसामजेन्द्राणां द्विरेफाः समशेरत ॥ ४०९ ॥
स्वजनोर्वीपतिश्वेतच्छत्रैश्छन्नं नभो बभौ ।
विवाहमीक्षितुं सर्वराकेन्दुभिरिवागतैः ॥ १० ॥
ध्वजैर्विरेजे वेल्लद्भिरनुकूलेन वायुना ।
द्रौपदीकौतुकागारवर्तनीदेशकैरिव ॥ ४११॥
नारीमङ्गलसंगीतश्रवणप्रवणाश्चिरम् ।
सादिनं खेदयामासुस्ते पतङ्गतुरङ्गमाः ॥ ४१२ ॥
तदा कुन्ती च माद्री च गान्धारीप्रमुखा अपि ।
शृङ्गारैरद्भूतैः प्रापुर्दिव्यानामप्यवेक्ष्यताम् ॥ ४१३ ॥
श्रुतीर्मत्सरिणां तूर्यैः स्फोटयद्भिः स्फुटारवैः ।
आलोकनाय लोकं च विकर्षद्भिरितस्ततः ॥ ४१४ ॥
सर्वतः स्तूयमानैश्च बन्दिभिर्भुजवैभवम् ।
कृतं प्रतीक्ष्य श्वश्रूभिरवतारणमङ्गलम् ।
मातृगेहमुपाजग्मुस्तथा तिग्मांशुतेजसः ॥ ४१६ ॥
पाञ्चाल्या दक्षिणः पाणिस्तदीयैर्दक्षिणैः करैः ।
तत्र संगमयांचके वेधसेव पुरोधसा ॥ ४१७ ।।
वृद्धावचोभिः पाञ्चालीत्रपातरलितां दृशम् ।
ततो दधति पञ्चाङ्गमन्त्राङ्गाणीव मूर्तताम् ।
साक्षालक्ष्म्येव काम्पिल्यनाथनन्दनयान्विताः॥ ४१९॥
पाण्डवचरितम् ।
१५५
वैवाहिकी ऋचोऽधीत्य हुतं हव्यैर्द्विजन्मना ।
दक्षाः प्रदक्षिणीचक्रुस्ते वेद्यां जातवेदसम् ॥ ४२० ॥ (युग्मम्)
द्रुपदोऽप्युपदीचक्रे पाणिमोचनपर्वणि ।
पाण्डवानां विना दारान्गृहसर्वस्वमात्मनः ॥ ४२१॥
पिकीपञ्चमनिह्रादकलमङ्गलगीतयः ।
दुन्दुभिध्वनिभिस्तारैराहूतपुरयोषितः ॥ ४२२ ॥
राजलक्ष्मीमिवाध्यक्षामादाय द्रुपदात्मजाम् ।
पाण्डवा रथमारुह्य निजावासमुपागमन् ॥ ४२३ ॥
कृष्णादिभिर्नृपैराप्तैः सदारैः स्वात्मजन्मभिः ।
अनुद्रुतः प्रतस्थेऽथ पाण्डुर्निजपुरं प्रति ॥ ४२४ ॥
अनुगच्छन्तमाक्रम्य कियतीमपि मेदिनीम् ।
बलान्निवर्तयामास पाण्डुर्द्रुपदभूपतिम् ॥ ४२५ ॥
अथ प्रत्यालयोन्मीलन्नीलवन्दनमालिकम् ।
सर्वराजपथोत्क्षिप्तपताकापीतदुष्करम् ॥ ४२६ ॥
स्थानस्थानोल्लसन्मञ्चविमानितविमानकम् ।
ककुप्कुक्षिंभरिक्षुभ्यन्नादकम्पितमानकम् ॥ ४२७ ॥
प्रेक्षाकौतूहलाहूतनारीनयनपङ्क्तिभिः ।
नवेन्दीवरकेदारकरम्बितमिवाभितः॥ ४२८॥
अनुयातः सहायातस्वजनो शमण्डलैः।
तैः सदारैः कुमारैश्च पाण्डुः स्वपुरमाविशत् ॥ ४२९ ।।
(चतुर्भिः कलापकम् ।)
विहाय कृष्णं सत्कृत्य हास्तिकाश्चीयकाञ्चनैः ।
विससर्ज स्वदेशेभ्यः सर्वं राजाथ राजकम् ।। ४३० ।।
लीलाशैलोच्चयोद्यानकेलिवापीपु पाण्डवाः ।
दिनान्यत्तीयुः क्रीडन्तः समं कृष्णेन यामवत् ॥ ४३१ ।।
अथालोच्यायतिं स्नेहात्कृष्णं शुभफलोदयाम् ।
समाहूय रहः किंचिद्यावद्वदति पाण्डवान् ॥ ४३२ ॥
१५६
काव्यमाला।
तावव्द्योम्ना महापुञ्जधौतदिकुञ्जकालिमा ।
आययौ नेत्रपीयूषनीरदो नारदो मुनिः ॥ ४३३ ॥
प्रीतान्तःकरणः काममभ्युत्थानासनादिभिः ।
पाण्डवेभ्योऽनुशिष्टिं स विततार हरेर्गिरा ॥ १३४ ॥
आकर्ण्य कर्णपीयूषं युष्मदुद्वाहमङ्गलम् ।
प्राप्तोऽस्मि परमब्रह्मलयादप्यधिकां मुदम् ॥ ४३५ ॥
वत्साः किंत्वेकजानित्व किंचिदन्तर्दुनोति वः ।
वैरवारिधरोल्लासप्रावृषः खलु योषितः ।। ४३६ ।।
आरूढस्य परां प्रौढिं बन्धुस्नेहमहीरुहः ।
हन्त दावानलज्वालामाहुर्मृगविलोचनाम् ॥ ४३७॥
स्रोतस्विनीप्रवाहाणामिव बान्धवचेतसाम् ।
द्वैधीभावकरी शैलतटीव तरलेक्षणा ॥ ४३८ ॥
वत्साः कुटुम्बसंहारकारणं हरिणेक्षणाः ।
यथा समभवत्पूर्वमाकर्णयत तां कथाम् ।। ४३९ ॥
अस्ति रत्नपुरं नाम पुरं भरतभूषणम् ।
न यत्रार्थिजनाभावात्कोऽपि त्यागीति विश्रुतः ॥ ४४० ॥
तत्र श्रीषेण इत्यासीद्दासीभूतरिपुर्नृपः ।
न्यायविक्रमयोर्येन धर्मः संधिकरः कृतः ॥ ४४१॥
तस्याभिनन्दितेत्याद्या द्वितीया शिखिनन्दिता ।
प्रिये बभूवतुः प्रीतिरती इव मनोभुवः ॥ ४४२ ॥
सतीललाम सूते स नन्दनावभिनन्दिता ।
जगदुद्द्योतनौ प्राची सूर्याचन्द्रमसाविव ॥ ४४३ ॥
इन्दुषेण इतीन्दुश्रीराद्योऽभून्नयनोत्सवः ।
स्मरलीलालताकन्दो विन्दुषेणस्ततोऽपरः ॥ ४४४ ॥
कुमारयोस्तयोः शङ्के शास्त्रस्पर्धानुबन्धतः ।
शस्त्रमप्यभवत्सर्वजगतो मात्रयाधिकम् ॥ ४४५ ॥
.
पाण्डवचरितम् ।
१५७
क्रमान्मदसरस्तीरसान्द्रदुर्विनयद्रुमम् ।
तौ स्मरानेकपक्रीडावनं यौवनमीयतुः ॥ ४४६ ॥
गुरुस्ताभ्यां गुणारामराजिनी राजकन्यकाः ।
अनेकरसपीपूषवाहिनीरुदवाहयत् ॥ ४४७ ।।
तस्मिन्नेव पुरे सर्वकलानां पारदृश्वरी ।
गणिकानङ्गसेनेति गुणानां जन्मभूरभूत् ॥ ४४८ ॥
तस्यां लावण्यपीयूषसरस्यां रागिणां दृशः ।
मज्जन्त्यः प्राप्य वक्षोजकुम्भौ प्रीतिं ययुः पराम् ॥ ४४९ ।।
यूनां तदीयवैदग्ध्यवागुरापतितं मनः ।
खच्छन्दमदनव्याघविद्धं न पदमप्यगात् ॥ ४५० ॥
द्वावप्युर्वीपतेः पुत्रौ तस्यामासक्तमानसौ ।
तौ मिथः कलहायेतां करिण्यां करिणाविव ॥ ४५१ ।।
कुर्वाणौ कलहं नित्यमत्यन्तोत्रासितत्रपौ ।
खेदादन्येधुराहूय तौ महीपतिरन्वशात् ॥ ४५२ ॥
वत्सौ किमिदमारब्धं मलीमसकुलोचितम् ।
कलहायेत नान्योऽपि वेश्यार्थे किमु वान्धवौ ।। ४५३ ।।
स्वल्पाप्युज्जृम्भते यासु न प्रेमसलिलार्द्रता ।
सुखशाखिप्ररोहस्तु कस्तास्वद्रिशिलास्विव ॥ ४५४ ॥
विलोकन्तेऽन्यमन्यस्य कण्ठाश्लेषं वितन्वते 1
चित्ते दधति याश्चान्यं तासु वेश्यासु का रतिः ।। ४५५ ॥
यासां काप्यार्द्रता तावद्यावदानाम्बुवृष्टयः ।
वेश्यासु मरुदेश्यासु तासु रज्येत कः सुधीः ।। ४५६ ॥
निर्धनत्वादिपुष्पस्य नरकादिफलस्य च ।
मूलं वेश्यैव जानीत महाव्यसनशाखिनः ॥ ४५७ ।।
नित्यमित्यादिभिर्वाक्यैर्भूभृता बोधितावपि ।
तौ नितान्तमयुध्येतामत्यन्तोत्सिक्तमत्सरौ ।। ४५८ ॥
पाण्डु पाण्डुतनूजानप्यापृच्छ्य द्वारकां ययौ ॥ ४७० ॥
इति मलधारिश्रीदेवप्रभसूरिरचिते पाण्डवचरिते महाकाव्ये द्रौपदीस्वयवरवर्णनो
सहविहितसमस्तकेलिरम्यं गमयन्ति स्म दिनानि पाण्डवेयाः ॥१७॥
१५८
काव्यमाला।
तयोः संरब्धयोरेवं द्रष्टुं मृत्युमनीश्वरः ।
विषमं विषमासाद्य परलोकं ययौ नृपः ॥ ४५९ ॥
पत्युर्विपत्तिशोकेन विक्लवे ते अपि द्रुतम् ।
विपेदाते तथैवाभिनन्दिताशिखिनन्दिते ॥ ४६० ॥
बद्धानुरागावत्यन्तं तस्यां तदपि निस्त्रपौ।
मिथः क्रोधोद्धतौ युद्धा मृत्युं तावप्यवापतुः ।। ४६१ ॥
इत्थं कुटुम्बसंहारः स्त्रीनिमित्तोऽभवत्पुरा ।
अनर्थबीजं राजीवचक्षुषो हि प्रचक्षते ।। ४६२ ॥
वत्सास्तद्वो रिरंसूनामेकामेव मृगीदृशम् ।
क्षेमं न खलु पश्यामि तत एवागतोऽस्म्यहम् ॥ ४६३ ॥
तत्सर्वैरपि युष्माभिरात्मनः शिवतातिभिः ।
अनेन समयेनैव वर्तितव्यमहर्दिवम् ॥ ४६४ ॥
यदा युष्माकमेकस्य द्रौपदी वासवेश्मनि ।
कार्यतोऽपि तदान्येन न गन्तव्यं कथंचन ।। ४६५ ॥
कथंचिदथ यः कोऽपि भिनत्ति समयं यदि ।
वनवासाय गन्तव्यं तेन द्वादशवत्सरीम् ॥ ४६६ ॥
मुनेर्गिरमिमां काममायतिक्षेमकारिणीम् ।
अनुमेने मुकुन्दोऽपि कौन्तेयानां हितेच्छया ॥ ४६७ ॥
तां वाचमुररीचक्रुर्वाचंयमपतेर्मुदा।
पाण्डवा अपि को नाम नात्मनीनाय धावति ॥ ४६८ ॥
मुनीन्द्रोऽपि यथार्थाभिराशीर्भिरभिनन्ध तान् ।
विकस्वरमनाः स्वैरसुत्पपात विहायसा ॥ ४६९ ॥
कामं हृष्यन्हषीकेशोऽप्युपचारैरनेकशः।
ति समयनिरुद्धकामचाराः प्रणयप्रह्वघियः परस्परेण ।
नाम चतुर्थः सर्गः ॥ ४ ॥
पाण्डवचरितम् ।
१५९
पत्रमः सर्गः।
अथानुजग्मुषां तेपामन्वहं समयं मुनेः।
परस्परमभृत्प्रीतिरखण्डा पाण्डुजन्मनाम् ॥ १॥
मनोमिः पञ्चभिस्तेषां कृतमेकं महन्मनः ।
तेनैव नियतं ख्याता महामनस इत्यमी ॥ २ ॥
अवश्यमेक एवात्मा तासु मूर्तिषु पञ्चषु ।
न खल्वेकैव पली स्याद्भूयसां पतिदेवता ॥ ३ ॥
अविशेषकृतोपास्तिः शशिलेखेव शूलिनाम्(नः)।
निष्कलङ्कैव पाञ्चाली तेषामासीदतिप्रिया ॥ ४ ॥
पतिव्रता न गङ्गापि हरादम्भोधिमीयुषी।
श्रयन्ती हन्त पञ्चापि द्रौपदी तु पतिव्रता ॥ ५ ॥
पञ्चभ्योऽपि क्रमातेभ्यः प्रियेभ्यस्त्रिजगत्प्रिया।
लोकपालोपमान्पञ्च पाञ्चाली प्रापदात्मजान् ॥ ६॥
पाञ्चालीलब्धजन्मत्वात्पृथग्मिन्नामिधा अपि ।
एते पञ्चापि पाञ्चाला इति पप्रथिरे भुवि ॥ ७ ॥
सौम्रात्रं पाण्डुपुत्राणां द्रौपद्याश्च सतीव्रतम् ।
अवलोकितुकामेव ततः शरदुपागमत् ।। ८॥
भेजे विप्रोषितप्रावृट् भुजङ्गीविषवल्गितैः ।
औषधीशकरामर्शादिव वैशद्यमम्बुदैः ॥९॥
धनोपरोधनिर्मुक्तो ध्वस्तध्वान्तरिपुः शशी ।
भाति स दिग्वधूक्षिप्तैर्नक्षत्रैरक्षतैरिव १० ॥
नत्म्रीभूतशिरःपक्कशालिकेदारकं बभौ ।
जनकस्येव जीमूतकालस्य विरहासहम् ॥ ११ ॥
जिगीषुनृपसैन्याश्वरजोमलिनमम्बरम् ।
अहसन्नमलाः स्मेराम्भोजव्याजाजलाशयाः ॥ १२ ॥
दिशः शरदमायातां चिरात्प्रियसखीमिव ।
आलपन्त्य इवैक्ष्यन्त सरसैः सारसारवैः ॥ १३ ॥
वासवेश्मनि कृष्णायाः क्रोडक्रीडे युधिष्ठिरे ॥ २२॥
काव्यमाला।
मरालैः कमलोत्तंसाः सरस्यः पुनराश्रिताः ।
सेव्यते हि प्रभुः प्रायो विशदैरपि संपदि ॥ १४ ॥
दृप्तसप्तच्छदामोदा विरेजुर्वनभूमयः ।
क्रीडत्कामेभसंभूतदानाम्भःसौरभा इव ।। १५॥
संपन्नसस्यसर्वौघमण्डितां पाण्डुसूनवः ।
शरदं निर्विशन्ति स्म शश्वदुद्यानकेलिभिः ॥ १६॥
गोचरे पररात्रस्य निर्गतं बहिरन्यदा।
समस्तमप्युपाहारि तस्करैः पुरधैनुकम् ॥ १७ ॥
तत्क्षणाद्दक्षिणेर्माण(१)तस्करश्रेणिमार्गणैः ।
भूशक्रस्येत्यपूच्चक्रुर्मन्दिरद्वारि बल्लवाः ॥ १८ ॥
तदीयध्वनिमाकर्ण्य कर्णयोः क्रकचोपमम् ।
उज्झांचकार बीभत्सुर्निदातन्द्रालुतां क्षणात् ॥ १९ ॥
ततो जीवधनं दस्युहृतं विज्ञाय तन्मुखात् ।
शौण्डीरचूडामाणिक्यमन्तर्जज्वाल फाल्गुनः ॥ २० ॥
अर्जुनेन प्रजाकार्ये प्राणानपि जिहासता ।
तदा समयभेदोऽपि सानन्दमुररीकृतः ॥ २१ ॥
ततो धनुः सतूणीरमादातुं फाल्गुनोऽविशत् ।
आदाय विजयस्तस्मान्निजतूणीरकार्मुके ।
तस्करानुपदं वीरः क्रोधावेशादधावत ॥ २३ ॥
स वीरग्रामणीर्बाणै रणे निर्जित्य तस्करान् ।
प्रीत्याभिनन्दितः पौरैः पुरस्कृत्यानिनाय गाः ॥ २४ ॥
विगाहते स्म गायद्भिस्तद्भुजस्फूर्तिचर्चरीः ।
गोपैरेत्य वृतः प्रीत्या नरो नारायणोपमम् ॥ २५ ॥
पार्थस्येव यशः साक्षात्क्षरन्त्यः क्षीरमुज्ज्वलम् ।
स्वस्ववत्सोत्सुका गावः स्वं स्वं धामोपतस्थिरे ॥ २६ ॥
पाण्डवचरितम् ।
कश्चिदभ्येत्य बीभत्सोरादेशादथ पार्थिवम् ।
कुन्तीयुधिष्ठिरप्रोष्ठकुटुम्बोपेतमभ्यधात् ॥ २७ ।।
दिष्ट्या त्वं वर्धसे देव भुजैः पार्थस्य यैस्तव ।
पुरजीवधनत्राणात्कीर्तयः सुरभीकृताः ॥ २८ ॥
पुरद्वारि स्थितो मूले सहकारमहीरुहः ।
किंतु विज्ञापयत्येवं देवस्त्वां कपिकेतनः ॥ २९ ॥
अभिद्यत मुनेरद्य प्रजाथै समयो मया ।'
विवेचयन्ति नो किंचित्कुरुवंश्या हि तत्कृते ॥ ३० ॥
करिष्ये तीर्थयात्रां तद्वने द्वादशहायनीम् ।
ताः प्रमाणीभवन्त्वद्य गरीयस्यो मुनेर्गिरः ॥ ३१॥
तन्मे तीर्थाद्रिकान्तारविहाराय प्रसीदत ।
अविघ्नं च करिष्यन्ति युष्मत्पादाः स्थिता हृदि ॥ ३२॥
तामाकर्ण्य गिरं दुःखजननीमवनीपतिः ।
सपरीवार एव द्राग्जगामोपकपिध्वजम् ।। ३३ ॥
स्वेदमेदस्विनिःश्वासः करे धृत्वा किरीटिनम् ।
सोऽन्वशात्किं त्वयारब्धं वत्स विश्वैकवत्सल ॥ ३४ ॥
नवे वयसि कोऽयं ते तीर्थारण्यमनोरथः ।
सुतोपहितभारा हि कुरवो वनवासिनः ॥ ३५ ॥
तदसत्कृत्यमेवैतन्नैव त्वं कर्तुमर्हसि ।
भारे महोक्षवाटे हि किमु दम्यो नियम्यते ।। ३६ ॥
सर्वतोऽस्मत्प्रतापाग्नेर्वैरिवंशान्दिधक्षतः ।
प्रभञ्जनायते वत्स तवैव भुजविक्रमः ॥ ३७ ।।
मागास्ततः क्वचिद्देहि नेत्रानन्दं चिराय मे।
इति जल्पति भूपाले कुन्ती साश्रुरवोचत ॥ ३८ ॥
पितुर्वाचमिमां वत्स नान्यथाकर्तुमर्हसि ।
प्रायश्चित्तं गुरूणां हि वचांसि निखिलैनसाम् ॥ ३९ ॥
।
आत्मन्यन्त:स्थिते भेदः समयस्य न चात्मनः॥१८॥
नित्यं विविधकेलीभिः को हि नौ लालयिष्यति ॥ ५ ॥
१६२
काव्यमाला।
मामुदश्रुमुखीमेव त्यक्तुमुत्सहसे कथम् ।
हा मम त्वां विना वत्स वत्सरीयति वासरः ॥ ४० ॥
दाधिकैरथ सार्पिष्कैः पायसैरपि पोषितम् ।
कथं वर्तिष्यते वत्स वन्याहारैर्वपुस्तव ॥ ११ ॥
रुद्धस्पर्शः पुरा छत्रैर्भानुः सेर्ष्य इवाध्वना ।
तापः सर्वाभिसारेण पथि त्वां व्यथयिष्यति ॥ १२॥
नवानुरागकल्लोलां स्नुषामिन्दुमुखीमिमाम् । '
पर्यश्रुलोचनां वत्स विहातुं कथमीहसे ॥ ४३ ॥
जनन्यामिति वादिन्यां बन्धुज्येष्ठो युधिष्ठिरः ।
स्फुरदस्तोकशोकोर्मिपीतप्रीतिरभाषत ।। ४४ ॥
त्वद्वियोगासहौ वीर पितरौ मावमानय ।
नातिक्रान्तगुरूणां हि क्रिया कोपफलेग्रहिः ॥ ४५ ॥
समयोऽपि मुनेरद्य त्वया कोऽयमभिद्यत ।
अत्याहिते हि साधूनां मतिभूमिर्न दूषिता ॥ ४६॥
भिन्न एवाथवा तस्य प्रायश्चित्तमपि त्वया ।
एताः पौरगवीः किंतु न प्रत्याहरता कृता ॥ ४७॥
मनस्येव(स्यपि) न मन्येऽहमन्तरं वपुषापि ते ।
प्रतिध्वान इवैतां च वाचमाजातशात्रवीम् ।
अनुगम्य गिरं दीनां निजगाद वृकोदरः ॥ १९ ॥
गन्तुकामोऽपि मां भ्रातरवस्थानाय मानय ।
हृदयं स्फुटतीवेदं भवद्विरहकातरम् ॥ ५० ॥
यमावप्यूचतुर्भ्रातः कान्ताराय गते त्वयि ।
अथ स्फुटमवष्टभ्य धैर्य धीमानवोचत ।
स्वप्रतिश्रुतनिर्वाहबद्धबुद्धिर्धनंजयः ॥ ५२ ॥
पाण्डवचरितम् ।
163
पृथग्जनोचिता हन्त केयं कातरताद्य वः।
भवन्मनस एवायमन्तेवासी पविर्ननु ॥ ५३ ॥
ममाङ्गीकृतनिर्वाहवतचर्यावकीर्णिनः ।
युष्मानेवायशः कामं नन्विदं लज्जयिष्यति ॥ ५४॥
तद्बलादनुमन्यध्वमरण्यगमनाय माम् ।
सत्याः सन्तु मुनेर्वाचो ममापि पुरुषव्रतम् ॥ ५५ ॥
इति सस्नेहमापृच्छय बीभत्सौ गन्तुमिच्छति ।
तमस्तान्व्यानशे सर्वान्दिकुञ्जानिव भास्वति ॥५६ ॥
अथानम्य क्रमान्मन्युगद्गदाशीर्गिरो गुरून् ।
प्रीत्यालिङ्गयानुगच्छन्तौ कनीयांसौ न्यवर्तयत् ॥ ५७ ॥
अमङ्गल्यधिया बाष्पबिन्दुपातं निरुन्धती ।
प्रस्थितं पार्थमभ्येत्य जगाद द्रुपदात्मजा ।। ५८ ॥
पुंसां मनाक्क्वचिद्योषिन्मतयो नातिशेरते ।
तदप्युदीर्यते नाथ त्वयारब्धं न साध्विदम् ॥ ५९ ।।
यदियं मन्मनःप्रीतिः प्रस्थिता पुरतस्तव ।
गणनाभिर्दिनानां तु धरिष्ये यदि जीवितम् ॥ ६०॥
पन्थानस्तीर्थशैलानां शिवाः सन्तु तथापि ते ।
-निष्प्रत्यूहं वितन्वन्तु तथापि कुलदेवताः ॥ ६१ ।।
भ्रमन्कान्तारमेकाकी माभूत्क्वापि प्रमद्वरः ।
मलीमसानि चेतांसि साधुष्वपि हि पाप्मनाम् ॥ ६२ ॥
संचरन्पुरुषान्पश्यन्प्रस्थिताननवान्नवान् ।
विद्याः कीर्तीश्च लक्ष्मीश्च नूतनाः काश्चिदर्जयेः ॥ ६३ ॥
तथा किमपि माकार्षीर्भ्रमन्देशाननेकशः।
यथा नाथ वयं स्याम वैमनस्यवशंवदाः ॥ ६४ ॥
पावितं सुकृतैर्न्नातीर्थाभिगमजन्ममिः ।
त्वामुपागतमालिङ्गय मयात्मा पावयिष्यते ॥ ६५ ॥
1
पश्यन्परिसरारामान्स जगाम शनैः शनैः ॥ ७१ ॥ (युग्मम्
पार्थः क्षीरोददायादमाससाद महासरः ॥ ७३ ॥ (युग्मम्
तस्यां किमपि न क्षोभं कुर्वते स किरीटिनः॥ ७८ ॥ (युग्मम्
१६४
काव्यमाला।
मया ते स्खलितस्वैरसंचारस्य पदे पदे ।
मा भूत्पुण्यक्रियाविघ्न इत्यागच्छामि नो समम् ॥ ६ ॥
इति ब्रुवाणां प्रणयप्रह्नीभूतान्तराशयाम् ।
आलिङ्गय मुहुरालप्य वचोभिः स्नेहनिर्भरैः ॥ ६७ ॥
अनुव्रजन्तीं दयितामवस्थाप्य कथंचन ।
प्रतस्थे पुरतः पार्थः सतूणधृतकार्मुकः ॥ ६८॥ (युग्मम्)
आलोचनपथात्पार्थ् पथिकं सा पपौ दृशा ।
प्रेम्णा सोऽप्यचलन्मन्दमन्दं वलितकंधरः ॥ ६९॥
मन्दारघट्टनिर्घोषशिखण्डिकृतताण्डवान् ।
माद्यन्मधुव्रतव्रातझङ्कारमुखरोदरान् ॥ ७० ॥
सान्द्रनैकद्रुमच्छायानिपीततपनातपान् ।
तीरप्ररोहसानन्दं माकन्दं प्राप पादपम् ।
कूजत्कुररहारीतकपिञ्जलजलद्विकम् ॥ ७२ ॥
तारुण्ये तरणेः क्षोणिमतीत्य कियतीमपि ।
तत्रागशौचमाधाय प्रणिधाय जिनेश्वरम् ।
आहारं सरसैस्तैस्तैः फलौघैः फाल्गुनो व्यधात् ॥ ७९ ॥
असङ्गभृङ्गसंगीतमतिमुक्तकमण्डपम् ।
सपुष्पतल्पमध्यास्य स मध्यंदिनमत्यगात् ॥ ७५ ॥
इति क्रामत्क्रमाज्जिष्णुर्बहुकौतूहलां महीम् ।
विवेश भैरवाभोगदत्तमोहां महाटवीम् ॥ ७६ ।।
केलिहुंकारिणः क्वापि क्रूरा हरिणवैरिणः ।
मृगानुपदिकाकोपसाटोपा द्वीपिनः क्वचित् ॥ ७७ ॥
क्वाप्यन्योन्यरणारम्भप्रह्वपोत्राश्च पोत्रिणः ।
१. द्विकः काकः.
पाण्डवचरितम् ।
१६५
स्वैरमस्यां च वीभत्सुरभीर्गच्छन्पुनः पुनः ।
गिरिं धात्रीशिरोरत्नं रत्नसानुमुदैक्षत ॥ ७९ ॥
यस्य निर्झरझात्कारशब्दाद्वैतैकतार्किकी ।
द्रुमैरभ्रंकपैः केषां मुदे नाभूदुपत्यका ॥ ८० ॥
अध्यास्यन्ते स्म तिग्मांशुगभस्तीनामसंस्तुताः ।
यस्य विद्याधरैर्विद्यासिद्धिक्षेत्राणि कन्दराः ।। ८१ ।।
किंनरैः केलिसंगीतनिस्तरङ्गा मृगा अपि ।
यस्मिन्नैक्षन्त मोक्षाय प्राणायामोल्वणा इव ।। ८२ ।।
द्रुमैः कुसुमितैस्तैस्तैर्विलोभितविलोचनः ।
सव्यसाची गिरौ तस्मिन्नारुरोह कुतूहलात् ।। ८३ ॥
इन्द्रनीलावितद्वारं शोणसोपानपद्धतिम् ।
शातकुम्भमयस्तम्भकुम्भसंभारभासुरम् ॥ ८४ ॥
नीरैरनुक्षपं चन्द्रकरव्यतिकरोद्भवैः ।
अदेवमातृकोन्माद्यदुद्यानजगतीरुहम् ॥ ८५ ॥
तत्रोत्फालप्रभाजालनिष्पीताहर्पतिद्युति ।
चन्द्राश्ममयमद्राक्षीदर्जुनो जिनमन्दिरम् ।। ८६ ॥
(त्रिभिर्विशेषकम् )
क्षालिताङ्गस्तदुद्यानदीर्घिकाम्भसि रंहसा ।
मेदुरामोदमादाय तदीयकमलोस्करम् ॥ ८७॥
तस्मिन्नमरनिर्मुक्तपुष्पप्रकरदन्तुरे ।
अविक्षत्कौतुकाक्षिप्तचक्षुः क्षितिपनन्दनः ॥ ८८॥ (युग्मम् )
तत्र प्रदक्षिणीकृत्य त्रियुगादिजिनेश्वरम् ।
बद्धरोमाञ्चमभ्यर्च्य स तुष्टावेति तुष्टिमान् ॥ ८९ ॥
जय नाभिकुलक्षीरनीराकर निशाकर ।
जयाशेषजगदुःखनिदाघजलदागम ।। ९०॥
देव संसारकान्तारपर्यन्तपुरपादपाः ।
पादास्तव भवक्रान्तिविच्छेदाय भवन्तु मे ॥ ९१ ॥
किंतु त्वां कर्तुमिच्छामि न दुःखौघविभागिनम् ॥ १०१॥
वैताढ्ये दक्षिणश्रेण्यामस्ति रत्नपुरं पुरम् ॥ १०३ ॥
१६६
काव्यमाला।
इत्यभिष्टुत्य नाभेयं निकेतं परितोऽपि तत् ।
विलोक्य कलयामास बीभत्सुर्नयनोत्सवम् ॥ ९२.॥
गिरेरधित्यकारामरामणीयकलोलुपम् ।
चक्षुर्विनोदयन्यावत्पार्थः प्रस्थान्तरं ययौ ॥ ९३ ॥
तावन्मुहुर्मुहुमौलिं खेलयन्त्या पदाम्बुजैः ।
अङ्गुलीर्वेदने दैन्यात्प्रक्षिपन्त्या मुहुर्मुहुः ॥ ९४ ॥
मुहुर्मुहुर्वितन्वत्या प्रीत्या चाटूनि कोटिशः ।
उत्तरीयपटप्रान्तमाकर्षन्त्या मुहुर्मुहुः ॥ ९५ ॥
कयाचिद्योषिता रुद्धस्वैरचारं पदे पदे ।
युवानमेकमैक्षिष्ट गत्वाभाषिष्ट चादरात् ॥ ९६ ॥
तव प्रसादनप्रह्वामिमामत्यन्तदुःखिताम् ।
किं नाम भद्र कल्याणीं त्वमेवमवमन्यसे ।। ९७ ॥
प्ररूढप्रणयं सन्तो नान्यमप्यनुजानते ।
किं पुनः प्रेमसर्वस्वविक्लवामबलां क्वचित् ॥ ९८ ॥
एतस्यामाकृतौ शङ्के न व्यलीकलवं क्वचित् ।
कथ्यता यदि नाकथ्यं तदास्या कोपकारणम् ॥ ९९ ॥
पाणिसंपुटमाबध्य सोऽभ्यधत्त धनंजयम् ।
महती खलु वार्तेयं पुरस्तात्कस्य कथ्यते ॥ १०० ॥
परं विश्वैकविश्वास्यमूर्ते किं गोप्यमस्ति ते ।
वीभत्सुरभ्यधाद्भूयः स्खलितव्यं नहि त्वया ।
परिज्ञाय कुरून्विश्वदुःस्वत्राणैकदीक्षितान् ।। १०२ ॥
ससौष्ठवं तदाकर्ण्य वचः स पुनरब्रवीत् ।
f
वैरिदोर्दण्डकण्डूतिवैद्यो विद्याधरेश्वरः ।
ख्यातश्चन्द्रावतंसाख्यस्तत्र धात्रीधवोऽभवत् ॥ १०४ ॥
पाण्डवचरितम् ।
१६७
पतिव्रतामयं ज्योतिः सौभाग्यव्रतदेवता ।
मूर्तेव श्रीरभूत्तस्य प्रिया कनकसुन्दरी ।। १०५॥
वात्सल्यवाहिनीसिन्धुर्मणिचूडस्तयोः सुतः ।
आसीत्कन्दलितानन्दा नन्दना च प्रभावती ॥ १०६ ॥
कुमारः केलिलीलामिः सोऽतिवाहितशैशवः ।
पितृभ्यां ग्राहयामास गुरुभ्यः सकलाः कलाः ॥ १०७ ॥
लावण्यसरसीं पुण्यतारुण्यवनसानुमान् ।
चन्द्राननामुपायंस्त चन्द्रापीडसुतामसौ ॥ १०८॥
दत्ता प्रभावती सापि कलाकुलनिकेतनम् ।
हिरण्यपुरनाथाय हेमाङ्गदमहीभुजे ॥ १०९ ॥
कुलक्रमागताः सर्वाः पिता विद्याः परेचवि ।
मणिचूडकुमाराय विततार तरखिने ॥ ११० ॥
तस्मिन्नसिद्धविद्येऽपि साधनक्रमवेदिनि ।
सद्यो माद्यद्गदावेगः पिता लोकान्तरं ययौ ॥ १११ ॥
क्लृप्ताभिषेकसंभारः प्रेक्ष्यमाणः शुभक्षणम् ।
न यावत्पदमात्मीयं सोऽध्यासामास पैतृकम् ॥ ११२ ॥
तावदागत्य दायादः खेचरानीकिनीवृतः ।
विद्युद्वेगस्तमाक्रम्य नगरान्निरवासयत् ॥ ११३ ॥
दायादहृतसाम्राज्यं त्याज्यमेतद्वपुर्मया ।
इत्यन्तश्चिन्तयन्दुःखादेकाङ्गः सोऽचलत्ततः ॥ ११ ॥
तमन्वगाद्विसृष्टापि प्रसह्य पितृवेश्मनि ।
चन्द्रानना प्रिया तस्य कुलस्त्रीणां व्रतं ह्यदः ।। ११५॥
सोऽस्मिन्पदाभ्यामभ्येत्य रत्नसानुगिरौ क्रमात् ।
संसारमरुकल्पद्रुमद्राक्षीद्वृषभध्वजम् ॥ ११६ ॥
पुण्यपाथेयमादाय नाभिनन्दनदर्शनात् ।
सांप्रतं सोऽहमिच्छामि स्वर्लोकपथपञ्चताम् ॥ ११७ ॥
अनिच्छतोऽपि वीभत्सोर्विद्यास्तास्ताः प्रदत्तवान् ॥ १२९॥
१६८
काव्यमाला।
इयं तु मे प्रिया चन्द्रानना' प्रणयकातरा।
प्राणत्यागाय गच्छन्तं मां रुणद्धि पुनःपुनः ॥ ११८ ॥
असौ मन्मृत्युमत्यन्तमनलंभूष्णुरीक्षितुम् ।
विहातुमीहते प्राणान्हन्त प्रथममेव हि ॥ ११९ ॥
दयां मयि तदाधाय बन्धो संबोध्यतामियम् ।
येनासूनाशु मुञ्चामि प्रस्थेऽस्मिन्सार्वकामिके ॥ १२० ॥
अथोज्जगार गाण्डीवी भाले ताण्डवयन्भ्रुवौ ।
कोऽयं मरणनिर्बन्धो बान्धवे मयि सत्यपि ॥ १२१ ॥
अपि देवेन्द्रदेशीयैर्गिणैर्वैरिणं रणे ।
निहत्य वितराम्येष पैतृकीं ते पुनः श्रियम् ॥ १२२ ॥
अवैधव्याध्वरे नित्यदीक्षितेयं मृगेक्षणा ।
चिरं त्वदङ्गसङ्गेन दत्तानन्दा च नन्दतु ॥ १२३ ॥
बमाण मणिचूडोऽथ भ्रातरस्यास्तवाकृतेः ।
असाध्यं नाम नास्त्येव स्वराज्यमपि तेऽन्तिके ॥ १२४ ।।
किं तु व्योमाङ्गणस्वैरसंचाराः खेचराः खलु ।
शक्यन्ते न पराजेतुं न विद्यैश्वर्यवर्जितैः ।। १२५ ॥
ततोऽनवद्य मे विद्यास्वं गृहाण यथाविधि ।
साधिताशेषविद्यस्य द्विषन्नीषज्जयः स ते ॥ १२६॥
तासां सत्त्वैकसाध्यानां विद्यानां च त्वमास्पदम् ।
वाहिनीनां हि सर्वासामाधारो वारिधिः परम् ।। १२७ ॥
विलुप्तसत्त्वतत्त्वस्य शात्रवैः समराङ्गणे ।
नाधुना साधने तासां मम नु क्रमते मतिः ॥ १२८॥
सोऽभिधायेति निर्बन्धाद्दाक्षिण्यक्षीरनीरधेः ।
विज्ञायाथ विधिं विज्ञग्रामणीर्मणिचूडतः ।
तासां क्रमादुपाक्रंस्त साधनाय धनंजयः ॥ १३० ॥
पाण्डवचरितम् ।
१६९
स्नानक्रियां वितन्वानः शश्वत्कासारवारिणि ।
विधाय विधिवत्सर्वां पूर्वसेवां महामनाः ॥ १३१ ॥
वशी निविविशे सोऽथ पश्यन्सिद्धिं करस्थिताम् ।
तस्यैव भूभृतः क्वापि कन्दरामन्दिरोदरे ॥ १३२ ।। (युग्मम्)
बभूव सर्वकर्मीणः स एवोत्तरसाधकः ।
विद्याधरकुमारोऽस्य दूरावस्थापितप्रियः ॥ १३३ ॥
बद्धपद्मासनो नासाप्रान्तविश्रान्तलोचनः ।
पार्थः पाण्मासिकं जाप्यविधिमारब्धवान्सुधीः ॥ १३४ ॥
तस्मिन्मनागसंपूर्णनिर्माणे जाप्यकर्मणि ।
आविर्बभूवुः क्रव्यादा व्यादाय मुखमुल्वणम् ॥ १३५ ॥
मांसखण्डानि चर्वन्तः खादयन्तो मृगासवम् ।
साट्टहासमटीकन्त साटोपाः केऽपि तत्पुरः ॥ १३६ ॥
कर्तिकाभिः पुरस्तस्य दारं दारं शवोदरम् ।
चित्राभिरत्नमालाभिः केऽपि हारं वितेनिरे ॥ १३७ ॥
केचिदुत्तुङ्गमातङ्गरूपाः कोपान्धचेतसः ।
तत्संमुखमधावन्त दन्तक्रीडाविधित्सया ॥ १३८ ।।
केऽपि कण्ठीरवीभूय भूयोभूयस्तलं भुवः ।
घोरक्ष्वेडारवा रौद्रैः पुच्छाघातैरताडयन् ॥ १३९ ॥
विशङ्कटस्फुटाभोगा भुजङ्गमवपुर्भूतः ।
भोगैरावेष्टयामासुराविष्टाः केऽपि तद्वपुः ॥ १४० ॥
कदाप्यागत्य केप्यूचुस्त्वदानयनहेतवे ।
कुरूणामग्रणीर्देवः स्नेहेन प्रजिघाय नः ॥ १४१ ॥
केचिदभ्यधुरभ्येत्य त्वदीयविरहातुरा ।
नित्यमश्रुणि मुञ्चन्ती कुन्ती निर्मम ताम्यति ॥ १४२ ॥
ऊचुः केचिदपि स्वप्ने त्वदालिङ्गनमङ्गलम् ।
प्राप्य पश्चादपश्यन्ती कृष्णा त्वां खिद्यतेतमाम् ॥ १४३ ।।
१७०
काव्यमाला।।
इत्याधुपद्रवैस्तैस्तैः कोटिशः पिशिताशिनाम् ।
प्रतीपैरप्रतीपैश्च चकम्पे न कपिध्वजः॥ १४४ ॥
विधौ पाण्मासिके तस्मिन्परिपूर्तिमुपेयुषि ।
ध्यानासीनस्य तस्याविरासीत्कापि सुराङ्गना ॥ १४५॥
साब्रवीन्नन्वितो दृष्टिर्विष्टपाश्रय दीयताम् ।
देव्यो विज्ञापयन्त्यष्टौ त्वां प्रज्ञप्तिपुरःसराः ॥ १६ ॥
लोकाद्भुतैर्भवत्सत्त्वचेष्टितैस्तोषिता वयम् ।
अन्तर्विचिन्त्य तद्ब्रूहि किं नाम तव कुर्महे ॥ १७ ॥
अथोन्मील्य दृशौ सत्यं तदेवेऽत्यर्जुनोऽभ्यधात् ।
कुमारमणिचूडोऽयं भगवत्यनुगृह्यताम् ॥ १४८ ॥
सा विहस्य पुनः प्राह परोपकृतिकर्मठ ।
न त्वेतदेव ते सत्त्वं देवतातोषहेतवे ॥ ११९॥
किंतु क्रमोऽयमस्माकमाराध्यति य एव नः ।
कामं तस्यैव तुष्यामो नापरस्य कदाचन ।। १५० ॥
तवासिन्नपि चेतश्चेदुपकारतरङ्गितम् ।
तदस्य तोषमेष्यामः सकृदाराधनादपि ॥ १५१ ॥
ततः किरीटिना कामं भवत्वेवमितीरिते ।
सा गीर्वाणमृगी चक्षुरन्तर्धानमुपागमत् ॥ १५२ ॥
वाचं जय जयेत्युच्चैरुच्चरन्ती कृतानतिः ।
क्षणादाविरभूत्तस्य वियच्चरचमूः पुरः॥ १५३ ।।
नेत्रकोणेन कौन्तेय सप्रसादमुदीक्ष्यताम् ।
स्मृतिमात्रादुपस्थेयं भूयोऽपीति विसृष्टवान् ॥ १५ ॥
मणिचूडस्तदालोक्य कलितोत्साहसाहसम् ।
विद्याः साधयितुं जिष्णोर्निदेशादुपचक्रमे ॥ १५५ ॥
स्वल्पैरेव दिनैः पार्थे स्वयमुत्तरसाधके ।
विद्यास्तस्याभवन्सर्वा निर्विघ्नं निघ्नवृत्तयः ।। १५६ ॥
पाण्डवचरितम् ।
१७१
अथोद्यत्किङ्किणीक्वाणझणत्कारिदिगन्तरम् ।
मूच्छितार्कच्छविस्वर्णपताकाशतभूषितम् ॥ १५७ ॥
विद्युदुद्द्योतसध्रीचीर्मरीचीः परितः किरन् ।
विमानद्वयमाकाशान्मणीमयमवातरत् ॥ १५८ ॥ (युग्मम् )
ततोऽवतीर्य पर्यायवर्जमूर्जस्वलद्युतः ।
पार्थं च मणिचूडं च प्रणेमुर्व्योमचारिणः ॥ १५९ ॥
तदा त्वमङ्गमुद्वर्त्य दिव्यैरुद्वर्तनैस्तयोः ।
स्वपयांचक्रिरे केचित्कवोष्णैर्गन्धवारिभिः ॥ १६० ॥
गोशीर्षचन्दनक्षोदैर्विलिप्यानवलेपिनः ।
तावुभौ रभसा केचिद्दिव्यवासांस्यवासयन् ।। १६१ ।।
हारकुण्डलकेयूरकिरीटकटकादिभिः ।
माणिक्यखचितैः केचिद्भूषणैस्तावभूषयन् ॥ १६२ ॥
कैश्चिद्वारिभराभुग्ननूतनाम्भोदसोदरम् ।
तयोरुपरि मायूरमातपत्रमधार्यत ॥ १६३ ॥
अनेकप्रहतातोद्यवेणुवीणालयानुगम् ।
पुरः सगीतमातेनुस्तयोर्विद्याधराङ्गनाः ॥ १६४ ॥
तयोर्निःसीमसत्त्वश्रीप्रशास्तिविशदाक्षरम् ।
अकठोरगिरः पेतुः पुरः खेचरवन्दिनः ॥ १६५॥
चन्द्राननामथादाय भेरीझाङ्कारडम्बरैः ।
हयौघहेषितैर्दन्तिबृंहितैर्भटगर्जितैः ॥ १६६ ॥
नमो बीभत्सुना सैन्यसंभारेण नभःसदाम् ।
तावुभौ द्राक्प्रतस्थाते विजयार्धगिरिं प्रति ॥१६७॥ (युग्मम्)
प्रभापल्लवितैः क्षुद्रविमानैः परिचारिते ।
चक्रतुस्तद्विमाने द्यामपरार्केंन्दुतारकाम् ॥ १६८ ॥
तौ बाहुवीर्याद्वैताढ्यौ वैताढ्यगिरिमूर्धनि ।
बलोर्मिदुर्धरौ रत्नपुरद्वारमुपेयतुः ॥ १६९ ॥
1
मृगोच्छेदेऽपि किं काम सिंहः संरम्भते क्वचित् ॥ १८॥
१७२
काव्यमाला।
तत्रापत्रासमावासान्परिगृह्य धनंजयः ।
क्षणेन प्राहिणोद्दूतं विद्युद्वेगाय वाग्मिनम् ॥ १७० ॥
स विद्युद्वेगमभ्येत्य कृतावष्टम्भमभ्यधात् ।
जल्पति त्वामनल्पौजा मध्यमः पाण्डवोऽर्जुनः ॥ १७१ ॥
मदीयसुहृदश्चन्द्रावतंसतनुजन्मनः ।
अर्पय श्रियमागत्य मार्गणा मार्गयन्ति मे ॥ १७२ ॥
नो चेदमी पुरस्तावत्कलान्तरपदे शिरः ।
भवदीयं गृहीष्यन्ति ततोऽनु सुहृदः श्रियम् ॥ १७३ ॥
तन्निशम्य वचः स्माह सक्रोधान्धभविष्णुधीः ।
भूमिगोचरकीटोऽयमरे को नाम सोऽर्जुनः ॥ १७४ ॥
द्रुममेवार्जुनं विद्मः स चेत्कश्चिदिहागतः ।
तस्योच्छेदाय जागर्ति सैष कौक्षयको मम ॥ १७५ ॥
मद्दोर्वीर्यानलस्याद्य मणिचूडं दिधक्षतः ।
भविष्यति ध्रुवं सोऽयमर्जुनः प्रथमेन्धनम् ।। १७६ ॥
तदरे सत्वरं गत्वा ब्रूहि त्वं निजमर्जुनम् ।
अयमायात एवास्मि रणाय प्रगुणो भव ॥ १७७ ॥
इत्युदीर्य स दोर्वीर्यगर्वज्वरितमानसः ।
अनभिज्ञस्तदन्यानि सैन्यानि समवर्तयत् ।। १७८ ॥
दूतोऽपि वाग्निकारं तमागत्याख्यत्किरीटिने ।
रिपोरनात्मनीनेन तेनाभूत्सोऽपि सस्मितः ॥ १७९ ॥
पार्थोऽपि नातिसंरम्भादनीकं समनीनहत् ।
विद्युद्वेगोऽथ निर्गत्य नगरात्पृतनाभरैः ।
क्षणादरौत्सीद्बीभत्सुं घनैरिव रवि नभः ॥ १८१ ॥
साक्षेपः प्रतिचिक्षेप पार्थार्कस्तान्सुदुःसहैः ।
आदायैप(श)मिवेप्वासं मार्गणैः किरणैरिव ॥ १८२ ॥
पाण्डवचरितम् ।
१७३
ततः कार्मुकमारोप्य रोषात्कोपारुणेक्षणः ।
खेचरः स्वयमारेमे बीभत्सुमभिवर्षितुम् ॥ १८३ ॥
ववर्ष शरधाराभिरब्दवत्स यथा यथा ।
प्रकर्षमगमल्लक्ष्मीरर्जुनस्य तथा तथा ॥ १८४ ॥
- पाण्डवेयस्य दोर्दण्डचण्डिमानं विलोकयन् ।
भीतचेतास्ततः सोऽभूदितिकर्तव्यविक्लवः ॥ १८५ ।।
काममुत्थातुकामोऽपि मणिचूडो रणाङ्गणे ।
जिष्णोः सर्वरिपूञ्जिष्णोर्न लेभेऽवसरं क्वचित् ॥ १८६ ॥
व्रतवीर्यविपर्याससंपन्नतृणलाघवः ।
पक्षवातैरिव क्षिप्तः क्वापि कौन्तेयपत्रिणाम् ॥ १८७ ।।
विद्युद्वेगो रणक्षोणेः पलायामास रहंसा ।
संवर्तमारुतावर्तैः कियद्दीपः प्रदीप्यते ॥ १८८ ॥
प्राणत्राणाय संभूय बीभत्सुमभयंकरम् ।
आगत्य विगलन्मानमानेमुस्ते चमूचराः ॥ १८९ ॥
मणिचूडं पुरस्कृत्य विजयो विजयोर्जितः ।
पुरं विवेश पौराणां मनश्चानन्दमेदुरम् ॥ १९॥
प्रविश्य तत्र धात्रीशधाम्नि सत्यप्रतिश्रवः ।
मणिचूडं पदे सद्यः सोऽभ्यषिञ्चत पैतृके ॥ १९१ ॥
स प्राप्य पुनरात्मीयां संपदं संमदप्रपाम् ।
चकाशेऽधिकमम्भोदमुक्तराकामृगाङ्कवत् ॥ १९२ ॥
तैस्तैस्तद्भक्तिकल्लोलैः प्रथमानैः पृथासुतः ।
बहून्मुहूर्तवत्तत्र वासरानत्यवाहयत् ॥ १९३ ॥
मणिचूडमथान्येधुर्मन्युपर्यश्रुलोचनम् ।
'आपपृच्छेऽप्यनिच्छन्तं पार्थस्तीर्थदिदृक्षया ॥ १९४ ॥
ततो विमानमारुह्य जिष्णुर्वर्धिष्णुधर्मधीः ।
पुनः सेनाभिरस्पृष्टमष्टापदगिरं ययौ ॥ १९५॥
प्रासादमादिनाथस्य पार्थो भरतकारितम् २०१(त्रिभिर्विशेषकम्)
१७४
काव्यमाला।
भगवानादितीर्थेशो यत्र पत्रलभूरुहि ।
चिरं विश्रान्तिमातेने निर्वाणनगराध्वगः ॥ १९६ ॥
किंनरीः कान्तकेलीषु तमस्तोमाभिलाषिणीः ।
खेदयन्ति सदोद्दयोता यस्य काञ्चनकन्दराः ॥ १९७ ॥
नाभेयदर्शिनः काम्यकन्दरोधानखेलिनः ।
स्वर्गिवर्गस्य भाग्यानां जन्मभूर्भोगभूश्च यः ॥ १९८ ॥
तस्मिन्पवितुमात्मानमायातैस्तोयदैरिव ।
आनीलबहुलच्छायैः काननैः परिवेष्टितम् ॥ १९९ ।।
लीलावापीभिरभ्यस्तक्षीरक्षीरोदकेलिभिः ।
स्मेरदम्भोजखण्डानि मण्डितोपान्तभूतलम् ॥ २० ॥
ददर्श दर्शनोन्मृष्टनिःशेषजनकल्मषम् ।
सपरीवार एवायं राजीववनराजिनि ।
दीर्घिकावारिणि स्नानमाततान ततः सुधीः ॥ २०२ ॥
हेमाम्भोजततीर्दिव्यशाखिनां कुसुमानि च ।
अथावचाययांचके परिवारनभश्चरैः ।। २०३ ॥
धीमानवस्त पर्यस्तदुग्धोदलहरीमदे ।
स धौतवाससी दिव्ये निजं मन इवामले ॥ २०४ ॥
सर्वस्वर्गिगणाकीर्णे सर्वाश्चर्यनिकेतने ।
सर्वरत्नमये तमिन्स विवेश जिनौकसि ॥ २०५॥
यथाविधि सुधीस्तिस्रः कृत(त्वा) पूर्वाः(वै) प्रदक्षिणाः ।
समाहितमनाः सोऽयमानर्च वृषलाञ्छनम् ॥ २०६ ।।
मृदङ्गपणवादीनि रचितोचण्डताण्डवाः ।
स्वच्छन्दं वादयामासुरातोद्यानि नभश्चराः ॥ २०७ ।।
खेचरेषु क्षणान्नीचैः कलसंगीतशालिषु ।
अथाभिष्टोतुमारेमे नाभेयं जिनमर्जुनः ॥ २०८॥
१७५
पाण्डवचरितम् ।
देव दुःखाग्निनिर्दग्धजगत्पीयूषवारिद ।
फलेग्रहि विलोक्य त्वां नेत्रनिर्माणमद्य मे ॥ २०९ ॥
तद्भाग्यमपि भूयोऽपि भाग्यैरेवोपलभ्यते ।
येन त्वं दृश्यसे देव शेवधिः शिवसंपदाम् ॥ २१० ॥
स्वामिन्पुरातनैर्भाग्यबभूव तव दर्शनम् ।
त्वद्दर्शनभवैर्भावि यत्तु किं तस्य कथ्यते ॥ २११ ॥
कृतस्तुतिरिति प्रह्रचेताः श्वेताश्ववाहनः ।
नमस्यति स नाभेयमवनिन्यस्तमस्तकः ॥ २१२ ॥
प्रत्येकं स्वस्वसंस्थानमानवर्णादिशालिनः ।
नमश्चकार तीर्थेशं त्रयोविंशतिमप्यसौ ॥ २१३ ॥
भ्रश्यद्भवभ्रमीसादः प्रासादकमनीयताम् ।
निर्गत्यालोकयश्लाघां कुर्वन्भरतसंपदः ।। २१४ ॥
मूर्तं धर्ममिव ज्ञानज्योतिर्विश्वतमोपहम् ।
वारणं मुनिमेकान्तलीनमेकं ददर्श सः ।। २१५॥
सोऽभिनन्द्य तमानन्दादुपविश्य तदन्तिके ।
भवाम्भोधितरीकल्पामश्रौषीद्धर्मदेशनाम् ॥ २१६ ॥
धर्मोऽयं यैः श्रियो रक्षाकोविदः सौविदः कृतः ।
चिराय ते भजन्त्येतामखण्डितसतीव्रताम् ॥ २१७ ।।
जगद्भयंकरस्मेरसुखसंसारकेसरी ।
धर्मद्रुमाधिरूढानां यदि न प्रभवत्यसौ ॥ २१८ ॥
सिच्यन्ते धर्मकुल्याभिर्मुक्तिशर्ममहीरुहः ।
तासां तटतृणायन्ते सुरासुरनरश्रियः ॥ २१९ ॥
अयं च निर्ममे धर्मस्तथा प्राग्जन्मनिश्चयात् ।
निःशेषभुवनोर्जस्वी यथेदानीमजायथाः ॥ २२० ।
इदं च जगदाधाय दोस्तम्भैरकुतोभयम् ।
भविष्यति भवेऽत्रैव मोक्षलक्ष्मीवयंवरः ॥ २२१ ॥
१७६
काव्यमाला।
इत्याकर्ण्य गिरं कर्णकीर्णपीयूषविप्रुषम् ।
आनन्दाम्भोधिनिर्मग्नमन्तरात्मानमुद्वहन् ॥ २२२ ॥
मुनिमानम्य तं मौलिलालिताङ्घ्रिसरोरुहः ।
विमानेन ततः पार्थः प्रतस्थे मरुतां पथा ॥ २२३ ॥ (युग्मम्)
शिवश्रीदत्तसंकेतः संमेतप्रभृतिष्वसौ।
तीर्थेष्ववन्दत ध्वस्तसमस्तवृजिनाञ्जिनान् ।। २२४ ॥
• अतीत्य तीर्थसेवामिः सोऽथ द्वादशहायनीम् ।
प्रत्यचालीचिरोत्कण्ठाविहस्तो हस्तिनापुरम् ॥ २२५ ॥
पृथुकीर्तिः पृथासूनुर्गच्छन्गगनवर्त्मना ।
आक्रन्दमिश्रमश्रौषीदधस्तात्तुमुलध्वनिम् ॥ २२६ ॥
स वीरः सपदि प्रैषीत्तदानुपदिकीं दृशम् ।
ईक्षांचक्रे च शोकार्तलोकसंकुलितं वनम् ॥ २२७ ॥
खेचर केसरं नाम तस्योदन्तं स वेदितुम् ।
प्राहिणोत्करुणावेश्म गत्वाभ्येत्य च सोऽभ्यधात् ॥ २२८ ॥
हिरण्यपुरमित्यस्ति पुरमिन्द्रपुरोपमम् ।
स्वामिंस्तस्मिन्नरिग्रामगदे हेमाङ्गदो नृपः ॥ २२९ ॥
प्रेयसी तस्य निःशेषसतीसीमन्तमौक्तिकम् ।
देहद्युतिजितस्वर्णप्रभासंपत्प्रभावती ॥ २३० ॥
तामद्य यामिनीशेषे चन्द्रशालाधिशायिनीम् ।
कलविङ्कीमिव श्येनः कोऽप्यकस्मादपाहरत् ॥ २३१॥
आर्यपुत्रार्यपुत्रेति तदीयकरुणध्वनिः ।
समं हृदयशोकेन राजानमजजागरत् ॥ २३२ ।।
भ्रूकुटीभीषणः कर्षन्कृपाणमकृपाशयः ।
दधावे भूधवश्चौर तिष्ठ तिष्ठेति विब्रुवन् ।। २३३ ।।
अपश्यंश्च पुरः किंचिद्धावित्वा कियतीं भुवम् ।
फालच्युत इव द्वीपी तस्थौ दोःस्थाम निर्वदन् ।। २३४ ॥
पाण्डवचरितम् ।
१७७
ततो रिपुमपाकर्तुं प्रत्याहर्तुं च वल्लभाम् ।
तेन संवर्मयांचक्रे चक्रं शक्रसमश्रिया ।। २३५ ।।
ततः कुतोऽप्यविज्ञातदयितादस्युपद्धतिः ।
-, किंकर्तव्यविमूढात्मा स तस्थौ पृथिवीपतिः ॥ २३६ ॥
स्त्रीजातिस्नेहसंक्रान्तदुःखेवाथ निशीथिनी।
जगाम तां घराधीशप्रेयसीमनुधाविता ॥ २३७ ।।
तत्याज राजलोकस्य हृदयेष्विव सर्वतः।
संक्रान्तः क्षणदाध्वान्तो रोदसीकन्दरोदरम् ॥ २३८ ॥
प्रियापहारिणं हन्तुमुद्यतस्य महीपतेः ।
प्रतिग्रहमिवाधातुमधावत पतिस्त्विषाम् ।। २३९ ॥
तस्याः शिथिलधम्मिल्लमाल्यश्रेणिं निपेतुषीम् ।
करैरदर्शयन्भास्वान्कृपयेवावनीपतेः॥ २४० ॥
चचाल पृथिवीपालस्तया कुसुमलेखया ।
दर्शिताध्वा चमूध्वानैर्भङक्षु कुक्षिंभरिर्दिशाम् ॥ २४१ ॥
इयतीं भुवमायातः स पुष्पश्रेणिमाश्रयन् ।
अभाग्यस्य निधिश्रीवत्तस्या दृश्यात्र साप्यभूत् ॥ २४२ ॥
तस्मिन्नस्तोकशोकार्तिविक्लवे विफल क्रियम् ।
कान्दिशीकं ततोऽनीकं भ्राम्यतीदमितस्ततः ।। २४३ ॥
स दुःश्रवामुपश्रुत्य केसरस्येति भारतीम् ।
कपिकेतुः किमप्यन्तश्चिन्तयन्निदमब्रवीत् ।। २४४ ॥
हिरण्यपुरभूपालहेमाङ्गदसधर्मिणी।
प्रभावती न खल्वेषा मणिचूडस्य सोदरा ॥ २४५ ॥
हन्त स्वसा ममैवेयमपरा वास्तु सापि मे।
कृपालोर्ननु सोदर्या नार्या व्यंसनवारिधेः ।। २४६ ॥
तद्याहि ब्रूहि राजानं मा स्म खेदं वृथा कृथाः ।
अर्जुनः पाण्डवेयोऽयमाहर्ता तव गेहिनीम् ॥ २४७ ॥
२३
काव्यमाला।
जानीहि हत एवायमिदानीमहितस्तव ॥
तिग्मद्युतेः परित्रस्तस्तमःस्तोमः क्व लीयते ॥ २४८ ॥
क्षणं तद्भवतात्रैव स्थेयमव्यवसायिना ।
इत्युदीर्य पुनर्जिष्णुः प्रेषयामास केसरम् ।। २४९॥
सोऽपि प्रियावियोगार्तिप्रतप्ताय महीभुजे ।
कथयित्वा यथादिष्टमुपार्जुनमुपागमत् ॥ २५० ॥
किंवदन्तीं प्रभावत्याः सर्वां संविद्य विद्यया ।
व्योमाध्वना दधावेऽथ क्रोधाध्मातः कपिध्वजः ॥ २५१ ॥
धनुर्धरैकधौरेये विद्याविस्फूर्जितोर्जिते ।
प्रियोपलम्भं संभाव्य जिष्णौ नाग्रेऽगमन्नृपः ॥ २५२ ॥
अथ केऽप्यग्रकान्तारे गत्वा हृदयपीडया।
भूवल्लभमभाषन्त प्रत्यागत्य तुरङ्गिणः ॥ २५३ ॥
दिष्टया त्वं वर्धसे देव झगित्यागम्यतां पुरः।
अस्ति प्रभावतीं देवीं कुर्वाणा कुसुमोच्चयम् ॥ २५४ ॥
संपन्नहृदयाश्वासः सोऽथ त्वरितमभ्यगात् ।
मनोभीष्टे हि नेदिष्ठे को न धावति वस्तुनि ।। २५५ ॥
पुरः प्रभावतीं देवीमपश्यत्काश्यपीधवः ।
परं चानन्दसंदोहं गाहते स्मान्तरात्मना ॥ २५६ ॥
प्रस्तौति प्रणयालापं यावदभ्येत्य भूपतिः ।
अकस्माद्दन्दशूकस्तामदशत्तावदुत्फणः ।। २५७ ॥
आर्यपुत्रार्यपुत्राहं दष्टा दुष्टात्मनाहिना ।
इति प्रलापवाचाला बाला मूर्छालतामगात् ।। २५८ ॥
ततः क्षितिपतिः क्षोभादवधीरितधीरिमा ।
क्रन्दन्विषागदंकाराञ्जवांदाह्रास्त विह्वलः ।। २५९॥
यावत्किंचिदुपक्रान्तं प्रचण्डैराहितुण्डिकैः ।
तावत्तेषामचैतन्यं पश्यतामेव साभ्यगात् ।। २६० ॥
पाण्डवचरितम् ।
१७९
क्षणप्रीतस्य राज्ञोऽथ शोकः शतगुणोऽभवत् ।
कृतनिर्वातदीपस्य तमो हि बहुलायते ॥ २६१ ॥
ततो विस्रस्तधम्मिल्लः क्षिप्रक्षौमो लुठद्भुजः ।
निमीलिताक्षो मूर्छालः क्ष्मापालः मातलेऽपतत् ।। २६२ ॥
अथ द्विगुणशोकस्य कोकस्येव दिनात्यये ।
लोकस्य दूरमुत्तस्थुराक्रन्दध्वनयोऽधिकाः ॥ २६३ ॥
वीजितः परिवारेण वनान्तकदलीदलैः ।
कथंचित्कलयामास चैतन्यमवनीपतिः ।। २६४ ॥
ततः प्रियतमां प्रीत्या कुर्वन्नुत्सङ्गसङ्गिनीम् ।
रोदयन्नटवीसत्त्वान्विललापेति भूपतिः ॥ २६५ ।।
हन्त हेमाङ्गदे धातः कुतोऽपि कुपितोऽसि चेत् ।
ततः प्रथममस्यैव प्राणान्हरसि किं नहि ।। २६६ ॥
प्राणेश्वर्याममुष्यां वा सत्यां हर्तुमनीश्वरः ।
मन्ये पूर्व तदेतस्या जीवितव्यमपाहरः ।। २६७ ।।
देवि बुध्यस्व बुध्यस्व दीनो जल्पत्ययं जनः ।
किंकर न कदाचिन्मां त्वमवज्ञातपूर्विणी ॥ २६८॥
कोपश्चेत्कोऽपि ते किंचिन्न स्वमागः स्मराम्यहम् ।
पुरावधीरितश्चासि नापराधशतैरपि ॥ २६९ ॥
कि नाम तदकाण्डेऽपि न पश्यसि दृशापि माम् ।
आसतां भवदुद्दामप्रेमपल्लविता गिरः ॥ २७० ॥
परं निरनुरोधासि मयि त्वं न कदाचन ।
किं त्वेतत्तेऽहरत्प्राणान्दैवमेवापराध्यति ॥ २७१॥
ममाप्यमीमिः किं प्राणैस्त्वद्वियोगमलीमसैः ।
वैरङ्गिको मृगाङ्कोऽपि कौमुदीरेचितः सताम् ॥ २७२ ॥
भूपालमतिवाचालमित्यादिपरिदेवितैः ।
काममुद्यच्छमानं च जीवितान्ताय कर्मणे ॥ २७३ ॥
१८०
काव्यमाला।
3
पौरामात्यादयः पादपीठालुठितमौलयः ।
मुहुः प्रसादयामासुः साश्रुनेत्रममृत्यवे ॥ २७४ ॥ (युग्मम्)
ततोऽविदन्निदं भूमिविडौजस्त्वं विडम्बनाम् ।
जानञ्जीवितमप्येतदापदं च पदे पदे ॥ २७५ ॥
प्रेयसीविप्रयोगार्तः प्रकाममवमन्य तान् ।
चितामासूत्रयामास मेदिनीपतिरात्मने ॥ २७६ ॥
ततः पताकिनीलोकः समस्तोऽपि पृथक् पृथक् ।
निर्ममेऽनुमहीपालं देहत्यागोचिताश्चिताः ॥ २७७ ॥
अर्धमुत्क्षिप्य धर्मांशोरर्थिभ्योऽर्थं वितीर्य च ।
प्रदक्षिणयति स्माग्निं चित्यमौचित्यविन्नृपः ॥ २७८ ॥
चितामध्यं ततो लोके हाकारमुखरानने ।
प्रियामुत्सङ्गमारोप्य विशति स्म विशांपतिः ।। २७९ ॥
अपरोऽपि महीपालप्रसादविवशाशयः ।
अन्तश्चितं चमूलोकः प्रवेष्टुमुपचक्रमे ॥ २८० ॥
चितासप्तार्चिंषि ज्वाला यावद्भूपस्व नोदगुः ।
तावत्सह प्रभावत्या पार्थोऽभ्यागान्नभोऽध्वना ॥ २८१ ॥
बिभ्राणं नवसंवर्तपुष्करावर्तविभ्रमम् ।
व्याप्तान्तरिक्षमद्राक्षीद्धूमस्तोमं कपिध्वजः॥ २८२ ।।
शुश्राव दुःश्रवःसैन्यलोकाक्रन्दगिरोऽर्जुनः ।
विश्राणयन्तीरश्रूणि वनान्तवयसामपि ।। २८३ ॥
स्वकीयैरिव विध्यायमानाः शोकाश्रुवारिमिः।
धूमायमानाः सोऽपश्यत्कोटिशो रचिताश्चिताः ॥ २८४ ॥
सममश्रुजलोत्पीडैः कश्चिदर्थाञ्जलिं जनः ।
रवेरुदस्यन्नुत्पश्यः फाल्गुनेन विलोकितः ॥ २८५ ॥
जानन् जलमिव ज्वालां चितावह्निः कियानपि ।
लोकः प्रदक्षिणीकुर्वन्वीक्षितः सितवाजिना ॥ २८६ ॥
पाण्डवचरितम् ।
१८१
देवि तीर्णासि चेत्कृच्छ्रादपहारमहोदधिम् ।
किमिदानी दशेयं ते विधेरहह वामता ॥ २८७ ।।
स्वर्लोकपथिकीं देवि राजापि त्वामनुव्रजन् ।
आनृण्यमिच्छति प्रीतेः का कथा मादृशां पुनः ॥ २८८ ॥
देवि त्वद्विरहे प्राणाः क्षणं न स्थातुमीशते ।
ततस्तवैव सार्थेन प्रार्थयन्ति त्रिविष्टपम् ॥ २८९ ॥
एतावतो जनस्यास्य प्राणान्हर्तुमनाः समम् ।
कोऽप्यहिच्छद्मना मन्ये देवो दैत्योऽथवागतः ॥ २९० ॥
निशम्येति परीवारपरिदेवितभारतीम् ।
कौन्तेयस्याभवत्कामं द्वेधेव हृदयं तदा ॥ २९१ ॥
तदुद्वीक्ष्य क्षणान्मर्मच्छेदमूर्छालमानसा ।
इत्यचिन्तयदुद्भूतदुःखभारा प्रभावती ॥ २९२ ॥
हा विधे विदधे किं तु (नु) भवतेयं प्रभावती।
विहिता पापतः किंवा कृता दुःखस्य भाजनम् ॥ २९३ ॥
प्रतारितस्तया दुष्टविद्यया तस्य पाप्मनः ।
कृतज्ञो मत्कृते प्राणान्प्रियस्तत्याज मे ध्रुवम् ॥ २९४ ॥
तमनु प्रस्थिता नूनं सर्वेऽप्येतेऽनुजीविनः ।
शोषिते हि न पाथोधौ जीवन्ति जलजन्तवः ॥ २९५॥
तन्मे प्राणेश्वरः(र)प्राप्तः(प्तौ) किंचिदत्याहितं यदि ।
मङ्क्षु मोक्ष्यति तन्नूनं प्रभावत्यपि जीवितम् ॥ २९६ ॥
विकल्पानिति कुर्वन्त्यां तस्यां पर्यश्रुचक्षुषि ।
विशदाश्वोऽपि निश्वासान्विमुञ्चन्नित्यचिन्तयत् ॥ २९७ ॥
ममाफलित एवायमुपकारमहीरुहः ।
हा किमुन्मूलयांचक्रे हतेन विधिदन्तिना ॥ २९८ ।।
बभूव भूपतेः किंचिद्यदि तावदमङ्गलम् ।
तदसावप्यसून्मुञ्चेत्सत्यो हि दयितानुगाः ॥ २९९ ।।
काव्यमाला।
विपत्तिर्दर्शितानेन भगिन्या भगिनीपतेः।
तज्जीवितेन किं नाम फाल्गुनोऽपि करिष्यति ॥ ३० ॥
एवमालोचयन्नुच्चरैन्तः श्वेतहयो ययौ ।
तत्कालज्वलितोदर्चिर्महीपतिचितान्तिकम् ॥ ३०१॥
मन्त्रपूतैः प्रभावत्या पाणिसंस्पर्शपावितैः ।
भूमिभर्तुश्चिताम्भांसि सिषेवे सव्यसाचिना ॥ ३०२ ॥
राजलोकस्य सर्वस्व तत्क्षणोत्थितहेतयः ।
तेन व्योमचरैरन्या सेचयांचक्रिरे चिताः ॥ ३०३ ॥
प्रभावत्याश्च जिष्णोश्च साकं शोकहविर्भुजा।
ततः प्रशान्तिं तत्कालमाललम्बे हुताशनः ॥ ३०४ ॥
विमुक्तस्फारफेत्कारा तदोत्सङ्गान्महीपतेः।
पलायामास वेगेन सा प्रपञ्चप्रभावती ॥ ३०५ ॥
ततो विश्वंभराभर्ता विस्मयस्मेरलोचनः ।
निर्जगाम चितामध्यात्प्रेयसीविरहादिव ॥३०६ ॥
वियोगार्तिमनुप्राप्तः शोक एव परासुताम् ।
ननु प्रभावती देवी न चान्यः कोऽपि तामनु ॥ ३०७ ॥
प्रमोदाविष्टया दृष्टया भूयः संभाव्य वल्लभाम् ।
पीयूषहूदनिर्मग्नमिवात्मानममन्यत ॥ ३०८ ॥
केसरश्च पुरोभूय भूमिवल्लभमभ्यधात् ।
अर्जुनः पाण्डुपुत्रोऽयमानिनाय तव प्रियाम् ॥ ३०९ ॥
ततः स सहसाभ्येत्य बीभत्सुमभिषस्वजे ।
तदीयाङ्गपरिष्वङ्गैः स्वमङ्गं पावयन्निव ॥ ३१० ।।
वृत्तान्तेन ततस्तेन प्रेङ्खोलितमनास्तदा ।
किमेतदिति वीभत्सुमन्वयुङ्क्त महीपतिः ॥ ३११ ॥
अथास्मै कथयामास पार्थादेशेन केसरः ।
वदेयुरवदानं हि सन्तो नात्मीयमात्मना ॥ ३१२ ॥
पाण्डवचरितम् ।
१८३
तदानीं त्वामवस्थाप्य राजञ्जिष्णोर्निदेशतः ।
पुनस्त्वरितमेतस्याः पादान्तिकमुपागमम् ॥ ३१३ ॥
विमानरत्नमारूढो मनसोऽप्यधिकत्वरम् ।
किरीटी हेमकूटाख्यं क्षणादद्रीन्द्रमासदत् ॥ ३१४ ॥
तत्रैकच्छत्रसाम्राज्यसगर्वतिमिरे क्वचित् ।
वृक्षलक्षपरिक्षिप्ते प्रभुर्नः कन्दरेऽविशत् ॥ ३१५ ॥
मर्त्यकीटे न ते देवि कृतसर्वाङ्गसङ्गतेः ।
मां विधाय धवं धातुरद्य पाप्मा विलुप्यताम् ॥ ३१६ ॥
देवि विद्याधरैः पाणिपल्लवोद्भूतचामरम् ।
वैडूर्यपुरसाम्राज्यमुपभोक्तु प्रसीद मे ॥ ३१७ ।।
सद्यः कन्दलिते विद्यावैभवेन नवे नवे ।
प्रासादपर्वतोद्याने देवि क्रीड मया सह ॥ ३१८ ॥
देवि हित्वा प्रतीपत्वं द्वीपशैलाननेकशः।
व्योमयानेन वीक्षस्व मदुत्सङ्गैकसङ्गिनी ।। ३१९ ॥
इति प्रभावतीं तत्र मेघनादः प्रसादयन् ।
ददृशे खेचरो वैरिकेतुना कपिकेतुना ॥ ३२० ॥
(पञ्चभिः कुलकम् )
आः पाप चापलं पूर्वजीवितं विजहासि किम् ।
मम पत्युः पुरो हन्त पुरुहूतोऽपि कातरः ॥ ३२१ ।।
मत्कान्तराज्ये स्वाराज्यगर्वसर्वकषे सति ।
स्तुतेर्विद्याधरादीनां न पदं राज्यसंपदः ॥ ३२२ ।।
नानाश्चर्यमयद्वीपशैलालोकनकौतुकम् ।
चिरायुर्मणिचूडो मे सोदरः पूरयिष्यति ॥ ३२३ ॥
निद्राणे मत्प्रिये चौर मामहार्षीस्त्वमक्षतः।
मृगारौ जागरूके हि का मृगस्य प्रभूष्णुता ॥ ३२४ ॥
पारदारिक चेत्पाणिं मदङ्गे लगयिष्यसि ।
तेनैव पाप्मना मङ्क्षु भस्मसात्त्वं भविष्यसि ॥ ३२५ ॥
1
त्वयान्तश्चिन्तिता किं न फाल्गुनस्यापि बाहवः ।। ३३३ ॥
१८४
काव्यमाला।
सिद्धविद्यः स चेद्विद्यामद्बन्धुप्रियबान्धवः ।
पार्थः कथां कुतोऽप्येनां तत(स्त्व)मसि किं कचित् ॥ ३२६॥
विद्याधरं तमित्यादि विब्रुवाणां प्रभावतीम् ।
निध्याय मुदमध्यात्मं स्फारयामास फाल्गुनः ॥ ३२७॥
(सप्तभिः कुलकम्)
कोऽयं हेमाङ्गन्दो नाम कः सोऽपि कपिकेतनः।
मणिचूडोऽपि कस्तन्वि तन्वाने मयि धन्विताम् ॥ ३२८ ॥
स्वयं दीर्घाक्षि दास्याय जनोऽयमनुमन्यताम् ।
पठन्हठकठोरं त्वं पुनः केन निषेत्स्यसे ॥ ३२९ ॥
इत्यादिभिर्वचोभिस्तं भीषयन्तं प्रभावतीम् ।
जगाम जगतां सादहरः श्वेतहरिः क्रुधा ॥ ३३० ॥
दूरतो भव रे विद्याधरसन्तानपांसन ।
मैतां पतिव्रतां श्वासपवनैरपवित्रय ॥ ३३१ ॥
पतिव्रतामयं ज्योतिरिमामपहरिष्यतः ।
वपुस्तव क्षणादेव किं बभूव न भस्मसात् ॥ ३३२ ॥
बन्धुः पतिर्वा यद्यस्या गणितौ नावलेपतः ।
(त्रिभिर्विशेषकम्)
सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः ।
प्रायश्चित्तं विधाता ते क्षणात्कौक्षेयको मम ।। ३३४ ॥
तदा प्रमोदकल्लोलैराकुलीकृतमानसा ।
इत्यन्तश्चिन्तयामास फुल्लचक्षुः प्रभावती ॥ ३३५ ॥
चेतस्त्वं वर्षसे दिष्टया मम भ्रातुः प्रियः सुहृत् ।
कुतोऽप्यत्र बतायातः स एवायं धनंजयः ॥ ३३६ ॥
प्रभावोऽस्ति प्रभावत्याः सत्यं सुकृतसंपदाम् ।
सतीव्रतसरःसेतुः कपिकेतुर्यदागमत् ।। ३३७ ॥
पाण्डवचरितम् ।
१८५
सरलैकस्वभावोऽयं मा स्म मायामुना विना ।
खेचरेण रणे शान्तं यद्वा नन्वेष फाल्गुनः॥ ३३८॥
सर्वाः संभूय बीभत्सोर्भवत्यः कुलदेवताः ।
'शरीरमधितिष्ठन्तु यथा स्याद्विजयी युधि ।। ३३९ ॥
पतिव्रताव्रतस्यास्य कोऽपि मे महिमास्ति चेत् ।
किरीटिना दुरात्मायं जीयतां तन्नभश्चरः ॥ ३४० ॥
अस्याममूदृशानल्पविकल्पाकुलचेतसि ।
उवाच विजयो वाचं खेचरापसदं पुनः ।। ३४१ ॥
गृहाण रे क्षणात्पाणौ किमप्यायुधमात्मनः ।
खङ्गोऽयं दुष्ट ते रुष्टस्तदेष न भविष्यसि ॥ ३४२ ॥
ऊचे च फाल्गुन वल्गु स बलात्समराङ्गणे ।
रे मनुष्यकृमे नश्य किमु रोदयसि प्रियाम् ॥ ३४३ ॥
विधाघरवधूवर्गवैधव्यव्रतदीक्षिता ।
कष्टं कृपाणयष्टिर्मे पतन्ती त्रपते त्वयि ॥ ३४४ ॥
बालां को नाम मत्पाणे रतामाच्छेतुमिच्छति ।
को हि कण्ठीरवाक्रान्तां मृगीमाक्रष्टुमीश्वरः ॥ ३४५॥
ममामर्षहुताशेऽस्मिन्नाहुतीयन्मुधा ततः ।
कथं मनुष्यलोकस्य कौतुकान्यपनेष्यति ॥ ३४६॥
इत्युदीरयति स्वैरं तस्मिन्वक्ति स्म पाण्डवः ।
रे न शौण्डीरिमा वाचि भुजेष्वेवावतिष्ठते ॥ ३४७॥
किंतु दुर्दान्तवृत्तीनां शासनाय भवादृशाम् ।
उद्यता अपि नो पूर्वं प्रहरन्ति कुरूद्वहाः ॥ ३४८ ॥
ततः स्थमानमानीय मानसं साध्वसाकुलम् ।
निपातयतु निस्त्रिंशं नृशंसं प्रथमो भवान् ॥ ३४९ ।।
इत्याक्षेपगिरा सोऽपि दूरोज्जागरपौरुषः ।
अपकोशमसिं कृत्वा प्रजहार कपिध्वजम् ॥ ३५० ॥
२४
न द्विपेन्द्रोऽप्यलं स्थातुं का कथा हरिणस्य तु ।। ३६० ॥
काव्यमाला।
तेन गाढप्रहारेण दक्षिणेर्मा धनंजयः।
तमूर्जितभुजं दृष्ट्वा कष्टजय्यममन्यत ॥ ३५१ ॥
ततः कपिध्वजो धौतधारेण तरवारिणा ।
बाह्वोः सर्वाभिसारेण तं हन्तुमुदतिष्ठत ॥ ३५२ ॥
निहतः स तथा शत्रुः स्कन्धकोटौ किरीटिना ।
यथा पपात मूर्छालः शुष्कतालुर्भुवस्तले ।। ३५३ ॥
चेलान्ततालवृन्तेन तमुपानीय चेतनाम् ।
सुधीः सधैर्यप्रागल्भ्यमभ्यधत्त धनंजयः॥ ३५ ॥
हंहो विद्याधराधीश दूरमालम्ब्य दोर्बलम् ।
पुनः प्रहर निःशङ्कमाकलङ्कय पौरुषम् ॥ ३५५ ॥
इत्यवष्टम्भसंरम्भं विभाव्य भयभङ्गुरः ।
विहाय सहसा खड्गमानमत्खेचरोऽर्जुनम् ॥ ३५६ ।।
नीचैरूचे च तं वीर व्यलीकं क्षम्यतामिदम् ।
भूर्भुवःवस्त्रयीलोकत्राणशौण्डा हि पाण्डवाः ॥ ३५७ ॥
शौण्डीरचूडारत्नेन परस्त्रीप्रियबन्धुना ।
सर्वथैव त्वया नाथ विजिग्येऽहमनीदृशा ।। ३५८ ॥
चारणेभ्यो भुजस्तम्भस्फूर्तयस्ते मुहुः स्तुताः ।
खलीकृतोऽसि विश्वेश साक्षात्कर्तुं मयाथ ताः ॥ ३५९ ॥
परं बद्धरणारम्भसंरम्भे हरिणद्विषि ।
धर्मन्यायसदाचारपरोपकृतयस्तव ।
सहायास्तत्त्वया वीर जगज्जितमहं तु कः ॥ ३६१ ॥
किंचोपकृतमप्यस्यामिदं भावि तवाफलम् ।
यदि पश्चाद्वने देव संप्रत्येव न धावसि ॥ ३६२ ॥
मुक्तास्ति मार्गकान्तारे मायामेधाविना मया ।
विद्या प्रभावती रूपधारिणी यत्प्रतारिणी ॥ ३६३ ॥
१. दक्षिणे ईर्म व्रणमस्येति.
पाण्डवचरितम् ।
१८५
सर्वोऽप्यनुपदी लोकस्तया हन्त प्रतारितः ।
विनङ्क्षयति क्षणादेव छद्मना को न वञ्च्यते ॥ ३६४ ॥
तदुपादाय दीर्घाक्षीमेतां गत्वा च सत्वरम् ।
'भ्रातस्त्रायस्व विश्वस्य जन्तुजातस्य जीवितम् ।। ३६५॥
अहं तु गन्तुमिच्छामि भावज्ञ त्वदनुज्ञया ।
नातः परं तवाप्यस्मि मुखं दर्शयितुं क्षमः ॥ ३६६ ॥
ततो विसृज्य तं प्रीत्या प्रणिपत्य प्रभावतीम् ।
यानमारोप्य च स्वैरं दधावे श्वेतसैन्धवः ।। ३६७ ॥
भवत्प्राणपरित्यागाशङ्कातरलिताशयः।
देवस्त्वरितमेवायमुद्देशमिममागमत् ॥ ३६८॥
कपिध्वजप्रभावत्योर्दृष्ट्वैतत्तव वैशसम् ।
भूपाल यदभूद्दुःखं जानीतस्तदिमौ परम् ॥ ३६९ ।।
नश्यति स ततो देवीपाणिपूताम्बुसेकतः ।
विध्यातायाश्चितायास्ते सेयं विद्या प्रतारिणी ॥ ३७०॥
परप्रमोदसंभारसंभूतपुलकाङ्कुरः ।
ततो हेमाङ्गदो राजा व्याजहार कपिध्वजम् ॥ ३७१ ॥
शङ्के परोपकाराय सृष्टिर्भुवि भवादृशाम् ।
निर्माणं हि सहस्रांशोर्जगदालोकहेतवे ॥ ३७२ ॥
वीरोत्तंस त्वया देवीमिमामाहरताधुना ।
इयतो जन्तुजातस्य संहारः परिरक्षितः ।। ३७३ ॥
कोटिशः श्रुतमद्वैतं त्वद्भुजस्तम्भवैभवम् ।
साक्षात्कृतमिदानीं तु देवादेवमिदं मया ॥ ३७४ ।।
वस्तु नास्त्येव तद्येन तव स्यात्प्रत्युपक्रिया ।
जनोऽयमनुमन्तव्यः किकरत्वाय केवलम् ।। ३७५ ।।
इति व्याहृत्य भूपेन प्रश्रयेण गरीयसा ।
अनुनीय तदा निन्ये हिरण्यपुरमर्जुनः ॥ ३७६ ॥
१८८
काव्यमाला।
उत्सवैकमयं स्मेरदानन्दलहरीमयम् ।
सर्वसंपन्मयं स्वर्गसर्वाङ्गीणकलामयम् ॥ ३७७ ॥
प्रत्याहर्ता प्रभावत्या बतायमयमर्जुनः।
इति निर्दिश्यमानोऽसौ लोकैः प्रीत्याविशत्पुरीम् ॥ ३७८
राज्ञा च राजपत्न्या च राजवेश्मन्यनुद्रुतः ।
विवेश विक्रमश्रीभ्यां मूर्तिमभ्द्यामिवार्जुनः ॥ ३७९ ।।
तत्र सिंहासने हैमे निवेश्य विवशो मुदा ।
जगाद पार्थिवः पार्थमित्थं विनयवामनः ॥ ३८० ॥
प्रीतिक्रीतानिमान्प्राणान्भुजक्रीतिरिमाः श्रियः ।
गुणक्रीतमिदं राज्यं कृतार्थय यथारूचि ॥ ३८१ ॥
पार्थोऽब्रवीदसामान्यस्वाजन्ये स्वजने त्वयि ।
स्वर्गाधिपत्यमप्येतन्ममैव किमिवापरम् ।। ३८२ ॥
प्रौढप्रणयमन्योऽन्यमित्युल्लापवतोस्तयोः ।
क्षणेन मणिचूडोऽपि तत्र व्योमाध्वनागमत् ॥ ३८३ ॥
प्रणिपत्य यथौचित्यं तानशेषान्विशेषवित् ।
स खेचरपतिः पार्थमुवाच रचिताञ्जलिः ॥ ३८४ ॥
भगिनीहरणोद्भूतं जयोदाहरणं तव ।
उपगीतमुपश्रुत्य खचरैरहमागमम् ॥ ३८५ ॥
एकैकमवदानं ते वागीशस्यापि नेशते ।
गरीयस्यो गिरो वक्तुं किं पुनर्मादृशामिमाः ॥ ३८६ ॥
कृते किंतु प्रभावत्या पत्यानयनकर्मणि ।
राज्यदानाधमर्णोऽहं ब्रवीमि किमितः परम् ॥ ३८७ ।।
तमूचेऽथ पृथासूनुरहो किमिदमुच्यते ।
आत्मनैवात्मनः किं स्यादुत्तमर्णाधमर्णता ॥ ३८८ ॥
किं च मामुल्लसत्प्रीतिर्भगिनीयं प्रभावती।
शश्वत्रैलोक्यजैत्राभिराशीर्भिरभिनन्दतु ।। ३८९ ॥
पाण्डवचरितम् ।
ततस्तद्भक्तिसंभाररज्जुसदानिताशयः ।
निनाय दिवसापाण्डुपुत्रस्तत्रैव कांश्चन ॥ ३९० ।।
कश्चिदप्यन्यदा पूर्वसंस्तुतो हस्तिनापुरात् ।
'अभ्येत्य रमसोत्फालः फाल्गुनाय व्यजिज्ञपत् ।। ३९१ ।।
कुमार चारचक्रेभ्यो निशम्य त्वामिहागतम् ।
स्नेहादाह्वातुमहाय पिता ते प्रजिघाय माम् ॥ ३९२ ।।
वार्द्धकार्हआः क्रियाः कर्तुं स्वयं राज्ये तपःसुतम् ।
अभिषेक्तुमनाः काममुर्वीशस्त्वामुपेक्षते ॥ ३९३ ॥
प्रतिप्रातरपश्यन्ती कुन्ती त्वद्वदनं पुनः ।
वहत्यजस्रमस्राम्बु जम्बालजटिले दृशौ ॥ ३९४ ॥
इत्युपश्रुत्य तद्वाचमाचान्तहृदयो मुदा ।
पित्रोः स्नेहेन बीभत्सुर्नितरामौत्सुकायत ॥ ३९५ ॥
ततस्तमाह बीभत्सुराद्यं शत्रुंजये जिनम् ।
नमस्कृत्याहमायात एव त्वं तु पुरो व्रज ॥ ३९६ ॥
इति संप्रेष्य तं शत्रुंजयं प्रति धनंजयः।
सार्धं भूखेचरेन्द्राभ्यां चलति स विहायसा ।। ३९७ ॥
तस्मिन्परमया भक्त्या वन्दित्वादिजिनेश्वरम् ।
द्वारकामगमत्कृष्णदर्शनोत्कण्ठितोऽर्जुनः ॥ ३९८ ॥
प्रत्युज्जगाम गोविन्दस्तमायान्तं नभोध्वना ।
नीलकण्ठ इवोत्कण्ठातरलो नवनीरदम् ॥ ३९९ ॥
तौ मिथः परिरेभाते प्रत्यक्प्रागनिलाविव ।
शरीरद्वयमुत्सृज्य बिभ्रतावेकतामिव ।। ४०० ॥
पीयमानं तरत्तारैः पौरनारी विलोचनैः ।
निन्ये हरिनिजं धाम सपरीवारमर्जुनम् ॥ ४०१ ॥
फाल्गुनाय मुरारातेरुपचारं चिकीर्षतः ।
स्वाराज्यमपि निर्जेतुमाचकाङ्क्ष मनस्तदा ।। ४०२ ॥
१९०
काव्यमाला।
कृष्णोऽस्य स्वागतीचक्रे सुभद्रां भगिनी निजाम् ।
अभीष्टो ह्यतिथिः कामं गृहसर्वस्वमर्हति ॥ ४०३ ॥
यादवीमङ्गलोद्गीतिनवपीयूषतोयदः ।
अभून्मुदितगीर्वाणस्तत्पाणिग्रहणोत्सवः ।। ४०४ ॥
पाणिमोक्षविधौ जिष्णोर्यद्यद्भूयोऽप्यदित्सत ।
अल्पीय इति कंसारिस्तेन तेनाप्यलज्जत ॥ ४०५॥
पित्रोरुत्कण्ठितोऽप्युच्चैर्जिष्णुः कृष्णानुरोधतः ।
उत्सवैकमयान्कांश्चित्तत्रातीयाय वासरान् ॥ ४०६ ॥
कृष्णमन्येधुरापृच्छ्य समं पत्न्या सुभद्रया।
हस्तिनापुरसोत्कण्ठः प्रतखे कपिकेतनः ॥ १० ॥
ततः स खेचरानीकविमानैस्तिरयन्नभः ।
चचाल मणिचूडेन समं हेमाङ्गदेन च ॥ ४०८ ॥
विमानमनुकामीनमध्यासीनो विलोकयन् ।
सरःसरिन्नगारामपुरग्राममयीं महीम् ॥ ४०९॥
खेचरेन्द्रनरेन्द्राभ्यां श्रिताभ्यामभितोऽन्तिकम् ।
दत्ततालं मिथस्तास्ताः कुर्वन्प्रमदसंकथाः ।। ४१० ॥
पुष्यन्तं यादवीयस्त्वात्तापैस्तीव्रैर्विवस्वतः ।
शुष्यन्तं च दधत्स्वेदं वंहीयोभिर्नभोऽनिलैः ॥ ४११॥
वहन्हर्षभरोल्लुण्ठमुत्कण्ठतरलं मनः ।
आसीदत्सान्ददानन्दं हस्तिनापुरमर्जुनः ॥ ४१२ ॥
,
(चतुर्भिः कलापकम्)
धावन्तः खेचराः काममहंपूर्विकया ततः ।
आयान्तं पृथिवीभर्तुः पृथासूनुमचीकथन् ॥ ४१३ ॥
शोकमानन्दतां निन्ये मेदिनीशस्य तद्वचः।
शुद्धः सिद्धरसः शुल्वं महारजततामिव ।। ४१४ ॥
हर्षाश्रुबिन्दुसंदोहस्थाने शोकाश्रुविप्रुषाम् ।
पृथायाः पपृथे कृष्ण ज्योत्स्नेव तमसा पदे ॥ ४१५ ॥
पाण्डवचरितम् ।
बभूव रभसाच्चेतः सोदराणां विकस्वरम् ।
भास्वत्युदीयमाने हि किमु जीवति नाम्बुजम् ॥ ४१६ ॥
आदिश्य पुरि तत्कालमुत्सवं सपरिच्छदः ।
- तनूज मनसः पश्चाद्भूपतिः प्रत्युदव्रजत् ॥ ४१७ ॥
मेदिनीपतिमागत्य पुरद्वारवनावनौ ।
अनेदीयांसमुद्दयोतसंभारं भृशमैक्षत ॥ ४१८॥
मार्तण्डमण्डलैः पूगतिथैरिव मरुत्पथः ।
व्याप्यमानो विमानौधैस्ततः क्ष्मापेन वीक्षितः ॥ ४१९ ।।
क्षणादैक्ष्यन्त सामन्तमायूरातपवारणैः ।
सोऽन्यानि पितुरुद्यानभ्रमं पुष्णन्ति जिष्णुना ॥ ४२० ॥
महीयोभिर्महःपुञ्जैर्मुहुर्मञ्जरयद्दिशः।
विमानमवनाम्यैकमाजिहीत महीतलम् ॥ ४२१ ।।
नरेन्द्रखेचरेन्द्राभ्यां ताभ्यां तस्मादनुद्रुतः।
नितान्तमुदितस्वान्तः कपिकेतुरवातरत् ॥ ४२२ ॥
पित्रोः क्रमात्क्रमाम्भोजमाकुलालिकुलायितैः ।
ममार्जावर्जयन्मौलिं कौन्तेयः कुन्तलोच्चयैः ॥ ४२३ ॥
उत्थाप्य रभसात्ताभ्यामानन्दाश्रुकणोत्करैः ।
सिच्यमानतनुः स्वैरमालिलिङ्गे धनंजयः ॥ ४२४ ॥
तीर्थतोयाभिषेकोत्थपावित्र्यस्यैव काम्यया ।
ताभ्यां कपिध्वजो मूर्ध्नि मुहुर्मुहुरचुम्ब्यत ॥ ४२५ ॥
समस्तजाह्वेयादिगुरुवर्गे समन्ततः ।
प्रतिपेदे यथौचित्यमाचारः सव्यसाचिना ॥ ४२६ ॥
स ननाम क्रमाज्ज्येष्ठबान्धवान्विश्वबान्धवः ।
श्लिष्यति स्म च सानन्दं वन्दमानान्कनीयसः ॥ ४२७ ॥
भूपतिप्रमुखं सर्वं ततः स्वजनमण्डलम् ।
आरोहयद्विमानं तत्स्वयमप्यारुरोह सः॥ ४२८॥
१९२
काव्यमाला।
झणज्झणितमाणिक्यकिङ्किणीमालभारिणा ।
मार्जनोजस्वलस्वर्णवैजयन्तीविराजिना ॥ ४२९॥
सौरभोदारमन्दारकुसुमोच्चूलशालिना ।
अनत्यन्तीनया नीचैर्गत्या तेनाथ गच्छता ॥ ४३०
प्रमोदविशदैः पौरनेत्रैर्नीराजितोऽर्जुनः ।
अविशद्दिव्यसर्वाङ्गशृङ्गारमधुरं पुरम् ॥ ४३१ ॥
(त्रिभिर्विशेषकम्)
विस्मयस्मेरनेत्राभिः खेचराणामितस्ततः।
विमानानि मृगाक्षीभिर्निरीक्षांचक्रिरेतराम् ॥ १३२ ।।
दध्वान दुन्दुभिर्बाढं हतो विद्याधरैर्दिवि ।
तत्संहर्षादिव क्षोणीपीठे वण्ठैश्च ताडितः॥ ४३३ ॥
कौङ्कुमीनामपामाप्य पांशवः संगमोत्सवम् ।
नालमुत्थातुमश्वीयखुरक्षुण्णा अपि क्षितैः ।। ४३४ ॥
राजवर्त्मध्वजा रेजुर्मरुद्वेल्लितपल्लवाः ।
विद्याधरविमानानां कुर्वन्तो गणनामिव ॥ ४३५ ॥
पश्यन्तः परितः पौरयोषितः पोपितश्रियः ।
हस्तिनापुरमेव धाममन्वत नभश्चराः ॥ ४३६ ।।
निध्यायन्तः सरोमाञ्चं माञ्चान्गगनचारिणः ।
विमानेषु मनश्चक्रुरनास्थाशिथिलं मुहुः ॥ ४३७ ॥
पार्थमेकमनेकासां पौरसारङ्गचक्षुषाम् ।
नेत्रपत्रैः पिबन्तीनां युक्तं यन्नासितंभवः(१) ।। ४३८ ॥
इभालोकाभिया भ्रष्टनीविः सतोत्तरीयका ।
काप्युच्चैर्दर्शयांचक्रे खेचरैः सस्मितैर्मिथः ।। ४३९ ॥
वदनाम्भोजसौरभ्यभ्रमद्भृङ्गकुलाकुला ।
नर्तयन्ती करौ काचित्खेलयामास खेचरान् ॥ ४० ॥
१. मध।
पाण्डवचरितम् ।
१९३
पार्थालोकनलाम्पट्यात्पणांस्तांस्तान्प्रतिश्रुतान् ।
गाढाश्लेषमुखान्पत्या काचिदस्मार्यताधिकम् ॥ ४४१ ॥
प्रतिस्थानमथ स्यूतभूतपल्लवतोरणम् ।
रम्भास्तम्भपरीरम्भनीलत्तरणिदीधिति ॥ ४४२ ।।
प्रतिद्वारमलिन्देषु मुदा गोत्राङ्गनाजनैः ।
मौक्तिकस्वस्तिकोदात्तदत्तकुङ्कुमगोमुखम् ॥ ४४३ ।।
कक्षान्तरगवाक्षस्थपाञ्चालीलोचनैर्मुहुः ।
प्रत्युद्यातः शनैर्भेजे राजमन्दिरमर्जुनः ॥ ४४४ ॥
(त्रिभिर्विशेषकम् )
सत्कृत्यवित्पुरस्कृत्य भूपतिप्रभृतीन्गुरून् ।
जगन्मानसमारूढो विमानादवतीर्णवान् ॥ ४४५॥
प्रीत्या कुन्त्या कृतं तत्तदवतारणमङ्गलम् ।
प्रतिगृह्य प्रतीहारैर्दूरमुत्सारितप्रजः ॥ ४४६ ।।
सर्वतः खेलदुत्तालवन्दिकोलाहलाकुलम् ।
मध्यमुर्वीन्द्रसौधस्य विशति स्म धनंजयः ।। ४४७ ॥
आस्थानीपीठमास्थाय पाण्डुश्चण्डांशुतेजसा ।
स्नेहालापैश्चिरं तस्थौ भक्तिनम्रेण सूनुना ॥ ४४८ ॥
तयोरानम्रताभाजोः सुतस्य प्रियमित्रयोः ।
आवासौ स निजावासदेशीयावदिशन्मुदा ॥ ४४९ ।।
स्वस्थानं मेदिनीभर्तुरादेशाद्गतयोस्तयोः ।
प्रणम्य प्रणयप्रह्वः पार्थः स्वावसथं ययौ ॥ ४५० ॥
आग्रहात्पतिजग्राह तत्र दाक्षिण्यदीक्षितः ।
पौरजानपदामात्यसामन्तोपायनान्यसौ ॥ ४५१ ॥
हर्षसोत्कर्षमाभाष्य विसृज्य निखिलं जनम् ।
प्रेमपल्लवितः सोऽथ सैरंध्रीसौधमाविशत् ।। ४५२ ॥
चेतसा प्रथमं पार्थमभ्युत्तस्थौ ततो दृशा ।
देहेन तदनु स्वेदरोमाञ्चसचिवेन सा ॥ ४५३ ॥
२५
काव्यमाला।
अनीशापि भृशोन्मीलत्साध्वसा प्रतिपत्तये ।
कामं बहुमता जज्ञे याज्ञसेनी किरीटिनः ॥ ४५४ ॥
बलादातन्वतोर्नेत्रप्रवर्तननिवर्तने ।
पश्यन्त्यां तं रणस्तस्यामौत्सुक्यत्रपयोरभूत् ॥ १५५ ॥
कृष्णा जिष्णौ चिराद्गेहमुपेयुषि ददौ मुदा ।
कटाक्षपटलव्याजादर्घमिन्दीवरैरिव ॥ ४५६ ॥
क्षेप्तुकाम इवात्यन्तमन्तर्देहं कपिध्वजः ।
भुजोपपीडं प्रक्रीडत्प्रीतिरालिङ्गति स्म ताम् ॥ ४५७ ॥
तदाश्लेषसुखास्वादनिमीलितविलोचनः ।
चिरप्रवसनक्लेशमपि निन्ये धनंजयः॥ ४५८ ॥
सापि विश्वत्रयीं मेने तदा तत्संगमोत्सवे ।
सुधामयीमिवानन्दपरिस्पन्दमयीमिव ।। ४५९ ।।
अध्यासामास पल्यङ्कं तुल्यः कुसुमधन्विना । .
जिष्णुरध्यासयांचक्रे तां च प्रतिकृतिं रतेः ॥ ४६० ॥
प्रेमवार्तास्तया सार्धं तास्ताः कुर्वन्कपिध्वजः।
तदमन्यत निःशेषमहोरात्रमपि क्षणम् ॥ ४६१ ॥
हेमाङ्गदश्च भूपालो मणिचूडश्च खेचरः ।
चिरं सितहयप्रीत्या पुरे तस्मिन्नतिष्ठताम् ।। ४६२ ।।
मेदिनीपतिरन्येधुराहूय विजयं रहः ।
विश्वस्य कुशलोदर्कं वितर्कं स्वमचीकथत् ॥ ४६३ ॥
वत्स वीक्ष्य स्वकर्णान्तपलितंकरणीं जराम् ।
इयं प्रर्वतयत्यद्य धर्मकर्मणि मां बलात् ॥ १६४ ॥
विषयाः सहवास्तव्याः श्यामलैरेव कुन्तलैः ।
सितीभूतैः पुनर्धर्मसख्यं हि समशीलयोः ।। ४६५ ।।
जरस्यपि मनः कुर्वन्नरो भोगाभिलापुकम् ।
प्राकृतैरपि हस्येत किं पुनर्विशदाशयैः ॥ ४६६ ॥
पाण्डवचरितम् ।
धर्मपीयूषकूपस्य पीतपूर्वी पयः पुमान् ।
मृत्यु मरुमिवातीत्य याति मुक्तिपुरीं सुखम् ॥ ४६७ ॥
तन्निक्षिप्य क्षमाभारं सर्वज्येष्ठे युधिष्ठिरे ।
धर्म्या एव क्रियाः कामं कर्तुमिच्छति मे मनः ॥ ४६८ ॥
प्रह्वीभूतस्तथा लोको गुणोधैर्धर्मजन्मनः ।
तत्कथाभिर्यथा जज्ञे नित्यमुज्जागरः पुरे ॥ ४६९ ॥
गुणैरस्येन्दुदायादैर्मनोवेश्मनिवासिभिः ।
अवक्रय इव प्रीतिः प्रकृतीनामदीयत ॥ ४७०॥
गाङ्गेयधृतराष्ट्राधा ज्यायांसोऽपि तपःसुते ।
राज्यधुर्योऽयमेवेति सर्वे मनसि मन्वते ॥ ४७१ ॥
अस्तु राजन्वती भूमिस्तदेतेन चिरादियम् ।
सर्वस्याप्यस्य लोकस्य पूर्यन्तां च मनोरथाः ॥ ४७२ ॥
वत्स प्रतीक्षितोऽसि त्वमेतावन्ति दिनानि तु ।
मधोरभ्युदयः श्रेयान्विना न मलयानिलम् ॥ ४७३ ॥
उभाकर्णीदमाकर्ण्य वचः प्रीत्या महीपतेः ।
सव्यसाची ततो वाचमुवाच विनयान्विताम् ॥ ४७४ ॥
इदं तातस्य को नाम वचो न बहुमन्यते ।
कोविदः को हि कुर्वीत मीमांसामागमोक्तिषु ॥ ४७५ ।।
प्रियंकरा च नो कस्य श्रीसंक्रान्तिस्तपःसुते ।
श्रयन्तीह सुधारश्मि न मुदे कस्य कौमुदी ।। ४७६ ॥
गिरमेतां च तातस्य यः प्रमाणयिता नहि ।
मामकास्तस्य मूर्द्धानं सहिष्यन्ते न सायकाः ॥ ४७७ ।।
इत्यात्मजन्मनो बाचा प्रीतचेताः क्षितीश्वरः।
धर्मात्मजाभिषेकाय तत्कालमुपचक्रमे ॥ ४७८ ।।
कृष्णादीनवनीपालान्दूतैराहाययन्नृपः ।
दूरात्पुष्पधयान्पुष्पसौरभैरिव भूरुहः ॥ १७९ ॥
काव्यमाला।
{
निवासाः क्ष्माभुजां रेजुः परितो हस्तिनापुरम् ।
सर्वतोऽपि तुषारांशुमालिनं तारणा इव ॥ ४८० ॥
तूर्यप्रणादमेदस्विनारीमङ्गलगीतिभिः ।
शब्दाद्वैतमयस्तस्मिन्पुरे प्रावर्ततोत्सवः ॥ ४८१ ॥
व्योमलक्ष्मीविनिर्मीयमाणनिर्मार्जनश्रियः।
वैजयन्त्यो जनैस्तस्मिन्समुच्चिक्षिपिरे पुरे ॥ १८२ ।।
हर्षाकुलचलच्चेटीकुचसंघट्टचूर्णितैः ।
राजवेश्मभुवो हारैश्चक्रिरे बद्धसैकताः ॥ ४८३ ॥
तोरणानि जनैः स्वस्वमन्दिरेषु चिकीर्षुभिः ।
निष्पत्राश्चक्रिरे केलिकाननाम्रवनश्रियः ॥ ४८४ ॥
प्रतिमन्दिरमुत्क्षिप्तकदलीस्तम्भकान्तिभिः ।
नगरं तन्महानीलशिलामयमिवाबभौ ॥ ४८५ ।।
राजते स्म जनैर्दिव्यनेपथ्याभरणोज्वलैः ।
तत्पुरं सामरेव द्यौरवतीर्णा महीतलम् ॥ ४८६ ॥
नानाग्रामागतग्राम्यस्त्रैणपाणिंधमाध्वनि ।
अपूर्यत पुरे तस्मिन्पौराणां नेत्रकौतुकम् ।। ४८७ ।।
मिलन्निखिलभूपालतुरङ्गखुरखण्डितम् ।
अभिषेकजलप्लावभियेव द्यां ययौ रजः ॥ ४८८ ॥
गान्धारीमाद्रिकामुख्यमालोक्यान्तःपुरीगणम् ।
रचितानेकरूपेव मन्यते स्म शची जनैः ।। ४८९ ॥
तपःसुताभिषेकाय माणिक्यमयमद्भुतम् ।
विमानं मानवेन्द्रेण पर्यकल्प्यत शिल्पिभिः ॥ ४९० ॥
तत्र धात्रीपतिर्विप्रैः कृतनीराजनाविधिः ।
वशी निवेशयामास भद्रपीठे युधिष्ठिरम् ।। ४९१ ॥
पुरोहितं पुरस्कृत्य मन्त्रसंस्कारपावितैः ।
पार्थिवस्तीर्थपाथोभिरभ्यषिञ्चत्तपःसुतम् ॥ ४९२ ॥
१. अन्धकारावृते.
पाण्डवचरितम् ।
१९७
सर्वेऽप्युर्वीभृतः स्वर्णकलशावर्जितैस्ततः ।
सहर्षमभ्यषिश्चन्त वारिभिर्धर्मनन्दनम् ।। ४९३ ॥
पतन्तः पयसामोघास्तस्य मूर्ध्नि विरेजिरे ।
प्रावृषेण्यपयोवाहप्रभवा इव भूभृतः ॥ ४९४ ॥
चित्रं तस्यारिभूमीभृद्वंशदाहहविर्भुजः।
अभिषेकजलैलक्ष्मीमगाहत महः परम् ॥ ४९५ ।।
प्रवाहः पयसां धर्मपुत्रगानपवित्रितः ।
पुपूषुरिव तत्कालं पपात स्वःसरिज्जले ।। ४९६ ।।
मूर्तैरिव यशोबीजैर्दूर्वाङ्कुरकरम्बितैः ।
अवाकिरंस्तमाचारलाजै राजीवलोचनाः ॥ ४९७ ॥
गम्भीरमधुरैस्तूर्यनिनदैरुच्छ्रितोत्थितैः ।
कल्याणशंसिभिः प्रीतिरजागर्यत कस्य न ।। ४९८ ।।
गोत्रधात्रीशसंतानस्तुतिपूतास्तपःसुतः।
शुश्राव श्रवणानन्दस्यन्दिनीर्वन्दिनां गिरः॥ ४९९ ॥
अर्थिभ्यः स ददौ तावद्द्रव्यमव्याहताशयः ।
यावता जज्ञिरे तेऽपि शश्वदर्थिजनार्थिनः ॥ ५०० ॥
मुञ्चन्स कृत्यधारालवैरक्रूरात्रिपूनपि ।
स क्षणादकरोत्काराविशोधनमधिद्युतिः ॥ ५०१ ॥
अधर्मद्रुमसंतानच्छेदनादभ्रमावहः ।
दीयते स्म तदादेशादमारिपटहः पुरे ॥ ५०२ ।।
दग्धकर्पूरधूमोत्थनवमेघालिमालिषु ।
स पुरेऽकारयज्जैनमन्दिरेषु महोत्सवम् ।। ५०३ ॥
निधीशनिधिसर्वखभ्रमकारीणि भूभुजाम् ।
मङ्गलोपायनान्यस्य प्रविशन्ति स्म वेश्मनि ॥ ५०४ ॥
ततस्तमभिषेकान्ते कक्षान्तरनिवेशिनम् ।
दिव्यैः प्रसाधिकास्तैस्तैर्नेपथ्यैरुपतस्थिरे ॥ ५०५ ॥
काव्यमाला।
तास्तस्य भ्रमरश्यामानयद्भिर्निविरीसताम् ।
केशानुद्वापयामासुर्धूमैरगरुजन्मभिः ॥ ५०६ ॥
तस्य मूर्द्धनि धम्मिल्लं मल्लिकादामगर्भितम् ।
मुक्तावलयितोपान्तं रचयन्ति स्म तास्ततः ॥ ५०७ ॥
छादितादित्यमत्यच्छं शरदभ्रं जिगीषुभिः ।
चन्दनैश्च तदीयाङ्गं व्यलिपंश्चन्दनद्युति ॥ ५०८॥
शरज्ज्योत्स्नासमुच्छेकच्छेदच्छेकतरद्युती ।
ताः पर्यधापयन्नेनं दुकूले हंसलक्ष्मणी ॥ ५०९ ॥
उदयाद्रिशिरश्चुम्बिचण्डरोचिर्विडम्बनम् ।
कार्तस्वरकिरीटं च तदीये मूर्द्धनि न्यधुः ।। ५१० ॥
तथ्यगीरथ देश्यास्य चक्रद्वयमनोरमे ।
न्यस्यन्ति स्म तथा तस्य कर्णयो रत्नकुण्डले ॥ ५११ ॥
माणिक्यनिष्कसध्रीचीमामुञ्चन्हारवल्लरीम् ।
कण्ठे चास्य सितां कीर्ति प्रतापकलितामिव ॥ ५१२ ॥
अथोत्थाय ततो वारस्त्रैणचालितचामरः ।
मृगाङ्कमण्डलाकारश्वेतच्छत्रविराजितः ॥ ५१३ ॥
मुदितैर्बन्दिसंदोहैरुदीरितजयध्वनिः ।
धावद्दौवारिकव्रातविहितालोकनिःस्वनः ॥ ५१४ ॥
तत्कालं फाल्गुनादेशान्मणिचूडेन निर्मिताम् ।
सभां रत्नमयीं दिव्यामध्यतिष्ठद्युधिष्ठिरः ॥ ५१५ ॥
(त्रिभिर्विशेषकम् ।
नमःस्फटिकभित्तीनां यस्यामविदितान्तरः ।
तमसीव करस्पर्शादालोकेऽप्यचलज्जनः ॥ ५१६ ॥
ज्वलन्माणिक्यतेजोभिरलक्षितनतोन्नताः ।
तस्यामन्तःपतन्तः के नागमञ्जनहास्यताम् ।। ५१७ ॥
१. सान्द्रताम्.
पाण्डवचरितम् ।
१९९
द्युतिसादृक्ष्यदुर्लक्ष्यजले नीलाश्मकुट्टिमे ।
दिव्या यस्यामभून्मत्तमधुपालिर्मृणालिनी ॥ ५१८ ॥
इन्द्रनीलक्षितिर्यस्यामर्काश्मपरिवारिता ।
बभौ ज्योत्स्नाभिरावृत्य रुद्धेव तिमिरावलिः ॥ ५१९ ॥
नानारत्नान्तरस्तम्भकान्तिसंक्रान्तितो बभुः।
यस्यां ज्योतीरसस्तम्भाः सर्वरत्नमया इव ॥ ५२० ।।
आश्रितानेकवर्णाढ्यवितानप्रतियातना!
सवितानेव भाति स यस्या भूरप्यधस्तनी ॥ ५२१ ॥
रत्नस्तम्भेषु विश्रान्तसर्वाङ्गप्रतिमास्तदा ।
यस्यां वारविलासिन्यः पाञ्चालीतुलनां दधुः ॥ ५२२ ॥
ततः स भूपतिस्तस्यां मणिसिंहासनं महत् ।
आक्रान्तवान्सुनासीरः सुधर्मायामिवाबभौ ॥ ५२३ ॥
प्रणेमे मणिकोटीरकोटिकुट्टितकुट्टिमैः ।
स राजाभिनवो भूपैराज्ञाभारानतैरिव ।। ५२४ ।।
ततः सचिवसामन्तपौरजानपदादयः ।
तं रत्नाश्वकरिप्रायैरुपतस्थुरुपायनैः ॥ ५२५ ॥
सेवायातैर्दिशामीशैरिव सामीप्यवर्तिभिः ।
बभौ साक्षादिवोपायैः स चतुर्भिः सहोदरैः ॥ ५२६ ॥
अथ तस्य पयोराशिरसनायामपि क्षितौ ।
आज्ञालेखा विनिर्जग्मुः प्रतापा इव जङ्गमाः ॥ ५२७ }]
मयि सत्यपि को नाम जगत्यस्मिन्निजोऽपरः ।
इतीवाश्वखुरोत्खातपांशुपीतार्कमण्डलः ॥ ५२८ ॥
खेचरा अपि पश्यन्तु राजपाटीक्रमं मम ।
इतीव दन्तिदानाम्भःशमिताशेषभूरजाः ।। ५२९ ॥
मा म दिक्कुञ्जरेन्द्रेभ्यः कुप्यन्तु मम दन्तिनः ।
इत्तीव सौम्यमायूरच्छत्रच्छन्नदिगम्बरः ॥ ५३०॥
२००
काव्यमाला।
.
नयनाञ्जलिभिः पौरनारीभिश्चालिताञ्चलम् ।
पीयमानोमुहुः प्रीत्या हास्तिनं सोऽत्यहस्तयत् ॥ ५३१ ॥
बन्धुप्रीत्या गुरूणां च पर्यालोचे न तत्क्षणाम् ।
दुर्योधनं स राजानमिन्द्रप्रस्थेऽभ्यषिञ्चत ।। ५३२ ॥
अन्येषामपि बन्धूनां धृतराष्ट्रात्मजन्मनाम् ।
पार्थिवः स यथौचित्यं ददौ देशान्पृथक्पृथक् ।। ५३३ ॥
उत्सर्पदुत्सवमयं स विभुः समाप्य
राज्याभिषेकमहमिद्धमहःप्ररोहः ।
सत्कृत्य कैटभरिपुप्रभृतीनरेन्द्रान्
रत्नोत्करैर्निजनिजान्प्रजिघाय देशान् ॥ ५३४ ॥
इति जिनपुरुहूतः स्फीतपुण्योपहूतः
प्रतिनतनृपतिश्रीसेव्यमानाङ्गिपद्मः ।
ससुरभिगुणमालो मालतीदामकुन्द-
स्तबकविशदकीर्तिः पूगमह्नां निनाय ॥ ५३५ ।।
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पार्थतीर्थयात्रा
युधिष्ठिरराज्याभिषेकवर्णनो नाम पञ्चमः सर्गः ॥
षष्ठः सर्गः।
अथ पाण्डुर्विमुक्तश्रीरात्मारामैकमानसः ।
मुक्तावुत्थातुकामोऽपि तत्रैवास्थात्सुताग्रहात् ॥ १॥
धृतराष्ट्रं ततः सूनुर्भक्तमानी सुयोधनः।
इन्द्रप्रस्थं व्यवस्थाविन्निनाय सममात्मना ।। २ ।।
युधिष्ठिरगुणग्रामकामसंदानिताशयाः ।
गाङ्गेयविदुरद्रोणा हास्तिने व्यवतस्थिरे ॥ ३ ॥
पाण्डोस्तपःसुते बाढं रेजिरे राज्यसंपदः ।
भृशायन्ते हि तेजांसि प्रदीपे जातवेदसः ।। ४ ॥
सौम्ये च दुःप्रधर्षे च तस्मिन्पल्लविता भृशम् ।
वनराजीव राज्यश्रीः शिशिरोष्णे मधाविव ।। ५ ॥
२०१ प्रतापदुःसहे तस्मिन्पुष्णति स तरङ्गितः । कीर्तिकल्लोलिनीर्धर्मो धर्माविव नीरधिः ॥ ६ ॥ तत्तेजोऽग्निस्तनूर्मूषाः प्रताप्य विरसा द्विषाम् । तारैर्यशोभिराश्चर्यं पूरयामास रोदसी ॥ ७ ॥ ध्वान्तध्वंसिनि सत्येव गलद्वयसि राजनि । भास्वत्युदित्वरे तस्मिन्ननन्दुरधिकं प्रजाः ॥ ८ ॥ दिग्जिगीषाकृतोन्मेषं तस्य ज्ञात्वा मनोऽन्यदा । कनीयांसः समं नत्वा चत्वारोऽपि बभाषिरे ॥ ९॥ किं नाम जगदुद्दयोतहेवाकेषु गभस्तिषु । तमःसंभारभेदाय भानुरुद्यच्छते स्वयम् ॥ १० ॥ देव दक्षिणवातेन्दुवसन्तादिषु सत्स्वपि । मानिनीमानभङ्गाय कामः किं धावति स्वयम् ॥ ११ ॥ पुरःसरेषु किं नाम तरङ्गसमरोर्मिषु । जलाशयः स्वयं पान्थखेदच्छेदाय सादरः ॥ १२ ॥ सत्सु तत्रिजगज्जैत्रभुजेषु निजबन्धुषु । दिशां जयाय देवेन न प्रस्थातव्यमात्मना ॥ १३ ॥ इत्याकर्ण्य वचस्तेषां जहर्ष जगतीपतिः । निदेश्येर्हि जयो राज्ञां कीर्तिमावहते पराम् ॥ १४ ॥ क्रमाम्भोजनतान्नीतिचतुरश्चतुरोऽपि तान् । अंशयोरामृशन्त्रीत्या स दिशो जेतुमादिशत् ॥ १५ ॥ राजाज्ञेत्यन्बमन्यन्त चतुरङ्गां चमूममी । मृगेन्द्रः करिणो हन्ति किं मृगैः परिवारितः ॥ १६ ॥ कुन्तीमाद्र्यादिभिर्गोत्रवृद्धाभिः कृतमङ्गलाः । तेऽथ प्रतस्थिरे सैन्यैश्चत्वारोऽपि पृथक् पृथक् ॥ १७ ॥ भीमः प्राची दिशं जिष्णुरपाचीं नकुलः पुनः । प्रतीचीं सहदेवस्तु किलोदीचीमशिश्रियत् ॥ १८ ॥ २६ २०२ काव्यमाला । चतुर्भिरप्यनीकैस्तैराक्रान्तां परितः क्षितिम् । बभार समभारत्वात्सुखमेव फणीश्वरः ॥ १९ ॥ एभिः प्रसभमारब्धाः कुर्युः किं नाम भूमिपाः । इतीव द्रष्टुमुच्चैर्द्यामारोहद्वाहिनीरजः ॥ २० ॥ निःशेषारिवधूनेत्रसलिलैः कूलमुद्रुजाः । स्रवन्तीनौर्भिरुत्तेरुस्ते गुल्फद्वयसीरपि ॥ २१॥ दिमिकुलेषु मूर्च्छन्तस्तेषां निखाननिखनाः । भूभृतां दारयामासुर्दरींश्च हृदयानि च ॥ २२ ॥ आत्मीयमपि ते बाह्वोरूष्माणमसहिष्णवः । केतनालिच्छलान्मन्ये कदलीवनसेविनः ॥ २३ ॥ क्षुण्णा हरिखुरैर्दन्तिपादपातैर्मतीकृताः। भुवस्त्वत्कीर्तिबीजानां वापयोग्या इवाबभुः ॥ २४ ॥ अथ भीमः क्रमात्कामरूपान्भीमभुजो ययौ । सैन्यदन्तिमदस्पर्द्धिकालागुरुरसश्रुतीन् ॥ २५ ॥ तदीयां श्रियमादाय स ततार सुरापगाम् । लम्भयन्कुम्मिनां दानैर्यमुनासंगमोत्सवम् ॥ २६ ॥ ततोऽङ्गान्भक्तिनम्राङ्गान्सुह्नाञ्जिह्मितविक्रमान् । स्वानमाद्वङ्गबद्धाङ्गान्स चकार भुजौजसा ॥ २७ ॥ स वितेने रणारम्भनिष्कलानुत्कलानपि । कलिङ्गानपि निर्मुक्तराजलिङ्गानसूत्रयत् ॥ २८॥ अथारोप्य जयस्तम्भान्गङ्गासागरसंगमे । उन्मूलयन्स पाञ्चालडहालादीन्यवर्तत ॥ २९ ॥ अर्जुनोऽप्यर्जुनच्छायमर्जयन्मार्गणैर्यशः न तेष्वक्षुण्णदाक्षिण्यो दक्षिणामाविशद्दिशम् ॥ ३० ॥ भ्रष्टराष्ट्रान्महाराष्ट्रान्कर्णाटांश्चाटुकारिणः । तिलङ्गानङ्गुलिव्यङ्गान्कुर्वाणः स रणे शरैः ॥ ३१ ॥ पाण्डवचरितम् । २०३ केरलीकुरुलान्लुम्पन्वैदर्भीविभ्रमान्हरन् । द्रामिलीकेलिमुल्लिम्पन्मलयोपत्यकां ययौ ।। ३२ ॥ (युग्मम् ।। तस्यामालानितैस्तस्य चन्दनदुमकानने । नामसाम्यादिव क्रुद्धैर्नागैर्नागा निरासिरे ॥ ३३ ॥ तत्र तस्य लवङ्गैलालवलीस्वादलालसाः । सल्लकीपल्लवग्रासे वैमुख्यमभजन्गजाः ॥ ३४ ॥ पाण्डवः सह मुक्ताभिः पाण्ड्यानामाहरन्यशः । ताम्रपर्णीयुजि प्राप दक्षिणाम्भोधिरोधसि ॥ ३५ ॥ तत्रोत्तम्भ्य जयस्तम्भान्सेतुबन्धैकबन्धुरे । द्वैराज्यं रामकीर्तीनां चकार निजकीर्तिभिः ।। ३६ ॥ स्वादं नगरखण्डानां वनवासस्थलीषु सः । लम्भयन्सैनिकांस्तस्थौ कुन्तलीलोलुपश्चिरम् ॥ ३७ ॥ कौङ्कणीकङ्कणान्भञ्जन्नालिकेरीद्रुमैः सह । लाटीकटाक्षलुण्टाकः सोऽथ व्यावर्तत क्रमात् ।। ३८ ॥ यशःकुसुमसौरभ्यवासितक्षितिमण्डलः । नकुलोऽपि विवेशान्तः प्राचेतस्या दिशस्तदा ॥ ३९ ॥ प्रापयन्नन्तमत्यन्तमावन्तीनयनाञ्जनम् । उच्छिन्दन्बहलच्छायाः सौराष्ट्रीपत्रवल्लरीः ॥ ४० ॥ महार्णवसरस्वत्योः प्रियमेल कपावितम् । प्रवासक्षेत्रमक्षोभ्यबलोर्मिनकुलो ययौ ॥४१॥ (युग्मम् ) प्रक्षाल्य मलमुद्वीक्ष्य तत्र चन्द्रप्रभप्रभुम् । जयस्तम्भान्महारम्भो न्यस्यति स्म स धीरधीः ॥ ४२ ॥ शृण्वन्स द्वारकालोकगीतं कंसजितो यशः। पूगपूगवता कच्छान् कच्छेनैवाम्बुधेर्ययौ ॥ १३ ॥ गोपयित्वा निजां कीर्तिविस्फूर्ति तत्र वारणान् ।। पारसीकाननीकेन स चकारात्मकिंकरान् ॥ ४४ ॥ २०४ काव्यमाला। तत्रास्य पिण्डखर्जूरखादमेदस्विसंमदैः । चिरमध्यूषिरे कच्छाः सैनिकैः पश्चिमाम्बुधेः ॥ ४५ ॥ यवनीवदनाम्भोजविकासतुहिनोत्करः । शकीसंभोगशृङ्गारसमुद्रकलशोद्भवः ॥ ४६॥ माद्यत्पश्चनदस्त्रैणभदामोदमलिम्लुचः । सैन्धवीवर्गवैधव्यव्यसनी स न्यवर्तत ॥ १७ ॥ सहदेवोऽपि देवेन्द्रदेश्यशौण्डीरिमक्रमः । व्यगाहत महाबाहुः कुबेरचरितां दिशम् ॥ ४८ ॥ संदिशन्हारसंहारि जाङ्गलीनाममङ्गलम् । आस्कन्दति स काम्बोजानोजस्विभुजविक्रमः ॥ १९ ॥ उपनीय हयानुच्चैर्न्यञ्चितोच्चैःश्रवःश्रियः । तदुर्वीपतिरात्मानमवति स्म कुरुद्वहात् ॥ ५० ॥ तस्य नेपालभूपालः केलिकस्तूरिकामृगान् । उपदीकृत्य पाति म श्रियं पूर्वक्रमार्जिताम् ।। ५१ ॥ क्षुण्णकुङ्कुमकेदारपांशुपूरपिशङ्गिताः । कश्मीरेषु हयास्तस्य बिभ्रतिस्मैकवर्णताम् ॥ ५२ ।। हिमालयमथारुह्य पार्वतीयान्विजित्य च । निचखान जयस्तम्भांस्तदुच्छायं विवर्धयन् ।। ५३ ।। नानाश्चर्यमयात्तस्मादवरुह्य गिरेः शनैः। आदिदेश स हूणीनामुरःकुट्टनपाटवम् ।। ५४ ।। पिबन्कीरयशक्षीरं स्वसश्रीरसमाहरन् । नितान्तपुष्टसर्वाङ्गः स प्रत्याववृते ततः ॥ ५५ ॥ इत्यादाय दिशां लक्ष्मी नगरे नागसाह्वये। तपःसूनोः कनीयांसश्चत्वारोऽप्याययुः समम् ॥ ५६ ॥ दिक्कुक्षिंभरिमिः सैन्यै राजा प्रत्युज्जगाम ताम् । प्रवाहानिव सिन्धूनामूर्मिभिर्मकराकराः ॥ ५७ ॥ पाण्डवचरितम् । २०५ तेन बन्धुबलौघास्ते चत्वारोऽप्यालुलोकिरे । पयोधय इवायाताः सेवितुं तमिव स्वयम् ।। ५८ ॥ ततो निलीयमानानि सैन्ये महति भूपतेः । ब्रह्मणीव स्फुलिङ्गौघास्तानि सैन्यानि रेजिरे ॥ ५९॥ तान्यनीकानि पञ्चापि तत्र प्राप्तानि संगमम् । शरीरिणां शरीरेषु भूतानीव बभासिरे ॥६०॥ प्रीतिप्रह्वाः प्रणेमुस्ते कनीयांसस्तपःसुतम् । . तानालिङ्गय मुदा सोऽपि ब्रह्मानन्दमिवान्वभूत् ॥ ६१ ।। मरुत्प्रेङ्खोलितानेकध्वजताण्डवमण्डितम् । कस्तूरी मिश्रकाश्मीरसिक्तघण्टापथक्षिति ॥ ६२ ।। उज्जम्भिदुन्दुभिध्वानप्रतिध्वानितमन्दरम् । दीप्यमानमनोरागनागरोत्सर्पदुत्सवम् ॥ ६३ ॥ विमानलक्ष्मीलुण्टाकमञ्चरोमाञ्चितप्रजम् । स्मेरपौरवधूवर्गनेत्रकैरवकाननम् ॥ ६४ ॥ वारसारङ्गनेत्राभिः प्रीतिचालितचामराः । सिन्धुरेन्द्राधिरूढास्ते निजं नगरमाविशन् ।। ६५ ।। (चतुर्भिः कलापकम् ) सिंहासने निवेश्याथ राजानं मन्दिराजिरे । पादपङ्केरुहोत्सङ्गे भृङ्गीकृत्य शिरोरुहान् ॥ ६६ ॥ गीर्वाणगिरिदायादाः पुरस्तस्यानुजन्मभिः । दिगन्तसंपदां कूटास्त्यक्तकूटैर्वितेनिरे ॥ ६७ ॥ (युग्मम् ) विश्वे विश्वभराभर्तुस्ते परीणाहशालिनः। वेदिका इव भान्ति स प्रमोदपृथिवीरुहाम् ॥ ६८॥ विशांपत्युर्यशःक्षीरनीरराशेर्विसारिणः सर्वैरभ्रंकषैरेतैरभ्यन्तरगिरीयितम् ॥ ६९ ।। 'ब्रह्मास्वादम्' इति ख. ग. २०६ काव्यमाला। अपि पुण्यजनाधीशमप्यनेकनिधीश्वरम् । राजराजमपि ख्यातमपीश्वरसुहृत्तया ॥ ७० ॥ भूपः सुपर्वधर्मत्वाद्विश्वाशाः परिपूरयन् । जिगाय मर्त्यधर्माणमुत्तराशावलम्बिनम् ॥ ७१ ॥ (युग्मम् समुत्पेदे तदान्योऽपि नृपस्यानन्दकन्दलः । पार्थवध्वाः सुभद्रायास्तनूजो यदजायत ।। ७२ ।। कृतार्थानर्थिनः कृत्वा स्वपतेयैर्यथेप्सितैः । काश्यपीपतिरस्याख्यामभिमन्युरिति व्यधात् ।। ७३ ।। सिञ्चन्श्रद्धाजलैर्धर्मफलाकाङ्क्षी प्रतिक्षणम् । सप्तक्षेत्र्यां वसून्येष वपति स्म गतस्मयः ॥ ७४ ॥ हढे जन्मान्तरद्वीपक्षेमगामिन्यनारतम् । स सहस्रगुणीकर्तुं धर्मपोते श्रियो न्यधात् ॥ ७५ ॥ अवाप्तजन्मनस्तत्र तत्र वृद्धिमुपेयुषः । तत्रैव चाक्रवर्तित्वलक्ष्मीदीक्षादिशालिनः ॥ ७६ ॥ नाना रत्नैरधःकुर्वन्गर्वं गीर्वाणवेश्मनाम् । विहारः कारयांचके तेन शान्तिजिनेशितुः ॥ ७७ ॥ (युग्मम् ज्वलत्कनकमाणिक्यमयमालोक्य तं जनः । चकार सुरशैलेन्द्रदिदृक्षाशिथिलं गनः ॥ ७८ ॥ इन्द्रनीलमयद्वारशाखांशुश्रेणिकैतवात् । सान्द्रच्छायोल्लसत्तीरवनराजीविराजिनी ॥ ७९ ॥ तत्र स्फटिकसोपानप्रभाव्याजेन जाह्नवी । रेजे पवितुमात्मानमागतेव तरङ्गिता ॥ ८० ॥ (युग्मम् ) शातकुम्भीयकुम्भौघप्रतिबिम्बैर्व्य॑डम्बयत् । नीलाश्मकुट्टिमं तस्मिन्सहेमकमलां यमीम् ।। ८१ ॥ ज्योतीरसमयक्षुद्र जैनवेश्मपरिष्कृतः । मुक्तानद्धः क्षितेः कर्णताटङ्क इव स व्यभात् ॥ ८२ ॥ १. धनैः, २. शातकुम्भ खर्णम् पाण्डवचरितम् । शश्वदभ्रंलिहे तस्य स्फाटिकस्य शशी निशि । ज्योतिर्जालजले मज्जन्सस्मार क्षीरनीरधेः ॥ ८३ ॥ तत्रालोक्य ध्रुवं रूपशालिनीः शालिभञ्जिकाः । अमरैरमरीरूपशिल्पी काममनिन्द्यत ॥ ८४ ॥ यदि वा नास्ति तत्स्वर्गे नावनौ न रसातले। यदुपैत्युपमानत्वं तस्य यच्चोपमेयताम् ॥ ८५ ॥ विश्वाद्भुतश्रियस्तस्य ध्वजारोपणपर्वणि | दूतैराह्वाययामास सर्ंव राजा स राजकम् ॥ ८६ ॥ प्रहित्य नकुलं प्रौढप्रश्रयप्रवणाशयः । प्रीत्या निमन्त्रयामास केशवं धरणीधवः ॥ ८७ ॥ बन्धुवात्सल्यसोल्लासमना दुर्योधनं पुनः । सहदेवेन भूमीन्द्रः सबान्धवमजूहवत् ॥ ८८ ॥ स्वस्वदेशप्रसूतानि तस्य चेतःप्रसत्तये । उपायनान्युपादाय तत्राजग्मुर्महीभुजः ॥ ८९ ॥ पराभूताश्रमातङ्गैः पौरस्त्याः पृथिवीभुजः । मदामोदिकपोलैस्तं करीन्द्ररुपतस्थिरे ॥१०॥ वज़वैडूर्यमुक्तादि रत्नाजातमधिद्युति । आदाय तमुपासीदन्दाक्षिणात्याः क्षितिक्षितः॥ ९१।। दिव्यैः कौशेयवासोभिभूषणैश्च हिरण्मयैः । अपरान्तमहीपालास्तमभ्येयुर्भयापहम् ॥ ९२ ॥ स्वस्वदेशोद्भवैस्तैस्तैः सुरसैन्धवबान्धवैः । उपसेदुस्तमश्वीयैरौत्तराहा महीभृतः ॥ ९३ ॥ मनुष्यमयश्वेभमयं लक्ष्मीमयं च तत् । बभूव सर्वभूपालैः संगतं नगरं तदा ॥ ९४ ॥ अथ लग्नदिने धाम्नि षोडशस्य जिनेशितुः। विश्व संगमयांचक्रे राजचक्रं महीपतिः ॥ ९५ ॥ २०८ काव्यमाला। समं तैः सर्वसामन्तैरुत्सवेन गरीयसा । पार्थिवस्तीर्थवारीणि पीवरप्रीतिरावहत् ॥ ९६ ॥ रक्षामन्त्रादिसंस्कारक्रियाकन्दलितद्युतः । तत्कालं ते कलामैन्द्रीं सत्यमेवाश्रयन्नृपाः ॥ ९७ ॥ कृपाणपाणयः केऽपि प्रतिष्ठाक्षोभशान्तये । तत्क्षणं दिक्षु सर्वासु भूनेतारोऽवतस्थिरे ।। ९८ ॥ वेदिरक्षाकृते केचिद्दधतो वैणवी लताम् । कुर्वन्तस्तद्दवीयांसं लोकं तस्थुर्महीभृतः ॥ ९९ ॥ उदस्तकलशाः केचिज्जलाहरणहेतवे । इतस्ततः ससंरम्भं धावन्ति स्म धराधवाः ॥१०॥ स्नानीयानि जलान्यन्तरौषधानि न्यधुः परे । ऊचुरत्युच्चकैरन्ये स्नात्रसूक्तानि भूभृतः ।। १०१ ॥ भूमीभृतश्चतुःषष्टिध्वजदण्डं हिरण्मयम् । स्नपयांचक्रिरे स्वैरं वारानष्टादश क्रमात् ॥ १०२ ॥ स्नात्रान्तरेषु व्योमान्तःसूत्रितामोदितोयदम् । धूपमुच्चिक्षिपुः केऽपि कर्पूरागुरुसंभवम् ॥ १०३ ॥ तिलकानपरे चक्रुः सरसैश्चन्दनद्रवैः । पुष्पस्रजं वितन्वन्तः स्नात्राणामन्तरान्तरा ।। १०४ ॥ मन्त्रैर्यथोदितैस्तैस्तैराहूताखिलदैवतम् ।। नन्दावर्तं परे यत्नाद्रक्षन्ति स्म क्षितीश्वराः ॥ १०५ ॥ दधिरे चामरान्केचिदपरे दर्पणं दधुः । धारयामासुरन्ये तु सर्पिर्दध्यादिभाजनम् ॥ १०६ ॥ इतरे ढौकयामासुर्द्राक्फलाफलिकादिकम् । गन्धसर्वोषधीवृद्धिऋद्ध्यादि दधिरे परे ॥ १०७ ।। इति भूमीन्दुसंदोहे विश्वव्यापारहारिणि । शुभायां लग्नवेलायामनुकूलग्रहाश्रयात् ।। १०८ ॥ पाण्डवचरितम् । २०९ श्रीबुद्धिसागराचार्येस्तत्र श्रीशान्तिवेश्मनि । अचीकरद्ध्वजारोपं यथाविधि युधिष्ठिरः ॥ १०९ ॥ स विरेजे ध्वजः प्रेङ्खन्मरुत्कलोललोलितः । रजो विश्वभ्रमासक्तं तत्कीर्ति विनयन्निव ॥ ११०॥ विस्मयस्सेरराजन्यवीक्षितं क्षितिवासवः । दाशाहिकोत्सवं चक्रे संपत्संभारभासुरम् ॥ १११ ॥ ततः प्रवर्धमानेन श्रद्धाशुद्धेन चेतसा । संघमभ्यर्चयांचके यथौचित्यं स कृत्यवित् ॥ ११२ ॥ सत्कृत्य वस्तुभिस्तैस्तैस्तदानीतोपदाधिकैः । अथ भूमीभुजो राजा प्रैषीद्देशं निजं निजम् ।। ११३ ॥ समुद्रविजयाह्वानादुत्सुकं धर्मनन्दनः । औचितीचञ्चुरभ्यर्च्य विससर्ज गदाग्रजम् ।। ११४ ॥ दुर्योधनं पुनर्बन्धुप्रेमप्रह्लादमानसः । दिनानि कतिचित्तत्र धात्रीपतिरघारयत् ॥ ११५॥ साकं शकुनिना तत्र मातुलेन सुयोधनः। पाण्डवस्फोतिसेर्ष्योऽपि गूढाचारोऽवसच्चिरम् ॥ ११६ ॥ लीलाशिलोच्चयक्रीडावापीकेलिवनादिषु । चिक्रीड पाण्डवैः सार्धं सुमनोभिः स दुर्मनाः ॥ ११७ ॥ विविक्तपरिवारेण पूर्वमुर्वीभृताश्रिताम् । अपरेद्युः सभां दिव्यां विवेश धृतराष्ट्रभूः ॥ ११८ ॥ तत्राप इति विज्ञाय नवस्फटिककुट्टिमे । दुकूलाञ्चलमुत्कर्षन्नहस्यत स किंनरैः ॥ ११९ ॥ स्थलान्ब्जिनीधिया धावन्नादातुमरविन्दिनीम् । स गूढे तज्जले मज्जञ्जहसे वायुसूनुना ॥ १२० ॥ ततः स्मेरकपोलाक्षस्तत्क्षणादनुजीविभिः । तस्यापराणि वासांसि काश्यपीपतिरार्पयत् ।। १२१ ॥ स्फातिवृद्धिः 1 २१० काव्यमाला । तेनाङ्कुरितकोपोऽपि निगूहन्नाकृतिं निजाम् । अनालोकितकेनैव स धीमांस्तानि पर्यधात् ॥ १२२ ।। दूरोन्नतामपि क्वापि जानन्नुर्वीमनुन्नताम् । स्खलित्वा स पतन्नुच्चैरुपाहस्यत जिष्णुना ॥ १२३ ॥ अपावृतादपि द्वाराद्भाभिरावृतशङ्कया । व्यावृत्तं हसतः स्मैनं दत्ततालं मिथो यमौ ॥ १२४ ॥ इत्याद्यैः पाण्डवेयानामुपहासैर्मुहुर्मुहुः । कौरवाधिपतेरन्तरुज्जजागार मत्सरः ॥ १२५ ॥ सत्कृत्य प्रणयार्द्रेण प्रेषितः पाण्डुसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ सोऽभिमानी समातुलः ॥ १२६ ॥ स दीनवदनाम्भोजः शून्यात्मा निश्वसन्मुहुः । यदा किंचिद्ददौ कामं जल्पमानोऽपि नोत्तरम् ॥ १२७ ।। तदा सविधमभ्येत्य मातुलः सौबलो बलात् । जगाद पथि गच्छन्तं करे धृत्वा सुयोधनम् ।। १२८ ॥ किमेतत्ते मुखं धत्ते प्रातःशीतरुचो रुचम् । इति जल्पन्तमस्वल्पं गान्धारेयस्तमभ्यधात् ॥ १२९ ।। जीवञ्जगति किं नाम वर्तते मम मातुलः । एवमत्यन्तमृध्यन्ति पश्यतो यस्य शत्रवः ।। १३० ॥ सहस्रशो मणिज्योतिर्निर्मितामरकार्मुका । सुधर्मामभ्यधःकृत्य जृम्भते भुवि सा सभा ॥ १३१ ॥ दिगन्तसंपदः संप्रत्यहंपूर्विकयाखिलाः । धर्मनन्दनमायान्ति द्वीपवत्य इवार्णवम् ॥ १३२ ॥ आदाय सत्करैर्ग्रीष्मभास्वानप इव श्रियः । सांप्रतं परितो वर्षन्हर्षयत्यखिलामिलाम् ।। १३३ ।। कुबेरीकृतनिःशेषवनीपककुलाः श्रियः। तस्य न्यक्कुर्वते गर्वं गीर्वाणेन्द्रश्रियामपि ॥ १३४ ॥ वनीपको याचकः. पाण्डवचरितम् । २११ विहाय हेमकोटीरं मूर्ध्नि स्रग्दामवासिते । उत्तंसीकुर्वते तस्य शासनं मेदिनीभृतः ॥ १३५ ॥ ध्वजारोपोत्सवे तावत्त्वयाप्यालोकितं तथा । यथास्य प्रश्रयानम्रै राजकैः किंकरायितम् ॥ १३६ ॥ तथास्य सर्वथा जज्ञे काश्यपी वशवर्तिनी । करैः पत्तद्भिरस्थानेऽप्यसौ नोद्विजते यथा ॥ १३७ ॥ एतदुत्पश्यतः सर्व प्राप्तमिष्टं युधिष्ठिरे । कामं ममान्तरात्मानं दहतीव हुताशनः ।। १३८ ।। बलीयः पुण्यमेवैकं न पुनः पौरुष क्वचित् । पाण्डवा हन्त जीवन्ति यन्निर्मूलयतोऽपि मे ।। १३९ ।। इदानीमप्यहं शत्रूंस्तानुच्छेत्तुमलंतमाम् । सहायमद्भुतं कंचित्किंतु पश्यामि नात्मनः ॥ १४० ॥ इमामुद्दीक्षितुं लक्ष्मीं विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्दबध्य तन्मरिष्याम्यसंशयम् ॥ १४१ ॥ त्वं पुनर्मे पितुर्गत्वा सर्वमेतन्निवेदयेः। इत्युक्त्वा विरते तस्मिन्पुनः शकुनिरब्रवीत् ॥ १४२ ॥ धार्तराष्ट्र न खल्वेतदाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्दकन्दलाः स्वजनोदये ॥ १४३ ॥ पैत्र्यमेव क्षितेः खण्डं पाण्डवैरुपभुज्यते । मनागपि न तन्न्यूनमुपभुङ्क्ते भवानपि ॥ १४४ ॥ भुवनाद्भुतसौभाग्यैर्भाग्यरेतावतीं यदि । तल्लक्ष्मीरगमत्कोटिं नामर्षस्तेऽत्र सांप्रतम् ॥ १४५ ॥ भ्रातृभिर्यदि भूभर्तुस्तस्य संगरभङ्गुराः । किंकरीचक्रिरे भूपाः किमानन्दायते न तत् ॥ १४६ ॥ यत्तु व्याकुरुषे तादृक्सहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं तामेतां ते मनागपि ॥ १४७ ॥ २१२ काव्यमाला । जगतीगीतदोःकीर्तिप्रबन्धा बान्धवास्तव । पयोधय इवोद्वेलाः पृथिवीप्लावनक्षमाः ।। १४८॥ तेष्वप्यरातिभूपालमौलिलालितशासनः । रणे दुःशासनः पाकशासनेनापि दुःसहः ॥ १४९ ॥ तव प्रत्युपकारैकलम्पटः सुभटाग्रणीः । सर्वारिहृदयोत्कीर्णः कर्णः प्राणाञ्जिहासति ॥ १५० ॥ अहमेकधुरीणस्ते समरेषु ससोदरः । तत्सहायरिमामेतैः खच्छन्दं मेदिनीं जय ॥ १५१ ।। अथाह कौरवस्तर्हि विजये पाण्डवान्पुरः । एतैर्जितैर्जितैवेयमखिलापि वसुंधरा ।। १५२ ॥ सौबलोऽप्यभ्यधाद्भूयः सेयं मिथ्या मतिस्तव । न सोऽप्याखण्डलः पाण्डुपुत्रजैत्रायुधे युधि ॥ १५३ ॥ निहन्ति यत्प्रतापोऽपि शौण्डीरजडिमज्वरम् । कः सहेत तमभ्यर्णं तपःसुतरविं रणे ॥ १५४ ॥ भीमेतिनामसाधर्म्यशङ्कितैरिव कुञ्जरैः । युद्धे गजासुराकारैः प्रणेशे पवनात्मजात् ॥ १५५ ॥ खन्यते विशिखैर्जिष्णोर्वैरिवक्षःस्थलक्षितिः । अन्तः शरास्तु जुम्मन्ते नेत्रयोस्तन्मृगीदृशाम् ॥ १५६ ॥ कालिन्दीसोदरं कान्त्या करवालं यमोपमम् । धारयन्तौ करे युद्धे दुर्नियम्यौ यमावपि ॥ १५७ ॥ विष्वक्सेनादयस्तेषां सुहृदस्ते रणे मुहुः । असृक्पानोत्सवं चक्रुद्वयेषामपि पत्रिणाम् ॥ १५८ ॥ तदित्यजय्यदोर्दण्डताण्डवाः खलु पाण्डवः । शस्त्राशस्त्रि विनाप्येकः किं तूपायोऽस्ति तज्जये ॥ १५९ ।। अथोत्फुल्लमुखाम्भोजमभ्यधत्त सुयोधनः । को नामायं झगित्येव कथ्यतां कथ्यतामिति ॥ १६० ॥ पाण्डवचरितम् । २१३ बभाषे सौबलः श्रीमन्देवता इव देवनाः । परं मयि प्रसीदन्ति नातिकामन्ति मे मनः ॥ १६१ ॥ नित्यं दुरोदरक्रीडात्यक्तव्रीडो युधिष्ठिरः। असौ क्रीडितुमाहूतः क्षणं न स्थातुमीहते ॥ १६२ ॥ देवितुं च न वेत्त्येव वीर खिद्यस्व मा म तत् । केनापि छद्मना स्वस्मिन्नयमाहूयतां पुरे ॥ १६३ ॥ तल्लक्ष्मीमखिलां येन करमारोहयामि ते । परं सर्वोऽयमालोचः पितुः स्वस्य निवेद्यताम् ।। १६४ ॥ दुर्योधनोऽभ्यधान्नाहमाख्यातुमिदमीश्वरः । सर्वमेतन्महीभर्तुस्त्वमेव कथयिष्यसि ।। १६५ ॥ इत्यन्योन्यकृतालोचसूत्रितोपायनिर्णयौ । शकुनिर्धार्तराष्ट्रश्च ताविन्द्रप्रस्थमीयतुः॥ १६६ ॥ प्रविश्य सहसा तत्र धृतराष्ट्रमहीपतिम् । न्यञ्चत्पञ्चाङ्गमानम्य तावुपाविशतां पुरः ॥ १६७ ॥ मुखकूलंकषोत्तालनिश्वासलहरीमुचम् | दुर्योधनं प्रियं पुत्रं धरित्रीपतिरब्रवीत् ॥ १६८ ॥ वत्स वल्गन्ति निश्वासा दीर्घदीर्घाः किमद्य ते। प्रस्तुतस्तत्र केनापि किं तवापि पराभवः ॥ १६९ ॥ जातवेदसि को दातुं झम्पासंपातमीहते । आच्छेत्तुमिच्छति स्वैरं कः फणीन्द्रफणामणिम् ॥ १७०॥ ततः शकुनिरह्वाय महीपतिमवोचत । राजन्सुतं तवेन्द्रोऽपि पराभवितुमप्रभुः ॥ १७१ ॥ अन्यत्किमपि तद्दुःखमस्त्यन्तस्तनयस्य ते । येनैष म्लानिमानिन्ये तरुवत्कोटराग्निना ॥ १७२॥ उवाच भूपतिर्वाचं चिन्ताचान्तमनाः पुनः । चिन्तयन्नपि पश्यामि न ते दुःखस्य कारणम् ॥ १७३ ॥ २१४ काव्यमाला। विनयाञ्चितमूर्धानो बान्धवाः सुहृदोऽप्यमी । गुरोर्गिरमिवाश्रान्तं नातिकामन्ति ते वचः ॥ १७ ॥ दूरापास्तकिरीटेषु गलन्माल्येषु मौलिषु । वत्सेदानीं तवाज्ञेव भूभृतामवतंसति ।। १७५ ॥ किंच ते पुरमप्येतत्कुबेरपुरजित्वरम् । जुगुप्सिताप्सरोरूपास्तव शुद्धान्तयोषितः ।। १७६ ।। जितदिग्दन्तिसंतानमिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्वदेशमुज्जृम्भतेव च ।। १७७ ।। तव श्रीवेश्मनि स्मेरप्रभापिञ्जरिताम्बराः । दृश्यन्ते सुरशैलेन्द्रसपत्ना रत्नराशयः ॥ १७८ ॥ तव सौधं विनिर्धूतविमानं मानवेश्वर । अश्नासि च यथा स्वादु स्वैरं परिदधासि च ॥ १७९ ।। तदित्यालोचयन्खेदनिदानं ते न देह्यहम् । अन्यत्किमपि चेत्कथ्यं कथ्यतां वत्स तन्मम ॥ १८० ॥ व्याजहाराथ नीहारस्पृष्टपङ्केरुहाननः । मन्युसंभारसोत्कम्पवपुरुच्चैः सुयोधनः ॥ १८१ ।। तात यत्सत्यमस्त्येव श्रीर्ममेयमनुत्तरा । शश्वन्मनसि वास्तव्या यस्य त्वत्पादपांसवः ।। १८२ ॥ तृणाय सर्वमप्येतत्किं तु मन्येऽहमात्मनः । झलज्झलायितां दृष्ट्वा तपस्तनयसंपदम् ॥ १८३ ॥ नदी मोदयते तावद्यावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो यावन्नोदेति भानुमान् ॥ १८४ ॥ किं श्रियो यासु नोत्कर्षतारतम्यस्य विश्रमः । किं शूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् ॥ १८५ ॥ चित्ररूपापि मे संपत्सर्ववर्णमनोरमा । चण्डैः पाण्डुसुतौन्नत्यधूमैर्ध्यामलिताधुना ॥ १८६ ॥ पाण्डवचरितम् । २१५ क्षीयेऽहमसिते पक्षे यामिनीकामिनीशवत् । विरोधिनस्तु वर्धन्ते तमस्तोमा इवान्वहम् ॥ १८७ ॥ हेमन्तहिमसंभारे स्फारीभवति वैरिणि । भाति मे कोऽपि निर्लज्जो निस्तेजाः स्वं प्रकाशयन् ॥ १८८ ॥ स्तुमो जलधिमेवैकमशेपितजलाशयम् । वल्गत्यपि रिपौ ग्रीष्मे यस्याभ्युन्नतिरीदृशी ।। १८९ ॥ नानारत्नप्रभाजालदत्तसंध्याभ्रविभ्रमाम् । संसदं तां तपःसूनोर्वासिवोऽप्यभिलापुकः ॥ १९० ॥ ध्यायन्ति हृदये नित्यं विस्मृताशेषदेवताः । परब्रह्मेव भूपालास्तस्याज्ञामेव केवलम् ॥ १९१ ॥ नमन्नृपतिकोटीरमणीनामपि दुर्धराः । सहन्ते न महस्तस्य पादाम्भोजरजःकणाः ॥ १९२ ॥ हर्म्याङ्गणे नृपास्तस्य मण्डलीवन्धशालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते प्रस्तुतान्योन्यसंकथाः ।। १९३ ।। भूपालोपायनायातैर्गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दाननिर्जितैरिव नीरदैः ॥ १९ ॥ तत्तुरङ्गखुरोत्खातैः पांशुभिस्तलिनावनिः । बभूव भूभृतोऽप्यासन्नत्युच्चाः शृङ्गसङ्गिभिः ॥ १९५ ।। तद्वेश्मन्युपदारत्नकूट कान्तितिरोहितः । लक्ष्यतेऽप्युदितोऽप्यर्कः समाकमलिनीस्मितैः ।। १९६ ॥ तदेतत्तात निःशेष पश्यतस्तस्य मन्दिरे । द्विधेव हृदयं मेऽभूद्विदलसंधिबन्धनम् ॥ १९७ ॥ अथाभ्यधत्त संरम्भाद्धृतराष्ट्रः सुयोधनम् । धिग्वत्स मत्सरः कोऽयमस्थाने ते गरीयसः ॥ १९८॥ लक्ष्मीरसंस्तुतानामप्यानन्दाय महीयसः । किं पुनः प्रेम सर्वस्वशालिनां कुलजन्मनाम् ॥ १९९ ॥ १. तलिना विरला. २१६ काव्यमाला। वलक्षमुदये भानोः पुण्डरीकं विकस्वरम् । मलिनं पश्य संकोचमन्दमिन्दीवरं पुनः ॥ २०० ॥ ममैवेति तपःसूनोः किं न चिन्तयसि श्रियः । प्रथन्ते मन्मथस्यैव वसन्तस्य हि संपदः ॥ २०१ ॥ नन्वात्मीय एवायमात्मीयानां खलूदयः । किं नाम्भोधिः स्पृशेल्लक्ष्मीमुदये मृगलक्ष्मणः ।। २०२ ॥ तदानन्दपदे वत्स विषादस्ते न सांप्रतम् । कोऽयं राकानिशीथिन्यामन्धकारः प्रगल्भते ॥ २०३ ॥ इत्यूचिवांसमाह स्म धराधीशं सुयोधनः । न तथा बाधते तात मल्लक्ष्मीर्मामनुत्तरा ॥ २०४ ॥ यथा तस्यां सभायां तैः पाञ्चालीसचिवैः कृतः । प्रहासो बाधते तं च मातुलः कथयिष्यति ॥ २०५॥ अथाख्यद्धृतराष्ट्राय मूलतः सौबलस्तदा । यथा यथा हसन्ति स पाण्डवेयाः सुयोधनम् ॥ २०६ । दुर्योधनोऽभ्यधाद्भूयः कृष्णया सममाददे । संपदं यदि (ये) तेषां तत्तात जीवामि नान्यथा ॥ २०७ । किं गण्यते स जीवन्यः परिक्लिष्टोऽपि जीवति । किमिन्दोरुदयः सोऽपि यः पयोदैस्तिरोहितः ॥ २०८ ॥ खञ्जिताभ्घ्रेर्वने दैवाद्गतविक्रमतेजसः । वरं मृत्युर्मृगारातेर्न करिभ्यः पराभवः ॥ २०९ ॥ इति व्याहरति क्रोधात्तस्मिन्नामलीमसे । धृतराष्ट्रः पुनर्वाचमुवाच गरिमोचिताम् ॥ २१० ॥ पाण्डवेयैः सहास्माकं शस्त्राशस्त्रि कथामपि । कुर्वतां स्वर्वति क्षिप्रं कीर्तिर्लज्जा तु दीर्घति ॥ २११ ।। सवंश्यैः समरारम्भनूतनाम्भोदवारिमिः । करोषि कुरुवंशेऽस्मिन्किं कलङ्कनवाङ्कुरम् ॥ २१२ ॥ पाण्डवचरितम् । २१७ वर्षीयानपि भूपालः पुत्रवात्सल्यपिच्छलः । नूनं जातस्तनूजानां यच्छिनत्ति न मत्सरम् ॥ २१३ ।। इति विश्वेऽपि कि विश्वे परीवादं ददासि में। तदेतसादपस्माराद्विनिवर्तितुमर्हसि ॥ २१४ ॥ (युग्मम्) सर्वैरप्यात्मनो मागाः सहायैस्त्वमहंयुताम् । नयेयुः पाण्डवेया हि वीरलक्षानपि क्षयम् ॥ २१५ ॥ इति भाषिणि भूमीन्दौ जगाद शकुनिः शनैः । एकमौपाधिकं वेद्मि स्वीकारे पाण्डवश्रियः ।। २१६ ॥ पतन्ति पत्रिणो यस्मिन्नाङ्गे कस्यापि संगरे । अकीर्तिश्च न विस्फूर्तिमियर्ति जगति क्वचित् ॥ २१७ ॥ द्यूतक्रीडामहं वेद्मि न पुनस्तपसः सुतः। तया हरामि तल्लक्ष्मीमनुजानीत चेद्भवान् ॥ २१८ ॥ धार्तराष्ट्रोऽब्रवीत्तात त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपायामिमां मातुलभारतीम् ॥ २१९ ।। ऊचे नृपतिराहूय विदुरं गजसाह्वयात् । तस्यालोचेन निश्चेष्ये स्थितो यस्यास्मि शासने ॥ २२० ।। खिन्नः सुयोधनोऽप्याह त्वं चेदालोचयिष्यसि । न दास्यति मतं तेऽसौ ततो मृत्युर्मम ध्रुवम् ॥ २२१ ॥ मृते च मयि राजेन्द्र विदुरेण सुखी भव उभावपि समेतौ च भुञ्जीयाथां मही मिमाम् ॥ २२२ ॥ उन्नमय्य मुखं स्नेहात्पाणिना शिरसि स्पृशन् । अथ रुष्टमभाषिष्ट धृतराष्ट्रस्तनूद्भवम् ॥ २२३ ।। लक्ष्मीस्ते हास्तिकप्राज्या स्वाराज्यस्यापि जित्वरी। धर्मात्मजन्मनो लक्ष्म्याः किंचनापि न हीयते ॥ २२४ ॥ अथाद्भुता सभा तादृङ्मम नास्तीति खिद्यसे । मा खिद्यस्व तथा कुर्वे यथा स्याः पूर्णवाञ्छितः ॥ २२५ ॥ काव्यमाला। 218 तनूजं सान्त्वयित्वेति धृतराष्ट्रोऽतिशापिनीम् । सभां निर्मातुमादिक्षत्तत्क्षणं स्थपतीश्वरान् ॥ २२६ ॥ निर्ममे तैस्तपःसूनुसभासब्रह्मचारिणी । शतद्वारा मणिस्तम्भसहस्रसुभगा सभा ॥ २२७ ।। सर्वसंदेहसंदोहभिदुरं विदुरं ततः । आप्तैराकारयामास भूपतिर्हस्तिनापुरात् ॥ २२८॥ आगत्य प्रणयप्रह्नः प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविक्षत्प्राञ्जलिर्विंदुरः पुरः ॥ २२९ ॥ सुतसौबलयोः सर्वं कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य तमालोचमचीकथत् ॥ २३०॥ अथोचे विदुरस्तीव्रविषादच्छिदुराशयः । युष्मन्मन्तेरोऽयमन्त्राणि हहा मेऽन्तर्निकृन्तति ॥ २३१ ।। वचो विद्यानवद्यानां नान्यथा भवति क्वचित् । कुलारण्यैकदावाग्निरुत्थितोऽयं सुयोधनः ।। २३२ ॥ किं न श्रुतं यथापूर्वं नलकूबरयोरपि । अनर्घफल एवायमभूद्यूतविषद्रुमः ॥ २३३ ॥ तथा हि कोसलेष्वस्ति कोशास्तधनदैर्जनैः । अलकाविजयप्रौढकौशला कोशलापुरी ॥ २३ ॥ तस्यामासीद्यशोम्भोधिप्लाविताशेषभूतलः । कृतवैरिवधूहारनिषेधो निषधो नृपः ।। २३५ ।। तस्याभूत्तनयो वैरिकुलकालानलोऽनलः। द्वितीयः खण्डितारातिडम्बरः कूबरः सुतः ॥२३६॥ वेत्रिणा वेदितोऽन्येयुरुपगम्य प्रणम्य च । दूतः कश्चिन्महीपालं मीलिताञ्जलिरब्रवीत् ।। २३७ ।। विदर्भेषु भुवः कर्णकुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीयस्तस्मिन् भीमरथो नृपः ॥ २३८ ॥ पाण्डवचरितम् । २१९ तस्य निःसीमरूपश्रीर्दमयन्तीति विश्रुता । तनयास्ति जगन्नेत्रकुमुदानन्दकौमुदी ॥ २३९ ॥ नेत्रपीयूषवापीं तां निर्माय नियतं विधिः । स एवायमुतान्योऽस्मि विस्मयादित्यचिन्तयत् ।। २४०॥ हित्वा जलाशयान्हंसाः कैलाससरसीमिव । गुणाः स्वयं श्रयन्ति स संश्रयस्पृहयैव ताम् ।। २४१ ॥ तनोति नित्यमद्यापि देवी वाचामधीश्वरी। अक्षावलिच्छलात्तस्या गुणौघगणनामिव ।। २४२ ।। शश्चन्मनसि कुर्वाणा केवलं धर्ममार्हतम् । तत्यजे तद्धयेनेव पापवार्ताभिरप्यसौ ॥ २४३ ॥ अनुरूपो वरः कश्चिदुहितुर्मे भवत्विति । स्वयंवरमुपाक्रंस्त तत्कृते भीमभूपतिः ॥ २४४ ।। सर्वानाहातुमुर्वीशानन्यान्वैदर्भभूपतिः । प्राहिणोदपरान्देवदूतानाकूतकोविदान् ॥ २४५ ॥ अहं तु देवपादानामन्तिके मेदिनीभृता । प्रहितः परमात्मेव स्वस्वरूपमुमुक्षुणा ॥ २४६ ॥ तन्निजाभ्यां कुमाराभ्यां सहाभ्येत्य स्वयंवरम् । भूमीन्दो भीमभूजालमानन्दयितुमर्हसि ॥ २४७ ॥ मेदिनीशोऽपि तद्वाचमोमिति प्रतिपद्य ताम् । आदिदेश विदर्भेपु प्रस्थानाय वरूथिनीम् ॥ २४८॥ प्रजासंजनितत्रासं निग्रहीतुमिवान्तकम् । प्रत्यपाचीं दिशं सैन्यैः प्रतस्थेऽथ प्रजापतिः ॥ २४९॥ क्रमात्प्रत्युद्गतः प्रीत्या विदर्भपृथिवीमुजा। विवेश क्षोणिषट्खण्डमण्डनं कुण्डिनं नृपः ॥ २५०॥ नलं विलोक्य कंदर्पफल्पद्रुनयकन्दलम् । द यति ल वैदर्भजनोऽन्यानवनीभुजः ॥ २५१ ।। २२० काव्यमाला। कुण्डिनेशनिदेशेन नेदीयःकेलिकानने । निवासानग्रहीत्प्रीत्या महीपतिपताकिनी ॥ २५२ ।। यथौचित्यधृताकल्पास्तेऽथ कल्पद्रुमा इव । मञ्चानुच्चैरलंचक्रुः क्षोणिशक्राः स्वयंवरे ॥ २५३ ॥ कोशलापतिरप्येकं माणिक्यमयमद्भुतम् । कुमाराभ्यां समारोहन्मञ्चमुच्चूलशालिनम् ॥ २५४ ॥ क्षत्रियाणामगाल्लक्ष्मीनक्षत्राणामिव क्षणात् । विश्वभास्वत्युपारूढे मञ्चपूर्वाचलं नले ॥ २५५ ॥ नवपर्युप्तवैडूर्यमौक्तिकप्रायभूषणा । मधुव्रतकुलाकीर्णपुष्पास्तीर्णेव माधवी ॥ २५६ ।। होत्फुल्लचलच्चेटीकृतालोकध्वनिस्ततः । लक्ष्मीर्मूतव वैदर्भी विवेशान्तःस्वयंवरम् ॥ २५७॥ (युग्मम्) इमां रतिशचीलक्ष्मीपार्वतीरूपजित्वरीम् । निर्याय महतो जज्ञे निर्वादस्य पदं विधिः ॥ २५८ ॥ स्मरेन्द्रमुरजित्कण्ठेकाललीलाजयी न यत् । अनेन निर्ममे कश्चिदित्यतर्कि जनस्तदा ॥२५९॥ (युग्मम्) मनोभिः सर्वभूपानां वितन्वद्भिर्गतागतम् । अन्तराध्वा तदङ्गानां तदा पाणिंधमोऽभवत् ॥ २६० ॥ शृङ्गाररसपूर्णायां केदारभुवि शालिवत् । जातः स्तम्बकरिस्तस्यामभिलाषो महीभुजाम् ॥ २६१ ।। तां वीक्ष्य पुण्यतारुण्यां नलोऽप्यन्तरचिन्तयत् । कात्यायन्या तपस्वी धिग्मृडः कामं विडम्बितः ।। २६२ ॥ अथ तस्याः सरोद्रेकसूत्रितानेकविभ्रमान् । नामग्राहं महीपालान्दर्शयामास वेत्रिणी ॥२६३ ॥ देवि तैस्तैर्गुणैः सोऽयमगाधो मगधाधिपः। वपुर्लावण्यकल्लोलैर्जितानङ्गोऽयमङ्गराट् ।। २६४ ॥ पाण्डवचरितम् । २२१ एष विद्विषतां लुप्तसप्ताङ्गो वङ्गभूपतिः । वारितारिकुरङ्गाक्षीशृङ्गारोऽयं कलिङ्गराट् ।। २६५ ।। असौ भग्नरिपुस्त्रैणकङ्कणः कुङ्कणेश्वरः । शत्रुवित्रासनाढ्यैकनयेऽयं लाटनायकः ॥ २६६ ॥ प्रत्यर्थिप्रार्थितप्राणत्राणोऽयं हूणदैवतम् । असौ जनितविद्वेषिडिम्बः कम्बोजभूमिभुक् ॥ २६७ ॥ इत्थमस्थास्तुमेतेषु सिन्दुवारेष्विवालिनीम् । दृशमुद्वीक्ष्य वैदर्भ्याः पुनीर्दौवारिकी जगौ ॥ २६८ ॥ देवि पश्य पुरः सोऽयं निषधाया विशेषकः । विवेकविक्रमन्यायनिधिर्निषधभूपतिः ॥ २६९ ॥ एतौ च पुरतोऽमुष्य तनयौ नलकूबरौ । शम्भोरसूययेवाभूद्विमूर्तिरिव मन्मथः ॥ २७० ।। सारिणीवारिवच्चक्षुस्तस्याः सिञ्चन्नृपद्रुमान् । पपात बृहदावाले शाखिनीव नले चिरम् ॥ २७१ ॥ उच्चरन्प्रौढरोमाञ्चमथ सैतदचिन्तयत् । देवः किमागतः कामः स्वयमेव स्वयंवरम् ॥ २७२ ॥ अनेकविरहिस्त्रैणहत्यापातकिनोऽथवा । कुतस्तस्येदृशी मूर्तिर्मालतीदलकोमला ॥ २७३ ॥ प्रकामकमनीयेऽस्मिन्निर्मितेऽम्भोजभूर्धुवम् । अनुरूपगुणग्रामनिर्माणे विक्लवोऽभवत् ।। २७४ ॥ नमोऽस्तु विधये तस्मिन्नोपकारो ममापरः । कृतार्थयितुकामेन येन मामयमाददे ॥२७५ ॥ चिन्तयन्तीदमानन्दाद्दमयन्ती सवेपथुः । वरमालां निचिक्षेप नलस्य गलकन्दले ॥ २७६ ॥ तत्पाणिनखमाणिक्यमयूखैररुणीकृता ।
गुम्फितेव बभौ पुष्पैः सानुरागं द्रुमोद्भवैः ॥ २७७ ॥उल्लङ्घय भूभृतः सर्वान्वैदर्भीसरिताश्रिते ।
नलाम्भोधौ बभूवुस्ते श्यामास्तत्सैवलैरिव ॥ २७८ ॥
भीमस्य निषधस्थापि स्वजनप्रीतिगङ्गया।
द्विषदप्रीतिकालिन्द्या तत्प्रयागायितं सदः ॥ २७९ ॥
कोशलेश्वरभीमाभ्यां यथामनसमुच्चकैः ।
ओरभे नलवैदर्भ्योर्विवाहमहिमोत्सवः ॥ २८० ॥
अतःप्रभृति जन्मान्तं प्राणा अपि ममैव ते ।
इतीव दक्षिणं पाणिमाददातामिमौ मिथः ॥ २८१ ॥
मन्ये विलीय निर्गत्य पाणिपीडनपर्वणि ।
तयोरगच्छतामैक्यं मनसी स्वेदकैतवात् ॥ २८२ ॥
प्रदक्षिणीकृते वह्नौ हस्तमोचनपर्वणि ।
भीमो नलाय दत्ते म रलाश्वेभादिकं बहु ॥ २८३ ॥
निषधापतिरादाय सवधूकमथात्मजम् ।
भीमेनानुगतो हर्षादचलत्कोशलां प्रति ॥ २८४ ॥
कांचिदप्यवनीं गत्वा निदेशात्कोशलेशितुः ।
निवृत्तः कुण्डिनाधीशस्तनूजामन्वशादिति ॥ २८५ ॥
व्यसनेऽपि भवेर्वत्से पतिवर्त्मानुवर्तिनी ।
पतिमेव पर प्राहुर्दैवतं हि मृगीदृशाम् ॥ २८६ ॥
प्रतिगृह्य नमन्मौलिरनुशिष्टिमिमां पितुः ।
नलस्य रथमारुह्य प्रतस्थे भीमनन्दिनी ॥ २८७ ॥
नलः कान्तावपुःस्पर्शलालसः किल वर्त्मनि ।
स्यन्दनं सादिनावन्यामुद्धातिन्यामनाययत् ॥ २८८ ॥
ज्ञातेऽप्यङ्गादिकप्रश्ने गद्गदे तद्वचःप्रियः ।
किं ब्रवीषीति भूयोऽपि भैमीं वक्तिम नैषधिः ॥ २८९
अनुरागो नले भैम्या दिनान्ते वा ममाधिकः ।
इति ज्ञातुमिवागच्छत्संध्या सैन्यस्य गच्छतः ।। २९० ॥
त्रपाबन्दिग्रहात्काममाकर्षन्ती विदर्भजाम् ।
आगात्तमी ततः सैन्यैः सखीव हृदयंगमा ॥ २९१ ॥
नवं नलकरस्पर्शचुम्बनालिङ्गनादिकम् ।
वेत्रीव दर्शयन्भैम्या जजृम्भे तिमिरोत्करः ॥ २९२ ॥
तथापि पथि नावासानग्रहीनिषधापतिः।
स्वपुरं प्रति लोकानामुत्कण्ठा हि बलीयसी ॥ २९३ ॥
नलेन दमयन्त्या च ब्रजद्भ्यामथ वर्त्मनि ।
कर्णामृतमिवाश्रावि रोलम्बतुमुलध्वनिः ॥ २९४ ॥
नलं भैमी बभाषेऽथ नाथ नात्र विभाव्यते ।
रम्या गुमावलिः काचित्तत्किं कोलाहलोऽलिनाम् ॥ २९५ ॥
रम्भोरु तिमिरैः किंचित्कारणं नावगम्यते ।
निवेदिते नलेनेति भैमी भालं खमामृशत् ॥ २९६ ॥
तदैवाविरभूत्तस्यास्तिग्मदीधितिबान्धवः ।
त्रासयन्सैन्यलोकस्य लोचने तिलकोऽलिके ॥ २९७ ॥
ततोऽपृच्छन्नलस्तन्वि किमेतदिति विस्मितः।
साप्युवाच मम स्वामिञ्जन्मसब्रह्मचार्यसौ ॥ २९८ ॥
तदुद्धतेन मत्तालिकुलदंशस्तु(स्नु)ता सृजम् ।
तौ मुनि कंचिदेक्षेतां दम्पती प्रतिमास्थितम् ॥ २९९ ॥
गण्डकण्डूमपाकर्तुं केनचिद्वनदन्तिना ।
घट्टितोऽयं स्फुटं ध्यानस्थेमवान्स्थाणुशङ्कया ॥ ३०० ॥
तदीयमदसंसक्तद्विरेफैरप्यनुद्रुतः ।
समाधेर्नायमभ्रश्यत्तद्वहत्यस्य कस्तुलाम् ॥ ३०१ ॥
इत्यन्तस्तर्कयन्तौ तमादाय निरुपद्रवम् ।
उल्लसत्प्रीतिकल्लोलविक्लवौ तौ प्रणेमतुः ॥ ३०२ ॥
(त्रिभिर्विशेषकम् )
प्रतिमामुपसंहृत्य मुहूर्तेन महामनाः।
जगाद स मुनिर्ज्ञानी धर्मस्थेमकरी गिरम् ॥ ३०३ ॥
न धर्मों नूतनः कोऽपि युवयोरुपदिश्यते ।
ययोर्भूतं भवद्भाविजन्मधर्मैकबन्धुरम् ॥ ३०४ ॥
चतुर्विशतिमुद्दिश्य दमयन्ती जिनेश्वरान् ।
तपश्चक्रे ददौ रत्नतिलकांश्च पुराभवे ॥ ३०५ ॥
तेनास्याः शाश्वतं भालस्थलालंकरणं नवम् ।
अस्मिञ्जन्मनि मार्तण्डविडम्बी तिलकोऽभवत् ॥ ३०६ ॥
जन्मान्तरे यथा सिक्तः कुमार भवताप्यसौ ।
धर्मद्रुः फलितः शश्वजज्ञे तैस्तैः फलैर्यथा ॥ ३०७ ॥
अधिगम्यार्हतं धर्ममागामिन्यपि जन्मनि ।
सर्वकल्याणकल्लोलपारावारौ भविष्यथः ॥ ३०८॥
तामित्यमृतसध्रीचीं तैा निशम्य मुनेगिरः ।
प्रतस्थाते रथारढौ प्रौढप्रहादमेदुरौ ।। ३०९ ॥
पुरीपरीसराराममुपेयुषि नृपे क्रमात् ।
नल: प्रमोदसंफुल्लः प्रेयसीमित्यवोचत ॥ ३१०॥
देवि पश्य निजश्रीभिर्जयन्तीममरावतीम् ।
तव श्वसुरसंतानराजधानीमिमां पुरीम् ॥ ३११ ॥
इतः क्रीडातडागानि केलिधात्रीधरा इतः ।
इतो लीलावनश्रेणिरितः प्रमददीर्घिकाः ॥ ३१२ ॥
इत्यादि तत्तदुन्मीलत्प्रमोदलहरीजुषः ।
अदर्शयन्नथादर्शो विदर्भदुहितुर्नलः ॥ ३१३ ॥ (युग्मम्)
वधूवरं पुरस्कृत्य प्रारब्धविविधोत्सवम् ।
विवेश निषधः शक्रसंकाशः कोशलापुरीम् ॥ ३१४ ॥
तस्यामुद्वीक्ष्य वैदर्भी जिनवेश्मनि भूरिशः ।
पत्या नलेन मेने खं पुमर्थत्रयशालिनम् ॥ ३१५ ॥
समं नलस्य निर्व्रीडं क्रीडतः कान्तया तया ।
दिनैर्यामायितं कामं क्षणदाभिः क्षणायितम् ।। ३१६ ॥
क्रीडादिललितैर्जातु जातु काननकेलिभिः ।
दोलालीलायितैर्जातु जातु वारिविगाहनः ।। ३१७ ॥
कुसुमावचयैर्जातु जातु मालाभिगुम्फनैः ।
उत्तंसरचनैर्जातु नयतः स्म दिनानि तौ ॥ ३१८ ॥
अथान्यदा नलं न्यस्य राज्ये निपधभूपतिः ।
कूवरं यौवराज्ये च परिव्रज्यामुपाददे ॥ ३१९ ॥
तस्मिन्त्राज्ये प्रजाः सर्वारतरङ्गितधनोदये ।
अध्यारोहन्परां लक्ष्मीं तपात्यय इवापगाः ॥ ३२० ॥
चूर्णीकृत्य प्रतापाग्नौ रिपुस्त्रीहारवल्लरीम् ।
स कामं धवलीचके यशःप्रासादमात्मनः ॥ ३२१ ॥
प्रतापमिव कल्पाग्निसंपन्नमसहिष्णवः ।
ममज्जुर्द्विपदुर्वीशश्रियस्तस्याभिचारिणि ॥ ३२२ ॥
स सैन्यैः साधयामास भरतार्धमधिद्युतिः ।
करैरुप्णांशुमालीव गगनार्धमशेषतः ॥ ३२३ ॥
भरतार्धाधिराजस्य राजानस्तस्य तेनिरे ।
संभूय भूरिसंभारमभिषेकं हरेरिव ॥ ३२४ ॥
कूबरः क्रूरचेतास्तु तस्य राज्याभिलापुकः ।
रन्ध्राण्यन्वेषयामास मृगारेरिव जम्बुकः ॥ ३२५ ॥
नलस्तु सह तेनैव बान्धवप्रीतिबन्धुरः ।
नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ ३२६ ॥
अन्येाद्युस्तुं गम[१]चरवन्धमोक्षसुधीरपि ।
कूबरं देवनैर्देवाज्जेतुं नालं नलोऽभवत् ॥ ३२७ ॥
नलस्य काङ्क्षितो नाक्षः पतति स्म कथंचन ।
मारयामास तच्छारीन्भूयोभूयस्तु कूबरः ॥ ३२८ ॥
नगरपामखेटादि हारयन्नभवन्नलः ।
गलल्लक्ष्मीः पतत्यक्षे शशीव विशदेतरे ॥ ३२९ ॥
१. गमचरावक्षद्यूतप्रभेदौ
विषसाद जनः सर्वः कूबरस्तु मुदं ययौ ।
दुःखी ध्वान्तो हि लोकोऽयमुलूकः पुनरुन्मदः ॥ ३३० ॥
आकर्ण्य लोकहाकारं कोलाहलमुदित्वरम् ।
अभ्यधान्नलमभ्येत्य सभयं भीमनन्दिनी ॥ ३३१ ॥
खामिन्कोऽयं विपर्यासः संप्रत्यभिनवस्तव ।
विनोदमात्रमेवैतद्दुरोदरमुदीरितम् ॥ ३३२ ॥
त्वादृशा अपि चेदमिन्मज्जेयुर्व्यसनार्णवे ।
ततस्तारयिता कः स्यान्मज्जन्तां मन्दमेधसाम् ॥ ३३३ ॥
प्रतिपक्ष इवाक्षोऽयं तवाद्य प्रातिलोमिकः ।
इयत्यपि गते तस्मादपाकुरु दुरोदरम् ॥ ३३४ ॥
अभिषिञ्च स्वयं राज्ये भ्रातरं कूबरं वरम् ।
प्रसह्य हृतराज्यस्तु बाढमुत्प्रासयिष्यसे ॥ ३३५ ॥
गिरमित्यादिकामुच्चैरुच्यमानां नलस्तया ।
न विन्दति स्म गम्भीर[२]वेदीव निशितां शृणिम् ॥ ३३६ ॥
अथातपुरुषैर्भैमीनिदेशाज्जगदे नलः ।
वृथैव पृथिवी किंतु हार्यते कृच्छ्रतोऽर्जिता ।। ३३७ ॥
किं न द्यूतं परित्यज्य जीवयस्यनुजीविनः ।
शुष्के हि सरसि ग्रीष्मे कियन्नन्दन्ति दर्दुराः ॥ ३३८ ॥
इत्येषामप्यनादृत्य वचश्चिक्रीड नैषधिः।
विपर्येति भृशं पुंसां बुद्धिः क्रुद्धे हि वेधसि ॥ ३३९ ॥
नलस्ततोऽवरोधेन समं भैमीमहारयत् ।
तारकाभिः सह प्रातः कौमुदीमिव चन्द्रमाः ॥ ३४०॥
हारयामास भूपालः शरीरामरणान्यपि ।
वसन्तव्यत्ययारम्भे कुसुमानीव चम्पकः ।। ३४१ ॥
जगर्ज जगतीनाथः श्रीलाभे कूबरोऽधिकम् ।
दुर्धराः सरितामोघाः प्राप्ता ह्यम्भोधिसंपदः ।। ३४२ ॥
१. दुर्धरहस्तीव।
राज्यभ्रंशे भुवो भर्तुः प्रजाश्चनान्दुरुणकैः ।
कुलायभूरुहे भङ्गे परिणामिय पङ्कयः ॥ ३४३ ॥
कृवरो नलमित्यूने मदीयां मुज्ज मेदिनीन् ।
पिता दत्ते स्म ते राज्यं ममेदानी तु देवताः ॥ ३४४ ॥
गर्वं किमपि माकापीर्न दूरे दोर्भृतां श्रियः ।
इत्युक्त्वान्बरखण्डैकमात्र श्रीरचलन्नळः ॥ ३४५ ॥
मया जितासि मा यासीर्मद्न्तपुरमाश्रय ।
नलानुयायिनीं भैमीमित्यवोचन कूचरः ॥ १४६ ॥
ततन्तमूचिरे पौगः किमेतां प्रतिपित्यासि ।
मृत्युमाप्नोति शार्दृल्याः पतियन्मृगधूर्तकः ॥ ३१७ ॥
मातृवद्दयितां भ्रातुत्वत्त्वमेतां नहासतीम् ।
प्रणम्य ग्यमारोप्य प्रेपय प्रयसा सह ॥ ३४८ ॥
इत्युक्तस्तैर्नमस्कृत्य वैदर्भीरथमर्पयत् ।
अलं तय रथेनापि नलेनेति न्ययेधि सः ॥ ३४९ ॥
नृपागारात्पुरस्कृत्य प्रेयसीमतिधीरधीः ।
नलोऽचलन्मुखाम्भोजात्पदार्थ इव् भारतीम् ॥ ३५० ॥
प्रियानुव्रज्य यातन्य प्रस्थितस्य शनैः शनैः ।
प्रयाणपटहैर्जातमाक्रन्दैर्नुजीविनाम् ॥ ३५१ ॥
लीलाकुरङ्गकक्रीडासारिकाकेलिर्बार्हणः ।
गृहपारावताः सद्मकीरवापीसितच्छदाः ॥ ३५२ ॥
.
प्रेयांसमनुगच्छन्तीमनुजानीत मां मनाक् ।
वदन्तीति तदा भैमी करयाद्रि नाकरोन्मनः ॥ ३५३ ॥
(युग्मम् )
पुरे पौरवधूनेत्रैः प्रारब्धप्रावृपि क्षणात् ।
तस्याः प्रियानुगामिन्याः प्रससुः प्रीतिवीरुधः ॥ ३५४ ॥
धिग्विधिं यो नलस्यापि दशामेतामदर्शयत् ।
न धिग्वास्य स्वभावोऽयं चन्द्रमस्यपि दृश्यते ॥ ३५५ ॥
चिकीर्षेयं तवासीञ्चेत्किं विधे भरतार्धभुक् ।
चक्रे नलस्त्वया यद्वा महारोहो महापदे ॥ ३५६ ॥
यां सती शापशङ्कीव करैः शूरोऽपि नास्पृशत् ।
सहते सा कथं भैमी पादचङ्क्रमणक्लमम् ॥ ३५७ ॥
धिक्कूबरं कुतोऽस्यापि स्थैर्यमेष्यन्ति संपदः ।
भ्रातरं भ्रातृजायां च य एवं निरवासयत् ॥ ३५८ ॥
इति व्रजति वैदर्भीसहाये नलभूपतौ ।
अन्तनगरमुच्चेरु गराणां गिरस्तदा ॥ ३५९ ॥
(पञ्चभिः कुलकम् ।)
तदा भैमीक्रमस्पर्शपूतंमन्येव मेदिनी ।
धावत्पौरजनोद्धूतरजोव्याजाद्दिवं ययौ ।। ३६० ॥
पौरामात्यादिभिलौकैरुपनीतानि कोटिशः।
निराकुर्वन्नलो यानान्यगच्छन्नगराद्बहिः ॥ ३६१ ॥
सह प्रस्थानवः कामं कुलामात्याः क्षमाभृता ।
तैस्तैर्वाक्यैः समं पौरैय॑वर्तन्त कथंचन ॥ ३६२ ॥
दुःखादभ्येत्य वैदर्भ्या विभाव्य मुखमुज्ज्वलम् ।
पौर्यः पुनर्ययुर्धाम तत्सतीत्वविकस्वराः ॥ ३६३ ॥
भीमात्मजानिभाल्लक्ष्मीमिवादाय नलोऽचलत् ।
गतेऽस्मिन्सर्वमप्यासीन्निर्लक्ष्मीकं कुतोऽन्यथा ॥ ३६४ ॥
पुरीपरिसरारामचारिमायैर्विनोदयन् ।
विदर्भदुहितुश्चक्षुर्नलोऽगच्छत्पुरः पुरः ॥ ३६५ ॥
भैम्याः पुराभवत्प्रीतिरातपत्रैर्न तावती ।
पत्या धृतोत्तरीयायाः पप्रथे पथि यावती ॥ ३६६ ॥
पार्थिवस्तां पथि श्रान्तां यत्र तत्रोपवेशिनीम् ।
निर्व्याजं वीजयामास खेदिनीं सिचयाञ्चलैः ॥ ३६७ ॥
क्वापि श्रमेण विश्रान्तं संवाह्य चरणौ चिरम् ।
पार्थिवः प्रार्थयांचक्रे पुरस्ताद्गमनाय ताम् ॥ ३६८ ॥
तां क्वचिन्मार्गत्वेदेन तरुन्छायानिपादिनीम् ।
नलोऽलिनीदलानीतपयः शीनमपाययत् ॥ ३६९ ॥
क्वचिच्च सत्त्वमालम्व्य पादसंवाहनद्धयता ।
भूपालेन वलाद्भैमी त्मितपूर्वमवार्यत ॥ ३७० ॥
अतीयतुः फलस्तैत्तैन्तौ मध्याह्वकृताह्विकौ ।
सेव्यमानौ सरन्तीरे शिशिरैस्यार्भिमारतैः ॥ ३७१ ॥
अन्योन्यनिबिडाश्लेषवीतचद्भमणक्लमौ ।
तौ लतामण्डप क्वापि निन्यतुः पथि यामिनीम् ॥ ३७२ ॥
अन्येद्युरुन्मदोत्फालव्यालव्याकुलितोदरम् ।
एकच्छत्रद्रुमच्छायामीयतुरतौ महाटवीम् ॥ ३४३ ॥
तामवस्वामिवोप्णांशुस्तयोरीक्षितुमक्षमः ।
विधौ क्रोधादियाताम्रो जगामात्वं नगान्तरम् ॥ ३७४ ॥
अधावन्नभितो दिग्भ्यस्ततारित्मिरवीचयः ।
वनान्तगहनध्वान्तबन्धुन्नेहोत्सुका इव ॥ ३७५ ॥
कान्तारसरितं कांचिद्गत्वा धाताभ्यदोःक्रमौ ।
ततो भूपश्च भमी च यथेच्छं पपतुः पयः ॥ ३७६ ॥
विश्रामाय लतावेझम क्रोडाङ्केल्लिपल्लवैः ।
नलः शिलातले रम्ये क्वापि तल्पमकल्पयत् ॥ ३७७ ॥
वृन्तैरपि वपुर्ग्लानिर्वैदर्भ्यामास्मभूदिति ।
उत्तरीयपटप्रान्तं स व्यधत्तोत्तरच्छदम् ॥ ३७८ ॥
समुच्चार्य ततः पञ्चपरमेष्ठिनमस्क्रियाम् ।
तौ स्म संविगतस्तस्मिन्मिथः संसक्तदोलती ॥ ३७९ ॥
अथाभाग्यभरैभैम्याः क्षमापालोऽन्तरचिन्तयत् ।
गन्तव्याया भुवः कान्तो विन्दुरस्त्यर्णवः पुरः ॥ ३८० ॥
देवीसखश्च गन्तास्मि तस्य पारीणतां कुतः ।
पथि स्वच्छन्दचारस्य प्रत्यूहो हि स्त्रियो महान् ॥ ३८१ ॥
तद्यामेतां परित्यज्य वनेऽस्मिन्सुखशायिनीम् ।
प्रातर्गच्छेदियं वेश्म पितुर्वा कूबरस्य वा ॥ ३८२ ॥
इत्यालोचयतस्तस्य निद्राति स्म विदर्भजा ।
मार्गसंपातखिन्नानां निद्रा ह्यभ्यर्णवर्तिनी ॥ ३८३ ॥
ततः शनैः परीरम्भमुद्रां निर्भिध नैषधिः।
क्रष्टुकामो निजं भैमीभुजसंवलितं भुजम् ॥ ३८४ ॥
गाढविश्रम्भसंरम्भादतिस्वच्छन्दशायिनीम् ।
तामजागरयन्नूचे नीचकैर्निषधापतिः ॥ ३८५ ॥ (युग्मम् )
मुञ्च मुच्च नलं मुग्धे चण्डालं कुलपांसनम् ।
स्पर्शेनाप्यस्य पापस्य पातकैरुपलिप्यसे ।। ३८६ ॥
सुप्तामेकाकिनीमेव वने विश्वस्तमानसाम् ।
प्रेमामृतस्त्रवन्तीं यस्त्वामपि त्यक्तुमिच्छति ॥ ३८७ ॥
कल्पद्रुमभ्रमान्मुग्धे श्रितासि विषपादपम् ।
तदवाप्नुहि निःशेषं फलं तस्यात्मकर्मणः ॥ ३८८ ॥
धिग्धातः कुर्वता मूढ वैदर्भीनलसंगमम् ।
हंसीकाकोलयोः कोऽयं त्वयाकारि समागमः ॥ ३८९ ॥
यदि वा सर्वदैवासि त्वमनौचित्ययोगकृत् ।
अमेध्यदोहदश्चके केतक्या कथमन्यथा ॥ ३९० ॥
इत्याकृष्य भुजं भूपो मन्दं मन्दं नलोऽवदत् ।
देवीक्रान्तमिदं वासश्छेत्तुं बाहो प्रसीद मे ॥ ३९१ ॥
यद्वा पूर्व त्वमेवास्या व्याप्तोऽसि करग्रहे ।
जातस्त्वमेव सर्वाङ्गसौरभ्यप्रथमातिथिः ॥ ३९२ ॥
तेन मन्येऽहमेतस्या दाक्षिण्यं दक्षिणस्य ते ।
सदा सध्रीचि किं नाम नलेऽसि त्वमदक्षिणः ॥ ३९३ ॥
तद्विधायानुरोधं त्वमसिधेनुमलंकुरु ।
क्षुरिकायामिति स्वैरं क्षितीशः पाणिमक्षिपत् ।। ३९४ ॥
तामूचे च मया कोशः समं राज्येन तत्यजे ।
तत्ते केयं मदीयाया कोशोऽप्यत्यागवासना ॥ ३९५ ॥
मम पाणिग्रहे यदा त्वमपि त्यागशद्किनी ।
मूढासि न हि भैमीय भवत्यप्यक्तिशृङ्गला ॥ ३९६ ॥
इत्याकर्ण्य खतेजोगिनमः कल्पान्तशिल्पिभिः।
हसन्तीमिव तां चक्रे पटसंश्लेषिणीं नलः ॥ ३९७ ॥
पुनर्जगाद तां देवीक्रान्तस्य मम बाससः ।
छेदाय क्षुरिके देवि प्रसीदायं कृतोऽञ्जलिः ॥ ३९८ ॥
यद्वा स्त्रीजातिकारुण्यविक्लवा न व्यवस्यति ।
कारुण्य कि हि निर्स्विशसुतायास्तव कथ्यताम् ॥ ३९९ ॥
इति चिच्छेद मंदम्विपतदश्रुकणाद्वितम् ।
मन्युसंभारनिर्भिन्नचेताश्चेलाञ्चलं नलः ॥ ४०० ॥
अव्रवीच्च दृशौ देव्याः कामं निद्रे निमीलयेः।
मा स्म भून्मम हिञ्जी[३]रः स्निग्धमस्या विलोकितम् ।। १०१॥
अस्मि त्यक्तस्त्वया देवि न व्यलीकशतैरपि ।
निर्व्यलीकामपि त्वां तु हा दुरात्मा त्यजाम्यहम् ॥ ४०२ ॥
मन्ये मे नेदमप्यागस्त्वव्यागस्त्वं गमिप्यसि ।
नाविर्भवति कौमुद्यां कजलस्यापि कालिमा ॥ ४०३ ॥
इयमापृच्छसे देवि प्रणामोऽयमपश्चिमः ।
त्वामपि क्षेप्तुमिच्छामि नात्मीयव्यसनार्णवे ।। ४०४ ॥
सतीव्रतपवित्रायाः कोऽपि नोपद्रवरतव ।
परं पूजैव ते गेहे पितुर्वा श्वशुरस्य वा ॥ ४०५ ॥
इत्युक्त्वा तत्पदप्रान्ते लिखति स्म निजासजा।
अक्षराणि क्षरद्वाप्पविन्दुक्लिन्नाननो नलः ॥ ४०६॥
वामतोऽयं वटेनाध्या विदर्भामुपतिष्ठति ।
दक्षिणेन पुनः स्मेरैः किंशुकैः कोशलां पुरीम् ॥४०७ ॥
नेगटः
देवि तत्र व्रजेर्यत्र कुत्रापि प्रतिभाति ते ।
अहं तु खलु न क्वापि मुखं दर्शयितुं क्षमः ॥ १०८॥
वर्णावलि लिखित्वेति चचाल चलिताननः ।
पश्यन्भैमीं तथा सुप्तां मन्दं मन्दं रुदन्नलः ॥ ४०९ ॥
पुनावृत्य वैदर्भीमुखमालोक्य निर्भरम् ।
जगाद दैवदुष्कर्मविद्धमर्मा महीपतिः ।। ४१० ॥
हा विधे विहितेयं चेदीदग्विश्वातिशायिनी ।
तत्किमेतावतीं दीनामवस्थां लम्भिता त्वया ॥ ४११ ॥
नान्योऽपि खयमारोप्य छिनत्ति बदरीमपि ।
फलिताशेषसंकल्पां किं पुनः कल्पवल्लरीम् ॥ ४१२ ॥
यदि वा जड एवासि मन्येऽम्भोजनिवासितः ।
तेनेन्दुमपि निर्माय कदर्थयसि राहुणा ॥ ४१३ ॥
मम विज्ञापनां सर्वाः शृण्वन्तु वनदेवताः ।
दुर्बुद्धिविधिवद्देव्यामस्यां माभूत निर्दयाः॥ ४१४ ॥
तथा कुरुत केनापि यथोपद्रूयते नहि ।
मार्ग च विन्दति प्रातरसौ खजनवेश्मनः ॥ ४१५ ॥
इत्युदीर्य मुहुर्जायां पश्यन्नावृतकंधरः ।
गच्छति स्म नलस्तावद्यावदागाददृश्यताम् ॥ ४१६ ॥
वन्यसत्त्वोद्भवः शङ्के स्यादस्याः कोप्युपद्रवः ।
तल्लतावृत एवैतां रक्षाम्येकान्तशायिनीम् ॥ ४१७ ॥
प्रबोधसमये प्रातर्गमिष्यामि यथारुचि ।
गच्छत्वेषापि केनापि मदावेदितयोः पथोः ॥ ४१८॥
इत्यालोच्य निवृत्त्याशु नलस्तस्थौ लतान्तरे ।
तथाभूतां च तां दृष्ट्वा पुनरन्तरचिन्तयत् ॥ ४१९ ॥
अहो नलस्य शुद्धान्तमसूर्यंपश्यमीदृशम् ।
वासवेश्मनि शेते च कीदृश्युञ्चूलशालिनी ॥ ४२० ॥
हा दुरात्मन्नल क्षिप्रं कथं यासि न भस्मसात् ।
इत्याद्यालोचयत्यस्मिन्विरराम विभावरी ॥ ४२१ ॥
निलीनमिव तत्कालं नलस्य मनसोऽन्तरे ।
सर्वतोऽपि दिगन्तपु तुच्छत्वमगमत्तमः ॥ ४२२ ।।
उदेति न रविर्यायद्यावज्जागर्ति न प्रिया ।
साश्रुनेत्रो नलन्तावज्जगाम त्वरितक्रमम् ॥ ४२३ ॥
गच्छन्नच्छिन्नसंचारमथ तस्मिन्यनान्तरे ।
धूमस्तोमं स वर्द्धिष्णुं विन्ध्यस्पर्द्भिनमैक्षत ॥ ४२४ ॥
भीमास्तदन्तरुत्तस्थुर्ज्वालाः कालानलोपमाः ।
निर्गता रत्नगर्भाया गर्भरत्नप्रभा इव ॥ ४२५ ॥
क्षणेन व्यानशे सर्वं वनं तद्दावपावकः ।
मानसं कोशलाभर्तुरिव शोकहुताशनः ।। १२६ ॥
जन्तूनां दह्यमानानामाक्रन्दानुपकर्णयन् ।
मानुपीं गिरमश्रौपीन्नलो गच्छन्तदन्तिकम् ॥ ४२७ ॥
ऐक्ष्वाक नलभूपाल जगत्यार्तैकबान्धव
दावाग्निदह्यमानाङ्ग्ं महात्मन्रक्ष रक्ष माम् ॥ ४२८ ॥
तस्या वाचोऽनुसारेण नलः प्रहितलोचनः ।
वल्लीवलयमध्यस्थं ददर्शैंकं भुजंगमम् ॥ ४२९ ॥
तं सोऽभ्यधाद्भुजङ्गेन्द्र मम नामान्वयौ कथम् ।
जानासि त्वं कथं चेत्थं ब्रूपे मनुजभाषया ॥ ४३० ॥
आह स्माहिर्मनुप्योऽहमभूवं पूर्वजन्मनि ।
तत्संस्काराद्भवेऽप्यस्मिन्मानुपी मे सरस्वती ॥ ४३१ ॥
निर्वाधमवधिज्ञानमप्यस्ति मम भूपते ।
करस्थमिव पश्यामि तेन विश्वं चराचरम् ।। ४३२ ॥
तत्रायख जगत्राणसत्रधूमध्वजादितः ।
त्वां प्रत्युपकरिष्यामि निरपेक्षमपि क्षणात् ॥ ४३३ ।।
तेनेत्युक्ते भुजङ्गेन नलः कारुण्यनीरधिः ।
अन्तर्लतावितानं स्वमुत्तरीयमलम्बयत् ॥ ४३४ ॥
से भोगी वपुषा वृक्षं वल्लीव तदवेष्टयत् ।
उदपानाद्वरत्रावच्चकर्षोर्ध्वं च नैषधिः ॥ ४३५ ॥
भूतले तृणकाष्ठादिरचिते तममुञ्चत ।
यावदुर्वीपतिस्तावद्दृश्यते स्स करेऽमुना ॥ ४३६ ॥
नलः क्षोणीतले पाणिमाच्छोट्य तमपातयत् ।
विषादाच्चाब्रवीत्सेयं तव प्रत्युपकारिता ॥ ४३७ ॥,
यद्वा हन्यान्मृगारिस्तं स एवोन्मीलयेदृशौ ।
य एव पाययेत्क्षीरं त्वज्जात्यापि स दश्यते ॥ ४३८ ॥
इत्यादि निगदन्नेव तदीयविषवैभवात् ।
अधिज्यधनुराकारं कलयामासिवानलः ॥ ४३९ ॥
तया कुब्जतयात्यन्तं राजा वैराग्यमीयिवान् ।
जीवितव्यानपेक्षोऽभूह्व्रतादानमनाः क्षणात् ॥ ४४०॥
ततोऽपश्यदहिस्थाने नलः कन्दलितप्रभम् ।
तमःपद इव द्योतं दिव्यमूर्ति पुरःसरम् ॥ ४४१ ॥
जल्पति स्म स भूपालं कथं वत्स विषीदसि ।
हितैकबद्धहेवाकस्तवास्मि निषधः पिता ॥ ४४२ ॥
तदा व्रतमुरीकृत्य तपस्तप्त्वातिदुतरम् ।
कृतानशनकर्मान्ते ब्रह्मलोके सुरोऽभवम् ।। ४४३ ॥
परिज्ञायावधिज्ञानादिमं ते व्यसनोदयम् ।
आयातोऽहमिदं सर्वं मम मायाविजृम्भितम् ॥ ४४४ ॥
तदात्मनीनमेवैतद्विद्धि वैरूप्यमात्मनः ।
अनेनानुपलक्ष्यं त्वां नोपद्रोष्यन्ति शत्रवः ॥ ४४५ ॥
अधुनैव व्रतादानस्पृहामपि हि मा कृथाः ।
भोक्तव्यमेव तेऽद्यापि तावदेवावनीतलम् ॥ ४४६ ॥
१. वरत्रा चर्ममयरज्जुः
यदा वत्स परव्रज्यासमयस्ते भविष्यति ।
ज्ञापयिष्यामि दैवज्ञ इवाभ्येत्य खयं तव ।। ४४७॥
फलं तु श्रीफलस्येदमिमां चापि करण्डिकाम् ।
गृहाण द्वयमप्येतत्कामं रक्षेः प्रयत्नतः ॥ ४४८ ॥
यदा च रूपमास्थातुमात्मीयं ते स्पृहा भवेत् ।
निर्भिद्य श्रीफलं दिव्यदुकूलानि तदा कृषः ॥ ४४९ ॥
अस्याः करण्डिकायाश्च हाराद्याभरणोत्करम् ।
क्षणादमीभिरामुक्तैर्निजं रूपमवाप्स्यसि ॥ ४५० ॥ (युग्मम्)
इत्युक्त्वा तदृव्यं देवः समर्प्य पुनरब्रवीत् ।
किं भ्राम्यसि वने स्थानं नयामि त्वां यियासितम् ॥ ४५१ ॥
नलोऽप्युवाच मां तात सुंसुमारपुरे नय ।
इति जल्पन्त्वमैक्षिष्ट तस्य द्वारि पुरस्य सः ॥ ४५२ ॥
यावच्चचाल विस्मेरमानसः पुरसंमुखम् ।
तावद्बहलमश्रौषीजनकोलाहलं नलः॥ ४५३ ॥
पलायध्वं पलायध्वं सर्वतस्त्वरितं जनाः ।
क्षणादित्यश्ववाराणां ध्वनि शुश्राव नैपधिः ॥ ४५४ ॥
किमेतदिति संचिन्त्य यावत्तस्थौ कचिन्नलः।
तावन्निर्मुक्तदृग्मार्गः प्रतिकारैरपि द्रुतम् ॥ ४५५ ॥
तिर्यक्प्रवृत्तदानाम्भःस्निपितः प्रतिमानकः ।
खच्छायायामपि क्रोधक्रूरः परिणमन्मुहुः ।। ४५६ ॥
नभस्वन्तमपि खैरं विधुन्वन्नसनस्पृशम् ।
मुहुर्विहङ्गमस्यापि धावन्विस्फुरितः पुरः॥ ४५७ ॥
मठाट्टालकशालाट्टमन्दिरादीनि पातयन् ।
कल्पान्तमातरिश्वेव भञ्जन्नुद्यानपादपान् ॥ ४५८ ॥
प्राकारगोपुरारूढैर्वीक्षितश्चकितैर्जनः ।
निशि ताराकरैः पश्वादारिकैः(?) परिवारितः॥ ४५९ ॥
दत्तझम्पान्दुमान्तेभ्यो हिंसन्हस्तिपकाग्रणीन् ।
अग्रतः कृष्टबालस्त्रीवृद्धः कौतुकिमिनरैः ॥ ४६० ॥
पुत्कारसीकरासारक्लृप्तझञ्झासमीरणः ।
धूननोद्धधूतसिन्दूरपूरपिञ्जरिताम्बरः ॥ ४६१ ॥
सप्तश्रोतःस्रवद्दानपङ्किलीकृतभूतलः ।
गतो मातङ्गरूपेण समवर्तीव मूर्तताम् ॥ ४६२॥
दूरतो दधिपर्णेन राज्ञानुगतपद्धतिः ।
नलेनोन्मूलितालानः कोऽप्यदृश्यत कुञ्जरः ॥ ४६३ ॥
(नवभिः कुलकम् )
तं कस्मिन्नपि नागेन्द्र वशीकर्तुमनीश्वरे ।
ऊर्ध्वीकृत्य भुजं राजा व्याजहारेति भारतीम् ।। ४६४ ॥
वारणेन्द्रमिदं व्यालं यः कोऽपि कुरुते वशे ।
अवश्यं तस्य वश्यत्वं लक्ष्मीमेनां नयाम्यहम् ॥ ४६५ ॥
इत्युक्तवति भूपाले नलः कल्लोलिविक्रमः ।
अस्पृशन्निव पादाभ्यां भुवं वेगादधावत ॥ ४६६ ॥
निवर्तस्व निवर्तस्व कुब्ज माविश माविश ।
इति लोकैर्निषिद्धोऽपि नल: सिंह इवाविशत् ॥ ४६७ ॥
नलो नागमभाषिष्ट ले[४]ष्टुना प्रणिहत्य तम् ।
रे रे मातङ्ग एवासि स्त्रीबालादीनुपद्रवन् ॥ ४६८ ॥
तदेतत्सर्वमुत्सृज्य ममैवानुपदीभव ।
अयमग्रेऽस्मि ते दानवृष्ट्यवग्रहदुर्ग्रहः ॥ ४६९ ॥
इत्युक्तः सोऽप्यधाविष्ट क्रोधादन्धंभविष्णुदृक् ।
साक्षाद्विन्ध्य इवोत्पातवातैर्धूतो नलं प्रति ॥ ४७० ॥
धावञ्जातु भ्रमञ्जातु लेष्टुमिर्जातु ताडयन् ।
पतञ्जातु लुठञ्जातु वचोभिर्जातु भलैयन् ॥ ४७१ ॥
१. लेष्टुर्दृढमृत्पिण्डः.
जातु पुच्छान्तमालम्ब्य चक्रवद्भ्रमयन्मुहुः ।
नलस्तैस्तैः प्रकारस्तं खेदयामास दन्तिनम् ॥ ४७२ ॥
हर्षकोलाहलैर्जातु जातु हाहारवोत्करैः।
जनानां पश्यतामासीच्छब्दाद्वैतं पुरे तदा ॥ ४७३ ॥
खिन्नस्यापि भृशं कोपात्कुञ्जरस्यानुधावतः।
क्षिपति स्म पुरः क्षिप्रमुत्तरीयपटं नलः ॥ ४७४ ॥
पपात पुरतो रूपमित्यस्मिन्परिणामिनः ।
नताय वपुषः स्कन्धमास्कन्दद्दन्तिनो नलः ॥ ४७५ ॥
ततः कण्ठवरत्रायां प्रक्षिप्तचरणौ नलः।
आस्फालयन्करैः कुम्भे कुञ्जरं तमसान्त्वयत् ॥ ४७६ ॥
पश्चादेत्य प्रतीकारैरादायोल्लालितां शृणिम् ।
नलो दन्तावलेन्द्र तमन्वालानमचालयत् ॥ ४७७ ॥
मायाकुब्जः सुरः कोऽपि किमेष भुवमागतः।
यश्चक्रे हस्तिमल्लस्य प्रतिमल्लमिमं वशे ॥ ४७८ ॥
इत्यन्तर्विमितो राजा स्वयमारुह्य गोपुरम् ।
रनदाम न्यधात्कण्ठे तस्वाधस्तादुपेयुषः ॥ ४७९ ॥
कुब्जावदानमेदखिहर्षबाष्पायितेक्षणाः ।
बभूवुर्जयशब्दैकमुखराः सर्वतः प्रजाः ॥ ४८० ॥
श्रमानुत्तानमालाने गजमाकलयन्नलः।
सर्वपौरजनानां तु प्रमोदमधिमानसम् ॥ ४८१ ॥
ततः सलीलमुत्तीर्य कुलः कक्षावरत्रया ।
अभ्यर्णे दधिपर्णस्य वयस्यवदुपाविशत् ॥ ४८२ ॥
अलंकारान्दुकूलानि तुष्टस्तमै ददौ नृपः ।
स्वान्तिकेऽस्थापयच्चैनं गौरवेण गरीयसा ॥ १८३ ॥
अभ्यधात्सविधासीनं तमन्येधुर्महीपतिः ।
कलेयं गजशिक्षायां कुब्ज कौतस्कुती तव ॥ ४८४ ॥
कश्वासि क्व च वास्तव्यः कुत्र चाभिजनस्तव ।
कला नियतमन्यापि कापि संभाव्यते त्वयि ॥ ४८५॥
कुब्जेनाभिदधे राजञ्जन्मभूर्मम कोशला।
सर्वः स्वजनवर्गोऽपि शश्वत्तत्रैव वर्तते ॥ ४८६ ॥
हुण्डिकः सूपकारोऽस्मि नलस्य पृथिवीपतेः ।
स एव हि कलाः सर्वाः प्रीतिपाने मयि व्यधात् ॥ ४८७ ॥
किं च वेत्ति स वा सूर्यपाका रसवती भुवि ।
अहं वा तत्पदोपास्तिप्रसादाद्वेद्मि नापरः ॥ ४८८ ॥
सोऽधुना कूबरे बन्धौ क्षोणिमक्षदुरोदरे ।
हारयित्वा सदारोऽपि जगाम जनवद्वनम् ॥ ४८९ ॥
विपेदे तत्र सत्कान्तकलानिलयमागमम् ।
श्रितोऽहमविशेषज्ञं मानिनं ननु कूवरम् ॥ ४९० ।।
आकर्ण्य दधिपर्णस्तां नलमृत्युकथामथ ।
रुरोद प्रेतकृत्यं च चकार सपरिच्छदः ॥ ४९१॥
जातुचित्सूर्यपाकायां रसवत्यां कुतूहली।
हुण्डिकाय नृपः शालिप्रमुखं सर्वमार्पयत् ॥ ४९२ ॥
स स्थालीरातपे न्यस्य विद्यां वैवखतीं स्मरन् ।
चक्रे रसवतीं दिव्यामशेषरसपेशलाम् ।। ४९३ ॥
तया च भोजयामास राजानं सानुजीविनम् ।
प्रीतश्चास्मै ददौ सोऽपि वस्त्रालंकरणादिकम् ॥ ४९४ ॥
लक्षमेकं च टङ्कानां ग्रामपञ्चशतीमपि ।
सर्वमेतद्विना ग्रामान्हुण्डिकोऽप्यग्रहीचदा ॥ ४९५ ॥
ततो भूयोऽपि भूपालः प्रीतिमास्तमभाषत ।
कुब्जं सर्वं ददे तत्ते यदन्यदपि वाञ्छसि ॥ ४९६ ॥
इत्युक्तः क्षोणिपालेन कुब्जः स्मेरेक्षणोऽवदत् ।
राजन्यावद्भ्रूवः खण्डं भुजादण्डः प्रशास्ति ते ॥ ४९७ ॥
धूतं मद्यं मृगव्यं च तावति प्रतिषिध्यताम् ।
इत्यस्य वचसा सर्वं तच्चकार धराधवः ॥ ४९८ ॥
तत्रैव परमं राजप्रसादमधिजग्मुषः ।
वसतस्तस्य भूयांसि हायनान्यतिचक्रमुः ।। ४९९ ॥
परेद्यवि सरस्तीरे द्रुभच्छायां निषेदुषः ।
कुब्जस्याभ्यर्णमभ्येत्य विप्रः कश्चिदुपाविशत् ॥ ५०० ॥
सोऽथ सर्वाङ्गमालोक्य कुब्जामाकूणितेक्षणः ।
जगौ श्लोकद्वयीमेतां नलनिन्दाविशारदाम् ॥ ५०१॥
निघृणानामलज्जालां निःसत्त्वानां दुरात्मनाम् ।
नलखैव धुरीणत्वं सुप्तां तत्याज यः प्रियाम् ॥ ५०२ ॥
सुप्तामेकाकिनीं स्निग्धां विस्त्रब्धां दयितां सतीम् ।
गतः किं न वने त्यक्तुकाम एव न भस्मसात् ॥ ५०३ ॥
इत्युपश्रुत्य तद्गीतं कुब्जः पर्यश्रुलोचनः ।
तमभ्यधादहो रक्तकण्ठोऽसि द्विजसत्तम ॥ ५०४ ॥
गीतेनानेन ते काममुद्यत्करुणवीचिना।
ममाप्येताः कृताः पश्य चक्षुषोरश्रुविक्षुषः ॥ ५०५ ॥
ततः कथय कोऽसि त्वं कुतश्चागम्यतेऽधुना ।
दुर्धियश्च नलस्यायमुदन्तः क त्वया श्रुतः॥ ५०६ ॥
सोऽप्याख्यत्कुशलाख्योऽस्मि कुण्डिनाञ्चाहमागमम् ।
तत्राश्रौषमिमां सर्वां नलभूमीपतेः कथाम् ॥ ५०७ ॥
कुब्जो ऽभ्यधात्ततो विभ्रद्विकाशविशदे दृशौ ।
श्रुता ब्रह्मन्पुराणीयं भैमीत्यागावधिः कथा ॥ ५०८.॥
ततः परं यदातेने भीमभूर्विरहातुरा।
तत्वरूपं समस्तं मे निवेदयितुमर्हसि ॥ ५०९ ॥
जगादाथ द्विजो भैमीं परित्यज्य गते नले।
निशि प्रभातप्रायायां स्वममेवं ददर्श सा ॥ ५१०॥
यदहं पत्रलं बद्धमञ्जरीकं सषट्पदम् ।
फलितं चूतमारूढा तत्फलान्यादमिच्छया ॥ ५११ ॥
तं चाभ्येत्य करी कश्चिदकस्मादुदमूलयत् ।
अहं च तत्परिभ्रष्टा पतितास्मि भुवस्तले ॥ ५१२ ॥
ततो जागरिता प्रातरदृष्ट्वा प्रियमन्तिके ।
दिक्षु चक्षुर्निचिक्षेप भीमभूर्भयविक्लवा ।। ५१३ ॥
अचिन्तयच्च मे दैवमद्यापि प्रातिलोमिकम् ।
व्यालाकीर्णे वनान्तेऽस्मिन्मां प्रियोऽपि यदत्यजत् ॥ ५१४ ॥
यद्वा सलिलमानेतुमास्यक्षालनहेतवे ।
प्रयातः सरसि क्वापि प्राणेशो मे भविष्यति ।। ५१५॥
रन्तुं विद्याधरी काचित्कापि वा वनदेवता ।
सुभगं तमपाहार्षीत्सोऽन्यथा न जहाति माम् ॥ ५१६ ॥
नर्मणा वा किमस्त्येष तत्यन्तरितः स्थितः ।
तत्तमुत्थाय पश्यामि क्व गन्तासि ममाग्रतः ॥ ५१७ ॥
इत्युत्थाय प्रतिक्षोणीरुहमुद्रीक्षणादपि ।
निजं कान्तमपश्यन्ती रुदत्युच्चैर्जगाद सा ॥ ५१८ ॥
एह्येहि त्वरितं नाथ याति मे हृदयं द्विधा ।
चिरं न खलु नार्मापि शर्मदं भवति क्वचित् ॥ ५१९ ॥
इत्यायैर्वचनैः कान्ते दृग्गोचरमनीयुषि ।
विदर्भदुहितेत्यन्तः स्वमस्यार्थं व्यचारयत् ॥ ५२० ॥
यञ्चूतो मत्प्रियः सोऽयं राज्यं पुष्पफलादिकम् ।
तद्भोगश्च फलास्वादः षट्पदाश्च परिच्छदः ॥ ५२१ ॥
मूलादुन्मूलनं यच्च चूतस्य च न दन्तिना ।
मदीयप्रेयसो राज्याद्भ्रंशनं कूबरेण तत् ॥ ५२२ ॥
यच्चाहं पतिता चूतात्प्रियेण विरहः स मे ।
तत्स्वप्नेनामुना नूनं वल्लभो दुर्लभोऽधुना ॥ ५२३ ॥
इत्यालोच्य ययौ मूच्छी दुःखसंभारनिर्भरा ।
उच्चैश्च प्राप्तचैतन्या रुरोद व्यलपञ्च सा ।। ५२४ ॥
हा नाथ किं तवाभूवं हताहं भारहेतवे ।
स्थूले अपि निजे शृङ्गे भाराय वृषभत्य किम् ॥ ५२५॥
न दृष्टः क्वाप्ययं पन्थाः सात्विकानां विवेकिनाम् ।
यदीशि वने पाणिगृहीती त्यज्यते प्रिया ॥ ५२६ ॥
नैष ते यदि या दोषो मत्कर्मैवापराध्यति ।
भवेन्मतिविपर्यासस्वादृशामपि किं क्वचित् ।। ५२७ ॥
जल्पं जल्पमितिप्रायं तारं पूत्कुर्वती मुहुः ।
अरोदयद्वने भैमी श्वापदान्पादपानपि ॥ ५२८ ॥
पटप्रान्ते चिराकान्यप्यक्षराणि निरीक्ष्य सा ।
वाचयामास सानन्दं दध्यौ चान्त:स्मिताशया ॥ ५२९ ॥
दिष्ट्याचाप्यसि ततःकेतकीकाननालिनी ।
ददौ मे गमनादेशं यत्स्वयं लिखिताक्षरैः ॥ ५३० ॥
तन्यग्रोधाध्वनानेन पितुर्वेश्म व्रजाम्यहम् ।
नारीणां पतिशून्यानां पितैव हृदयातिहृत् ॥ ५३१ ॥
पति विना तु तद्नेहे वसन्त्या निस्तनूरुहः ।
साध्व्या अपि कुरङ्गाक्ष्याः पराभूतिः पदे पदे ॥ ५३२ ॥
इत्यालोच्य पितुर्गेहं प्रत्यचालीन्नलप्रिया ।
कांदिशीका दृशौ दिक्षु प्रक्षिपन्ती मुहुर्मुहुः ॥ ५३३ ॥
दर्भसूचिव्यथोद्भूतशोणितारुणितक्रमा ।
पाटितोभयजङ्घा च क्षुद्रकैर्बदरीवणैः ।। ५३४ ॥
मलीमसांशुका खेदमेदुरा रेणुरूपिता ।
विकीर्णकुन्तला वक्रमभितस्तरलेक्षणा ॥ ५३५ ॥
प्रेयोविरहपीडाभिर्निंगीर्णनिखिलव्यथा ।
दरिद्रस्त्रीव सा मार्गे त्वरित त्वरितं ययौ ।। ५३६ ॥
(त्रिभिर्विशेषकम् )
[५]जाङ्गुलीमिव भोगीन्द्राः सिंहीमिव वनद्विपाः ।
वह्निज्वालामिव व्याघ्रास्तां सतीं वीक्ष्य दुद्रुवुः ॥ ५३७ ॥
यान्ती चाचिन्तयद्यावत्सार्थः कश्चिद्भवेद्यदि ।
तेन साकमरण्यस्य पारमस्य व्रजाम्यहम् ॥ ५३८॥
तावत्पुरः पराभोगभासुरं लोकसंकुलम् ।
संकटं शकटवातैः सार्थं कंचिदुदैक्षत ॥ ५३९ ॥(युग्मम् )
तमासाद्याभवद्भमी यावत्वस्थमना मनाक् ।
तावत्स रुरुधे हक्वमुखरैर्दस्युभिः क्षणात् ॥ ५४० ॥
सा तानूर्ध्वभुजावादीदरे रे यात तस्कराः ।
आरम्भोऽस्मिन्मया त्राते सार्थेऽनर्थफलो हि वः ॥ ५४१॥
तामवज्ञाय भूतात्तामिव वातिकिनीमिव ।
यदा लुण्ठयितुं सार्थस्तैर्बलादुपचक्रमे ॥ ५४२ ॥
ध्वस्तद्विषदहंकारान्हुंकारान्सामुचत्तदा ।
सिंहीरवैरिवामीभिस्ते कुरङ्गा इवानशन् ॥ ५४३ ॥
ततो नः पात्यसौ नूनं काप्यस्सत्कुलदेवता ।
इति सार्थपतिर्भक्त्या तां स सार्थजनोऽनमत् ।। ५४४ ॥
पृच्छति स्म च कल्याणि कासि त्वं महिमैकभूः ।
अस्मिन्नेकाकिनी किंवा वने भ्राम्यसि निर्जने ॥ ५४५ ॥
ततोऽमै बान्धवायेव भारत्या दैन्यशून्यया ।
भीमभूरानलद्यूतान्निजामकथयत्कथाम् ॥ ५४६ ॥
लक्षणानलपत्नीत्व ज्ञानाच्चैष विशेषतः ।
प्रीतिमन्तर्वहन्भैमीं निन्ये पटकुटीं निजाम् ॥ ५४७ ॥
स्नानभुक्त्यादिना तत्र हृतश्रान्तिमधारयत् ।
स तैस्तैरुपचारैतामाराध्यद्देवतामिव ।। ५४८ ॥
अथ प्रववृते प्रावृङ्गर्जामुरजनिखनैः ।
जनेभ्यः शिखिनां नृत्तं दर्शयन्ती वने वने ॥ ५४९ ॥
१.जाङ्गुली विषविद्या.
ततो मुशलधाराभिः पुष्करावर्तकोपमाः।
विरामरहितं मेघास्त्रिरात्रं ववृषुस्तराम् ॥ ५५० ॥
तदा शकटसंचारभङ्गमञ्जरितोर्जितः ।
चिक्रीड विपिने पङ्कः क्षोभयन्पथिकव्रजान् ॥ ५५१ ॥
चिरावस्थानमाशङ्कय सार्थस्य नलवल्लभा ।
केनाप्यविदिता वृष्टिपर्यन्ते निर्ययौ ततः ॥ ५५२ ॥
यान्तीव पुरतो रौद्रमञ्जनागिरिसोदरम् ।
फेत्कारनिर्यदास्योल्का निरस्तसतडिद्धनम् ॥ ५५३ ॥
नरास्थिभूषणं दंष्ट्राकरालं कर्ति(र्त्रि)काकरम् ।
साक्षादिव यमं भैमी कंचिदैक्षिष्ट राक्षसम् ॥ ५५४ ॥
(युग्मम्)
भाषते स्म स तां भीतिकल्लोलतरलेक्षणाम् ।
क्व यासि भक्षयिष्यामि त्वामेष क्षुधितश्चिरात् ॥ ५५५ ॥
ततः सौष्ठवमालम्व्य जगाद नलगेहिनी ।
निशम्य मद्गिरं कुर्यास्तुभ्यं यदिह रोचते ॥ ५५६ ॥
न नाम परमार्हत्याः किंचिन्मृत्युभयं मम ।
मृत्योर्हि संभृतानेकसुकृता नाभिशङ्कते ॥ ५५७ ॥
किंतु मामनिशं पूतमानसां परमेष्ठिभिः ।
पराङ्गनां स्पृशन्नेव भद्र यास्यसि भस्मसात् ॥ ५५८ ॥
राक्षसस्तामवष्टम्भमयीमाकर्ण्य तद्विरम् ।
ऊचे कल्याणि तुष्टोऽसि सत्त्वेनैव तवामुना ॥ ५५९ ॥
ब्रूहि तत्किमिदानीं ते मनोभीष्टं करोम्यहम् ।
निशम्येति वचस्तस्य कुण्डिनेशसुतावदत् ।। ५६० ॥
यदि तुष्टोऽसि मे सत्यं राक्षस व्यन्तरेश्वर ।
तदाचक्ष्व कदा भावी पत्या मम समागमः ॥ ५६१॥
विलोक्य विधिना सद्यस्तामवोचन्निशाचरः।
अतिक्रम्य परित्यागदिनाद्द्वादशहायनीम् ॥.५६२,॥
पितृधानि स्थितायास्ते भविता पतिसंगमः ।
तदादिशसि चेत्तत्त्वां तत्र वेगान्नयाम्यहम् ॥५६३ ॥ (युग्मम्)
अथोचे भीमभूर्भर्तृसमागमनिवेदनात् ।
किं नाम नोपचक्र मे त्वया दाक्षिण्यसिन्धुना ॥ ५६४ ॥
किं त्वन्यपुरुषैः सार्क क्वचिन्नैव व्रजाम्यहम् ।
तद्गच्छ स्वस्ति ते भूयाद्वर्मगृह्यो भवेश्चिरम् ॥ ५६५ ॥
ततः प्रेङ्खत्प्रभाजालमालोलमणिकुण्डलम् ।
दर्शयित्वा निजं रूपं तस्मै रात्रिचरोऽगमत् ।। ५६६ ॥
अथ द्वादशवर्षान्ते विज्ञाय पतिसंगमम् ।
भैमी सतीव्रतोत्तंसानग्रहीदित्यभिग्रहात् ॥ ५६७ ॥
रक्तवासांसि ताम्बूलं कुसुमाभरणानि च ।
विकृतीश्च ग्रहीष्येऽहमर्वाग्न प्रियदर्शनात् ।। ५६८ ॥
सा चलन्ती पुरो नानाफलितद्रुमशालिनीम् ।
चेतःस्वास्थ्यकरीं प्राप कंदरां कस्यचिगिरेः ॥ ५६९ ॥
तत्राम्भोदागमं नेतुमवस्थानं चकार सा ।
प्रतिमा मृन्मयीं शान्तेस्तकोणे च न्यवीविशत् ॥ ५७० ॥
स्वयं गलितपुष्पैस्तामर्चयन्त्यनुवासरम् ।
धर्मध्यानामृताम्भोधिस्नानसानन्दमानसा ॥ ५७१ ॥
चतुर्थादि तपः शश्वद्वितन्वाना निरत्ययम् ।
कुर्वाणा पारणां वृक्षफलैः सरसपातिभिः ॥ ५७२ ॥
एकाकिन्यपि निर्भीका स्मरन्ती चाभिमर्षणम् ।
परमेष्ठिनमस्कारमन्त्रं सा कालमत्यगात् ॥ ५७३ ॥
(त्रिभिर्विशेषकम् )
सोऽथ सार्थपतिः सार्थे तामपश्यन्नितस्ततः ।
मा स्म भूत्क्वचिदक्षेममित्यानुपदिकोऽभवत् ॥ ५७१ ॥
कंदरां तां क्रमादेत्य भैमीं कुशलशालिनीम् ।
अर्चयन्ती जिनस्यार्च्यां स निध्याय दधौ मुदम् ।। ५७५ ॥
नत्वा चोपाविशत्पार्चे भीमजापि समाप्य ताम् ।
देवार्चा स्वागतप्रश्नपूर्वकं तमवार्तयत् ॥ ५७६ ॥
सोऽथ पप्रच्छ तां कस्य देवस्यायमर्च्यते ।
सापि शान्तिजिनेशस्य षोडशस्येत्यचीकथत् ॥ ५७७ ॥
आकर्ण्यैतां तयोर्वाचमन्योन्यालापशालिनीम् ।
आसन्नाश्रमवास्तव्यास्तत्र यान्ति स्म तापसाः ॥ ५७८ ॥
सार्थे साथ ततो भैमी तेषु संनिधिवर्तिषु ।
विशुद्धमार्हतं धर्ममहिंसाद्यमुपादिशत् ॥ ५७९ ॥ ।
सोऽप्युन्मीलन्मनोभावत्रुट्यत्कर्मततिस्ततः ।
भैमीमेव गुरूकृत्य तं धर्मं प्रत्यपद्यत ॥ ५८० ॥
ऊचे चाहं पुरा नाम्ना वसन्तोऽस्म्यधुना पुनः ।
सत्यीकृतस्त्वया धर्मस्तिलकस्यास्य सौरभेः॥ ५८१ ।।
तत्रान्तरे च धाराभिः सगोत्राभिः शरोत्करैः ।
वर्षितुं कलितोत्कर्षमारेभे स्तनयित्नुभिः ॥ ५८२ ॥
तामिरम्भोदधाराभिराहतास्ते तपस्विनः ।
वञ्चयामः पयः क्वैतदित्यभूवन्भयाकुलाः ॥ ५८३ ॥
ततो मा भैष्ट मा भैष्ट तापसा इति वादिनी ।
कुण्डिनेशात्मजा कुण्डं यष्ट्या तान्परितोऽकरोत् ।। ५८४ ॥
उच्चैरूचे च यद्यस्मि सती यद्यस्मि चाहती।
ऋजुस्वान्ता च यद्यसि मास्मिन्वर्षतु तद्धनः ॥ ५८५ ॥
तत्तथैवाभवत्तेऽथ तापसा इत्यचिन्तयन् ।
काचिद्देवीयमन्यस्याः शक्तिरूपे न हीदृशी ॥ ५८६ ॥
वृष्टरुपरमे धर्मं निन्दन्तः स्वं दयोज्झितम् ।
विस्मितास्ते तदाख्यातं धर्मं सम्यक्प्रपेदिरे ॥ ५८७ ॥
पुरमुड्डामरश्रीकं तत्र सार्थपतिर्व्यधात् ।
चैत्यं च शान्तिनाथस्य काम्याकारमकारयत् ॥ ५८८ ॥
यतः पञ्चशतान्यस्मिन् प्रत्यबुध्यन्त तापसाः ।
तेन ख्यातिमगाद्धात्र्यां तत्तापसपुराख्यया ॥ ५८९ ॥
नैगमप्रमुखाः सर्वे पुरुषार्थनिकेतने ।
तत्राभ्येत्य वसन्ति स्म स्वैरमुच्चावचाः प्रजाः ॥ ५९० ॥
सच सार्थपतिस्ते च तापसाः सा च भीमसूः ।
प्रजास्ताश्चावसंस्तस्मिन्नर्हद्धर्मपराश्विरम् ॥ ५९१ ॥
अन्यदा जितमार्तण्डमण्डलद्युतिरैक्षत ।
मध्यरात्रे शिरस्यद्रेरुदद्योतो नलकान्तया ॥ ५९२ ॥
उत्पतन्तः पतन्तश्च तयाथ विहगा इव ।
विस्मयस्मेरमैक्ष्यन्त सुरासुरनभश्चराः ॥ ५९३ ॥
तत्संपातभवैः कोलाहलैर्जागरिताः क्षणात् ।
तानुत्पश्य दृशः पौरा अप्यपश्यन्सविस्मयाः ।। ५९४ ॥
ततः सार्थपतिभैमी ते च सर्व तपस्विनः ।
पौरा अप्यखिलाः शैलशिरस्यारुरुहुः क्षणात् ॥ ५९५ ॥
सिंहकेसरिणः साधोर्नवकेवलसंपदः ।
कुर्वतो महिमानं ते ददृशुः सुरखेचरान् ॥ ५९६ ॥
ततः कन्दलितानन्दा नत्वा केवलिन पुरः ।
भैमी च सार्थवाहश्च पौराश्च समुपाविशन् ॥ ५९७ ॥
तदानीं श्रीयशोभद्रसूरयो गुरवो मुदा ।
तं केवलिनमानम्य न्यविक्षन्त तदन्तिके ॥ ५९८ ॥
यथौचित्यमथासीनजने सुरनरादिके ।
कर्म मर्माविधं धर्मदर्शनां केवली व्यधात् ॥ ५९९ ॥
संसारेऽस्मिन्न नित्यानि जीवितं यौवनं श्रियः ।
सक्तैरेष्वेव हा मूढैर्मानुषं जन्म हार्यते ॥ ६०० ॥
अस्य मानुष्यकल्पद्रोः फलं मुक्तिसुखं परम् ।
उत्तिष्ठध्वं जनास्तस्मै विमुच्य मृगतृष्णिकाम् ।। ६०१ ॥
देशनान्तेषु नः स्माह केवली संशयच्छिदे ।
तेषां तपस्विनां तस्य सार्थेशस्य च धीमतः ॥ ६०२ ॥
यदाख्यद्दमयन्तीयं धर्मतत्त्वमनुत्तरम् ।
तत्तथैव न कर्तव्यः संशयोऽस्मिन्मनागपि ॥ ६०३॥
इयं हि धार्मिकी सत्यपूतवाक्परमार्हती।
सती सर्वजनीना च जातु जल्पति नान्यथा ॥ ६०४ ॥
दस्युनाशादिरम्भोदवृष्टिस्तम्भादिकोऽपि वा।
कस्को नाम प्रभावोऽस्याः प्रत्यक्षोऽभून्न वः पुरा ॥ ६०५॥
अस्मिन्नपि वनव्याघ्रभिल्लभल्लूकसंकुले ।
प्रभावपरिपीतापन्निर्विशङ्का वसत्यसौ ।। ६०६ ॥
इत्येतया मुनेस्तस्य गिरा संवेगमाग्भृशम् ।
प्रीतो ययाचे विमलमतिः कुलपतिव्रतम् ॥ ६०७ ॥
मुनिरूचे यशोभद्रमुरिरेष महामतिः ।
दीक्षां दास्यति ते भद्रगुरुर्यस्मान्ममाप्यसौ ॥६०८॥
ततः कुलपतिर्भूयो बभाषे स्मेरविस्मयः।
गृह्णीते स्म कथं नाम प्रव्रज्यां भगवन्भवान् ॥ ६०९ ॥
अप्याख्यत्केवली राजा कोशलायां नलोऽभवत् ।
यदीया दमयन्तीयं दयिता पतिदेवता ।। ६१०॥
कनीयान्कूबरो नाम बान्धवस्तस्य विश्रुतः ।
शास्तीदानी तदीयां यो राज्यमुज्जागरोर्जितः ॥ ६११॥
तस्याहं तनयः सिंहकेसरी सांप्रतं त्वहम् ।
राज्ञः केसरिणः शृङ्गापुरीशस्य तपस्विनीम् ॥ ६१२ ॥
पाणौ कृत्य सुतां वन्धुमतीं गच्छन्पुरीं निजाम् ।
रम्यामुपत्यकामस्य गिरेरध्याशिषि क्रमात् ॥ ६१३ ॥ (युग्मम्)
भाग्यरत्र यशोभद्रसूरीनेतानवन्दिषि ।
चक्रुश्च देशनामेतां संसारानित्यतामयीम् ॥ ६१४ ॥
तदन्ते मे कियत्स्वामिन्नायुरित्युदिते मया ।
ज्ञात्वा पञ्च दिनानीति ज्ञानिनो मां बभाषिरे ।। ६१५ ॥
ततो मृत्युभयाद्दीनमुखं संभ्रान्तलोचनम् ।
मां विलोक्यावदन्नेते विश्ववात्सल्यवार्धयः ॥ ६१६ ॥
मा भैषीर्वत्स मा भैषीबषीर्व्रतमादत्व संप्रति ।
जन्ममृत्युभयं हन्ति कृतमेकामप्यदः ॥ ६१७ ॥
तदैवैतद्गिरा लक्ष्मी प्रियां बन्धुमतीमपि ।
हित्वामीषां पदाम्भोजमूलेऽहं जगृहे व्रतम् ॥ ६१८॥
एतदादेशतः शैलशृङ्गमारूढवानिदम् ।
निहत्य घातिकर्माणि केवलालोकमासदम् ॥ ६१९ ॥
इत्युक्त्वा सूत्रयन्योगनिरोधं स मुनीश्वरः ।
निरंशीकृत्य कर्माणि जगाम परमं पदम् ॥ ६२० ॥
तत्कायस्याग्निसंस्कारं पुण्यक्षेत्रे व्यधुः सुराः ।
व्रतं कुलपतिः पार्श्वे यशोभद्रस्य चाग्रहीत् ॥ ६२१ ॥
वैदर्भीं याचमानां स व्रतं स गुरुरब्रवीत् ।
त्वं भोगान्भोक्ष्यसेऽद्यापि तद्दीक्षा ते न युज्यते ॥ ६२२ ॥
प्राग्भवे हि नलो राजा मम्मणोऽभून्महीपतिः।
त्वं तु वीरमती नाम तस्याभूर्दयिता किल ॥ ६२३ ॥
युवाभ्यां जातु गच्छद्भ्यां क्रीडया मृगयावने ।
सार्थेन सार्धमागच्छन्संमुखं मुनिरैक्ष्यत ॥ ६२४ ॥
कोपादशकुनं सोऽयमिति स्वैः पत्तिभिस्तदा ।
तं संग्राह्य निवृत्त्याशु युवामागमतं गृहम् ।। ६२५ ॥
कथंचिदपि विस्मृत्य कोपमाकार्य तं मुनिम् ।
क्व गन्तासि कुतश्चागा इत्यवार्तयतं युवाम् ॥ ६२६ ॥
ततस्तद्विरमाकर्ण्य शमामृततरङ्गितः।
सान्द्रानन्दं तमभ्यर्च्य मुनिं व्यसृजतं युवाम् ॥ ६२७ ।।
युवाभ्यां यत्तदा रुद्धः साधुर्द्वादशनाडिकाः ।
तेनायं विरहो जज्ञे युवयोर्द्वादशाब्दिकः ।। ६२८॥
वर्षस्य द्वादशस्यान्ते तेन पत्या समेयुषी।।
पुनस्त्वं तादृशानेव भोगान्वैदर्भि भोक्ष्यसे ॥ ६२९ ॥
गतायामथ यामिन्यां यशोभद्रगुरुर्गिरेः।
उत्तीर्यालंकरोतिस्म उत्तापसपुरं पुरम् ॥ ६३०॥
शान्तश्चैत्यं प्रतिष्ठाय स तस्सिन्देशनाम्बुधिः ।
सम्यक्तारोपणं चके पौरलोकस्य कोटिशः॥ ६३१ ॥
विदर्भजन्मनस्तत्र निवसन्त्या गुहागृहे ।
अतीयाय जिनोपास्तिपरायाः सप्तहायनी ॥ ६३२ ॥
अन्यदा कश्चिदभ्येत्य तद्गुहाद्वारमध्वगः ।
सुधामुचमिमां वाचमवोचान्नलवल्लभाम् ॥ ६३३ ॥
वैदर्भि त्वत्पतिर्नातिदूरे देशे मयेक्षितः ।
उत्सुको हन्त गन्तास्मि सार्थों में न प्रतीक्षते ।। ६३४ ॥
इत्युदीर्य प्रयाति स्म स पान्थस्त्वरितक्रमम् ।
सापि तच्छब्दमाकर्ण्य गुहातो निरगाज्जवात् ॥ ६३५॥
भद्र भद्र त्वया सोऽयं क्व दृष्ट इति भाषिणी।
पान्थं तमनुधावन्ती भीमभूर्विपिनेऽपतत् ॥ ६३६ ॥
गच्छन्त्याश्च पुरस्तस्या निःखाया इव शेवधिः ।
पान्थः सोऽगाददृश्यत्वं ततो व्यावर्तते स्म सा ॥ ६३७ ॥
कंदरायाः पुनर्मार्गमज्ञात्वा गहने बने ।
भीमभूरुभयभ्रष्टा दुःखक्लिष्टेत्यचिन्तयत् ॥ ६३८॥
अहो किमपि मे दैवमपकारि पदे पदे ।
येनाभवदिदानीं मे न पान्थो न च कंदरा ॥ ६३९ ॥
किं करोमि क्व गच्छामि घोरेऽस्मिन्पतिता वने ।
भावी मृत्युरपि श्रेयानार्तध्यानस्पृशोऽत्र मे ॥ ६४० ॥
३२
इत्याकुलमनास्तस्मिन्नश्रुपूराविलेक्षणा ।
ययौ तस्थावुपाविक्षद्व्यलुठद्व्यलपञ्च सा ॥ ६४१ ॥
भ्रमन्तीं च वने काचित्तामपश्यन्निशाचरी।
मा स्म गा भक्षयिष्यामि भवन्तीमित्युवाच च ॥ ६४२ ॥
तां वीक्ष्य भयसंभ्रान्ता बभाषे भीमनन्दिनी ।
नलादन्यं पुमांसं चेत्स्पृशत्यपि न मे मनः ॥ ६४३ ॥
ममार्हन्नेव देवश्चेद्गुरवश्चेत्सुसाधवः ।
रतिश्चेज्जैनतत्त्वे च हताशा भव राक्षसि ॥ ६४४ ॥ (युग्मम्)
इति तस्या गिरामन्त्रवाचेव च्युतविक्रमा ।
ययौ नक्तंचरी नत्वा सत्यो हि दुरतिक्रमः ॥ ६४५ ॥
ततो दत्तजलभ्रान्तिमूर्मिमत्सिकताचिताम् ।
क्वचिद्गिरिनदीं कांचिदुदयन्ती जगाद सा ॥ ६४६ ॥
तामनम्भसमालोक्य सा जगाद तृषार्दिता ।
मनो मे यदि सम्यक्त्वसौरभ्यसुरभीकृतम् ॥ ६४७॥
तदेतस्यां पयः प्रादुरस्तु द्रागमृतोपमम् ।
इत्युक्त्वा पार्ष्णिना स्वैरं महीतलमताडयत् ॥६४८॥ (युग्मम्)
साभूत्कूलंकषान्वर्थनामाम्भोभिस्तदुत्थितैः ।
स्नात्वा पीत्वा पयश्चास्यां भैमी निन्ये परिश्रमम् ॥ ६४९ ॥
पुरो यान्ती च सा खिन्ना न्यग्रोधस्य तले क्वचित् ।
निविष्टा पथिकैः कैश्चित्सार्थायातैरभाषत ॥ ६५० ॥
भद्रे कासि किमत्रासि वटस्याधो निषेदुषी ।
ईदृगद्वैतरूपा त्वं काचिन्न वटदेवता ॥ ६५१ ॥
अथाह भीमभूर्नाहं देवता किंतु मानुषी ।
वणिक्पुत्री समं पत्या यान्त्यभूवं पितुर्गृहे ॥ ६५२ ॥
सुप्तामेकाकिनीमत्र मां संत्यज्य पतिर्ययौ ।
बान्धवा गमयध्वं मां तत्तापसपुराध्वना ॥ ६५३ ॥
तेऽप्यूचुर्यत्र सूर्योऽस्तमेत्यध्वास्य पुरस्य सः ।
तं तु दर्शयितुं नालमिदानीमुत्सुका चयम् ॥ ६५४ ॥
आगतास्म इहाम्भोऽर्थं सार्थादायासि तत्र चेत् ।
कुत्रापि वसतिस्थाने नयामस्त्वां सुखेन तत् ॥ ६५५ ॥
साथ तैः सह सार्थेऽगाद्धनदेवस्य तेऽपि ताम् ।
कथामाख्याय तत्प्रोक्तां सार्थनेतुरदर्शयन् ॥ ६५६ ॥
सार्थेशोऽपि ममासि त्वं सुता नेष्यामि तत्सुखम् ।
त्वां स्थाने वसतीत्युक्त्वा स्नानादिभिरनन्दयत् ॥ ६५७ ॥
तामारोप्याद्भुते याने सार्थेशोऽथाचलत्प्रगे।
नीत्वाचलपुरद्वारि क्रमाञ्चैनां मुमोच सः ॥ ६५८ ॥
तत्राध्वचड्क्रमक्लान्ता वाप्यां कस्यांचिदप्यसौ ।
प्रविश्य जलपानादि विधाय बहिरागमत् ॥ ६५९ ॥
आकाशपतितेवासौ पावयन्ती दृशा पुरम् ।
किंकर्तव्यजडा वापीद्वारवेद्यामुपाविशत् ॥ ६६० ॥
ऋतुपर्णो जनाकर्ण्यकीर्तिस्तत्र नृपस्तदा ।
चन्द्रोपमयशाश्चन्द्रयशास्तस्य प्रियाभवत् ॥ ६६१ ॥
तस्याश्ये[६]द्यस्तदा वाप्यां नीरमाहर्तुमागताः ।
तामपश्यज्जगच्चेतोहारिरूपां सविस्मयम् ॥ ६६२ ॥
वाप्यन्तर्वलितग्रीवं ताः पश्यन्त्योऽथ तां मुहुः ।
शनैःशनैर्विशन्ति स्म निरीयुश्च शनैःशनैः ॥ ६६३ ॥
गत्वा कौतुकिताश्चन्द्रयशसे तां न्यवेदयन् ।
आनेतुं सापि तां प्रीत्या भूयोऽपि प्रजिघाय ताः ॥ ६६४ ॥
एत्य तास्तत्र तामूचुर्देवी चन्द्रयशाः शुभे ।
त्वामाह्वयति भूपस्य पुत्री प्रीत्या नृपप्रिया ।। ६६५॥
एत्य तत्प्रेमपीयूषस्तापं निर्वापयात्मनः ।
त्वं स्थितात्र पुनः शून्यचेताः स्थलमवाप्स्यसि ।। ६६६ ॥
१. 'चेल्यः' इति भवेत.
.इत्यासां वचनर्भैमी प्रह्वीभूतमना मनाक् ।
प्रश्रव्योद्गारिचक्रीभिस्ताभिः परिवृताचलत् ॥ ६६७ ॥
मम चन्द्रयशा मातुः पुष्पदन्त्याः सहोदरा ।
इति ज्ञातेयमज्ञासीन्न जातु नलवल्लभा ॥ ६६८ ॥
जामेयी दमयन्ती मेऽत्य(?)जानाना नृपप्रिया ।
तदानीं बाल्यदृष्टत्वात्तां नोपालक्षयत्पुनः ॥ ६६९ ॥
साग्येत्यालिङ्गदायान्तीं पुत्रीप्रेम्णा तथापि ताम् ।
तत्त्वेनाविदितेऽप्यर्थे प्रमाणं हि मनः सताम् ॥ ६७० ॥
प्रक्षिप्तशिरसं मातृस्नेहेनाङ्घ्रि सरोरुहे ।
उत्थाप्य सावदद्भैमीं प्रीतिकल्लोललोलिताम् ॥ ६७१ ॥
वत्से त्वमपि मे पुत्र्याश्चन्द्रवत्याः प्रियवसा।
उभे अपि युवां लक्ष्मीं तत्कृतार्थयतं मम ॥ ६७२ ॥
परमात्मस्वरूपं मे कथयेत्युदिता तया ।
सार्थे पुंसां यदाख्यातं तदेवाख्यन्नलप्रिया ॥ ६७३ ॥
दीनानाथकृते चन्द्रयशोदेव्याः पुराद्बहिः ।
वर्तते सुकृतोदारं सत्रागारमवारितम् ॥ ६७४ ॥
भैम्यूचे तां ततः सत्रे दानं दास्येऽहमन्वहम् ।
यदि वात्मपतिं वीक्षे जात्वस्मिन्भोजनार्थिनम् ॥ ६७५ ॥
ओमित्युक्ते तया भैमी सत्रे दानं ददौ स्वयम् ।
तेन तेषां विशेषेण कलयामासुरर्थिनः॥ ६७६ ॥
सापश्यत्कंचिदन्येद्युः सत्रस्था बद्धमग्रतः ।
चौरमारक्षकैर्नीयमानमाहतडिण्डिमम् ॥ ६७७ ॥
स तां वीक्ष्यावदद्दीनं रक्ष मां देवि रक्ष माम् ।
सा कृतं किमनेनेति पप्रच्छारक्षकांस्ततः ।। ६७८ ॥
तेऽप्यूचुरमुना चन्द्रवत्या रनकरण्डिका ।
जज्ञे (है) तेनैष वध्यत्वान्नीयते वधभूमिकाम् ॥ ६७९ ॥
ततः सावोचदारक्षानेनं मुञ्चत मुश्चत ।
सर्वत्रोत्तरमेतस्य कर्तास्मि किमतः परम् ॥ ६८० ॥
इत्युक्तेऽपि तया यावत्ते न मुञ्चन्ति तस्करम् ।
तावत्साच्छोटयह्बन्धांस्तस्याम्भश्चलकैत्रिभिः ॥ ६८१ ॥
ते झटित्यत्रुटंस्तस्य तत्सतीत्वप्रभावतः ।
नागराणां ततो जज्ञे हर्षकोलाहलो महान् ॥ ६८२ ॥
तमुपश्रुत्य संम्रान्तस्तत्र राजाप्युपागमत् ।
तद्वीक्ष्य कौतुकं भैमीं हृष्टोऽप्येवमुवाच सः ॥ ६८३ ॥
धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः ।
मात्स्योऽ(?)न्यायोऽन्यथा वत्से भवेद्भुवनघस्मरः ॥ ६८४ ॥
लोकेभ्यः करमादाता चौरेभ्यस्तानरक्षिता ।
तदीयैर्लिप्यते राजा पातकैरिति हि स्मृतिः ॥ ६८५ ॥
तन्मोचयसि चेदेनं भविष्यत्यव्यवस्थितिः ।
इत्युक्ता भूभुजा भैमी दयालरिदमब्रवीत् ॥ ६८६ ॥
तात दस्युर्विपद्येत यदि दृष्टोऽप्यसौ मया ।
तदहद्धर्मवेदिन्याः क्वेयं मम कृपालुता ॥ ६८७ ॥
तदाग्रहमिति ज्ञात्वा राजा दस्युममोचयत् ।
माननीया महासत्यो हन्त भूमीभुजामपि ॥ ६८८ ॥
स दस्युस्तत्पदाम्भोजमानम्येति तदावदत् ।
देवि मातासि मे नव्यजन्मदानादतःपरम् ॥ ६८९ ॥
इत्युक्त्वा स जगाम स्वं स्थानमानन्दमेदुरः ।
अभ्येत्य चानमन्नित्यं मातेत्यस्याः क्रमाम्बुजम् ॥ ६९०॥
पृष्टोऽन्यदा स वैदर्भ्या स्वस्वरूपमचीकथत् ।
वसन्तः सार्थवाहोऽस्ति यस्तापसपुरप्रभुः ॥ ६९१ ॥
तस्याहं पिङ्गलो नाम दासस्तत्सदनेऽन्यदा ।
खात्रं दत्वापहृत्याथ रत्नजातं पलायितः ॥ ६९२ ॥
मार्गेऽन्यैर्लठितश्चौरैः क्षेमं दुष्टात्मनां कुतः ।
अत्रायातः क्रमेणाहं राजसेवामसूत्रयम् ॥ ६९३ ॥
परेद्यवि नृपावासे संचरन्ननिवारितः ।
वीक्ष्य शून्यामपाहर्षं तां माणिक्यकरण्डिकाम् ॥ ६९४ ॥
वेगात्प्रक्षिप्य कक्षायां तां सर्वाङ्गावगुण्ठनः ।
राज्ञा निर्यन्नलक्ष्येऽहं दक्षा हीङ्गितवेदिनः ॥ ६९५ ॥
समर्प्यारक्षकाग्रण्यः सोऽथ मां बध्यमादिशत् ।
तत्पुंभिर्नीयमानं च हन्तुं स्वमिन्यमोचयः ॥ ६९६ ॥
तदेवि त्वत्प्रसादस्य क्वापि नानृण्यमस्ति मे।
कादम्बिन्याः कथं नाम जीवलोकोऽनृणी भवेत् ॥ ६९७ ॥
अपरं च यदा देवी त्वं तापसपुराद्गता ।
सार्थवाहस्तदा दुःखाद्भुक्तिमप्यत्यजत्सुधीः ॥ ६९८ ॥
बोधितः श्रीयशोभद्रगुरुणान्यैर्जनैश्च सः ।
सप्ताहाह्बुभुजे सार्थवाहो निर्वाहिसंगरः ॥ ६९९ ॥
उपायनमुपादाय रत्नवर्णाधनेकशः।
नृपकूबरमद्राक्षीकोशलामेत्य सोऽन्यदा ॥ ७०० ॥
तया चोपदया तुष्टस्तं तापसपुरेश्वरम् ।
राजानमकरोद्भूपश्छत्रचामरलाञ्छितम् ॥ ७०१॥
नाम्ना चैनं वसन्तश्रीशेखरं स विनिर्ममे ।
प्राहिणोच्च पुरे प्रीत्या भम्भया ताड्यमानया ॥ ७०२ ॥
प्रविश्योत्सवसोत्साहः शास्तीदानी पुरं स तत् ।
सापि त्वन्महिमप्रौढिः स्वामिन्येवं श्रियोऽस्य यत् ॥ ७०३ ॥
ऊचेऽथ भीमभूर्वत्स पाप्मनोऽस्य छिदाकरीम् ।
दीक्षामादत्स्व सोऽप्यङ्गीचक्रे तद्वचनं मुदा ।॥ ७०४ ॥
शुद्धैः सत्कृत्य पानान्नैर्मुनिद्वितयमन्यदा ।
भैमी वक्ति स्म यद्यस्ति पिङ्गलस्यास्य योग्यता ।। ७०५ ॥
तदस्मै व्रतदानेन भगवन्तौ प्रसीदतम् ।
मुनी अप्यूचतुर्दीक्षायोग्य एवैष पिङ्गलः ॥ ७०६ ॥
प्रार्थितावथ तेनापि चैत्ये नीत्वा तदैव तम् ।
प्रव्रज्य तौ मुनी सार्धंमेतेवान्यत्र जग्मतुः ।। ७०७ ॥
हरिमित्रोऽन्यदा विप्रः कुण्डिनात्पूर्वसंस्तुतः ।
एत्य भूमिपतिं दृष्ट्वा ययौ चन्द्रयशोऽन्तिके ॥ ७०८ ॥
बद्धाञ्जलिं निविष्टं तमने भूपप्रियाभ्यधात् ।
विदर्भभूभुजः क्षेमं पुष्पदन्त्याश्च मे स्वसुः ॥ ७०९ ॥
दम्पत्योरनयोर्देवि क्षेमलक्ष्मीः सनातनी ।
नलस्य दमयन्त्याश्च सानु चिन्तास्ति सांप्रतम् ॥ ७१० ॥
संभ्रान्तया किमात्थेति तयोक्तःसोऽब्रवीत्पुनः ।
जातु शुश्राव नः स्वामी लोकाख्यातामिमां कथाम् ॥ ७११॥
यथा नलो महीमक्षैः कूबरेण सबन्धुना ।
हारितो निरगाद्भैमीं पुरस्कृत्य पुरान्निजात् ॥ ७१२॥
तामरण्ये परित्यज्य सोडगमतदनन्तरम् ।
वार्तापि न तयोर्विश्वे कापि कुत्रापि वर्तते ॥ ७१३ ॥
तदुपश्रुत्य न स्वामी स्वामिनी पुष्पदन्त्यपि ।
वज्राहताविवोन्मीलदुःखभारौ मुमूर्च्छतुः ॥ ७१४ ॥
मूर्च्छान्ते विलपन्तौ च समन्वेष्टुमितस्ततः ।
जामातरं तनूजां च प्राहैष्टां तौ तदैव माम् ॥ ७१५ ॥
प्रत्यरण्यं प्रतिग्राम प्रतिपत्तनमप्यहम् ।
भ्राम्यन्क्रमान्महीमेतामिहेदानीमुपागमम् ॥ ७१६ ॥
न तयोः पुनरश्रौषं वार्तामात्रमपि क्वचित् ।
तत्क्लेशफलमेवैतद्बभूव भ्रमणं मम ॥ ७१७ ॥
श्रुत्वेति गिरमाक्रन्दमुच्चैश्चन्द्रयशा व्यधात् ।
नलस्य कुर्वती निन्दां तां तां, भैम्याः स्तुति पुनः ॥ ७१८ ॥
क्रन्दद्भिरनु तां लोकैः शोकाद्वैतं तदाखिले ।
जातं राजकुले नेतुरनुगा ह्यनुजीविनः ॥ ७१९ ॥
ततः स विप्रः क्षुत्क्षामकुक्षिः क्षितिपमन्दिरात् ।
निर्गत्य भोजनाकाङ्क्षिः दानशालां जगाम ताम् ॥ ७२० ॥
तत्र सोऽधिकृतां प्रेक्ष्य भैमीमुत्फुल्ललोचनः ।
प्रधाव्य रभसा तस्याः पादपङ्केरुहेऽपतत् ॥ ७२१ ॥
ऊचे च दिष्ट्या दृष्टासि भ्राम्यता भुवनं मया ।
अद्य स्वस्त्यस्तु सर्वेषां भवजीवितजीविनाम् ॥ ७२२ ।
अथैत्य स जवाञ्चन्द्रयशोदेवीमवर्धयत् ।
तच्छोकाश्रुपदेऽभूवन्क्षणात्प्रीत्यश्रुविषुषः ।। ७२३ ॥
सत्रागारमुपेत्याथ सा मुदालिङ्ग्य भीमजाम् ।
साश्रुरूचे बलिस्तुभ्यं क्रियेऽस्यां चावतारणम् ॥ ७२४ ॥
हा हा धिग्मामियत्कालं न मयाप्युपलक्षिता ।
जगद्विलक्षणापि त्वमेतैर्लोकंपृणैर्गुणैः ॥ ७२५ ॥
वञ्चितास्मि कथं वत्से त्वया कृत्वानुगोपनम् ।
मातृस्वसापि मातेव तत्पुरः का खलु त्रपा ॥ ७२६ ॥
किं त्यक्तासि नलेन त्वं नलस्त्यक्तस्त्वयाथवा ।
यदि वा न पर्ति जातु त्यजसि त्वं पतिव्रता ॥ ७२७ ॥
विडम्बितसहस्रांशुर्ललाटतिलकः क्व ते ।
सेति मार्ष्टि स्म तद्भालं सनिष्ठीवेन पाणिना ॥ ७२८ ॥
प्रादुरास ततस्तस्याः स भालतिलकः क्षणात् ।
यस्यान्तेवासितामन्ये तेजांसि दधतेऽन्वहम् ॥ ७२९ ॥
तां धृत्वाथ करे नीत्वा वेश्मन्युर्वीशवल्लभा ।
स्वयमस्नापयद्गन्धवारिभिर्देवतामिव ।। ७३०॥
परिधान्य दुकूले च ज्योत्स्वासब्रह्मचारिणी ।
तैस्तैः प्रेमोपचारैस्तां राज्ञी काममनन्दयत् ॥ ७३१ ॥
तां चालम्ब्य करे गत्वा राज्ञोऽभ्यर्णमुपाविशत् ।
सोऽप्यपृच्छत्ततो भैमीं राज्यभ्रंशादिकां कथाम् ॥ ७३२ ॥
साप्युदञ्चच्छुचे तस्मै साश्रुराख्यदधोमुखी ।
नलकूबरयोः सार्वां तां कथामादुरोदरात् ॥ ७३३ ॥
राजाप्युन्मार्जयन्नश्रु तस्याः प्रावारवाससा ।
ऊचे खिद्यस्व मा वत्से बली को नाम कर्मणाम् ॥ ७३४ ॥
तमोभिस्तिरयन्विश्वं तदाचास्तं रविर्ययौ ।
चकास्ति स्म प्रकाशस्तु मध्येसंसत्तथैव सः॥ ७३५ ॥
रात्रौ किमयमुद्द्योत इति विस्मितमानसम् ।
राज्ञी चन्द्रयशाः स्मेरवक्रा भूपालमभ्यधात् ॥ ७३६ ॥
वैदर्भीतिलकस्यास्य देव लीलेयमद्भुता ।
भैमीभालं पितेवाथ पाणिना पिदधे नृपः ।। ७३७ ॥
सभान्तरस्फुरद्धान्तः सूचिभेद्यश्च तत्क्षणात् ।
पुनः पाणिमपाकर्षस विस्मयमना नृपः॥ ७३८ ॥
तदा कश्चिद्दिवोऽभ्येत्य संसदि द्युतिभासुरः ।
भूमिलन्भौ लिरानम्य भैमीमित्यवदत्सुरः ।। ७३९ ॥
देवि त्वया पुरा त्रातश्चौरो यः पिङ्गलाभिधः ।
प्रतिबोधसुधाकल्पैर्वाक्यैश्चाग्राह्यत व्रतम् ॥ ७४०॥
क्रमेण बिहरन्भूमौ स तापसपुरं ययौ ।
तत्र प्रतिमया तस्थौ सशाने निशि जातुचित् ॥ ७४१ ॥
तदा चाभ्यर्णमायातचितावह्निभवे दवे ।
स सात्त्विकशिरोरत्नं व्यधादाराधनां स्वयम् ॥ ७४२ ॥
समाधेरच्युतः सोऽहं ज्वालासंवलितस्ततः।
वपुः सत्यज्य सौधर्मे सुरोऽभूवं महर्द्धिकः ॥ ७४३ ॥
तत्प्रबोध्य तदा चेन्मां व्रतं नाग्राहयिष्यथाः।
गतस्य नरके तन्मे क्वाभविष्यन्निमाः श्रियः ॥ ७४४ ॥
सर्वस्तव प्रसादोऽयं चिराय विजयख तत् ।
इत्युक्त्वागात्सुरो हेम्नः सप्तकोटीः प्रवृष्य सः ॥ ७४५ ॥
साक्षीकृत्य महीनाथोऽप्यहं धर्मस्य तत्फलम् ।
प्रतिपद्यत तं हर्षभरव्याप्तान्तराशयः ॥ ७४६ ॥
अथावसरमासाद्य हरिमित्रोऽभ्यधान्नृपम् ।
स्थितात्र सुचिरं भैमी यात्विदानीं पितुर्गृहे ॥ ७४७ ॥
पुष्पदन्ती च सा माता पिता च स विदर्भराट् ।
प्रवासश्रवणादस्यास्तिष्ठतो देव दुःखितौ ॥ ७४८ ॥
ततश्चन्द्रयशोदेव्या मतमादाय तत्क्षणात् ।
ओमित्युक्त्वा ततो भैमी प्राहिणोत्सह सेनया ॥ ७१९ ॥
तामायान्तीं सुतां श्रुत्वा भीमभूपतिरभ्यगात् ।
निरीक्ष्य पितरं सापि दूरतो यानमत्यजत् ॥ ७५० ॥
धावित्वा रभसाद्भैमी पादयोरपतपितुः ।
तयोः प्रीत्यश्रुवर्षेण पङ्किला तत्र भूरभूत् ।। ७५१ ॥
मातरं च सहायान्तीं वीक्ष्याश्लिष्यत्प्रमोदिनीम् ।
तस्याः कण्ठे लगित्वा च तारतारं रुरोद सा ॥ ७५२ ॥
सुतां भूपः पुरं कृप्तमहोत्सवमवीविशत् ।
मुदा च गुरुदेवार्चांं सप्तरात्रमकारयत् ॥ ७५३ ॥
पृष्टा भूमीभुजा कुब्ज जातुचिन्मम पश्यतः।
तामेतां भीमभूः सर्वां निजामकथयत्कथाम् ॥ ७५४ ॥
ऊचे च पृथिवीनाथस्तां स वात्सल्यया गिरा।
वत्से विदधती धर्मं वसासत्सदने सुखम् ॥ ७५५ ॥
करिष्यते तथा कश्चिदतः परमुपक्रमः ।
यथा कुतश्चिदभ्येत्य पतिस्तव मिलिष्यति ॥ ७५६ ॥
ददौ च हरिमित्राय प्रामपञ्चशतीं नृपः ।
तुष्टोऽभ्यधाञ्च राज्यार्धं तुभ्यं दाखे नलागमे ॥ ७५७ ॥
अन्यदा दधिपर्णस्य भूपतेः स्नेहवर्त्मना ।
दूतस्तत्र ययौ धीमान्सँसुमारपुरादितः ॥ ७५८ ॥
स जातु वार्ताप्रस्तावेऽकथयद्भीमभूभुजः।
यथासत्स्वामिनः पार्श्वे प्राप्तोऽस्ति नलसूपकृत् ॥ ७५९ ॥
स वेत्ति सूर्यपाकाया रसवत्या विधिं सुधीः ।
वक्ति चास्यामुपाध्यायो बभूव नल एव मे ॥ ७६० ॥
श्रुत्वैतल्लोकतो भैमी भूपमेत्य व्यजिज्ञपत् ।
न तां रसवतीं तात वेत्ति कश्चिन्नलं विना ॥७६१॥
तत्प्रेक्ष्य कंचिज्जानीहि किंरूपः किं नलश्च सः ।
अवश्यं गोपितात्मैवं नल एक स वल्लभः ॥ ७६२ ॥
मामाहूय ततो दत्त्वा शिक्षा प्रैषीद्विदर्भराट् ।
क्रमादत्रैत्य भद्रा त्वां पृच्छन्पृच्छन्निहागमम् ॥ ७६३ ॥
एवंरूपं च वीक्ष्य त्वां विषादादित्यचिन्तयम् ।
काचे मरकतम्रान्तिवैदर्भ्यः किमभूदियम् ॥ ७६४ ॥
नलः क्व दिविषद्देश्यः कुब्जश्चाव्यक्तसूपकृत् ।
क्वः सर्षपः क्व मेरुश्च व खद्योतः क्व चार्यमा ॥ ७६५ ॥
तथाप्येनं परीक्षिष्ये विचिन्त्येति पठंस्त्वया ।
नल क्षेपमयौ श्लोकावापृच्छेऽहं कथामिमाम् ॥ ७६६ ॥
तदस्तु स्वस्ति ते यामि व्यावृत्य नगरं निजम् ।
यथादृष्टं च वैदया॑स्त्वत्स्वरूपं निवेदयेः ॥ ७६७ ॥
भैमीस्मरणसंभूतं कथंचन ततः सुधीः ।
बाष्पपूरं निरुन्धानः कुब्जः कुशलमब्रवीत् ॥ ७६८ ॥
पूज्योऽसि कथयन् विप्र पुण्यपात्रकथाभिमाम् ।
तदागच्छ ममावासं गृहाण मम सत्कृतिम् ॥ ७६.९ ॥
इत्युदीर्य द्विजन्मानमानीय स गृहे निजे ।
रसवत्याः तया सूर्यपाकया तमभोजयत् ।। ७७०॥
अभूच भूधवाल्लब्धं यट्टङ्काभरणादिकम् ।
तत्प्रदायाखिलं कुब्जोऽनुमेने गमनाय तम् ॥ ७७१ ॥
सोऽथ विप्रो विदर्भायां समभ्येत्य विषादवान् ।
भैमीभूमीभुजोः कुब्जस्वरूपं तदचीकथत् ॥ ७७२ ॥
स्वयं रसवती तां च भुक्तामाख्याय स द्विजः ।
टङ्कलक्षादि तत्सर्वं कुब्जदत्तमदर्शयत् ॥ ७७३ ॥
सुंसुमारजनाख्याताः करीन्द्रदमनादिकाः ।
कुब्जस्य ताः कला राजप्रसादं च न्यवेदयत् ॥ ७७४ ॥
अथाह भीमभूस्तात त्वज्जामातैव स ध्रुवम् ।
कुब्जत्वमागमत्सैष नूनं केनापि हेतुना ॥ ७७५ ॥
यतः सा रसवत्येताः कलाः सेयमुदारता ।
त्रैलोक्येऽपि न कस्यापि तव जामातरं विना ॥ ७७६ ॥
तत्कथंचिदिहानीय वीक्ष्यते स खलु स्वयम् ।
इङ्गितैर्लक्षयिष्यामि यद्यस्ति नल एव सः ॥ ७७७ ॥
बभाषे भूपतिर्वत्से पुनर्गतपतेस्तव ।
कृत्वा स्वयंवरव्याज दधिपर्णो निमद्द्यते ॥ ७७८ ॥
निशम्यैतत्स कुब्जोऽपि तेन सार्धं समेष्यति ।
न खल्वात्मप्रियां यान्तीमन्यत्र सहते सुधीः ॥ ७७९ ॥
भूपः सोऽभूत्त्वदाकाङ्क्षी प्राक्तनेऽपि स्वयंवरे ।
त्वया वृते नले त्वेष विलक्षोऽभूद्भृशं तदा ॥ ७८० ॥
तदासन्नदिनाहूतं तूर्णमागन्तुमक्षमम् ।
ताम्यन्तं त्वत्कृते काममारोप्य जविनं रथम् ॥ ७८१ ॥
तं चेदानेष्यते कुजः स ध्रुवं नल एव तत् ।
हृदयं यस्तुरगाणां वेत्ति नान्यो विनामुना ॥ ७८२ ॥
इत्यालोच्य वितीर्याथ शिक्षामक्षामधीगुणः ।
भूभुजे दधिपर्णाय दूतं प्रातिष्ठिपन्नृपः ।। ७८३ ॥
स तन्नगरमासाद्य कुब्जे संनिधिवर्तिनि ।
आचख्यौ दधिपर्णाय भीमभूपालवाचिकम् ॥ ७८४ ॥
यथा न ज्ञायते तावत्स क्वचिन्नलभूपतिः।
करिष्यति ततो भैमी देव भूयः खयंवरम् ॥ ७८५ ॥
चैत्रस्य शुद्धपञ्चम्यां प्रातः स भविता ध्रुवम् ।
यथास्मिन्नुपतिष्ठेथाः कुर्वीथास्त्वं तथा नृप ॥ ७८६ ॥
इत्याख्याय गते दूते स कुब्जोऽन्तरचिन्तयत् ।
महच्चित्रमहो कुर्याद्यदैम्यप्यपरं वरम् ॥ ७८७ ॥
स्यादेवमपि वा जातु बलीयान्खलु मन्मथः ।
जीवतो मम वैदर्भी कः पुनस्तां गृहीष्यति ॥ ७८८ ॥
किं नु केनापि गृह्यन्ते जीवतोऽपि हरेः सटाः।
तक्षकस्य फणारत्नं कृप्यते श्वसतोऽपि किम् ॥ ७८९ ॥
सोऽथ तं पृथिवीपालं निमीलन्मुदमभ्यधात् ।
जृम्भते भूप किं नाम दौर्मनस्यं तवाध्यदः ॥ ७९० ॥
यस्य सोऽहं सहायोऽसि सर्वकर्मीणतास्पदम् ।
तस्यापि तत्किमप्यस्ति नैव यत्करगोचरम् ॥ ७९१ ॥
यामः खयंवरादर्वाक् षट् सन्त्यद्यापि तद्यदि ।
मनस्ते भीमजन्मानं तां मृगीदृशमिच्छति ॥ ७९२ ॥
तदर्पय रथं कचिद्दृढं जात्यांश्च वाजिनः ।
दर्शयामि यथा प्रातर्भुवं कुण्डिनमण्डिताम् ॥ ७९३ ॥
गृहाण खेच्छयेत्युक्तः क्षितीशेन स बुद्धिमान् ।
जग्राह रथमश्वांश्च सर्वलक्षणलक्षितान् ॥ ७९४ ॥
सज्जीकृत्य रथं युक्तवाहमाधाय च क्षणात् ।
इहारोहेति तं कुब्जः क्षोणिपालमभाषत ॥ ७९५ ॥
राजा [७]स्थगीधरश्छत्रधारश्चामरधारिणौ ।
कुब्जश्चेति षडारोहन्नरास्तसिन्वरूथिनि ॥ ७९६ ॥
१. स्थगी ताम्बूलपानविशेषः
.ततो बिल्वकरण्डौ यौ दत्तौ निषधनाकिना।
तावाबध्य कटौ कुब्जः प्राजति स तुरंगमान् ॥ ७९७ ॥
कुब्जेन प्रेरितान्वीक्ष्य वाहाननिलरंहसः ।
दधिपर्णनरेन्द्रोऽथ विस्मयादित्यचिन्तयत् ॥ ७९८ ॥
अहो कश्चित्पुमानेष मानत्येति सर्वतः ।
अद्यापि रत्नगर्भेयं वहते नाम सान्वयम् ॥ ७९९ ॥
क्वचिद्वेगानिलोद्धूतपावारे पतिते भुवि ।
नृपोऽवोचत्पटीं गृह्णे ध्रियन्तां कुब्ज वाजिनः ॥ ८०० ॥
कुब्जोऽप्यूचे स्मितास्यस्तं यत्र ते पतिता पटी'।
ततः स्थानादतिक्रान्ता पञ्चविंशतियोजनी ।। ८०१॥
इमे हि मध्यमा एव वाहाश्चेत्तु स्युरुत्तमाः ।
पञ्चाशद्योजनीं राजलङ्घेरन्नियतं ततः ॥ ८०२ ॥
वृक्षमक्षाख्यमुदीक्ष्य क्वाप्यथो फलमांसलम् ।
कुब्जं राजाभ्यधादात्मकलोत्कर्षं विशेषयन् ॥ ८०३ ॥
फलानां भूरुहस्यास्य संख्यामगणयन्नपि ।
वेद्म्यहं कथयिष्यामि व्यावृत्तः कुब्ज ते क्षणात् ॥ ८०४ ॥
कुब्जोऽब्रवीदिदानीं त्वं कालक्षेपाद्विभेषि किम् ।
माभैषीरधुनैवैतां राजन्नाख्यातुमर्हसि ॥ ८०५ ॥
अष्टादश सहस्राणीत्युक्ते भूपतिना ततः ।
आहत्य मुष्टिना कुब्जस्तं फलौघमपातयत् ॥ ८०६॥
रथादुत्तीर्य भूपेन सूत्रिते गणनाविधौ ।
तावत्येवाभवत्संख्या न च न्यूना नचाधिका ॥ ८०७ ॥
भूभुजे याचिते विद्यां तुरङ्गहृदयात्मिकाम् ।
दत्त्वामादाददे संख्याविद्यां कुब्जोऽथ विस्मयात् ॥ ८०८ ॥
अथागादुदयप्रस्थे स्यन्दनोऽनूरुसारथिः ।
विदर्भनगरद्वारि कुब्जसूतो रथः पुनः ॥ ८०९ ॥
तदा झगिति निःशेषैरारुरोह वनैः समम् ।
अवाप दधिपर्णस्य विकाशं मुखवारिजम् ॥ ८१० ॥
तस्मिन्नेव निशाशेषे खप्नमैक्षिष्ट भीमजा।
उत्थाय शयनीयाञ्च प्रीता पितुरचीकथत् ।। ८११ ॥
अद्य प्रातर्मया स्वप्ने प्रैक्षि निर्वृतिदेवता ।
तयेहानीय मे व्योम्नि दर्शितं कोशलावनम् ॥ ८१२ ॥
रसालं फलपुष्पाढ्यमारोहं तत्र तद्विरा ।
विकचं शतपत्रं च ममार्प्यत करे तया ।। ८१३ ॥
पुरारूढो झटित्येव विहगः कोऽपि भूतले।
अकस्मादपतत्तस्माञ्चूतदध्यासितान्मया ॥ ८१४ ॥
भीमोऽप्यूचे त्वया दृष्टः पुत्रि स्वाप्नोऽयमुत्तमः ।
तथा हि भाग्यसंभारः प्रत्यक्षस्तव निर्वृतिः ॥ ८१५॥
कोशलाप्रापकं तद्यत्कोशलोद्यानदर्शनम् ।
माकन्दपादपारोहः साक्षात्ते प्रियसंगमः ॥ ८१६ ॥
माकन्दाद्यस्त्वदाक्रान्ताद्भ्रंशः कस्यापि पक्षिणः ।
पातः पातकिनो नूनं साम्राज्यात्कूबरस्य सः ॥८१७॥
निशावसाने स्वप्नस्य दर्शनानलसंगमः।
अद्य भावी प्रभाते हि स्वप्नः सद्यः फलेग्रहिः ॥ ८१८ ॥
तदोपेतं पुरद्वारि दधिपर्णं ससंभ्रमः।
अभ्येत्य मङ्गलो नाम कोऽप्याख्यद्भीमभूभुजे ॥ ८१९ ॥
भीमोऽभ्येत्य तमायान्तं प्रीत्याश्लिष्य वयस्यवत् ।
सौधार्पणाधमाधाय स्वागतं चेत्यवोचत ॥ ८२० ॥
कुब्जस्ते सूपकृत्सूर्यपाका रसवतीमसौ ।
वेत्तीति श्रूयते तां मे दर्शयास्ति कुतूहलम् ॥ ८२१ ॥
गिराथ दधिपर्णस्य कुब्जो रसवतीं स ताम् ।
निष्पाद्याभोजयद्भीमभूपालं सानुजीविनम् ॥ ८२२ ॥
दधिपर्णोपरोधेन तत्स्वादं च परीक्षितुम् ।
आनाय्य भैम्यपि स्थाले कृत्वा तां बुभुजे स्वयम् ॥ ८२३ ॥
तत्स्वादमुदिता भैमी जगाद पितरं रहः ।
कुब्जः स्वञ्जोऽस्तु वा तात नल: सैष न संशयः॥ ८२४ ॥
मुनिर्ज्ञानी ममाचख्यौ पुरा ह्येतद्यदा भुवि ।
नलो रसवती सूर्यपाकां जानाति नापरः ॥ ८२५ ॥
परीक्षान्तरमप्यस्ति स्वसंवेदनसिद्धिकम् ।
संस्पर्शमात्रतोऽप्यस्य स्यां सरोमाञ्चकचुका ॥ ८२६ ॥
दधिपर्णमथाहूय स्वे गृहे सपरिच्छदम् ।
वैदर्भस्त्वं नलोऽसीति कुब्जं वक्ति स्म सादरः ॥ ८२७ ॥
कुब्जोऽप्यूचे स्मितं कुर्वन्नयं वः क इव भ्रमः ।
क्व नलः स्मरसंकाशः क्व चाहं दृग्विषाञ्चनः ॥ ८२८ ॥
भैम्यवोचत्ततस्तात मनागपि वपुर्मम ।
अङ्गुल्या संस्पृशत्वेष कुर्वे येनास्य निर्णयम् ॥ ८२९ ॥
राजादेशात्ततः कुब्जस्तस्याः सूक्ष्मनिपातया ।
वक्षश्चास्पृशदगुल्या जातं च पुलकाङ्कुरैः ॥ ८३० ॥
आः शठोऽसि परिज्ञातः क्व यास्यसि ममाग्रतः ।
इत्याद्युदीर्य तं भैमी बलादभ्यन्तरेऽनयत् ॥ ८३१ ॥
भैम्याः प्रेमोचितैस्तैस्तैर्वाक्यैरार्द्रीभवन्मनः ।
तस्माद्बिल्वात्करण्डाञ्च दुकूलाभरणानि सः ॥ ८३२ ॥
पर्यधाञ्च समाकृष्य रूपं चासादयन्निजम् ।
विरहोपचितप्रेमा तमाश्लिष्यत्प्रिया ततः ॥ ८३३ ॥
पुनद्वारि समायातं परिरभ्योपवेश्य सः ।
निजे सिंहासने भीमस्तं कृताञ्जलिरब्रवीत् ॥ ८३४ ॥
एताः श्रिय इमे प्राणास्त्वदीया एव भूपते ।
तत्कृत्यमादिशेत्युक्त्वा भीमो वेत्रित्वमातनोत् ।। ८३५ ॥
दधिपर्णोऽपि संभ्रान्तः प्रणम्य नलमभ्यधात् ।
देव प्राचीनमज्ञानादपराधं क्षमस्व मे ॥ ८३६ ॥
त्यक्तः कुब्जत्ववैरूप्यो नलः स्वं रूपमास्थितः ।
निर्मुक्त इव भोगीन्द्रस्तदानीं दिद्युतेतराम् ॥ ८३७ ॥
सार्थेशो धनदेवोऽथ सोपायनकरस्तदा ।
कुतोऽपि भीमभूपालं द्रष्टुकामः समागमत् ॥ ८३८ ॥
प्राकृतोपकृतेस्तत्तद्बन्धुवत्तस्य गौरवम् ।
कृतज्ञा कारयामास वैदर्भी भीमभूभुजा ॥ ८३९ ॥
ऋतुपर्णनृपं चन्द्रयशश्चन्द्रवतीयुतम् ।
दूतस्तं च वसन्तश्रीशेखरं भैम्यजूहबत् ॥ ८४० ॥
भीमभूमीभुजा नित्यमुपचारैर्नवैर्नवैः ।
ते कृतप्रीतयः सर्वे निन्युर्मासं मुहूर्तवत् ॥ ८४१ ॥
अन्येद्युः कश्चिदभ्येत्य भीमसंसदि कान्तिमान् ।
सुरः पश्यत्सु सर्वेषु वैदर्भीमित्यवोचत ।। ८४२ ॥
भैमि स्मरसि संबोध्य यं पुरा तापसेश्वरम् ।
प्रापयिष्यसि सम्यक्त्वप्रव्रज्यां च शुभोदयाम् ॥ ८४३ ।॥
सोऽहं तप्त्वा तपोऽप्युग्रं सौधर्मे धर्मभाग्मृतः ।
श्रीकेसरसुरोऽभूवं विमाने केसराहये ॥ ८४४ ॥
यस्त्वयाकृष्य मिथ्यात्वादर्हद्धर्मेऽस्मि रोपितः ।
तस्यैवैतत्फलं तन्मे त्वमत्यन्तोपकारिणी ॥ ८४५॥
इत्युक्त्वा तपनीयस्य सप्त कोटीर्विकीर्य सः ।
कृतज्ञचूडामाणिक्यं यथागतमगात्सुरः ॥ ८४६ ॥
वसन्तदधिपर्णर्तुपर्णा भीमोऽपरोऽप्यथ ।
अभ्यषिञ्चन्नलं राज्ये महीयांसो महीभृतः ॥ ८४७ ॥
ते नलादेशमासाद्य कभ्पयन्तोऽथ काश्यपीम् ।
सर्वाणि स्वस्वदेशेभ्यः सद्यः सैन्यान्यमेलयन् ॥ ८४८ ॥
अथ प्रतस्थे दैवज्ञदत्तेऽह्नि सहितो नृपः ।
कोशलां प्रति लक्ष्मीं स्वां ग्रहीष्यन्बलवान्नलः।। ८४९ ॥
स क्रमात्तिरयन्सैन्यपांशुपूरैरहस्करम् ।
अध्यतिष्ठदयोध्यायाः काननं रतिवल्लभम् ॥ ८५० ॥
बहिरुद्यानमायातमाकर्ण्यातिबलं नलम् ।
कूबरस्य मनोऽकार्षीत्संकथां मृत्युना समम् ॥ ८५१ ॥
तं दूतेन नलोऽवादीद्दीव्य भूयोऽपि देवनैः ।
त्वल्लक्ष्भ्यः सन्तु मे हन्त मल्लक्ष्म्यस्तव सन्तु वा ॥ ८५२ ॥
मृत्युभीतिमथापास्य कूबरः प्रीतिबन्धुरः ।
भूयो द्यूतमुपाक्रस्त लब्धास्वादो हि तत्र सः ॥ ८५३ ॥
क्षणात्कूबरतोऽजैषीत्काश्यपीं निखिला नलः ।
पुंसां भाग्येऽनुकूले हि सिध्यन्ति सकलाः क्रियाः ॥ ८५४ ॥
राज्यं भूयोऽप्यलंचक्रे नलोऽनलसविक्रमः ।
नमोऽङ्गाणमिव प्रातर्देवः कमलिनीपतिः ॥ ८५५॥
जितश्रीरपि दुष्टोऽपि स्वबन्धुरिति कूबरः।
राज्ञार्द्रमनसा चक्रे पूर्ववद्यौवराज्यभाक् ।। ८५६ ॥
तत्तदाभून्नल: कामं सतां श्लाघास्पदं परम् ।
कूबरः स पुनः क्रूरकर्मा निन्दानिकेतनम् ॥ ८५७ ॥
प्राज्यभाग्ये नले भूयः स्वराज्यमधितस्थुषि ।
माङ्गल्योपायनान्येयु[८]र्भरतार्धमहीभुजाम् ।। ८५८ ॥
नलश्च दमयन्ती च राज्यश्रीभिरलंकृतौ ।
बद्धोत्सवं ववन्दाते कोशलाचैत्यमण्डलीम् ।। ८५९ ॥
भरतार्धधराधीशशिरोभिर्धतशासनः ।
भूयांस्यब्दसहस्राणि मेदिनीमभुनग्नलः ॥ ८६० ॥
आख्यातसमयोऽभ्येत्य निषधः स्वर्गिणा दिवः ।
पुष्कलाख्ये सुतेऽन्येद्युर्न्यस्य राज्यभरं नलः ॥ ८६१ ॥
१. आसमन्तादीयुरित्यर्थः ।
जातसंसारवैराग्यो वैदर्भ्या सह कान्तया ।
जिनसेनाभिधाचार्यपादान्ते व्रतमग्रहीत् ॥ ८६२ ॥
अन्तेऽनशनमाधाय मृत्युमाप्य समाधिना ।
नलः सुरः कुबेरोऽभूज्जज्ञे भैम्यपि तत्प्रिया ॥ ८६३ ॥
इतीयमम्बिकासूनोर्नलकूबरयोः कथा ।
मया ते कथिता तत्त्वमस्याः सम्यग्विचार्यताम् ॥ ८६४ ॥
कूबरेण जिता द्यूतच्छद्मनेयं वसुंधरा ।
न नाम स्थास्नुतामागात् कियस्क्रूरधियां श्रियः ॥ ८६५ ॥
प्रत्युताभूत्परा मानग्लानिरेतस्य दुर्धियः ।
पदादध्यासितात्पातस्त्रपाकारी हि दोषमताम् ।। ८६६ ॥
तदेवं कूबरस्येव जयोऽप्यस्मिन्दुरोदरे ।
नाभाति मे शुभोदर्कस्त्वदीयतनुजन्मनः ॥ ८६७ ॥
जितामपि महीमेते पाण्डवा नार्पयन्ति चेत् ।
तदा को नाम गृह्णीयादत्यन्तबलवानपि ॥ ८६८ ॥
कर्ता वा कलहं कंचिच्वेद्ग्रहीतुमहंकृतः।
तत्तैर्घानिष्यते नूनं सुतस्ते सह बान्धवैः ॥ ८६९ ॥
सत्यवाक् तपसः सूनुरर्पयेद्वा जितां महीम् ।
तथापि शाश्वती नास्य जीवतोर्भीमपार्थयोः॥ ८७०॥
आच्छिन्नश्रीबलाचाभ्यां स कूबर इवोच्चकैः ।
यास्यति त्वत्सुतोऽवश्यं लोकस्यैवास्य हास्यताम् ॥ ८७१ ॥
किं चेन्द्रप्रस्थमप्यस्य तदा न स्थानु मन्यते ।
तल्लाममिच्छतो मूलक्षतिः शङ्केऽस्य भाविनी ॥ ८७२ ॥
न कश्चिन्नलतुल्योऽस्ति कूबरस्येव यः पुनः ।
श्रियं तब तनूजस्य क्रूरस्यापि प्रदास्यति ॥ ८७३ ॥
देशत्यागं तदा कुर्यात्सैष युद्ध्वा म्रियेत वा ।
प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ ८७४ ॥
तदेनं कथमप्यस्य निवर्तय कदाग्रहात् ।
द्यूतं हि नायतिक्षेमंकरं कस्यापि दृश्यते ॥ ८७५ ॥
इत्यसौ विदुरस्योक्तिर्धृतराष्ट्रहृदि क्वचित् ।
पूर्णेऽम्भोबिन्दुवत्कुम्भे नावकाशं समासदत् ॥ ८७६ ॥
तावदाप्तगिरा धर्मकृत्यमायतिचिन्तनम् ।
गृह्णाति देहिनां मोहो यावन्मनसि न स्थितिम् ॥ ८७७ ॥
उदारदुःखसंभारविभिन्नहृदयस्ततः ।
रचितोपेक्षमुत्थाय स्वस्थानं विदुरो ययौ ॥ ८७८ ॥
सभावलोकनव्याजादथाह्वातुं तपःसुतम् ।
हास्तिनं नगरं प्रैषीद्धार्तराष्ट्रो जयद्रथम् ॥ ८७९ ॥
हस्तिनापुरमभ्येत्य संवेगाद्वाग्मिनां वरः ।
स्नेहदाक्षिण्यभूयिष्ठं युधिष्ठिरमभाषत ॥ ८८० ॥
देव दुर्योधनस्तुभ्यं मया विज्ञापयत्यदः ।
बान्धवेषु समग्रेषु त्वमेव मम जीवितम् ।। ८८१ ।।
तन्ममाभिनवां दिव्यां संसदं द्रष्टुमर्हसि ।
मनोज्ञमपि नाभीष्टैरदृष्टं हि मुदे सताम् ॥ ८८२ ॥
इन्द्रप्रस्थं ततः प्रस्थमेयानन्दं त्वदागमे ।
अद्यास्तु नूतनोत्सर्पदुत्सवक्षीवतां गतम् ॥ ८८३ ॥
इत्याकर्ण्य तपासूनुर्जयद्रथसरस्वतीम् ।
इन्द्रप्रस्थं ततः प्रीत्या चचाल सरलाशयः ॥ ८८४ ॥
सह द्रुपदनन्दिन्या कनीयांसस्तमन्वयुः ।
पौरस्त्यमारुतं सार्धं विद्युतेव पयोमुचः ॥ ८८५॥
तरङ्गपवनोद्धूतमनुस्वर्धुनि गच्छतः ।
सहगामीव धर्मोऽस्य विरेजे कैतकं रजः ।। ८८६ ॥
तस्यासेदे बलैः संपन्माद्यदुद्यानमण्डिता ।
अरिव्रातमनःशल्यैरिन्द्रप्रस्थोपशल्यभूः ।। ८८७ ॥
तं प्रत्युदगमत्सैन्यैः पृष्ठतो धृतराष्ट्रसूः।
पूर्व वामानिलानीतस्तत्परागस्त्वभाग्यवत् ॥ ८८८ ॥
सहानीकैरजातारिर्मनोरथ इवाङ्गवान् ।
प्राविशन्नगरं तस्य तत्कालकलितोत्सवम् ॥ ८८९ ॥
बहिर्विकीर्णवात्सल्यं धृतराष्ट्रं युधिष्ठिरः ।
सबान्धवोऽपि बाह्यार्द्रं शमीतरुमिवानमत् ॥ ८९० ॥
तथा दुर्योधनस्तस्य तास्ताः खागतिकीः क्रियाः ।
करोति स्म यथा मेने तस्मिन्नैकात्म्यमेव सः ॥ ८९१ ॥
भिद्यन्ते हि भ्रदीयांसः प्रेमभिः कृतकैरपि ।
दारवीयोऽपि नाराचो भिनत्ति कदलीद्रुमम् ॥ ८९२ ॥
भीष्मद्रोणादयो वृद्धाः खेहपहिलचेतसः ।
चिरयत्यात्मजे पाण्डोरिन्द्रप्रस्थमुपाययुः ॥ ८९३ ॥
अथ क्वचन निःसङ्गचतुरङ्गदुरोदराम् ।
क्वचिद्गभचरोदारशारक्रीडामनोहराम् ॥ ८९४ ॥
क्वचित्प्राप्तजयद्यूतकारवाचालनालिकाम् ।
क्वचिञ्च कलितोत्कर्षशलाकाकेलिशालिनीम् ॥ ८९५॥
प्रतिपट्ट प्रतिस्तम्भ प्रत्यश्रि प्रतिपुत्रिकम् ।
अशक्यदर्शनामेकदेशमग्रेक्षणात्ततः ॥ ८९६ ॥
खरामणीयकाक्षिप्तस्वःसद संसदं निजाम् ।
दर्शयामास गान्धारीतनयो धर्ममूनवे ॥ ८९७ ॥
(चतुर्भिः कलापकम् ।)
भ्राम्यन्तौ तौ ततस्तस्यां वीक्षमाणावितस्ततः ।
युवां क्रीडिष्यतः किं वेत्यजल्पेतां महाक्षिकैः ॥ ८९८॥
दुर्योधनोऽप्यभाषिष्ट विष्टपश्रीविशेषतः ।
माननीया महान्तोऽमी दीव्यामो देवनैः क्षणम् ॥ ८९९ ॥
ओमित्युक्तेऽथ धर्मात्मजन्मना तावुभावपि ।
क्रीडितुं प्रक्रमेते स्म देवनैरितरेतरम् ॥ ९००॥
तदा सरलचेतोभिर्धातृभिः परिवारितः ।
रेजे धर्मात्मजः पारिजातः कल्पद्रुमैरिव ॥ ९०१ ॥
धार्तराष्ट्रोऽप्यधादृष्टैरावृतः सौबलादिभिः ।
कण्टकद्रुपरीतस्य विलासं विषशाखिनः ॥ ९०२॥
द्वौ द्विकौ द्वौ चतुष्कौ च दश चेत्यादिवादिनोः ।
अक्षयूतमनुस्यूतं ततः प्रववृते तयोः ।। ९०३ ॥
क्रीडामात्रं किमित्यादौ पत्रपूगादिकः पणः ।
ततोऽङ्गुलीयकाद्योऽभूद्द्यूते वृद्धिमुपेयुषि ॥ ९०४ ॥
यदा यस्य जयस्तस्य तदानीं पारिपार्श्वकाः ।
मोदन्ते स्म रविर्यत्र तत्रैव कमलोत्सवः ॥ ९०५ ॥
ताम्बूलं वासरो रात्रिभुक्तिपानादिकाः क्रियाः ।
जगाम विस्मृतिं सर्वं तयो रङ्गेण दीव्यतोः ॥ ९०६ ॥
आसीज्जयस्तयोरन्यतरस्यामुभयोरपि ।
जज्ञे पराजयोऽप्येवं यावद्द्यूतमभूदृजु ॥ ९०७ ॥
गान्धारीकुक्षिगृह्यैः शकुनिप्रमुखैस्ततः ।
कौटिल्यसद्मभिश्छद्मद्य़ूतं तैरुपचक्रमे ॥ ९०८ ॥
अन्धवन्मन्त्रविष्टब्धदृष्टिवद्बूद्धपट्टवत् ।
पतितोऽपि ततो नैक्षि स्वदायो धर्मसूनुना ॥ ९०९ ॥
गान्धारखामिना पूर्वोपदिष्टकरकैतवात् ।
अपातयत्पुनर्जेत्रमेवाक्षं धृतराष्ट्रभूः ॥ ९१० ॥
स मूर्धन्यमणीन्यङ्गभूषणानि तप:सुतः।
मरुत्पथ इव प्रातर्भानि सेन्दून्यहारयत् ॥ ९११ ॥
कर्णादीनां ततः प्रीतिबीजैरुच्छ्वसितं मनाक् ।
कौशिका हि सहस्रांशुव्यसनस्पृहयालवः ॥ ९१२ ॥
कियदेतदिति भ्रातृमण्डली पाण्डुजन्मनः।
न विव्यथेऽलिमालेव द्वित्रपुष्पव्यये वने ॥ ९१३ ॥
अहारयत्क्रमात्कोशसंभृतं वसु धर्मसू: ।
ग्रीष्मर्तुं पिण्डितं चण्डधामेव जलदागमे ॥ ९१४ ॥
ततः संतापधर्मर्तुरावसत्सुहृदां हृदि ।
विद्विषामुदमीलंस्तु मनस्याह्लादमल्लिकाः ॥ ९१५ ॥
क्रीडारसात्पणीकुर्वन् रथ्यां साश्वीयहास्तिकम् ।
अभ्यधीयत संभ्रान्तैर्गाङ्गेयाद्यैस्तपासुतः॥ ९१६ ॥
क्रीडामात्रं युवा द्यूतमस्माभिर्बह्वमन्यत ।
संप्रत्युन्मत्तमेतत्तु नानुमन्यामहेतमाम् ॥ ९१७ ॥
द्यूतायैश्चेद्विजेष्यन्ते व्यसनैस्वादृशा अपि ।
देवस्तदुष्णधामापि तमोभिर्न्यंक्करिष्यते ॥ ९१८ ॥
व्यसनैः सह वास्तव्याः किमत्र स्युर्गुणाः क्वचित् ।
दृष्टं क्वाप्येकपात्रस्थं पीयूषं च विषं च किम् ॥ ९१९ ॥
द्यूतदावानलादस्मात्तन्निवर्तितुमर्हसि ।
ज्वलत्यैवैष ते पश्य हहा गुणमयः पटः ॥ ९२० ॥
इत्येतां न गिरं तेषामजातारिरजीगणत् ।
सतामपि विधी क्रुद्धे विपर्यस्यति शेमुषी ॥ ९२१ ॥
द्यूतासक्तमनीषास्तमीक्षितुं केचिदत्यजन् ।
त्यजन्ति राजहंसा हि मेघालिमलिनं तमः ॥ ९२२ ॥
हारितेभरथाश्वीयः स कर्णादीनमोदयत् ।
घनास्तग्रहतारेन्दु व्योमेव तिमिरोत्करान् ॥ ९२३ ॥
अथाकरपुरग्रामसमग्रमवनीतलम् ।
ग्लहीकुर्वति कौन्तेये सभ्याः संभ्रान्तमभ्यधुः ॥ ९२४ ॥
न नाम भवति क्षोणिपणोऽयमवधिं विना ।
हन्त दुर्योधनस्यापि मद्र[९]कारोऽव[१०]धिः कृतः ॥ ९२५ ॥
सर्वथा निजसाम्राज्यनिराशान्पाण्डवानमून् ।
को निवारयितुं विश्वेऽप्यपणीकुर्वतः पणम् ॥ ९२६ ॥
।, मद्रकारः क्षेमकर इति शब्दकल्पद्रुमः.। २. 'कृतोऽवधिः' इति युक्त प्रतिभाति ॥ सूत्रिते चावधौ राज्यप्रत्याशासुस्थिताशया । अन्यायं वाग्विपर्यासं लज्जयापि न तन्वते ॥ ९२७ ॥ (2) इत्याकर्ण्य गिरः कर्णः सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मिन्नस्तु द्वादशवत्सरी ॥ ९२८ ॥ तां कर्णभारतीमोमित्युररीकृत्य वेदितुम् । पुनः प्रावर्तिषातां तौ द्यूतकारावुभावपि ॥ ९२९ ।। हारितायां क्षणादक्षकैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे बान्धवान्धर्मनन्दनः ॥ ९३० ॥ तैश्च दासेरवत्कर्म कर्तव्यं द्यूतहारितैः । अधिमन्दिरमाजन्म धृतराष्ट्रामजन्मनः ।। ९३१ ॥ दुःखस्फुटितहृन्ममकीकसध्वनिबान्धवः । उदगात्पारिषद्यानां महान्हाहारवो मुखात् ।। ९३२ ।। शरीरमिदमात्मीयमस्येव हि पुनः क तत् । यत्र कुत्रचिदित्यन्तः खेदिनस्तस्य नानुजाः ॥ ९३३ ॥ राधेयसौबलादीनामनिन्दन्केऽपि कैतवम् । निनिन्दुर्धार्तराष्ट्रस्य केऽपि विश्वासघातिताम् ॥ ९३४ ॥ निन्दन्ति स्म तपःसूनोः केचिदत्यार्जवं मुहुः । धृतराष्ट्रं सुतस्नेहमोहितं केऽप्यनिन्दिषुः ॥ ९३५ ।। (युग्मम्) क्व इवैतादृशो ज्येष्ठबन्धुः स्वाधीनजीवितः । इति वायुसुतादींस्तु तुष्टाः सर्वेऽपि तुष्टुवुः ॥ ९३६ ॥ हारितेषु प्रतीपेन वेधसावरजेष्वपि । अजातरिपुरात्मानं चकाराकृपणः पणम् ॥ ९३७ ॥ मामेति परिषद्वाक्यैराक्रन्दैरनुजीविनाम् । लोकशोकप्रबादैश्च शब्दाद्वैतं तदाभवत् ।। ९३८ ।। शृङ्गाप्रवद्विरेरापः प्रतिषेधपरा गिरः। भीष्मादीनामवस्थानं लेभिरे न युधिष्ठिरे ॥ ९३९ ॥ पणाभावात्पृथासूनुरथात्मन्यपि हारिते। आसीकिकार्यतामूढस्तरुभ्रष्टप्लवङ्गवत् ॥ ९४०॥ ततस्तं स्वजनीभूय बभाषे सुबलात्मजः। पणस्तवास्ति पाञ्चाली तयात्मानं विमोचय ॥ ९४१ ॥ इत्युक्ते तेन वैकल्यपल्यङ्कः सह कीर्तिभिः । द्रौपदीमपि कौन्तेयो निनाय पणतां तदा ।। ९४२ ।। गान्धारीसुतगृह्याणामपि केषांचिदक्षिषु । तदाविरासन्नश्रूणि गुणाः सर्वप्रियंकराः ॥ ९४३ ।। दुर्जनैकधुरीणाय तस्मै द्यूतसृजे नमः । येन कामप्यनीयन्त महान्तोऽपीदृशीं दशाम् ॥ ९४४॥ द्रौपदीपणमाहात्म्याद्यदि नाम तपासुतः। इदानीं जयतीत्यादि तदान्योन्यं जगुर्जनाः ॥ ९४५ ॥ क्षणेनाथ भुजास्फोटनादकन्दलितोदयाः । जित जितमिति खैरमुच्चेरुः शकुनेर्गिरः ॥ ९४६ ॥ स्तम्भिता इव मूछीला इव चित्रार्पिता इव । मृता इव ग्रहग्रस्ता इव सभ्यास्तदाभवन् ॥ ९४७ ।। शत्रवः पाण्डुपुत्राणां हरन्तो राज्यसंपदम् । तेनुरुद्भूतसत्त्वानां निःसपत्नां सुखश्रियम् ॥ ९४८ ॥ कौरवाः पर्यपूर्यन्त संमदैः क्षयहेतुभिः । अन्यायसंभृताभोगैर्विभवैरिव दस्यवः ॥ ९४९ ।। अथ दुर्योधनादेशाद्यावदुःशासनो मुदा । वासांसि पाण्डवेयानामपक्रष्टुमचेष्टत ।। ९५० ॥ तावत्ते स्वयमुत्सृज्य चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्पयुपाविक्षन्नवामुखाः ॥ ९५१ ॥ (युग्मम्) अत्रैवानीयतां सापि पुंश्चली पञ्चवल्लभा । इत्यादिशत्कनीयांसं मन्दमेधाः सुयोधनः ॥ ९५२ ॥ ततो दुःशासनो लुप्तगरीयःसाधुशासनः । स्मेरवक्राम्बुजोऽभ्येत्य पाञ्चलीमित्यवोचत ॥ ९५३ ।। तेन दुर्मेधसा पत्या हारितासि दुरोदरे । त्वं जितासि च पाञ्चालि धार्तराष्ट्राग्रजन्मना ॥ ९५४ ॥ ततः स भवतीं प्रीतिप्रहमाह्वयति द्रुतम् । न चेदेष्यसि नेष्यामि तद्बलादपि भामिनि ॥ ९५५ ॥ पाञ्चालदुहितावोचन्नन्वद्यास्मि रजस्वला । एकांशुका च तत्संसद्युपागच्छाम्यहं कथम् ॥ ९५६ ॥ किंच किंचन पृच्छामि कश्चिदात्मनि हारिते। अहारिते वा तेनास्मि हारिता जगतीभुजा ॥ ९५७ ।। हारितापि न तेनास्मि हारिता हारितात्मना । स्वकायेऽप्यखतन्त्रस्य का नाम प्रभविष्णुता ॥ ९५८ ॥ प्रातरुचण्डमार्तण्डरोचिराचान्तदीधितिः । जानीहि रजनीनाथो रजन्या अप्यनीश्वरः ।। ९५९ ॥ तामित्युक्तवती क्रुध्यन्नूचे दुर्योधनानुजः । धिग्वाचालासि पाञ्चालि पुरो भवसि किं न हि ।। ९६०॥ धर्मस्थेये त्वमेवासि सांप्रतं किमधीतिनी । जाने तमपि जानासि बृहस्पतिमकोविदम् ॥ ९६१ ।। इत्युदीर्य स कस्तूरीभराकरितकान्तिषु । चकर्ष विहितामर्षः केशेषु द्रुपदात्मजाम् ॥ ९६२ ॥ आः पाप कुरुभूपालगोत्रकिपाकपादप । कि मामेवंविधामेवं नेतासि गुरुसंनिधौ ॥ ९६३ ।। नारङ्गास्थगितं यस्याः कोऽपि नापश्यदाननम् । हा सर्वेऽनावृताङ्गीं तां द्रक्ष्यन्ति गुरवोऽद्य माम् ॥ ९६४ ॥ दुरात्मन्कि भवत्कर्म कर्मसाक्ष्यपि नेक्ष्यते । यन्न क्षणात्क्षिणोति त्वां परस्त्रीस्पर्शपांशुलम् ॥ ९६५ ॥ क्रन्दन्तीति गलन्नेत्रनीरनीराजितक्षितिः । तेन कृष्टा जनैर्दृष्टा सा मृगीव मृगारिणा ॥ ९६६ ॥ शतशः शपमानानां तदा दुःशासनं सताम् । न च सारस्वतोल्लासलासिनी रसनाभवत् ।। ९६७ ।। तपःसूनोरपि ज्ञानधर्मन्यायशमादिषु । जनः सावज्ञ एवाभूत्क्लिश्यमानां विलोक्य ताम् ॥ ९६८॥ नेताश्रुसलिलैः कूलंकषस्रोतस्विनीमयी । नूतना प्रावृडारेभे लोकैः शोकाकुलैस्तदा ॥ ९६९ ।। तामेकवसनामश्रुविक्लवाक्षीं त्रपानताम् । निनाय न्यायशून्यात्मा हठादुःशासनः सभाम् ॥ ९७० ॥ उल्लसदैन्यमालिन्यां सा मषीकूर्चिकामिव । तत्र व्यापारयामास मुखेषु प्रेयसां दृशम् ।। ९७१ ।। तामालोक्य तथाभूतां त्रपाकलुषिताशयाः । प्रेक्षामासुः सुताः पाण्डोर्विवक्षव इव क्षितिम् ॥ ९७२ ।। गृहेऽप्येतदरक्षन्तः किं द्रष्टव्यानना वयम् । इतीव पिदधुर्वक्र हिया भीष्मादयोऽशुकैः॥ ९७३ ॥ दृशो द्रुपदनन्दिन्यां नवरागतरङ्गिताः । कौरवाधिपतेः पेतुः कामपल्लविता इव ॥ ९७४ ॥ कृशोदरि चिरादासीदनुरागो मम त्वयि । हन्तायमन्तरायोऽभूत्पाण्डवैः पाणिपीडनम् ॥ ९७५ ॥ इदानीमप्युपागत्य झटित्येवास्यतामितः । इत्यूरुं दर्शयामास याज्ञसेन्याः सुयोधनः ॥९७६॥ (युग्मम्) अथावोचत पाञ्चाली कोपकम्प्रतराधरा । कुरुराजान्वयोदन्वत्कालकूटकुलाशने ॥. ९७७ ॥ भस्मसात्किं न जातोऽसि चिन्तयाप्यनया मयि । कोटरान्तर्गतोऽप्यग्निर्दहत्येव महीरुहम् ॥ ९७८ ॥ (युग्मम्) यदि गोत्रगरीयांसः केऽपि स्युमहिमोन्नताः । बल्लभा अपि केऽपि स्युर्यदि मे भुजशालिनः ॥ ९७९ ॥ मर्षयेयुस्तदेतस्य किमेतदनुजस्य च । जीवितव्यकथाकन्थामित्थमन्यायवर्तिनोः ॥ ९८० ।। (युग्मम्) किंचान्तःस्वान्तमालोच्य कथयन्तु सभासदाः । हारितः स्वात्मना भर्ता भवेयं यदि हारिता ।। ९८१ ।। अथाभ्यधत्त राधेयः सभ्यान्किमियमङ्गना। विजिते राज्यसर्वस्वे न तदन्तर्गता जिता ।। ९८२ ।। अथैकवाससोऽमुष्या मध्येसंसन्मतं न वः । बलादानयनं कापि नेयमप्यव्यवस्थितिः ॥ ९८३ ।। एक एव पतिर्लोके योषितामुपगीयते । अनेकप्रेयसीयं तु बन्धक्येव न संशयः ॥ ९८४ ।। तदेकवसनत्वं वा वस्त्रराहित्यमप्यथ । पर्षदानयनं वापि नैतस्याः खल्वसांप्रतम् ॥ ९८५ ॥ इति कोक्तिमाकर्ण्य क्रोधाध्माताशया अपि । दुर्योधनमिया सभ्यास्तूष्णीमेवावलम्बिरे ॥ ९८६ ।। गान्धारेयोऽभ्यधात्क्रोधस्फुरदोष्ठपुटोऽनुजम् । जितवेयं मया सभ्यैरजानद्भिनिवेदिता ।। ९८७ ।। तत्सतीमानिनीमेनामुन्मोच्याताग्रेनाम्बरम् । परिधाप्य जरद्दण्डीखण्डं दासीषु निर्दिश ॥ ९८८ ।। इति दुःशासनो दुष्टज्येष्ठबान्धवशासनात् । नितम्बादम्बरं पाण्डुसुषायाः स्वैरमाकृषत् ॥ ९८९ ॥ मामेति दीनजल्पाक्या प्रक्षिपन्त्या मुखेऽङ्गुलीम् । रुन्धत्यास्तत्करौ कामं पश्यन्त्याः पर्षदाननम् ॥ ९९० ॥ दुष्टात्मनांशुके कृष्टे तेनास्या ददृशुर्जनाः । दैवतेनानुभावेन तादृगेवान्यदंशुकम् ।। ९९१ ॥ (युग्मम् ) मनुष्यपांसनः क्षिप्रमाचकर्ष तदप्यसौ । भूयोऽप्याविरभूतादृक्तस्याः श्रोणितटेऽम्बरम् ॥ ९९२ ।। इत्थमाकर्षतस्तस्य बभूव वसनोत्करः । क्लान्तश्चायमपीयाय दृष्टः स्मेराननैर्जनैः ।। ९९३ ।। अथ क्रोधोदयात्ताम्रचक्षुरूर्द्ध्वजकुन्तलः । रोमाञ्चकवची खेदमेदुराङ्गः सवेपथुः ॥ ९९४ ॥ पाणिना पाणिमुत्पिंषन्सर्वतो वीक्ष्य संसदम् । विकाशिनासिकाकोशः प्रत्यज्ञासीद्वृकोदरः ।। ९९५ ॥ येनानीता सभां कृष्णा बलादालम्ब्य कुन्तलैः । गुरूणां पश्यतां चास्याः श्रोणेराकृष्टमम्बरम् ॥ ९९६ ॥ बाहुदण्डं न चेत्तस्यामूलादुन्मूलयाम्यहम् । कवोष्णैश्चाभिषिञ्चामि न वक्षःशोणितैः क्षितिम् ।। ९९७ ।। येन च सरकल्लोलकेलिमिर्लोलितात्मना । द्रौपद्या दर्शितः खैरमूरुदशो रिरसुना ॥ ९९८ ॥ तस्योरं गदया तूर्णं चूर्णीमावं नये न चेत् । तन्न मे पाण्डुना जन्म न च क्षत्रवतं कचित् ॥ ९९९ ॥ इत्युदीरितवत्युच्चैीमे संभावितौजसि । सभाक्षोभोऽजनि क्षीरपाथोधिमथनोपमः॥ १००० ।। मध्येसभमथोत्थाय धृतराष्ट्रमदुष्टधीः । जगाद विदुरः शोकसंभारविदुराशयः ॥ १००१ ।। प्रसूतमात्र एवायं पुराख्यायि मयापि ते। दुरात्मा कुलकल्पान्तधूमकेतुः सुयोधनः ।। १००२ ॥ किमीदृक्क्रियते कर्म चण्डालानां कुलेष्वपि । कैतवेन विजीयन्ते भ्रातरोऽपि यदात्मनः ॥ १००३ ॥ पुरो गुरूणामानीय केशैरादाय तत्प्रियाम् । तन्नितम्बस्थलाद्वासो निःशङ्कं यच्च कृष्यते ॥ १००४ ।। तत्कथं सहतां नाम भीमः कान्तापराभवम् । . न प्रियागःसहास्तेऽपि पक्षिणः किमु दोर्भृतः ॥ १००५॥ अदुःशासनमद्रोणमकर्णमसुयोधनम् । अभीष्मधृतराष्ट्रं च राष्ट्रं भीमः करिष्यति ॥ १००६ ॥ तत्कथं सर्वसंहारमिदानीमप्युपेक्षसे । घातय क्रूरकर्माणमेनमेकं सुयोधनम् ॥ १००७॥ नैवं चेत्तदमुं पापं पापादस्मान्निवर्तय । अमी वनाय गच्छन्तु पाञ्चाल्या सह पाण्डवाः॥१००८॥ पुनरेत्यावधेरन्ते भुञ्जन्तां जगतीं निजाम् । न चेत्कुटुम्बसंवर्तस्तवाद्यायमुपस्थितः ।। १००९ ।। इति भ्रातुर्गिरा भीतिप्रथमानाङ्गवेपथुः । बभाषे भृशमाक्रोशन्धृतराष्ट्रः सुयोधनम् ।। १०१० ॥ आः पापकर्म चाण्डाल सदाचारवनद्विप । निरपत्रप नाद्यापि दुष्कर्मभ्यो निवर्तसे ॥ १०११॥ विसुज खैरचाराय बान्धवान्सह जायया । न चेन्मत्करवालोऽयं शिरस्ते न सहिष्यते ॥ १०१२ ।। पितुर्गिरमिति श्रुत्वा मनःकलुषमुच्चकैः । भीष्मादीनां च संभाव्य भाषते स्म सुयोधनः ।। १०१३ ।। ममाप्येकं वचस्तर्हि वर्षीयांसो भवत्वदः । नेतव्यं पाण्डवैः क्वापि गुप्तैर्ष त्रयोदशम् ॥ १०१४ ॥ निगूढानप्यमूंस्तसिंश्चेज्जानामि कथंचन । तन्मेदिनीमिमां भुञ्जे पुनर्द्वादशवत्सरीम् ॥ १०१५॥ अमीभिस्तु पुनस्तावद्विधातव्या बने स्थितिः । इत्युक्तिं पाण्डवास्तस्य गुर्वादेशात्प्रपेदिरे ॥ १०१६ ।। निदेशाद्धृतराष्ट्रस्य द्रोणगाङ्गेययोरपि । आर्पयत्पाण्डुपुत्राणां प्रावारान्कौरवाग्रणीः॥१०१७ ।। गुरूणामनुरोधेन पाण्डवेयानधोमुखान् । नित्ययौवनया सार्धमनुमेने वनाय सः॥ १०१८ ॥ याज्ञसेनीं पुरस्कृत्य मूर्ती धृतिमिवात्मनः । पदातयः सुताः पाण्डोरिन्द्रप्रस्थात्प्रतस्थिरे ॥१०१९ ॥ जाह्नवेयादयो वृद्धाः स्नेहसंदोहमोहिताः। मन्यूर्मिमलिनास्यास्तानन्वगुः पादचारिणः ॥ १०२० ॥ संतताश्रुपयःपूरैः पङ्किलीकृतवर्मभिः । ते तथा पथि गच्छन्तो निरीक्षांचक्रिरे जनैः ॥ १०२१ ॥ हारिताखिलनरेन्द्रसंपदः पाण्डवाः स्फुरदखण्डतेजसः । मातरं च पितरं च वीक्षितुं हस्तिनापुरमुपागमन्पुनः ॥ १०२२ ।।
इति मलधारिश्रीदेवप्रभसूरिविरचिते महाकाव्ये पाण्डवचरिते नलोपाख्यानद्यूत- वर्णनो नाम षष्ठः सर्गः ॥ ६॥
सप्तमः सर्गः। अथ धर्मसुतः सत्यनिर्वाहस्पृहयालुना। मनसा वनवासाय प्रतस्थे हस्तिनापुरात् ॥ १ ॥ भीमादयः सह ज्यावतसंनद्धबुद्धयः । खखशस्त्रादिसामग्रीसमग्राश्चेलुरप्रतः ॥ २ ॥ पाण्डुश्च धृतराष्ट्रश्च भीष्मश्च लेहमोहिताः । निर्यद्वाष्पजलोत्पीडाः पाण्डवाननु वत्रजुः ।। ३ ॥ सत्यवत्यादयः सर्वाः शोकाती ज्येष्ठमातरः । दासीहस्तकृतालम्बा बभूवुः पाण्डवानुगाः ॥ ४ ॥ भद्रं तवास्तु क्रीडाद्रे क्रीडावापि नमोऽस्तु ते । क्रीडावन तव क्षेमं पुनर्वः संगमः कुतः ॥ ५॥ हंहो बर्हिन्नहो हंस हले हरिणि हे शुक । कुशलं वोऽस्त्वसौ दैवाद्याति वः परिचारिका ॥ ६ ॥ इत्यापृच्छ्य पतद्बाष्पा केलिपात्राणि सर्वतः । बद्धा परिकरं कृष्णा कुन्तीपृष्ठस्थिताचलत् ॥ ७ ॥ (त्रिभिर्विशेषकम्). लोकोऽपि पुरवास्तव्यो गुणगृह्यतया परम् । विहाय गृहसर्वस्वं धर्मनन्दनमन्वगात् ॥ ८ ॥ सर्वैः साकं सशोकैस्तैः पार्वणेन्दुसमाननः । धर्मात्मजः पुरान्निर्यन्मूर्तो धर्म इवाबभौ ॥ ९ ॥ विसंकटेऽपि संघट्टसंकटे पथि गच्छताम् । परस्परस्य लोकानां मिथः पप्रथिरे कथाः ॥१०॥ निजं नलेन साम्राज्यं पुरा द्यूते पणीकृतम् । हा हा युधिष्ठिरेणापि तदिदानीमनुष्ठितम् ॥ ११ ॥ धिग्धिग्दुर्योधनं येन महात्मा धर्मनन्दनः । कृत्वा द्यूतमयं छद्म त्याजितो राज्यसंपदम् ॥ १२ ॥ दुर्योधनस्य न स्थास्नु राज्यमात्रमपि ध्रुवम् । यावद्विजयिनावेतौ वृकोदरकिरीटिनौ ॥ १३ ॥ किं चान्यत्प्रतिपाञ्चालि यदनेन प्रपञ्चितम् । आलप्यालं तदस्माकमेतस्यैव फलिष्यति ॥ १४ ॥ जनानां सानुरागाणामित्थमुत्तस्थिरे गिरः । केषां न पक्षपातः स्यात्तादृशेषु महात्मसु ॥ १५ ॥ अथान्यमनसं कृष्णां क्रूरः किर्मीरराक्षसः । अकस्मान्नभसोऽभ्येत्य भापयामास वर्त्मनि ॥ १६ ॥ भषीकृष्णवपुः पिङ्गविकीर्णघनमूर्द्धजः । स मौलिप्रज्वलद्दावो विन्ध्याचल इवाबभौ ॥ १७ ॥ गवलश्यामलो बिभ्रदङ्गारसदृशौ दृशौ । जहास प्रलयाकाशमुदिताङ्गारकद्वयम् ॥ १८ ॥ भुजङ्गीतरलां जिह्वां बिभ्राणं द्रौपदीपुरः । दन्तैः कृतान्तकुन्ताभैर्भीमं स व्याददौ मुखम् ॥ १९ ॥ ततो भयार्तमत्युच्चमुच्चरत्प्रतिनिस्वनम् । द्रौपदी रोदसीभेदकोविदं विदधे ध्वनिम् ॥ २० ॥ तेनाथ ध्वनिनाकृष्टः कोपाटोपादुपेत्य तम् । भीमो निर्भर्त्सयांचक्रे किमिदं पाप चापलम् ॥ २१ ॥ दीर्घाध्वपथिकी श्रान्तां प्रवासेन विषेदुषीम् । प्रियां भीषयसे मे त्वमधुना भुङ्क्ष्व तत्फलम् ॥ २२ ॥ इत्याक्षिप्य गदाघातैस्तं नीत्वान्तं वृकोदरः। योऽस्ति दुर्योधनक्रोधस्तन्मुष्टिं कृष्टवांस्तदा ।। २३ ॥ दुर्योधनवधारम्भे किर्मीरं तस्य वल्लभम् । निहत्यास्थापयद्भीमो भद्रायोंकारमादिमम् ॥ २४ ॥ इमं किर्मीरवृत्तान्तमविदन्नेव भूपतिः । आजगाम लतारम्यं काम्यकं नाम काननम् ॥ २५ ॥ तदा विकर्तन(नः) कर्तुमात्मानमिव पावनम् । अध्यास्य नभसो मध्यमास्यं तस्यास्पृशत्करैः ॥ २६ ॥ कुकर्मकर्मठेऽत्यन्तक्रोधादिव सुयोधने । कर्मसाक्षी तदा मङ्गु जज्वाल ज्वलनोपमः ॥ २७ ॥ माता(त)पितृजनः सर्वः पादचारेण खिद्यते । तत्पश्चरात्रमत्रैव देवावस्थीयतामिति ॥ २८ ॥ मुहुर्विज्ञापितो भीमसेनेन वसुधाधिपः । सर्वेषामपि लोकानामप्रयाणं समादिशत् ॥ २९॥ (युग्मम् ) अपाथेयो जनस्तत्र तपनातपविक्लवः । बाहूपधानः सर्वोऽपि सुष्वाप प्रतिपादपम् ॥ ३० ॥ तादृशे वनवासेऽपि तेषामात्मानुगामिनाम् । वृत्तिचिन्ता दुनोति स्म धर्मनन्दनमानसम् ॥ ३१ ॥ ज्ञात्वा तादृन्मनो राज्ञः पार्थः सस्मार सत्वरम् । विद्यां मनोहराहारसमाहरणकोविदाम् ॥ ३२ ॥ ततस्तयोपनीतायां रसवत्यां पृथाज्ञया । तं जनं भोजयामास प्रमोदाद्द्रुपदात्मजा ॥ ३३ ॥ विनयान्निजबन्धूनां राज्यसौख्यातिशायिनाम् । सुखेन धर्मसूनुस्तं गमयामास वासरम् ॥ ३४ ॥ अपरेद्युर्महाबाहुः पित्रादेशात्स्वदेशतः । पाञ्चालदुहितुर्बन्धुर्धृष्टद्युम्नः समाययौ ॥ ३५॥ प्रणम्य धर्मपुत्रादीनुपतस्थे स सोदराम् । अवादीच्च कथं दीनमित्थं धत्से मुखं स्वसः ॥ ३६ ॥ हस्तिनापुरचारिभ्यश्चारेभ्यश्छद्मना कृतम् । श्रुत्वा प्रवासमेवं वस्तातेन प्रहितोऽस्म्यहम् ॥ ३७ ॥ इदानीमपि सोदर्ये निजशौर्येण विष्टपम् । अदुर्योधनमादध्यां मन्यते नु पतिर्न ते ॥ ३८ ॥ ततः सत्यजडो यावद्वने द्वादशवत्सरीम् । नीत्वा ते पतिरभ्येति तावदेहि गृहं पितुः ॥ ३९ ॥ इत्युक्त्वा प्रत्यभाषिष्ट पाञ्चालनृपतेः सुता। दुर्योधनवधे विघ्नो राजैव भीमपार्थयोः ॥ ४० ॥ पाण्डवानां पदैर्यानि पावनानि वनान्यपि । मां तान्येव रोचन्ते कृतं पितृगृहेण मे ॥ ११ ॥ केवलं सरलान्बालान्भागिनेयान्निजानमून् । पश्चाप्यादाय पाञ्चालान्त्रज त्वं विजयी भव ॥ ४२ ॥ एवमुक्तस्तया स्नेहाद्धर्मसूनोरनुज्ञया । धृष्टद्युम्नः पतद्वाप्पस्तान्गृहीत्वा गृहं ययौ ।। ४३ ॥ अन्येद्युरभ्रमूकान्तकान्तदन्तावलं वलम् । विभ्रन्नारायणः प्रीत्या युधिष्ठिरमुपाययौ ।। ४४ ॥ प्रत्युद्गम्य तमायान्तं प्रणमन्ति स्म पाण्डवाः । वबन्द द्रुतमभ्येत्य सोऽपि कुन्तीपदाम्बुजम् ॥१५॥ कंसध्वंसी सुखासीनो निविष्टं विष्टरे पुरः । मनःसंक्रान्ततद्दुःखो धर्मनन्दनमभ्यधात् ॥ ४६ ॥ दुर्योधनकवीन्द्रेण स्पष्टाभीष्टार्थदृष्टिना । दुरोदरप्रबन्धोऽयं व्यधायीति श्रुतं मया ॥ ४७ ।। दुर्योधननरेन्द्रस्य द्यूतमन्त्रैकसाधने । उभावभूतां शकुनिः कर्णश्चोत्तरसाधकौ ॥ १८ ॥ अभविष्यन्निकारोऽयं मयि संनिहिते न ते । रोहिणीरमणं राहुर्ग्रसते न बुधान्तिके ॥ १९ ॥ इमौ तु बिभितस्तुभ्यं भीमौ भीमधनंजयौ । अन्यथा कुरुतो ह्येतौ वसुधामसुयोधनाम् ॥ ५० ॥ इदानीमप्यमुं दृप्तं रिपुमुच्छिन्दतो ध्रुवम् । तवायं सत्यनिर्वाहजडिमैव ममार्गला ॥ ५१ ।। यत्तु दुश्चरितं तस्य पाञ्चाल्याः केशकर्षणम् । तदेतया ममाशीर्भिर्वाष्पैः पश्य निवेद्यते ॥ ५२ ।। नूतनो मम कोपामिः पाञ्चालीनयनाम्बुभिः । ज्वलितोऽतीव गान्धारीदुरपत्यं दिधक्षति ॥ ५३ ॥ ततः सतीतिरस्कारपाप्मनामधुना फलम् । तं दुष्टं लम्भयिष्यामि मास्म प्रत्यूहमावहः ॥ ५४ ॥ इत्युक्त्वा विरते विष्णौ कृष्णाहृदयवल्लभः । मूर्ध्न्या प्रणम्य सद्बुद्धिर्बद्धाञ्जलिरदोऽवदत् ॥ ५५ ॥ कंसान्तक त्वयि क्रुद्धे नहि शक्रोऽपि विक्रमी। मनुष्यकृमयः केऽमी पुनर्योधनादयः ॥ ५६ ॥ सत्यातिक्रमकौलीनं मदीयं किंतु लोकतः । समाकर्ण्य त्वमेवात्र विश्वत्राता त्रपिष्यसे ।। ५७ ॥ निषिद्धौ बान्धवावेतौ मया देशवशंवदौ । त्वं तु व्यावर्तसेऽमुष्मादारम्भाचेत्प्रसीदसि ॥ ५८॥ इत्थं हरौ शमं नीते विनीतो नीतिकोविदः । धर्मजो बान्धवैः साध भीष्मस्याभ्यर्णमभ्यगात् ॥ ५९ ॥ अब्रवीच बृहत्तात गुरुभ्योऽपि गुरुभवान् । व्यसनत्रासिनीं शिक्षा देहि मे पारिपाश्चिकीम् ॥ ६०॥ अथाभाषत भीष्मोऽपि कुरुगोत्रशितयुते । विश्वत्रयीसंवननं तवैवेदृग्गुणार्जनम् ॥ ६१ ॥ मित्रामित्रपरीक्षार्थ मन्ये व्यसनमप्यदः । त्वयैवात्तं वयं नोचेव भवान्क दरम् ।। ६२॥ जगजैत्रकलाः पार्श्वे यस्यैते सन्ति बान्धवाः । सोऽपि द्यूते विजीयेत स्यान्न चेद्भवितव्यता ।। ६३ ॥ एकाकिनैव कान्तारविहारस्पृहयालना । नियतं त्यक्तुमारब्धा वयमेकपदे त्वया ॥ ६४ ॥ भूत्वा समस्तवस्तूनां संविभागपरः पुरा । इदानीं कथमेकाकी भोक्ष्यसे वनसंपदम् ॥ ६५ ॥ तन्मामप्यनुजानीहि सहागमनहेतवे । चूडाचन्द्रं महेशोऽपि न जातु त्यजति कचित् ।। ६६ ।। कुर्वन्नित्याग्रह भीष्मः पादावाधाय मूर्धनि । विनयाद्धर्मपुत्रेण वारितः पुनरब्रवीत् ॥ ६७ ॥ ग्राह्याः प्रतिभुवः पञ्च चौरास्तु त्रिगुणास्ततः । निग्राह्याः क्षोणिपालेन श्रियःस्थेमानमिच्छता ॥ ६८ ॥ दानमौचित्यविज्ञानं सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च पञ्च प्रतिभुवः श्रियः ।। ६९ ॥ सदा वशंवदैरेतैः प्रतिभूभिरभून्नृपः । एतेभ्यस्त्रिगुणान्यत्स विद्धि राज्यहरान्पुनः ॥ ७० ॥ अरिषड्वर्गसंसर्गः प्रकृती योग्यकर्मसु । नये धर्म प्रतापे च विमुखत्वमनारतम् ॥ ७१ ।। अज्ञानमनृतं लञ्चा निखिलव्यसनं तथा । एते राज्यहृतौ वत्स स्युः पञ्चदश दस्यवः ।। ७२ ॥ प्रत्येकमेषां राज्यश्रीहरणे प्रभविष्णुता । पश्यैकेनापि ते छुते व्यसनेन कियत्कृतम् ॥ ७३ ।। उच्छेदाय तदेतेषां यतेथास्तात सर्वथा । पुनराच्छिद्य तैरात्तामाददीथाः श्रियं यथा ॥ ७४ ।। वर्तेयाश्च तथा तात मानसेनाप्रमादिना । पूर्णेऽवधौ निवर्तेथाः काननात्कुशली यथा ॥ ७५ ॥ इत्याभाष्य गृहान्भीष्मे प्रत्यावृत्ते युधिष्ठिरः। द्रोणाचार्यकृपाचार्यावपृच्छत वनेच्छया ॥ ७६ ॥ द्रोणोऽवादीदविद्राणवात्सल्यो वत्स वत्स्यसि । आकल्पममुना सत्यव्रतेन हृदये सताम् ।। ७७ ।। वत्स धर्मेण सत्त्वेन विनयेन नयेन च । अमुना भुवनस्यास्य भवितासि निदर्शनम् ॥ ७८ ॥ द्रोणो गुरुरमी सर्वे शिष्याः पाण्डवकौरवाः। यद्यप्येवं तथाप्यस्मिन्युष्मासु स विशेषहक् ॥ ७९ ॥ तत्रापि पुत्रवात्सल्यादने निष्पादितस्तथा । मया पार्थों यथा तैस्तैर्गुणैर्जयति मामपि ॥ ८० ॥ तदेतस्मिन्समीपस्थे न ते प्रत्यूहसंभवः । दुस्तरे सन्तु कान्तारे पन्थानः शिवतातयः ॥ ८१ ।। उपोषितानां पीयूषबन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे नेत्राणां पारणोत्सवः ॥ ८२ ॥ इत्युदीर्य गते द्रोणे सकृपे साथुलोचने । निर्व्याज व्याजहारेति धृतराष्ट्र युधिष्ठिरः॥ ८३ ॥ ज्येष्ठतात नमस्तुभ्यं प्रसन्ना देहि नो दृशः। दुर्योधनस्य संदेशं गतो व्याहर्तुमर्हसि ॥ ८४ ॥ भ्रातः कुरुकुलोत्तंस तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीर्ति श्नुते म्लानितां यथा ॥ ८५ ।। तस्य वैनयिक पश्यन्खसूनोर्दुनयं पुनः । अपत्रपिष्णुस्तूष्णीको धृतराष्ट्रः पुरं ययौ ॥ ८६ ॥ ज्यायस्यः सत्यवत्याद्याः प्रसाद्य नतिपूर्वकम् । धर्मजेन चने यातुमन्वज्ञाप्यन्त मातरः ॥ ८७ ।। अभिनन्दितमाशीभिर्निर्मिन्नहृदया इव । अतुच्छशोकषीलास्तास्ततः कथमप्यगुः ॥ ८८ ॥ अथ कार्यविदाकार्य लोकमस्तोकमेकतः । नगराय निवर्तध्वमिति भूपतिरादिशत् ॥ ८९ ॥ लोकोऽप्यजल्पदाकल्पमस्साकमनुजीविनाम् । पादा नन्दन्ति यत्रैते तत्रैव नगरं प्रभो ॥ ९० ॥ आत्मानुयायिनी छायां व्यावर्तयसि चेदिमाम् । तदा वयं महीनाथ व्यावर्तेमहि नान्यथा ॥ ९१ ॥ तं तथा बद्धनिर्बन्धं जनं जानन्युधिष्ठिरः । अनुमत्य सहायान्तमवादीद्विदुरं ततः ॥ ९२ ।। वितनोषि त्वमेवार्य प्रीतिमस्मासु पैतृकीम् । देवस्थाजनि पाण्डोस्तु केवलं जन्मकर्तृका(ता) ॥ ९३ ॥ एतावस्मद्वियोगार्तिकातरौ पितरौ पुरः । सहैव नेतुं मोक्तुं वा ब्रूहि किं मम सांप्रतम् ॥ ९४ ॥ जगाद विदुरो वत्स मत्सरी ते सुयोधनः । अतः सर्वकुटुम्बेन समं गन्तुं न युज्यते ॥ ९५ ॥ तदत्रैव तटस्थेन स्थेयं देवेन पाण्डुना । देवी स्थास्यति कुन्ती तु नैव वो विरहासहा ॥ ९६ ॥ एनमाहत्य तन्मन्त्रं नत्वा पाण्डे युधिष्ठिरः । सबाष्पं स्थापयामास विनीतो विदुरान्तिके ।। ९७ ॥ अवियोगाद्वियोगाच्च तदानीं पुत्रभर्तृभिः । अवाप युगपत्कोटि कुन्ती हर्षविषादयोः ॥९८ ॥ तवासौ पर्यवस्थाता न स्थाता खव्यवस्थया । तद्भवेः सावधानस्त्वमध्वनीनो वनाध्वनि ॥ ९९ ॥ इति धर्मसुतं स्नेहादनुशास्य सगद्गदम् । रुदन्तीं विदुरः कुन्तीमनमन्नम्रमस्तकः ॥ १०० ॥ (युग्मम् ) अथ साश्रुमुखः पाण्डुरभाषिष्ट युधिष्ठिरम् । कान्तारेषु कथं वत्स सकुटुम्बो भ्रमिष्यसि ॥ १०१॥ कथं च त्वद्वियुक्तोऽहं भविष्यामि हताशयः । विना चन्द्र समुद्रस्य दशा जायेत कीदृशी ॥ १०२॥ न शक्नोमि परं वत्स वचस्ते कर्तुमन्यथा । क्षेमवानचिरेणैव दर्शयेर्मुखमात्मनः ॥ १०३ ॥ किंच रत्नमयीमेतां स्फुरद्वामोर्मिमूर्मिकाम् । गृहाणार्तिप्रहाणाय धारयेः पारिपार्श्विकीम् ।। १०४ ।। इत्युदीर्य निवेद्यास्याः सर्वं संभवमादितः । प्रीतश्विक्षेप पाण्डुस्ता ज्येष्ठात्मजकराङ्गुलौ ॥ १०५॥ कुर्वीथाः पुत्रभाण्डेषु देवि यत्नमिति ब्रुवन् । आपृच्छय प्रेयसी पाण्डुर्ययौ सविदुरः पुरम् ॥ १०६ ॥ मातस्तातमहोरात्रं शुश्रूषखेति धर्मजः । उदीर्य सादरं माद्रीं मुमोच पितुरन्तिके ॥ १०७॥ वत्सौ बान्धवसेवायां कुर्यातं निश्चितं मनः । इत्यादिश्य ययौ सापि जगाम सह पाण्डुना ॥ १०८ ॥ अथ प्रतस्थे पुरतः पौरोपेतः पृथासुतः । केवलं केशवेनासौ त्याजितः पादचारिताम् ॥ १०९ ॥ कोऽपि रहखिनं वाहमारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्तमतगजमतल्लिकाम् ॥ ११० ॥ अन्ये विमानमन्यानि याप्ययानानि लीलया। प्रासादरुन्दमानन्दस्यन्दिनं स्यन्दनं परे ॥ १११ ॥ स एवं वाहनारूढः प्रौढश्रीभिः खबान्धवैः । साकं नासिक्यनगरं सहितो हरिणाभ्यगात् ॥ ११२ ॥ तत्र निर्मापितां मात्रा श्रीमचन्द्रप्रभप्रमोः । असौ मणिमयीमर्चामानर्च विकचाम्बुजैः ॥ ११३ ॥ गोविन्दः पुनरानन्दबाष्पाविलविलोचनः । चिरं चन्द्रप्रभ देवमुपासामास भक्तितः ॥ ११४ ॥ स्तोनश्चित्रैरभिष्टुत्य तौ कुन्तीदेवकीसुतौ । निज सौध समध्यास्य बुभुजाते जनैः सह ॥ ११५ ॥ जिनप्रभावनारम्भनिशुम्भितनिजांहसः । ते सर्वे गमयामासुर्वासराणि कियन्त्यपि ॥ ११६ ॥ उपेत्यान्येचुरासीनं कृष्णाभ्यर्णे युधिष्ठिरम् । ऊचे पुरोचनो नाम दुर्योधनपुरोहितः ॥ ११७ ॥ आबद्धपाणिमुकुलस्तव बन्धुः सुयोधनः । इदानीं मन्मुखेनेदं विज्ञापयति सादरम् ॥ ११८ ॥ आर्य धुर्यस्त्वमार्याणामनार्याणामहं पुनः । त्वमग्रणीर्गुणवतां निर्गुणानामहं पुनः ॥ ११९ ।। उत्सः स्वजनानां त्वं दुर्जनानामहं पुनः । धौरेयस्त्वं सुबुद्धीनां दुर्बुद्धीनामहं पुनः ।। १२० ॥ शेखरस्त्वं कृतज्ञानां कृतनानामहं पुनः । त्वमुत्तमानां माणिक्यमधमानामहं यथा ॥ १२१ ॥ आदिमस्त्वं महेच्छानामल्पेच्छानामहं पुनः । त्वमाद्यः कृतविद्यानां निर्विद्यानामहं पुनः ॥ १२२ ।। मया विवेकशून्येन यत्तवापकृतं पुरा । प्राकृतेष्वपि तन्न स्यात्कुरुवंशे तु का कथा ॥ १२३ ॥ तानीदानी व्यलीकानि त्वं मम क्षन्तुमर्हसि । स्खलितं यत्कनिष्ठस्य बन्धोज्येष्ठस्य तन्मुदे ।। १२ ।। भवन्त्युच्चावचा वाचो याः काश्चन दुरोदरे । तासामनुपदी कः स्याद्विशेषेण भवादृशः ॥ १२५ ॥ तत्प्रसीद समभ्येहि गृहाननुगृहाण माम् । संचरख पुनः खैर हस्तिना हस्तिनापुरे ।। १२६ ॥ यजज्ञे त्वय्यवज्ञाभिः पुरा कितवकैतवे । वक्रमाम्भोजरजसा रजस्तन्मे प्रमृज्यताम् ॥ १२७ ॥ सदास्तु मालतीपुष्पस्तबकप्रतिवेश्मिकी । अतः परं तवाज्ञा मे मौलिपल्यङ्कखेलिनी ॥ १२८ ।। अथ चेदार्य तेऽत्यन्तं सत्यव्रतविपर्ययात् । राज्योपभोगैलज्जेत चेतः केतकनिर्मलम् ॥ १२९ ॥ सदामुनाध्वना ये हि साधवः संचरिष्णवः । स्यात्तेषां व्रतनिर्वाहे जाब्यमुड्डामरं परम् ॥ १३०॥ ततोऽनुग्रहमाधाय संविधाय स्थिरं मनः । खस्थेन स्थेयमार्यण नगरे वारणावते ॥ १३१ ॥ आर्यस्य सानुजस्यापि वैरं तत्रापि तिष्ठतः । आत्मचेतोनुरूपाणामुपनेतासि संपदाम् ॥ १३२ ॥ इति विज्ञापितं तुभ्यं वन्धुना तेन बन्धुना । अन्वहं च नियुक्तोऽहमादेशाग्रेसरस्तव ॥ १३३ ।। इत्याख्याय स्थिते तस्मिंस्तूष्णीं कृष्णादयो मुदा । अर्थः समर्थ एवायमेतस्येत्यनुमेनिरे ॥ १३४ ॥ अनुव्रजन्मनास्तेषां तदानीं धर्मनन्दनः। वचः प्रमाणमेवेदमित्युवाच पुरोधसम् ॥ १३५ ॥ स चचाल सकृष्णोऽपि पुरोचनपुरोगमः । बन्धुभिः सममारूढवारणैर्वारणावतम् ॥ १३६ ।। तद्वास्तव्यः समस्तोऽपि जनः प्रीतितरङ्गितः । मङ्गल्योपायनस्तस्य संमुखीनः समागमत् ॥ १३७ ॥ फुल्लवक्रारविन्देन गोविन्देन समं पुरम् । प्रविवेश विशामीशः खःपतिः खःपुरे यथा ॥ १३८ ॥ स तत्र चित्रशालाभिर्विशालाभिरलंकृतम् । सौधमद्भुतमध्यास्त मध्यास्तविविधासनम् ॥ १३९ ॥ उपचर्याशतैस्तैस्तैरजस्त्रं धर्मजन्मने । आत्मानं रोचयांचक्रे चातुर्येण पुरोचनः ॥ १४० ॥ अतिस्तुतिपदं वस्तु समस्तं हस्तिनापुरात् । तेषां दुर्योधनो नित्यमुपदीकुरुते तदा ॥ १४१ ॥ तथा पृथ्वीभुजा सर्वः सममाजग्मिवाञ्जनः । प्रसादितो यथा जातु न ससार निजं गृहम् ॥ १४२ ।। सवित्री पाण्डुपुत्राणां दानकरुचिमानसा । पाणिं व्यापारयामास दीनोद्धरणकर्मणि ॥ १४३ ॥ प्रियेषु सानुरागेषु मनीषितविधायिषु । नोदकण्ठत पाञ्चाली कदाचिन्नृपतिश्रिये ॥ १४४ ॥ इत्थं कुटुम्बसौस्थ्येन सुयोधनगिरापि च । अभूत्तत्रैव वासाय स्थिरचेता युधिष्ठिरः॥ १४५॥ हस्तिनापुरसाम्राज्यसपिण्डां पाण्डवश्रियम् । दृष्ट्वा हृष्टो विसृष्टस्तैर्जगाम द्वारकां हरिः ॥ १४६ ।। मातुरुत्कण्ठिता सार्धमात्मजेनाभिमन्युना। सुभद्रा सह कृष्णेन प्रहिता पाण्डुसूनुना ॥ १४७ ॥ तानथो सुस्थितमन्यः पौरानप्यश्रुवर्षिणः । कथंचिदपि संबोध्य हास्तिनं प्राहिणोन्नृपः ॥ १४८ ॥ अन्यदा द्रुतमभ्येत्य विदुरप्रहितो रहः । अन्वितं भीमपार्थाभ्यां तं जगाद प्रियंवदः ॥ १४९ ।। देव त्वां विदुरः प्राह यदिहोपेयुषा मया । धृतराष्ट्रान्तिकस्थेन रहो दुर्योधनः स्थितः ॥ १५० ॥ कर्णदुःशासनादीनां मन्त्रेण विगतत्रपः । पुरोचनं ब्रुवन्नेव निगूढं शुश्रुवे खयम् ।। १५१ ॥ (युग्मम्) परिच्छदबहुत्वेन निजत्वन निरन्तरम् । मह्यं त्वदपरः कश्चित्पुरोचन न रोचते ॥ १५२ ॥ भद्र त्वमपि जानासि पाण्डवान्मम वैरिणः । जीवत्सु तेषु राज्य मे गन्धर्वनगरायते ॥ १५३ ।। वढेरुद्दीपनैव्यैः सणसर्जरसादिभिः । आचितं जातुष सौधं विदध्या वारणावते ॥ १५ ॥ सकुटुम्बमवस्थाप्य विनयात्तत्र कृत्रिमात् । कुर्यास्तं धर्मजं कृष्णचतुर्दश्यां कृशानुसात् ॥ १५५ ॥ सा परं न परिज्ञाता कापि कृष्णा चतुर्दशी। ततोऽवधानमाधेयं प्रतिकृष्णचतुर्दशि ॥ १५६ ॥ इत्याख्यायि मया तुभ्यमिदं विदुरवाचिकम् । प्रमादितां तदत्रार्थे पृथिवीनाथ मा कृथाः ॥ १५७ ।। तस्वाकर्ण्य विषाकीणों गिरमेतां युधिष्ठिरः। सक्रोधैर्बन्धुभिः सार्ध परीक्षामास तद्गृहम् ॥ १५८ ॥ असौ सद्ममयं छद्म तन्निर्णीय गुणार्णवः । मातृभ्रातृकलत्राणां प्रत्येक मन्त्रमग्रहीत् ॥ १५९ ॥ पूर्व भीमोऽभ्यधादार्य विदार्य हृदयं रिपोः । आदिश द्रुतमभ्येमि किमद्यापि बिलम्बसे ॥ १६० ।। अर्जुनोऽप्यब्रवीदार्य मम लघ्वार्यदर्शितः । पक्षोऽयमुचितो भाति गूढं वा गम्यतेऽग्रतः ॥ १६१ ॥ प्रकाशमिव वा खैर व्योमयात्रैव सून्यते । तब श्रक्षेपसापेक्षा विमानानां यतः श्रियः ॥ १६२ ।। बन्धुभ्यामुद्धतं धीरमुदीरितमिदं वचः । निशम्य सम्यगालोच्य मनसावोचदग्रजः॥१६३॥ वत्सौ यत्सौ(शौ)र्यधुर्याणामाकल्पं तदजल्पताम् । दुर्योधनवधे किंतु सत्यं स्यान्मे मलीमसम् ॥ १६४ ॥ गच्छन्तोऽपि पथि च्छन्नमुच्छन्नानीकसौष्ठवाः । निर्लज्जेन वयं तेन लक्ष्येमहि पदे पदे ।। १६५॥ वशीकृतदिगन्तस्य तस्यानन्तबलौजसः । क्यमेकाकिनः पान्थाः स्थाने स्थाने न दुम्रहाः ॥ १६६ ॥ न च विद्याबलेनापि गन्तुं संप्रति युज्यते । सत्यस्य निकषो सेवं न मे प्रादुर्भवेद्धृशम् ।। १६७ ।। श्रूयतां तु ममाकूतमवधाय मनोऽधुना । अतिगुप्तेङ्गिताकारैरास्यतेऽत्रैव वेश्मनि ।। १६८ ॥ यदा खामिनिदेशार्थमुत्सहेत पुरोचनः । तदास्माभिरितो गेहान्निर्गन्तव्यं सुरङ्गया ॥ १६९ ॥ ततश्च दग्धान्विज्ञाय कोऽप्यन्विष्यति नैव नः । तदैवमेकमस्माकं श्रेयः स्यादपरं त्विदम् ॥ १७०॥ पाण्डवेयाः प्रचण्डेन ज्वालाजटिलमूर्तिना । सुखं मम प्रपञ्चेन दन्दह्यन्ते स्म बहिना ॥ १७१ ।। मुदं मेदखिनीमेतां हृदि धत्ते सुयोधनः। गमयामः सुखेनेत्थं वयं द्वादशवत्सरीम् ।। १७२ ॥ (युग्मन निर्गमोऽस्तु सुरक्षायाः प्राच्या द्वैतवनाध्वना । संप्रत्यालोक्य तां कोऽपि सुरङ्गाखनकः पुनः ॥ १७३ ।। इत्युक्तो धर्मपुत्रेण भूयोऽवादीप्रियंवदः। प्रहितो विदुरेणास्ति खनकः शुनकाभिधः ॥ १७४ ॥ अयं तव पितृव्यस्य बहिर्मन इव स्थितम् । विश्रम्भस्य परा भूमिरात्मेव वपुरन्तरे ॥ १७५ ॥ won इत्याख्याय समाहूय नृपाय तमदर्शयत् । ननाम सोऽपि भूपालं भूतलन्यस्तमस्तकः ॥ १७६ ॥ भद्र रुद्रां सुरङ्गां नः खैरं चारमनोहराम् । कुरुग्वेति पतिभूमेः सप्रसादं समादिशत् ॥ १७७ ।। पुरवाह्यगृहस्यान्तः स्थित्वा सोऽपि प्रतिक्षपम् । दिवान्यकर्म कुर्वाणः खनति स्म शनैः शनैः ।। १७८ ।। अधस्ताद्भीमतल्पस्य विलद्वारं विधाय सः । निजव्यापारपारीणं खं नृपाय न्यवेदयत् ॥ १७९ ॥ अविश्वासाः सविश्वास निर्मदः समुदं तदा । लोकेभ्यो दर्शयामासुरात्मानं तेऽपि पाण्डवाः ।। १८० ।। प्रतिप्रत्यूषमुत्थाय जात्यमारुह्य वाजिनम् । चतुर्दिशं पथः सर्वान्विदामास वृकोदरः॥ १८१ ॥ कुन्त्याश्च याज्ञसेन्याश्च यमयोश्च कनीयसः । अभ्यासार्थ पृथासूनुः सुरङ्गान्तरदर्शयत् ॥ १८२ ॥ पश्चापि चन्द्रशालायां निषण्णास्ते नभोगतैः । नक्षत्रैः क्षत्रमार्तण्डा निशि निश्चिक्यिरे पथः ॥ १८३ ॥ कुन्ती शुभाय पुत्राणामाहारैः सुमनोहरैः । दीनानाथजनं सर्व प्रीणयामास सर्वतः ॥ १८ ॥ अर्चामभ्यर्चयामास श्रीशान्तेः शान्तकल्मषाम् । परमेष्ठिमयं मन्त्रं ध्वस्तपापं जजाप च ॥ १८५॥ विश्वस्त बन्धुमिः सार्ध दृष्टा हृष्टं युधिष्ठिरम् । पूर्णामेव निजां मेने रुचिं पापः पुरोचनः ॥ १८६ ।। अथ कृष्णचतुर्दश्यां कस्यांचित्पञ्चभिः सुतैः । स्नुषया चैकया साकं वृद्धा काचिदुपाययौ ॥ १८७ ।। पञ्चपुत्रपवित्रां च वृद्धामालोक्य तां पृथा। आत्मतुल्यतया मेने भगिनीमिव सोदराम् ॥ १८८ ॥ मधुरस्निग्धमाहारं तां वृद्धां मृदुमानसा । सात्मजां भोजयामास कुन्तीदेवी सगौरवम् ॥ १८९ ॥ आमृशद्भिर्मुहुस्तुन्दं सुतैः सौहित्यशालिभिः । साधं वृद्धाध्वना खिन्ना तत्रैवाशेत निःसहा ।। १९० ।। दुनिमित्तैस्तमी भीमस्तां संभाव्य भयंकरीम् । सकुटुम्ब सुरङ्गायां युधिष्ठिरमतिष्ठिपत् ॥ १९१ ।। निर्विलम्ब कुटुम्बेन समं जग्मुषि बान्धवे । भीमसेनः स्वयं तस्थौ द्वारि संचारिलोचनः ॥ १९२ ।। द्वारतो दीपयन्नुच्चैरर्चिष्मन्तं पुरोचनः । उन्निद्रमनसा तेन दुष्टो दृष्टः स चक्षुषा ॥ १९३ ॥ धूमधूंमध्वजो यावन्नालिङ्गति नभोऽङ्गणम् । तस्य क्रोधानलस्तावज्ज्वालाजालममुञ्चत ॥ १९४ ।। ततः पुरोचनं धृत्वा तं केशेषु विसंष्ठुलम् । आचकर्ष हठेनासौ हरिणं हरिणारिवत् ॥ १९५ ॥ तं नीत्वा मुष्टिना मृत्युं स दम्भोलिसनामिना । प्रदीप्य जातुषागारं चकार द्रुतमग्मिसात् ।। १९६ ॥ सोत्कण्ठमानसो वाततनयोऽपि सुरङ्गया । एत्य संघट्टितः पश्चाज्झटित्येवाग्रजन्मना ॥ १९७ ॥ अचिरेणैव पुंनागा नागलोकोपमाद्बिलात् । विनिर्याय प्रयान्ति स्म पथि ते रथवर्जिताः ॥ १९८ ।। तेषां प्रदीपनोयोतः पृष्ठतस्तीव्रवेगतः । दिष्ट्या पुरोचनो दग्ध इत्याख्यातुमिवाययौ ॥ १९९ ।। अस्तं नीत्वा तमःस्तोमं दीपालोकेन दर्शितः । हस्तदीपोपमेनैषामध्वा सौध इव ध्रुवम् ॥ २०० ॥ संपत्पुटकिनीखण्डमार्तण्डाः पाण्डवा इमे । त्वमेतान्किं मुधाधाक्षी रे हताश हुताशन ॥ २०१ ॥ आपन्नार्तिच्छिदाछेकदोर्दण्डाः पाण्डवा इमे । एतान्हन्त दहन्नेवं पुरोचन किमाचरः ।। २०२ ॥ दीनानाथसमुद्धारपण्डिताः पाण्डवा इमे । एतांस्ते निघ्नतः कीदृक्सुयोधन धनार्जनम् ॥ २०३ ॥ त्रैलोक्यत्राणशौण्डीरकोदण्डाः पाण्डवा इमे । अमूनेवं तिरस्कुर्वन्वैधेयोऽसि विधे ध्रुवम् ॥ २०४ ॥ परिदेवितवाक्यानि लोकानामित्यनेकशः । कर्णावतंसीकुर्वन्तः पुरतस्ते प्रतस्थिरे ॥ २०५ ॥ (पञ्चभिः कुलकम्) भाग्यराशिरिवामीपामालोकः स तिरोदधे । बन्धुदुर्योधनस्येव प्रादुरास तमश्चयः ॥ २०६ ॥ युगपद्ध्वान्तमध्वा च द्वयमेतदुपागतम् । तनोति स्म श्रमाहानं तत्सवित्रीकलत्रयोः ।। २०७॥ आलोकशब्दमाधत्तः पुरो भीमकिरीटिनौ राज्ञः प्रथमपान्थस्य तथाप्यस्खलतां क्रमौ ॥ २०८ ।। नकुलः सहदेवश्च पथि श्रान्तावुभावपि । ज्यायसां मा म खेदोऽभूदिति तूष्णीमगच्छताम् ।। २०९ ॥ पादचार सदाचारभूमीरुहभुवोरपि । मातुः पत्न्याश्च निध्यायन्दध्यौ विश्वभराधिपः ॥ २१० ॥ यस्यां कथंचिन्नापैति सुतानामधमर्णता । मयाद्य निष्क्रयो मातुस्तस्याः क्लेशोऽयमर्प्यते ॥ २११ ॥ कष्टं दृष्टं यया नैव पितुर्भ्रातुश्च वेश्मनि । मातेयममितं क्लेशं मयैनमनुभाव्यते ॥ २१२ ॥ अहो पाणिगृहीतीयं पाण्डवानां महौजसाम् । दरिद्रगृहिणीचारं चरत्येव वनावनौ ॥ २१३ ।। पश्यतां पाण्डुपुत्राणां कलत्रस्य कुशाङ्कुरैः । अम्भोजमेदं भिद्येते हहा चरणपल्लवौ ॥ २१ ॥ न जानाति प्रिया दुःखमेकस्मिन्नपि भर्तरि । पञ्चस्वपि प्रियेष्वेका क्लिश्यते द्रुपदात्मजा ॥ २१५ ॥ इत्यस्मिंश्चिन्तयत्येवं मार्गे दुर्गे तमोभरैः । श्रान्ता कुन्ती च कृष्णा च निःसहं भुवि पेततुः ॥ २१६ (चतुर्भिः राज्यभ्रंशो भयं शत्रो रात्रौ पन्यां पलायनम् । धिग्विधे योऽभ्यधादेवं पाण्डवानां विडम्बनम् ॥ २१७ । उष्णालभिरपच्छत्रैः शीतालभिरनङ्कुशैः। बुभुक्षुमिरपाथेयैः पन्थानो दुरतिक्रमाः ॥ २१८ ॥ शिरीषसुकुमाराङ्ग्यौ निपतन्त्यौ पदे पदे । दुर्गकान्तारपारीणे कथमेते भविष्यतः ॥ २१९ ॥ इति खेदपरं दृष्ट्वा नृपमूचे वृकोदरः । आकुलो मास्मभूद्देव पदातौ प्रगुणे मयि ।। २२० ॥ (चतुर्भिः ततोऽम्बां दक्षिणे स्कन्धे वामे प्रियतमां पुनः । अध्यारोप्य ययौ भीमो भञ्जन्मार्गमहीरुहः ॥ २२१ ॥ उभावपि कनीयांसौ पश्चाद्दूरान्तरस्थितौ । मार्गखेदोच्छलच्छ्वासौ मन्दं मन्दमुपेयतुः ।। २२२ ॥ व्यवस्थाप्य त्रिकस्थाने तावुभावभितस्तदा । निन्ये भीमो भुजालम्बाद्धर्मपुत्रार्जुनावपि ।। २२३ ॥ निशीथमारुतः शीतः कुमुदामोदमेदुरः । आचचाम श्रमं तस्य दयालुरिव दूरतः ॥ २२४ ॥ न निद्रोपद्रवस्तस्य वैधुर्यं नान्धकारजम् । ललचे पथ(थि)पाथोधिं पूर्ववत्पवनात्मजः ॥ २२५ ॥ विलोक्य क्लान्तिमायातौ धर्मपुत्रार्जुनावपि । महेभ इव भीमस्तान्सर्वान्पृष्ठेऽध्यरोपयत् ॥ २२६ ॥ महाध्वनि निमग्नानामगाधे जलधाविव । यानपात्रायितं तेन स्वबन्धूनां महात्मनाम् ॥ २२७ ॥ आससाद सदारम्भसंभृतश्रेयसो भृशम् । भीमस्याध्वतिरोधाने(न)पापेनेव क्षपा क्षयम् ॥ २२८ ॥ कुन्देन्दुसितकौन्तेयकीर्तिवित्रासितैरिव । तमोभिर्विरलीभूतं प्रभूतैरपि सर्वतः ॥ २२९ ॥ वृकोदरमुखाम्भोजविलोकनकुतूहली । कर्मसाक्षी किलारोहदुदयाचलचूलिकाम् ॥ २३०॥ स्वबन्धुभक्तमीक्षध्वं दूरादेत्य वृकोदरम् । इति स्वां जातिमाह्वातुमिवाकूजन्विहंगमाः ।। २३१ ।। शङ्के पाण्डुकुटुम्बस्य करालम्बनदित्सया । करान्व्यापारयामास वासराणामधीश्वरः ॥ २३२ ॥ सुखदुःखे समं तेषामारोहति रवौ नमः । मार्गालोकाच्च तापाच शनैः प्रादुर्बभूवतुः ॥ २३३ ॥ ते ललाटंतपे भानौ खिन्नाङ्गाः पाण्डुसूनवः। वनोद्देशैकदेशस्था रहः क्वापि विशश्रमुः ॥ २३४ ॥ अथोचे विजयं राजा वत्स कष्टे महत्यपि । न स्मर्तव्या त्वया विद्या प्रसिद्ध्येकनिबन्धनम् ।। २३५॥ सन्तः स्रोतस्विनीस्रोतःश्रितानालोक्य वेतसान् । दैवमेवानुवर्तन्ते पुनरुन्नतिकाङ्क्षिणः ॥ २३६ ॥ उपनीतानि पार्थेन कन्दमूलफलान्यथ । भोजयित्वा पतीन् श्वश्रूं पाञ्चाली बुभुजे खयम् ॥ २३७ ।। अथैवं पथि कष्टेन पृथायाः सूनवः पुनः । मध्याह्नं गमयामासुर्मेदुरस्वेदबिन्दवः ॥ २३८ ॥ तृष्णातिशुष्कतालूनामुष्णालूनामनारतम् । पयो दवीयोऽप्यानीय भीमस्तेषामढौकयत् ॥ २३९ ॥ क्रमेण वारुणीशैलशिरःस्रस्तकरे रवौ । वनमेकमनेकद्रु प्रापुस्ते निरुपद्रवाः ॥२०॥ भूरपि त्रासकृद्यत्र रौद्राकारा द्रुमा अपि । मार्गोऽपि कीकसैर्दुर्गः क्रूरा दूरं मृगा अपि ॥ २४१ ॥ तत्र प्रविष्टमात्राणां तेषामस्तं रविर्ययौ । क्रुद्धो विधिरुपाधत्ते विपदो हि पदे पदे ॥ २४२ ॥ साम्राज्यं पुनरुज्जृम्भि विभाव्य तमसां तदा । आरोहमवरोहं च विपदा(दो)न्तेऽपि जज्ञिरे ॥ २४३ ॥ भीषणेऽपि वने तत्र ध्वान्तेनान्धंभविष्णवः । ते विश्रान्तिजुषस्तस्थुर्निशाविश्रामकाम्यया ॥ २४४ ॥ कङ्केलिपादपस्याधस्ते ध्यातपरमेष्ठिनः । पल्लवैर्भीमविन्यस्तान्त्रस्तरान्य(न)ध्यशेरत ॥ २१५॥ आपृच्छच बन्धून्वात्सल्यादुत्सहिष्णुमनास्ततः । जगाम जलमानेतुं मध्यमः पाण्डुनन्दनः ।। २४६ ॥ गव्यूतिमात्रमध्वानमतिक्रम्य स विक्रमी । सारसस्वरनिर्णीतमाससाद पुरः सरः ।। २४७ ।। उपेयिवानुपादाय पयःपुटकिनीपुटे । अक्षामनिद्रमद्राक्षीत्स्वकुटुम्बं वृकोदरः ।। २४८ ॥ तत्तथाभूतमालोक्य शोकेन विवशीकृतः । विललाप विमुच्यापः स बाष्पाविललोचनः ॥ २४९ ॥ पत्यकं यः सतूलीकमध्युवास नृवासवः । धिग्विधे सोऽधुनाध्यास्ते स्थपुटं स्रस्तरं भुवि ॥ २५० ।। पुरोपतल्पं यस्यासीन्निःसीमो गीतनिस्वनः । वर्तते सांप्रतं तस्य भैरवः फैरवो रवः ॥ २५१ ॥ कस्तूरीसंस्तुतैः पूर्वं यस्याभूच्चन्दनद्रवैः । अङ्गे तस्याङ्गरागोऽयं पांशुभिर्मार्गसंभवैः ।। २५२ ॥ दृष्टौ कष्टेन यस्याङ्घ्री सेवायातैर्नृपैरपि । नरव्याघ्रस्य जिघ्रन्ति शृगालास्तस्य सांप्रतम् ॥ २५३ ।। पूर्वं व्योम्नि विमानेन यो विभ्राम सविभ्रमम् । रङ्कस्वापं स्वपित्येवं कान्तारे सोऽयमर्जुनः ॥ २५ ॥ द्विषद्यशस्तुषारांशुराहवो यस्य बाहवः । सहते सोदरादेशात्क्लेशं सोऽपि कपिध्वजः ॥ २५५ ॥ एतौ सदापि नः क्रोडक्रीडादुर्ललितौ पुरा । हा शयाते कनीयांसौ दरिद्रपथिकाविव ॥ २५६ ॥ पाण्डवानामियं माता पत्नी पाण्डुमहीपतेः । क्रमचंक्रमणक्लान्ता शेते कुन्ती हहा भुवि ॥ २५७ ॥ कथं सहिष्यते क्लेशं ना(सा)सौ यस्यास्तनूरुहाः । वयं प्रोद्दामशौण्डीर्यप्रपञ्चाः पञ्च पाण्डवाः ॥ २५८ ॥ इयं निद्रायते भूमौ कष्टं द्रुपदनन्दिनी । एतामवस्थामेतस्याः पश्यन्भीमोऽपि जीवति ॥ २५९ ॥ अरण्यपान्थैरस्माभिः पश्यत प्रेयसी निजा । असौ कान्तारसंचारशिक्षामध्याप्यते हहा ॥ २६० ।। इत्युच्चैविलपन्भीमो भीषणाकारधारिणीम् । एका युवतिमायान्तीं पिकलाक्षीमुदैक्षत ।। २६१ ॥ भीमस्याभ्यर्णमभ्यागाद्युवतिः सा यथा यथा । रूपं प्रकाशयामास मनोहारि तथा तथा ॥ २६२ ॥ भीमः समीपमायातां तामुवाच सुलोचने । कासि भीष्मं च सौम्यं च रूपमप्यकृथाः कथम् ॥ २६३ ।। बभाषे सापि सुश्रोणिः सुभग श्रूयतां त्वया । अस्ति दत्तजगड्डिम्बो हिडम्बो नाम राक्षसः ॥ २६४ ॥ इदमस्याख्यया ख्यातं हिडम्बवनमुत्कटम् । , नास्मिन्मनुष्यजातीयः कश्चित्संचरते यथा ॥ २६५ ॥ कथंचिद्दैवदुर्योगादेतस्यां बनसीमनि । नरः शूरोऽपि यद्येति रक्षसानेन भक्ष्यते ॥ २६६ ।। अस्य चाहमहंकारमन्दिरस्य सहोदरा । अनूढास्मि हिडिम्बेति बन्धुगेहनिवासिनी ॥ २६७ ।। ममाप्यस्ति क्रमायाता विद्या सर्वापि राक्षसी । इदानीं तु स्थितः सौधे बन्धुर्मामभ्यधादिदम् ॥ २६८ ॥ अधुना मानुषो गन्धः क्षुधं मे बोधयन्नयम् । प्रियंभविष्णुर्घ्राणस्य कुतोऽप्येति सहोदरे ॥ २६९ ॥ तन्मानवानवेक्ष्यैतान्कुतोऽप्यानय सत्वरम् । येनेयं चिररात्राय शममभ्येति मत्क्षुधा ।। २७० ॥ तदहं दहनज्वालालोले कृत्वा विलोचने । विधित्सुर्बान्धवादेशं देशमेनमुपागमम् ॥ २७१ ॥ वने मानवसंघातमेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं बुभुक्षोपशमक्षमम् ॥ २७२ ॥ विलोक्य त्वां च कन्दर्परूपदर्पापहं पुरः। विस्मृत्य भ्रातुरादेशं स्मरादेशे स्थितास्म्यहम् ॥ २७३ ॥ यज्जातोऽसि महाबाहो मम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः प्रावर्तत जवात्ततः ॥ २७४ ॥ तदाधेहि प्रसादं मे पाणिपीडनकर्मणि । सत्योपयाचिताः सन्तु सकलाः कुलदेवताः ॥ २७५ ॥ तस्मान्मा स्म बिलम्बस्व पुनरन्वेति राक्षसः । त्रपां विहाय मां रात्रिचरीं सहचरीं कुरु ॥२७६ ॥ मयि (त्वित् )सहचारिण्यामसौ दूरेऽस्तु राक्षसः । नान्येऽपि प्रभविष्यन्ति प्रबला वनवैरिणः ॥ २७७ ।। अथाभाषिष्ट भीमस्तां भद्रे प्रेमामभ्यधाः । पुण्यप्रागल्भ्यतो लभ्या त्वादृग्न री स्वयंवरा ॥ २७८ ॥ सुगात्रि परमत्रार्थे कारणं मे निशम्यताम् । ममैते बान्धवाः सन्ति चत्वारोऽपि शयालवः ॥ २७९ ॥ रि(ऋ)द्धा गुणैरियं वृद्धा या तु स्वपिति निर्भरम् । जानीहि जननीमेनामस्माकं स्मेरलोचने ॥ २८०॥ एषा शिरीषमृद्वङ्गी सुखं सोसु(षु)प्यते तु या । पञ्चानामपि सास्माकं प्राणेभ्योऽपि प्रिया प्रिया ।। २८१ ।। एकयापि सर्मिण्या साधारिण्यानया वयम् । कृतार्थाः पुरुषार्थेषु निखिलेष्वपि निर्मिताः ॥ २८२ ॥ अनुमन्यामहे नान्यां प्रेयसी श्रेयसीमपि । प्राप्य कल्पलतां स्वल्पाः कोऽनुरुध्येत वीरुधः ॥ २८३ ॥ उपन्यस्तस्त्वया यस्तु लोमः सहायकं प्रति । सोऽपि शौण्डीर्यचण्डानां दोर्दण्डानां त्रपाकरः ॥२८॥ बाबसाहाय्यसापेक्षं क्षणं वा मास भून्मनः । इत्यस्मासु स्वदोवीर्यनिष्ठं ज्येष्ठस्य शासनम् ।। २८५ ॥ इति सा प्रतिषिद्धापि सदैन्यं पुनरभ्यधात् । मामात्मशरणां स्वामिन् यद्यपीत्थमपाकृथाः ।। २८६ ॥ यावज्जीवं त्वमेवासि जीवितेशस्तथापि मे । तद्यदारोचते नाथ कुरु मामात्मसात्तदा ।। २८७ ।। किंत्वेतामधुना तावद्विद्यामादत्स्व चाक्षुषीम् । यया ते भविता द्योतस्तामसीष्वपि रात्रिषु ॥ २८८ ॥ सैवमाख्याय भीमाय संमदातामदात्तदा । तस्मै पठितमात्रैव सा प्रकाशमसूत्रयत् ॥ २८९ ॥ अत्रान्तरे ददत्रासमट्टहासेन भीषणः। आजगाम हिडम्बोऽपि प्रेतनाथं विडम्बयन् ॥ २९॥ वेपथुस्वेदरोमाञ्चैर्यामिमागम्य कामुकीम् । प्रसभं सोऽभ्यधादेनां भ्रकुटीविकटाननः ॥ २९१ ॥ आः पापे प्रौढकंदर्पाकुले कुलकलङ्किनि । बुभुक्षितमुपेक्ष्यैवं मामभूरिह कामुकी ॥ २९२ ॥ त्वां विधायेन्धनं पूर्वं जाठरस्थाशुशुक्षणेः। ततोऽमूनाहुतीभावं लम्भयिष्यामि मानवान् ॥ २९३ ॥ एवमाक्षिप्य कोपेन रक्तचक्षुः स राक्षसः । दूराच्चपेटामुत्पाद्य दधावे सोदरां प्रति ॥ २९४ ॥ ततस्तमाह माहात्म्यभूमिर्भीमः ससौष्ठवम् । निरागसं निजां जामिमरे मोघं जिघांससि ।। २९५ ।। रक्षोवंशानुरूपं ते यद्भगिन्यपि हन्यते । उपेक्षितुं क्षमे साक्षान्न स्त्रीहत्यामहं पुनः ॥ २९६ ॥ उत्तिष्ठ निष्ठुरं कर्म मुञ्चेदं किंचिदायुधम् । करे कुरु कुरुश्रेष्ठा नहि घ्नन्ति निरायुधम् ॥ २९७ ॥ इति क्रोधादधिक्षिप्तस्तामत्याक्षीत्स राक्षसः । एकं पादपमुद्यम्य भीमं च प्रत्यधावत ॥ २९८ ।। भीमोऽपि गतभीरेकं विधायायुधमङ्घ्रिपम् । जाग्रतु भ्रातरो मेति तूष्णीको युद्धमादधे ॥ २९९॥ चण्डौजसा हिडम्बेन निर्विलम्ब बलीयसा । प्रहतः प्रसभं भीमः क्षणाक्षेण वक्षसि ॥ ३०० ॥ पाण्डवोऽपि हिडम्बाय ददौ पीडा प्रहारतः । यथा तत्प्रसमं निन्ये सोऽपि मूर्छारसज्ञताम् ॥ ३०१ ॥ मूर्छाविरामे स क्ष्वेडामब्रीडां क्रीडयाकरोत् । यया युधिष्ठिरादीनामभून्निद्रादरिद्रता ॥ ३०२ ॥ कुन्ती पुरस्तादुद्वीक्ष्य हिडिम्बामिदमभ्यधात् । का त्वं पुत्रि कथं चात्र तथ्यं मे कथ्यतामदः ।। ३०३ ।। साप्यस्यै निजमावेद्य सर्व वृत्तान्तमादितः । आख्याति स तनूजस्ते युध्यते रक्षसा सह ॥ ३०४ ॥ उच्छलसिंहनादेन रक्षसा प्रहतो हदि । धाव्यतां देवि पुत्रस्ते हहा पतति मूञ्छितः ॥ ३०५ ॥ इत्युक्ते धर्मपुत्राद्या भीमाभ्यर्णमुपाययुः । तं च मूर्छालमालोक्य जननी पर्यदेवत ॥ ३०६ ॥ अस्माकं मार्गपशूनां वोढा त्वं प्रौढविक्रमः । दुष्टेन रक्षसा वत्स गमितः कामिमां दशाम् ॥ ३०७ ॥ निरालम्बकुटुम्बस्य करालम्बं त्वया विना । दूरात्पानीयमानीय तृष नः कोऽपनेण्यति ॥ ३०८॥ कुसुमानि समानीय बन्यान्येतां तपखिनीम् । नव्यधम्मिल्लबन्धेन वधू कोऽलंकरिष्यति ॥ ३०९ ।। तदहाय समुत्थाय देहि प्रतिवचो मम । नयास्मान्पुरतोऽध्वानं पुरोऽभ्येति रिपोश्चमूः ।। ३१० ॥ इत्थं विलापवैधुर्यधुर्यचेतसि मातरि । अञ्चलव्यजनैश्चक्रे भीमं प्रगुणमर्जुनः ॥ ३११ ।। अथोत्थाय नियुद्धाय स्पृहयालरीकोदरः। प्रति प्रत्यर्थिन धावन्वभाषे ज्येष्ठबन्धुना ॥ ३१२ ।। स्थिरो भव तव प्राता भुजभ्राजिष्णुरर्जुनः । अस्त्येव वत्स तच्छत्रौ दुष्टे कष्टायसे कथम् ॥ ३१३ ॥ इत्युक्तः सोऽवदद्देव मम संप्रति दोर्बलम् । तव दृष्टया सुधावृष्टया सिक्तं पल्लवितं पुनः ॥ ३१४॥ तवानुजस्य पुरतः कोऽयं राक्षसपांसनः । पुरो हि पूष्णः पुष्णन्ति भचयं ध्वान्तवीचयः ।। ३१५ ॥ वीक्ष्यमाणस्य देवस्य प्रसन्नाक्षस्य राक्षसम् । एनं नयामि पञ्चत्वं पञ्चानन इव द्विपम् ॥ ३१६ ॥ अमानुषप्रचारेऽस्मिन्कानने निरुपद्रवः । प्रसादेन तवेदानीमस्तु पन्थाः सुसंचरः ।। ३१७ ॥ तदस्तु फाल्गुनः शत्रोः करिष्ये फल्गु वल्गितम् । इति व्याहत्य संहर्तुं स रिपुं प्रत्यधावत ॥ ३१८ ॥ अथाहवं महाबाहोर्बाहूबाहवि कुर्वतोः । तयोर्जयश्रीर्दोलेव करोति स्म गतागम् ॥ ३१९ ॥ पाण्डवश्व हिडम्बश्च वल्गन्तौ क्षोणिरेणुभिः । तमांसि मांसलीभावं लम्भयामासतुस्तदा ॥ ३२० ॥ दृष्ट्वा हिडम्बदोर्दण्डचण्डिमानं युधिष्ठिरः। अभीमं जगदद्येति विदन्नर्जुनमभ्यधात् ॥ ३२१ ॥ त्वर्यतां त्वर्यतां वत्स गच्छ क्षपय राक्षसम् । दोर्दण्डाभ्यां हिडम्बेन पीड्यतेऽसौ तवाग्रजः ॥ ३२२ ॥ जल्पत्येवं तपःसुनौ भीमस्तं राक्षसं क्षणात् । ग्रीवायां बाहुपाशेन पशुमारममारयत् ॥ ३२३ ॥ कुन्ती सुतस्य सानन्दमुदतारयदञ्चलम् । प्रातुर्वपुरजातारिः सरजस्कममार्जयत् ॥ ३२४ ॥ अर्जुनाद्याः कनीयांसस्तस्य चेलाञ्चलानिलैः । रणखेदभवखेदच्छेदमातेनिरेतराम् ॥ ३२५ ॥ क्षणादेकान्तमासाद्य भीम रोमाञ्चशालिनी । स्तनोपपीडमालिङ्गदानन्दादुपदात्मजा ॥ ३२६ ॥ कंदर्पण हिडिम्बायास्तदा बन्धुवियोगजः । शोकः शोकापनोदेन गुरुणा विरलीकृतः ॥ ३२७ ॥ शुश्रूषाबहुमानाभ्यां निबिडाभ्यां हिडिम्बया। कुन्तीद्रुपदनन्दिन्योर्मनःपरवशीकृतम् ॥ ३२८ ॥ अथो निशीथिनीशेषे पन्थानं ते प्रपेदिरे । प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ॥ ३२९ ।। आश्वासयन्कनीयांसौ तेषां पृष्ठंगमोऽर्जुनः । निजाग्रजन्मनो दत्तबाहुभीमः पुरोगमः ॥ ३३० ॥ पृष्ठे वहन्ती कुन्ती च कृष्णां च विनयाश्चिता। अम्बरेण हिडिम्बा च तेषां मध्यस्थिताचलत् ॥ ३३१ ।। अन्यदा तु महाटव्यामत्युत्कटपिपासया । भीष्मग्रीष्मतपत्रान्ता कुन्ती मूर्छामुपाययौ ॥ ३३२ ॥ बीभत्सुरेकतो वेगादन्यतस्तु वृकोदरः। प्रत्याशमतिसंभ्रान्तौ तोयहेतोरधावताम् ॥ ३३३ ॥ मातरं मूच्छितां पश्यन्मत्वैवाम्भोऽतिदुर्लभम् । निजाभ्यामेव नेत्राभ्यामानिन्येऽम्बु युधिष्ठिरः॥ ३३४ ॥ अचिन्तयच्च रे दैव सदैव प्रत्यनीकताम् । सर्वकषां किमस्मासु निर्वाहयसि केवलाम् ॥ ३३५ ॥ दृशा पीयूषवर्षिण्या सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं सापि प्रापदिमां दशाम् ॥ ३३६ ॥ प्रियापरिभवो राज्यभ्रंशः पथ(थि)परिश्रमः। नैते तथा व्यथन्ते मां यथा मातुरियं दशा ॥ ३३७ ॥ इति चिन्तातुरे राज्ञि काप्यप्राप्य पयस्तदा । आजग्मतुनिरानन्दौ घृकोदरकिरीटिनौ ॥ ३३८ ॥ एतावपि महाबाहू विह्वलावुपरि स्थितौ । कदुष्णैर्नयनाम्भोमिर्जननी पर्यषिञ्चताम् ॥ ३३९ ॥ निराशमनसां तेषां क्षिपन्ती दिक्षु चक्षुषी । आनीयोपानयन्नीरं हिडिम्बा बिसिनीदले ॥ ३४०॥ तेषां नयनपात्रेभ्यो निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यातमानन्दशिशिरैः परम् ॥ ३४१॥ शस्यानामिव शुष्काणां शोकचिन्तातपःक्लमात् । आपुरापस्तदा तेषां ताः खात्यम्बुविडम्बनम् ॥ ३४२ ॥ अस्मात्कुटुम्बजीवातुर्मातुरातुरघातिनी । निजेति तेषां चेतःसु हिडिम्बा प्रतिबिम्बिता ॥ ३४३ ॥ मातुः संवाहयन्पादौ खाने स्थाने युधिष्ठिरः। पन्थानमतिचक्राम प्रत्यहं सह बान्धवैः ॥ ३४४ ॥ एकदा कापि पश्यन्ती कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्ट्वा कान्दिशीकापलायत ॥ ३४५॥ प्रचण्डः पुण्डरीकोऽपि पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्यात्क्रमः क्रूरात्मनामयम् ।। ३४६ ॥ तदानुपदिके तस्मिन्सभयोत्थितवेपथुः । नितम्बः स्तनभारेण न शशाक पलायितुम् ॥ ३४७ ॥ दंष्ट्राकरालमुत्फालमालोक्य तमुपागतम् । सावतस्थे समालम्ब्य धैर्यमूदमा पुरः ॥ ३४८ ॥ अवापि धर्मपुत्रो मे त्रातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां सा विधायेदमभ्यधात् ॥ ३४९ ॥ यदि मे प्राणनाथेन सत्यरेखा न लविता । तदा त्वमप्य रेखां मा म शार्दूल लङ्घय ॥ ३५० ॥ तथेत्युक्तः स तेष्वेव पदेषु सपदि स्थितः । अहो महानुभावाना प्रभावो दुरतिक्रमः ॥ ३५१ ॥ मुक्ता विधुतुदेनेव द्वीपिना तेन पाप्मना । सितदीधितिलेखेव सा भृशं शुशुभे तदा ॥ ३५२ ।। त्रिभिर्विशेषकम् प्रियोपस्थायिनं मार्गमविदन्ती मनागपि । यूथच्युतकुरङ्गीव शून्यं बनाम सा वने ॥ ३५३ ।। निःशूकं दन्दशूकेन सा व्रजन्ती यदृच्छया । दुष्टेन दुष्टुमारब्धा तमप्येवमवोचत ॥ ३५४ ॥ कायेन मनसा वाचा चेत्पञ्चापि न वञ्चिताः । मया कदापि प्रेयांसः सर्प सर्प तदान्यतः ॥ ३५५ ॥ इत्याक्षिप्तस्तया मक्षु ययौ सोऽपि भुजंगमः । वाचस्पतेरपि सतीमहिमा नहि गोचरः ।। ३५६ ॥ यदुष्णकिरणः कृष्णां सती पादैरुपस्पृशत् । तन्मन्ये सद्य एवायं मज्जति स तदाम्बुधौ ॥ ३५७ ।। अथाचक्राम दिक्कत्रमुच्छृङ्खलतमं तमः । सर्वातिशायी शोकश्च पाञ्चालदुहितुर्मनः ॥ ३५८ ॥ प्रेयोभिर्विप्रयुक्तायाः कथं यास्यति यामिनी । एषा ममेति सा चिन्ताक्रान्ता यावदजायत ॥ ३५९ ॥ हिडिम्बां पुरतस्तावदालोकत कृताञ्जलिम् । व्यानशे च प्रमोदेन सुधासेकसनामिना ॥ ३६० ॥ फुल्लत्कपोलफलका बभाषे सा हिडिम्बया । आर्ये त्वद्विरहात्मापुः पाण्डवाः शोकताण्डवम् ।। ३६१ ॥ यदान्विष्य वनान्तस्त्वां ते कुत्रापि न लेमिरे । ततो धूलीविलिप्ताजा वसुधा परिरेभिरे ॥ ३६२ ॥ तेषां संप्रति बाष्पाम्बुधाराधरणिभिः पुरः । जातानि जानुदनानि पल्बलानि भुवस्तले ॥ ३६३ ।। श्वापदैरापदं रात्रौ द्रौपदी नेष्यते ध्रुवम् । तां विना जीवितेनापि पर्याप्तमधुनामुना ॥ ३६४ ।। इति निश्चित्य ते सन्ति प्राणत्यागविधित्सवः। जीविते निस्पृहा जज्ञे पृथापि तनयानुगा ।। ३६५॥(युग्मम्) इत्थमत्याहितं तेषां विलोक्याकुलमानसा । कान्तारार्णवमालोब्य तवाभ्यर्णमुपागमम् ॥ ३६६ ।। इति वृत्तान्तमावेद्य समुलुत्य विहायसा। सा द्रौपदीमुपादाय पाण्डवानामुपानयत् ॥ ३६७ ॥ स्रोतखिनीररण्यानीस्ते बहूंश्च शिलोच्चयान् । हेलयैव हिडिम्बायाः साहाय्येन ललविरे ॥ ३६८ ॥ अथाधमर्णमन्याभ्यां हिडिम्बायाः पदे पदे । निवेश्य कुन्तीकृष्णाभ्यामभ्यधीयत सा रहः ॥ ३६९॥ भद्रे तवोपकाराणामियतैव न विद्यते । आवां तस्यामवस्थायां किं ते प्रत्युपकुर्वहे ॥ ३७०॥ तथापि ब्रूहि कल्याणि किंचिदीक्षि(प्सि)तमात्मनः । काचिदानृण्यकरणाद्यथा स्यात्प्रीतिरावयोः ॥ ३७१॥ अथोवाच हिडिम्बापि कुन्ती प्रति कृताञ्जलिः । विश्वोपकारिणि काहं क च त्वं पाण्डवप्रसूः ।। ३७२ ॥ किं तवोपकरिष्यन्ति राक्षस्यो देवि मादृशः। उपकुर्वीत किंनाम दरिद्रश्चक्रवर्तिनः ।। ३७३ ।। उपकुर्वन्ति सन्तस्तु पूर्वानुपकृता अपि । किं(के)नाप्युपकृता किंतु(नु) लोकं प्रीणाति चन्द्रिका ॥३७॥ विज्ञापयामि तदपि खंकिंचन मनीषितम् । पुत्रस्ते दृष्टमात्रोऽपि मया वत्रे वृकोदरः ॥ ३७५ ।। तत्प्रसीद तथाघेहि यथा स्यादेष मे वरः। एवं संबन्धमाधाय खस्य मां कुरु किंकरीम् ॥ ३७६ ।। , इत्याख्याते तया कुन्ती सुषाया मुखमैक्षत । सापि विज्ञा कृतज्ञा च जगाद मुदितानना ।। ३७७ ॥ प्राणैरपि प्रियं कर्तुमेतस्याः स्पृहयाम्यहम् । तुच्छानां भर्तृभोगानां संविभागे तु का कथा ॥ ३७८ ॥ ततः खयं समुत्थाय ताभ्यामभ्येत्य चान्तिके । अनिच्छन्नपि भीमस्तां प्रसव परिणायितः ॥ ३७९ ॥ सर्वर्तुरमणीयानि कृतोद्यानानि विद्यया । कृत्रिमं सौधमाधाय रेमे भीमेन सा समम् ॥ ३८० ॥ सैकतेषु सवन्तीनां शैलानां शिखरेषु च । नीत्वा यदृच्छया भीमं रमयामास सा सुखम् ॥ ३८१॥ स्वाधीनपतिका प्राप्य कामानतिमनोरमान् । क्रमादापन्नसत्त्वासौ जज्ञे पुण्यजनेश्वरी ॥ ३८२ ॥ अथ क्रमादतिक्रम्य पन्थानं पाण्डुसूनवः । नगर्यामेकचक्रायां काननान्तःकृतस्थितिम् ॥ ३८३ ।। सुवर्णकमलासीनं दिशन्तं धर्ममुत्तमम् । वपुष्मदिव चारित्रं ज्ञानिनं ददृशुर्मुनिम् ॥ ३८४ ।। (युग्मम्) मुनेर्दर्शनमात्रेण सुधास्नपनबन्धुना । तेषां श्रद्धाजुषामध्वश्रमः सर्वो व्यलीयत ॥ ३८५ ।। तेऽन्तर्मलमपाकर्तुमुत्तालमनसस्तदा । मुनिपादारविन्दस्य वन्दनार्थमुपाययुः ॥ ३८६ ॥ भवभ्रान्तिपरिक्लान्तजन्तुविश्रान्तिपादप । परोपकारनिर्व्याज मुनिराज नमोऽस्तु ते ॥ ३८७ ।। इत्यानन्दपतद्वाष्पमभिष्टुत्य युधिष्ठिरः। समान्तः संकुचज्जानुः सानुजः समुपाविशत् ॥ ३८८॥ दरिद्रपान्थवेशेषु दिविषन्मूर्तिधारिषु । तदानीं तेषु सभ्यानां निपेतुर्युगपद्दृशः ॥ ३८९ ।। अथापदापगोत्तारे द्रोणीमिव दृशं क्षिपन् । तानाश्रित्य विशेषेण मुनिराधत्त देशनाम् ॥ ३९० ।। एक एव पुमर्थेषु धर्मश्चूडामणीयते । दया च सर्वसत्त्वेषु तस्यापि तिलकायते ॥ ३९१ ॥ प्रावृट् पाथोधिवीथीव करुणा चाप्यकृत्रिमा । वनराजीव(जी च) राज्यं च नवतां नयतः पुनः ।। ३९२ ॥ दया प्राणिषु सर्वेषां गदानामगदः परः । अनर्थ्यमायुर्दैर्घ्यस्य कारणं करुणां विदुः ॥ ३९३ ।। शुक्तिरुन्नतिमुक्तानां मुक्तिसंगमदूतिका । दया नियतमेकापि सर्वकल्याणकारणम् ॥ ३९४ ॥ इत्याकर्ण्य हिडिम्बाथ राक्षसान्वयदुर्लभम् । निर्मन्तुत्रसजन्तूनां प्रतिषेधं वधे व्यधात् ॥ ३९५ ॥ देशनान्ते स्वयं कुन्ती संशयापगमक्षमम् । मुनिं पर्यनुयुङ्क्ते स्म विनयाद्विहिताञ्जलिः ।। ३९६ ॥ पराभवसहस्राणां पदमापदमीदृशीम् । किमते निस्तरिष्यन्ति कदापि मम सूनवः ।। ३९७ ॥ त्रिलोकीं हस्तविन्यस्तकुवलीफललीलया । पश्यन्मुनिरिमां वाचं व्याजहार मनोहराम् ॥ ३९८ ॥ विभावय महाभागे भवितारः सुतास्तव । क्रमेणानुपमानाया मुक्तेर्मुक्तेश्च भाजनम् ॥ ३९९ ॥ पुनरेव निजं राज्यं कैश्चिदासाद्य वासरैः । ज्येष्ठोऽयं दुष्टसंहर्ता कर्ता धर्मप्रभावनाम् ॥ ४००॥ क्रमात्कर्माणि निर्मूल्य संयमाराधनादमी। पञ्चापि विश्वत्रातारो यातारः पञ्चमीं गतिम् ॥ ४०१॥ इमां निशम्य ते वाचं वाचंयमशिरोमणेः । पीयूषसेकसोदर्यामासेदुः परमां मुदम् ॥ ४०२ ॥ तत्र ज्ञानसुधाम्भोधावन्यन्त्र प्रस्थिते मुनौ । धर्मानुरागिणीं ज्यायान्हिडिम्बां पाण्डवोऽभ्यधात् ।। ४०३॥ निष्कारणोपकारिण्याः शुभे साहाय्यकात्तव । अटवीतटिनीप्रायः पन्था दुर्गोऽपि लङ्घितः ।। ४०४ ॥ वयं नगर्यामेतस्यां स्थास्यामः कतिचिद्दिनान् । तद्गच्छ भद्रे स्वभ्रातुः सनाथां कुरु संपदम् ॥ ४०५ ॥ गर्भाभिधाने मद्भातुर्निधाने यत्नमातनु । पात्रे न्यासीकृता संपदधिकां वृद्धिमश्नुते ॥ ४०६ ॥ स्मृता तु समये वत्से समुपस्थातुमर्हसि । मनोऽभ्युपेतनिर्वाहे सावधानं महात्मनाम् ॥ ४०७ ॥ अथाङ्गीकृत्य तत्तस्थौ हिडिम्बा वनमेत्य सा । वीतरागसपर्यासु पर्याकुलकराम्बुजा ॥ ४०८॥ मुद्रामाहत्य विप्राणां तदाचारमनोहराम् । एकचक्रामुपाजग्मुर्नगरी पाण्डुनन्दनाः ॥ ४०९ ॥ अदृश्यन्त विशन्तस्ते पुर्यामार्येण वर्त्मनि । द्विजेन जनतादत्तशर्मणा देवशर्मणा ॥ ४१० ॥ उपलभ्योपसंग्राह्यान्गुणगृह्यः स तान्कृती। गतच्छद्मा निजं सम नीत्वा काममपूजयत् ॥ ४११ ॥ अभणच्च गुणश्रेष्ठं ज्येष्ठं बान्धवमादरात् । भो भूमिदेव देवेन योजितः किंचिदर्थ्यसे ॥ ४१२ ॥ इदं मे वेश्म तामेतां पत्नी सौजन्यशालिनीम् । इमं पुत्रमिमां पुत्रीं जानीयाः सर्वमात्मनः ॥ ४१३ ॥ वसन्गेहे सुखेनान पवित्रय पुरीमिमाम् । सरला रत्नगर्भेति जनो जानाति संप्रति ॥ ४१४ ॥ तथेति प्रार्थनां गुर्वी प्रतिश्रुत्य युधिष्ठिरः । चक्रे कुटुम्बसंमत्या निवासं तस्य वेश्मनि ॥ ४१५ ।। विप्राचारभृतो बाह्ये खान्ते तु परमाहताः । ते धर्मकर्मठास्तत्र वासरानत्यवाहयन् ॥ ४१६॥ श्वश्रूशुश्रूषणप्रीतचेताः पाञ्चालनन्दिनी । पुत्रीप्रीतिपरा तस्यां कुन्ती चानचतुर्जिनम् ॥ ४१७ ॥ कुटुम्बस्यानुकूल्येन प्रातिकूल्यं विधेस्तदा । न किंचित्ते विदांचक्रुरेकचक्रानिवासिनः ।। ४१८ ॥ सावित्री नाम तस्यास्ति कलत्रं देवशर्मणः । तया वैनयिका(विनीतया) कुन्या मनः परवशीकृतम्॥४१९॥ कुन्ती कृष्णासधर्माणं स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ गङ्गादामोदराभिधौ ॥ १२०॥ सा तेन सहवासेन विस्मृतात्मनिकेतना। अनेकान्गमयामासुर्मासानेकाहलीलया ॥ ४२१॥ अन्यदा पवमानस्य तनये गृहवर्तिनि । अपरेष्वेव संक्रान्तस्वैरसंचारशालिषु ॥ १२२ ॥ देवशर्मकुटुम्बस्य कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन भिन्नेव हृदयेऽभवत् ॥ ४२३ ॥ गत्वाथ देवशर्माणं सा जगाद सगद्गदम् । तव वत्स कुतोऽमूलमेतद्दुःखं सुदुःसहम् ॥ ४२४ ॥ अथासौ कथयामास कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्टमतिकष्टमजायत ॥ ४२५॥ पुरोपरि शिला गुर्वी दर्शिताकाण्डविद्भरा()। समालोक्यत कल्पान्तपुष्करावर्तसोदरा ॥ ४२६ ॥ युगान्तज्वलनोपज्ञधूमस्तोमोपमस्तदा । घोरान्धकारो विधुरं पुरीजनमजीजनत् ॥ ४२७ ॥ खण्डयन्भूरुहां खण्डान्ववौ चण्डः समीरणः । कनीयान्बान्धवो यस्य किल कल्पान्तमारुतः ॥ ४२८॥ अदृष्टपरचक्रान्तामेकचक्रां पुरीं तदा । भयस्याभिज्ञतां निन्युस्तान्यरिष्टानि सर्वतः ॥ १२९ ॥ अबलाभिश्च बालैश्च प्राणान्तिकमयाकुलैः । भर्तृणां च पितॄणां च चक्रे कण्ठग्रहस्तदा ॥४३० ॥ प्रत्येकं कुलदेवीनामीषुर्जातु स्थिताः पुरः। उपायाचितलक्षाणि पुरीवृद्धपुरंध्रयः ॥ ४३१ ॥ नैमित्तिकनिमित्तानि ग्रहान्मौहूर्तिकाः पुनः। शकुनं शकुनज्ञाश्च सर्वेऽप्यालोकयंस्तदा ।। ४३२ ।। नृपश्च पौरमुख्याश्च बद्धाञ्जलिपुटाः समम् । धूपमुत्क्षिप्य निक्षिप्य दृशं मूर्धन्यथाभ्यधुः ॥ ४३३ ॥ यक्षो वा यदि वा रक्षो योऽस्ति क्रुद्धः पुरी प्रति । असाखाज्ञाविधेयेषु सांप्रतं स प्रसीदतु ॥ ४३४ ॥ अथाकस्मान्मपीकालः कालरात्रिसहोदरः । पिङ्गाक्षिचिकुरः क्रूरः कश्चित्तैर्ददृशे दिवि ॥ ४३५ ॥ भीतास्ते कम्पमानाङ्गास्तमूचुः प्रश्रयाञ्चिताः । कोऽसि ब्रूहि महाभाग देवो वा दानवोऽथवा ॥ ४३६ ॥ असौ संहारसंरम्भः समारेमे कुतस्त्वया । तव नेतुं विना मन्तुमन्तं जन्तून सांप्रतम् ॥ ४३७ ॥ क्लिश्यन्ते हि महात्मानः परोपकृतिकाम्यया । तरणेः कारणं किंतु याम्यति नभोऽङ्गणे ॥ ४३८ ।। दधत्यात मुखं कर्तु(सुखी) कुलीनास्तापमात्मना । सुदुःसहं सहन्ते हि तरवस्तपनातपम् ॥ ४३९ ।। तदान्यदपि विश्वस्य शल्यमुद्धर्तुमर्हसि । एतत्कर्तुमकर्तव्यं किं पुनस्तव युज्यते ॥ ४४० ॥ एवमुच्चैस्तरामुक्तः सोऽभ्यधत्त नभःस्थितः । अरे विद्याधराधीशं मां जानीत वकाभिधम् ॥ ४४१ ॥ रत्नशैलाभिधे शैले पुरीसविधवर्तिनी(नि)। दुःसाध्या साधयांचके मया विद्याथ राक्षसी ॥ ४४२ ॥ ततः स्वविद्यामाहात्म्यविलोकनकुतूहुली। पुरीसंहारमधुना विधित्सुरयमस्म्यहम् ॥ ४१३ ॥ अरे चराकाः सपदि स्मरताभीष्टदेवताम् । शिलासंचूर्णितास्तूर्णमिदानी न भविप्यथः ॥ ४४४ ॥ तेऽथ तेनैवमाक्षिप्ताः पुनरेवं बभापिरे । विद्या विद्याधराधीश किं न कुर्यादसंशयम् ॥ ४१५॥ एतावतैव कार्येण पुरी संहर्तुमर्हसि । को नाम कीलिकाहेतोः प्रसादोच्छेदमिच्छति ॥ ४४६ ॥ एवं विद्यापरीक्षायै पुरीसंहरणं वृथा । भस्मने भस्मसात्कुर्यात्को हि चन्दनकाननम् ॥ ४४७ ॥ तदेनमेनसामेकं संक्रमं चंक्रमं त्यज । किं च त्रिलोकीत्राणाय विद्या व्यापार्यतामियम् ॥ ४४८ ॥ सोपरोधमिति प्रोक्तः सोऽभ्यधान्निष्कृपः पुनः। मांसैकलुब्धमनसो दैन्यगृह्या न राक्षसाः ॥ ४४९ ॥ अस्ति युष्माकमेकस्तु पणः प्राणप्रियंकरः । मम दत्त्वोपहारं चेदेकं मानवमन्वहम् ॥ ४५० ॥ मदीयपुरनेदीयःकान्तारे भैरवाभिधे । मत्प्रसादार्थिभिः प्रांशुः प्रासादश्च विधाप्यताम् ॥ ४५१ ॥ जातु नैवं कृतेऽवश्यं भविता वः पराभवम् (वः) । सदैव दैवतेभ्योऽपि परचक्रात्तु का कथा ॥ ४५२ ॥ इदं वोऽस्तु पुरी त्रातुमेकमौपयिक परम् । तदरे रोचते यद्वस्तदाचरत संप्रति ॥ ४५३ ।। इति व्याहृत्य विरते दुर्नयासेवके बके । अनिष्टामपि तां पौरास्तद्विरं प्रतिशुश्रुवुः ॥ ४५४ ॥ अथेन्द्रजालिकेनेव राक्षसेन्द्रेण तत्क्षणात् । अपासायंत सर्वोऽपि शिलादिर्दिवि डम्बरः ॥ ४५५ ॥ ततः कुमारिकाकृष्टनामपत्रनियोगतः। पर्यस्थाप्यत पर्यायः पौरैः पुरनिवासिनाम् ॥ ४५६ ॥ बकमूर्तिसनाथश्च प्रासादो निरमीयत । बलिनश्च विधातुश्च नियोगः केन लङ्घयते ॥ ४५७ ॥ एकस्ततः प्रभृत्यं च पुमांस्तस्योपदीयते । असौ द्रोणप्रमाणश्च शाल्योदनमयो बलिः ॥ ४५८ ॥ तदेनं बलिमादाय मातर्नुपनिदेशतः। पर्यायोपगतः सोऽहं यास्यामि विपिनेऽधुना ॥ ४५९ ॥ तन्निराशं निरालम्बं कुटुम्बं मम रोदिति । आश्रयद्रुमनाशे हि दीनाः क्रोशन्ति पक्षिणः ॥ ४६०॥ किं चान्यत्संकटं यन्मे तन्मातः शृणु संप्रति । यदेषा ब्राह्मणी वक्ति मामिदानी पुनःपुनः ॥ ४६१ ।। किं कार्यममुना नाथ त्वां विना जीवितेन मे । सापत्यापि भृशं लप्स्ये त्वदृते हि पराभवम् ॥ ४६२ ॥ ततोऽहमुपहाराय तस्य यस्यामि रक्षसः । कल्पायुस्त्वं पुनर्भूया भुजानो भूयसीं श्रियम् ।। ४६३ ॥ त्वत्प्राणत्राणकारिण्याः कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छेत्तुमतिच्छेकाः कुलस्त्रियः ॥ ४६४ ॥ भुक्तं मृष्टं सुखं स्पृष्टं दृष्टं मुखमपत्ययोः । त्वत्तः किं किं मया नाप्तं नास्ति मृत्योभयं मम ।। ४६५ ॥ ब्रजन्तं केवला नेयं मां रुणद्धि सधर्मिणी । असावप्यात्मजेदानीं सुदती वदतीति तौ ॥ ४६६ ॥ ममान्तर्मा स्म वा तात गच्छतं रक्षसो मुखे । आहारमुपहारं वा कर्तु तस्योद्यतास्म्यहम् ॥ ४६७ ।। बालोऽयं युवयोरेव जीवतोरेष जीवति । मातापि तातशुश्रूषां करोत्वाकल्पजीविनी ॥ ४६८॥ यदि मां नानुमन्यध्वे युवां नास्मि तथाप्यहम् । युवयोर्गेहवास्तव्या परार्था हि पतिंवरा ॥ ४६९ ।। इति कुन्ति कुटुम्ब मां नानुजानाति मृत्यवे । अनुमन्येऽहमप्येतत्कथं रक्षोमुखेऽपतत् ।। ४७० ॥ आदेशश्च नरेशस्य सर्वथा दुरतिक्रमः । तत्किंकर्तव्यतामूढः पतितोऽस्म्यत्र वैशसे ॥ ४७१ ॥ इति विप्रे वदत्येव काशकम्बा विलोलयन् । वेगादागत्य बालस्तानवोचत्पश्चहायनः ॥ १७२ ।। मा रोदीस्तात मास्माम्ब रोदीर्मास्म रुदः स्वसः । अनया कम्बया गत्वा तं हनिष्यामि राक्षसम् ॥ ४७३ ॥ मुहुर्मुहुर्ब्रुवन्नेवं चालयंस्तां लतां शिशुः । बाष्पलते दृशौ तेषां प्रममार्ज पुनः पुनः ।। ४७४ ॥ तेषामेकैकशो नेत्रे स ममार्ज यथा यथा । अम्भस्तथा तथा ताभ्यां निर्झराभ्यामिवाभ्यगात् ।। ४७५ ॥ अथ कुन्ती बलोदात्तां तां वालस्य सरस्वतीम् । रक्षोवधैकपिशुनामुपश्रुतिममन्यत ।। ४७६ ।। द्विजन्मानमवादीच दयालुहृदयाधिकम् । हतमेवेति तं वत्स लक्षये राक्षसाधमम् ॥ ४७७ ॥ वध्यवेषममुं मुश्च किं च सिञ्चन्कुटुम्बकम् । वात्सल्यामृतकुल्याभिश्छायां नय पुरातनीम् ॥ ४७८ ॥ शौण्डीर्योपचिताः पञ्च ममामी सन्ति सूनवः । तेषामेकतमो गत्वा तं हनिष्यति हेलया ॥ ४७९ ॥ इति कुन्तीवचः श्रुत्वा हसन्नाह द्विजोत्तमः । न जानासि जगज्जेत्रं त्वमम्ब बकविक्रमम् ॥ ४८० ॥ तस्मिशौण्डीर्यशौण्डानां दोर्दण्डवलडम्बरम् । अन्तर्भजति मार्तण्डे तेजस्तेजस्विनामिव ॥ ४८१ ॥ अहमेव वर मातर्यातः कीनाशदासताम् । न तु विश्वजनीनात्मा तनयस्तव कश्चन ॥ ४८२ ।। इति द्विजन्मनो वाचं व्याख्यातबकविक्रमाम् । आकर्ण्य मातुरभ्यर्णवर्ती भीमस्तमभ्यधात् ।। ४८३ ।। त्वया पुत्रवर्तिमन्या माता नः सर्ववत्सला । पश्यन्त्यपायमायातमन्तःसंतप्यतेतराम् ॥ ४८४ ।। जननीयं कृतज्ञानां त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्टमिति पश्यति मे मतिः ॥ ४८५ ॥ भवन्तमन्तकप्राथायोऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते ॥ ४८६ ॥ तदहं विहितोत्साहो मातुराधातुमीप्सितम् । त्वं तिष्ठ निष्ठुरं दुष्टमुपस्थातास्मि राक्षसम् ॥ ४८७ ॥ देवशर्मा ततः प्राह मैवं वद महामते । न क्षमे श्रोतुमप्येतामब्रह्मण्यां गिरं तव ॥ १८८ ।। उररीकृत्य ते मृत्यु नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन कः काचं परिरक्षति ॥ ४८९ ॥ मादृशस्य द्विजस्याथै नररलं भवादृशम् । राक्षसायोपनेतव्यमिति कोन्योऽपि मन्यते ॥ ४९० ॥ त्वादृक्षो विरलः कोऽपि परोलक्षास्तु मादृशाः । खल्पः कल्पतरोंके भूयांसोऽन्ये हि भूरुहः ॥ ४९१ ॥ नियन्ते पञ्चषाण्येव मानुषाणि मृते मयि । अस्या मूर्तेर्विपत्तौ तु सर्वा सीदति मेदिनी ॥ ४९२ ॥ एतौ तब भुजौ वीक्ष्य स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामायं न पुनर्बकराक्षसः ॥ ४९३ ॥ एक एव बको यद्वा तव दोःपाशयोः पुरः । केवलं केवलिप्रोक्ता गिरः संशयकारणम् ॥ ४९४ ।। यतोऽमुष्यां पुरा पुर्या केवली मुनिराहतः । उदियाय पुरः शैलचूलायामिव भास्करः ।। १९५॥ सर्वे बन्दारवः पौरास्तदभ्यर्णमुपाययुः । सोऽपि कारुणिकस्तभ्यः परं धर्ममुपादिशत् ॥ ४९६ ॥ तेनोपदेशपीयूषपातेन प्रसरन्मुदः । समये विश्वमार्तण्डं मुनीन्द्रं तेऽन्वयुञ्जत ॥ ४९७ ॥ प्रभो प्रसीद सीदन्ति पौराः सर्वे निवेद्यताम् । विरस्यति जनस्यास्य राक्षसोपद्वः कदा ॥ ४९८॥ मुनिनाथोऽप्यथाचख्यौ भो भद्राः पाण्डुसूनवः । जिता द्यूते यदेष्यन्ति वनवासक्रमादिह ।। ४९९ ।। असौ तदानीं भविता नगरी निरुपद्रवा । सदाप्यगोचरो वाचां महिमा हि महात्मनाम् ॥ ५०० ॥ इत्याख्याय स लोकाय जगाम मुनिपुङ्गवः । तादृशां हि महीं सी प्रियां कर्तुमुपाक्रमः ॥ ५०१ ॥ तेन चन्द्रातपेनेव मुनीन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोलैर्नागराः सागरा इव ।। ५०२ ॥ वर्णा अपि सुधाकीर्णाः पाण्डवाः पाण्डवा इव । एतद्वाच्या भविष्यन्ति पुमांसः कीदृशाः पुनः ।। ५०३ ॥ इत्युक्तः कुलदेवीभिः पाण्डवागमनैषिमिः। उपयाजितलक्षाणि पौरैः प्रत्येकमीषिरे ।। ५०४ ।। (युग्मम् ) हस्तिनापुरमार्गेण नानोपायनपाणयः । प्रत्युद्ययुश्च ते नित्यं पाण्डवेयान्प्रति प्रगे ॥ ५०५॥ जनानां जनतामेतानद्यश्वीनसमागमान् । एकदा पथिकः कश्चिदाययौ तेन वर्मना ॥ ५०६ ॥ स तैरप्रच्छि भोः पान्थ कथयास्मिन्पथि कचित् । उदन्तः पाण्डवेयानां कश्चित्कचित्त्वया श्रुतः ॥ ५०७ ।। शशंस सोऽपि भोः पौराः पथि चंक्रमणैः क्रमात् । आगतोऽसि श्रियो वासवारिजे वारणावते ॥ ५०८ ॥ जनेभ्यस्तन्निवासिभ्यः सबाष्पेभ्यः पदे पदे । इति कर्णविषं तसिन्नौषमतिदारुणम् ॥ ५०१ ॥ दुर्योधनस्य वचसा वसन्तो जातुषे गृहे । इह चण्डाः सुताः पाण्डोर्दाहं प्रापुः प्रदीपनात् ।। ५१० ॥ इहानुजीविभिस्तेषां विरचय्योचिताश्चिताः । प्राणास्तेनैव सार्थन प्रहिताः प्रभुवत्सलैः ।। ५११ ॥ वीक्ष्य भस्मस्थलीः स्थूलाः कीर्तीस्तेषां निशम्य च । ममापि निरवाप्यन्त बाष्पैः कूलंकषा दृशः ॥ ५१२ ।। अथावेद्य कथामेतां स पान्थः प्रस्थितः पुरः। आक्रन्दश्चैकचक्रायां चक्रेऽतितुमुला दिशः ॥ ५१३ ॥ न मातुर्न पितु व खामिनो मृत्युवार्तया । अभवत्तादृशः शोकः पौराणां यादृशस्तदा ॥ ५१४ ।। निःप्रत्याशैर्निरानन्दैततःप्रभृति नागरैः । पूर्यते यातुधानस्य विशेषेण मनीषितम् ॥ ५१५॥ तदिदानी द्रुतं यामि प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं जज्ञेऽनुज्ञाजलिर्मम ॥ ५१६ ॥ इति व्याहृत्य धैर्येण संवर्मितमनास्ततः । सकुटुम्बोऽप्यगाद्विप्रः प्रणन्तुं कुलदेवताम् ॥ ५१७ ॥ अथाभ्यधात्पृथा भीमं वत्स त्वयि तनूरुहे। एकस्यापि द्विजस्यास्य नाभूवमभयप्रदा ।। ५१८॥ धन्यास्ते सति सामर्थ्य धारायां वार्षिसीमनि । ये सर्वप्राणिरक्षार्थ ददत्यभयडिण्डिमम् ।। ५१९ ।। ये तूपकारकस्यापि विपन्नद्यां निपेतुषः । निबिड नोडुपायन्ते तेषामजननिर्वरम् ।। ५२० ॥ महापदमपाकर्तुमेतामस्योपकारिणः । अहं(न)हं तावदलंभूष्णुस्तन्मां धिक् धिक् च मे सुतान् ॥५२१॥ तद्गच्छ बलिमादाय निवासं तस्य रक्षसः । विदधीथास्तथा तत्र सत्यः स्यात्केवली यथा ॥ ५२२ ॥ एवमादेशमासाद्य मातुः पादौ प्रणम्य च । सच्छायपादपं प्राप बकोद्यान वृकोदरः॥ ५२३ ॥ पश्यन्स्मेरमुखस्तस्य वनस्य कमनीयताम् । पुरतः पुरुषं कंचिदृष्ट्वाभाषिष्ट पाण्डवः ।। ५२४ ॥ शंस मे भद्र कस्यायं प्रासादः प्रांशुरग्रतः । कश्च त्वं कुत्र वा तिष्ठेद्रक्षोभक्ष्यः पुमानिह ।। ५२५ ॥ सोऽवोचत्कारितः पौरैः प्रासादः सैष राक्षसः। स्थाने चास्मिन्बलिः शेषराक्षसेभ्यो निधीयते ॥५२६॥ अहं तु पौरनिर्दिष्टः प्रासादपरिचारकः । पर्यायोपगतोऽध्यास्ते बध्यो बध्यशिलामिमाम् ॥ ५२७॥ महात्मन्कौतुकाकिंतु किंचित्पर्यनुयुज्यसे । स्वादृग्लोकत्रयीजैत्रभुजः कोऽप्यत्र नाययौ ॥ ५२८॥ नाप्यस्ति वध्यवेषस्ते न च ते दीनमाननम् । लम्बते निम्बमाला च न तवाधिशिरोधरम् ।। ५२९ ।। इति प्रश्नपरे तस्मिन्नकस्मादेव दुःश्रवः । पुरो याहि पुरो याहीत्येवं कोलाहलोऽभवत् ॥ ५३० ॥ तं श्रुत्वा स पुनः प्राह नन्वसावेति राक्षसः । ततो व्यवहितो भूत्वा देव स्थास्यामि संप्रति ॥ ५३१ ॥ इत्युक्त्वान्तर्हिते तसिन्दूरादायाति राक्षसे । पल्यङ्किकामिव शिलां लीलयाध्यास्त पाण्डवः॥ ५३२ ।। अथोपेतः समं प्रेतपिशाचैः स निशाचरः । सुखोत्तानशयं क्रूरः प्रेक्षांचक्रे वृकोदरम् ।। ५३३ ॥ अचिन्तयच्च कोऽप्यध पीवरोरुमहोदरः । आगात्पुमान्न यो माति विपुलेऽपि शिलातले ॥ ५३४ ॥ असौ बुभुक्षाक्षामस्य भूत्वा कुक्षिभरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः ॥ ५३५ ॥ इति प्रमुदितवान्तो दन्तान्सोऽत्यन्तदारुणः । देहे व्यापारयामास मांसले पाण्डुजन्मनः ॥ ५३६ ।। भीमस्य वज्रकायस्य काये व्यापारिता अपि । अवापुः कुण्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥ ५३७ ॥ भीमवक्षःस्थले स्थूलंभावुकक्षुत्क्लमोदयः । खननोपक्रमं चक्रे नखकुद्दालकैर्वकः ॥ ५३८ ।। त्रुटत्कारकरास्तस्य नखरास्ते खरा अपि । मृणालकदलीभञ्जं भज्यन्ते स्म समन्ततः ॥ ५३९ ।। विस्मितश्च विलक्षश्च लज्जितः सज्जितश्च सः । रक्षोनिवहमाह्वास्त समस्तं स्वस्य संनिधौ ।। ५४० ।। ऊचे च नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन्भूभृति भूयांसमनेहसमलङ्घयम् ॥ ५४१ ॥ परं न कोऽप्यभूदीदृक्पुरुषः परुषच्छविः । न च स्थिरो न च स्थूलवपुर्नाप्यकुतोभयः ॥ ५४२ ।। तदेनं स्वे नगे नीत्वा तीक्ष्णेन तरवारिणा । उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभवम् ।। ५४३ ॥ तदवश्यमुदस्यध्वमेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रुरुद्दामबलशालिनः ॥ ५४४ ॥ भीमभारभराक्रान्ता मुखेनोद्वान्तशोणिताः। नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ।। ५४५ ॥ अथ संभूय भूयोभिस्तैः समं बकराक्षसः। भीमं कथंचिदुत्पाट्य निनाय निजभूधरम् ॥ ५४६ ॥ इतः साकं कुटुम्बेन विलापविकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ।। ५४७ ॥ दूरादधिगृहद्वारमदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं जङ्घालः काननं ययौ ॥५४८॥ (युग्मम्) तत्रालोक्य गदां पादसमर्दं च शिलान्तिके । स प्रत्यासन्नमासन्नमूर्छः पप्रच्छ देवलम् ॥ ५४९ ॥ ब्रूहि बन्धो प्रवन्धोऽयमधुना कीदृशोऽभवत् । वनमायातपूर्वी च लक्ष्यते राक्षसो यतः ।। ५५० ॥ शशंस सोऽपि भो विप्र कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य तूलिकामिव लीलया ॥ ५५१ ॥ वेगादागत्य तमितो द्वितीयमिव पर्वतम् । निरीक्ष्य रक्षसां नेता निनाय निजभूधरम् ॥ ५५२ ॥ एतावत्यन्तरे क्रूरैरुत्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयांचक्रे स रक्षोभिर्बुभुक्षितैः ॥ ५५३ ॥ त्वां वध्यवेषमुद्वीक्ष्य ध्रुवं संभावयाम्यहम् । कश्चित्तवैव पर्याये सुकृती त्यक्तवानसून् ॥ ५५४ ॥ तच्छ्रुत्वातीव चक्रन्द वज्राहत इव द्विजः । हा परोपकृतिप्रौढ निर्व्यढाद्भुतसाहस ॥ ५५५ ॥ ममाधमर्ण्यमाधाय गत्वा राक्षसपासनम् । विश्वरक्षाक्षमैर्भ्रातः प्राणैरप्रीणयः कथम् ॥ ५५६ ॥ न त्वया विदधे साधु प्राणैर्मामपि रक्षता । यतस्तृणमणिस्थाने हन्त चिन्तामणिर्गतः ॥ ५५७ ।। स विप्रो विलपन्नेवं निज संप्रेक्ष्य मानुषम् । पृथायाः कथयामास कथां दत्तव्यथामिमाम् ।। ५५८ ॥ पृथापि सह पाञ्चाल्या पक्किलं मार्गमश्रुभिः । कुर्वती वनमभ्यागात्साधै धर्ममुतादिमिः ॥ ५५९ ॥ काम्येऽपि कानने तस्मिन्नस्पृशन्तो रति कचित् । संगताः केसरस्याधस्ते सर्वे देवशर्मणा ॥ ५६० ॥ अथ शोकेन पक्ष्मान्तवान्ताश्रुकणधोरणिः । युधिष्ठिरमभाविष्ट द्विजः स्वानुशयाशयः ।। ५६१ ॥ इदं विश्वजनीनेन मत्प्राणत्राणकाङ्क्षिणा। ह हा हा दुःश्रमं तेन त्वद्भ्रात्रा कर्म निर्ममे ॥ ५६२ ॥ प्रणन्तुं कुलदेवीभ्यो यद्गतोऽस्मि दुनोति तत् । तत्रान्तरे महात्मासौ गत्वा रक्षोमुखेऽपतत् ॥ ५६३ ।। अथोवाच तपःसूनुः सूनृतैकनिकेतनम् । मा विषीद महाभाग पर्याप्तं परिदेवितैः ।। ५६४ ॥ न जातु यातुधानेन महन्धुः परिभूयते । तमस्काण्डेन चण्डांशुः किं कदापि विलुप्यते ॥ ५६५॥ भीमस्य भुजपाशेन लीलयापि निपीडितः । कृतान्तस्यान्तिकं गन्ता बको बक इव ध्रुवम् ॥ ५६६ ॥ इति तस्मिन्वदत्येव मुक्तसूत्कारमम्बरात् । पपात चण्डमुच्चण्डगण्डशैलोपमं पुरः ॥ ५६७ ॥ चकम्पे काश्यपी शैलाः पेतुर्यस्मिन्निपेयु(तु)षि । तत्किमेतदिति क्षोभात्ते प्रैक्षन्त मुहुर्मुहुः ॥ ५६८ ॥ भीमस्य प्रथितैस्तेऽथ चिट्ठनिश्चिक्यिरे शिरः। तदैव मुक्तकण्ठं च सर्वे परिदिदेविरे ॥ ५६९ ।। चक्रन्द नन्दनः पाण्डोर्ज्यायानुज्झितधीरिमा । हा वत्स विश्वसाधार हा हिडम्बविडम्बन ।। ५७० ।। अवधीस्त्वं नरव्याघ्र पुरा राक्षसकुञ्जरान् । किमिदानी बकेनापि लम्भितोऽसि दशामिमाम् ॥ ५७१ ॥ बकं हत्वा ध्रुवं पार्थों विधाता वैरयातनाम् । त्वयाधुना विमुक्तास्तु भविताः स्मः कथं वयम् ॥ ५७२ ।। सुखं निद्रायमाणानामतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं भविष्यति विना त्वया ॥ ५७३ ।। प्रचण्डतरसास्माकमगाधेऽध्वमहाम्बुधौ । उपात्तोड्योतकाष्ठेन वत्स पोतायितं त्वया ॥ ५७४ ॥ मामिदानीं त्वया सौम्य त्यक्तं विधुमिवाधुना । बाढं बाधिष्यते क्रूरः सुयोधनविधूतुदः ।। ५७५ ॥ अथवा तव सार्थेन यास्यतो मम निश्चितम् । विरोधसावधानोऽपि किं विधाता सुयोधनः ॥ ५७६ ।। इत्थं विलापविकलो यावदालोकते पुरः। तावद्धर्मात्मजः कुन्तीं जातमूर्छामुदैक्षत ॥ ५७७ ॥ तनूजैस्तैस्ततः कुन्ती वीजिता प्राप्य चेतनाम् । पर्यदेवत हा वत्स सत्त्वोदार वृकोदर ॥ ५७८ ॥ मुनिभिर्वज्रकायस्त्वं कथितस्तत्कथं बकः । मृणालकन्दलीछेदमिदं चिच्छेद ते शिरः॥ ५७९ ॥ तवैतस्योत्तमाङ्गस्य क्रियेऽहमवतारणम् । येन गिरिग्रावा भस्मचूरमचूर्यत ॥ ५८० ॥ प्रकाशः प्राग्ययोरासीत्तामसीष्वपि रात्रिषु । नेत्राभ्यामधुना ताभ्यां कथं मामपि नेक्षसे ॥ ५८१ ।। तेषु तेष्ववदातेषु मुहुराधायि यो मया सोऽयं सन्मूर्द्धजो मूर्द्धा कथं लुठति भूतले ॥ ५८२ ।। इत्थं विसंष्ठुलं कुन्त्यां विलपन्त्यां मुहुर्मुहुः । तमुपादाय मूर्द्धानं द्रौपदी विदधौ हृदि ।। ५८३ ॥ व्यलपत्तुमुलं सापि पादपान्तरिता ततः । हा नाथ मथिताराते व गतोऽसि विहाय माम् ॥ ५८४ ॥ मया प्राणेश ये केशा विकीर्णाः करकङ्कतैः । धूलिधूसरितास्तेऽमी विलुठन्ति भुवस्तले ।। ५८५ ॥ विद्रुमाभः पुरा योऽभूत्सुधाखादस्तवाधरः। घिग्विधे सोऽधुना धत्ते प्रम्लानेन्दीवरश्रियम् ॥ ५८६ ॥ अध्यशेत ममोत्सङ्गे यः शयालरनेकधा । अयं स एव मौलिस्ते गाहते हि महीतलम् ॥ ५८७ ॥ जानीयास्त्वमिदानी मामात्मान्तिकमुपेयुषीम् । एवं विलय पाञ्चाली चितामारचयत्तदा ।। ५८८ ॥ राज्यभ्रंशं प्रवासं च विना भीमे सुदुःसहम् । विभाव्य धर्मपुत्राद्यैर्मरणायोपचक्रमे ॥ ५८९ ॥ अहमेवाभवं हेतुरेतस्मिन्नसमञ्जसे । इति निश्चित्य संनद्धं मृत्यवे देवशर्मणा ॥ ५९० ।। अथाश्रूयत तैः सर्वैर्ब्रह्मस्तम्बोदरंभरिः। गुहागहरवर्धिष्णुर्मुहुः किलकिलारवम्(वः) ॥ ५९१ ॥ श्रुत्वा तं चिन्तयामास सक्षोमं धर्मनन्दनः। भीमं हत्वायमभ्येति हन्तुमस्मानिशाचरः।। ५९२ ।। शीर्षच्छेद्यो ह्यसौ दिष्ट्या स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥ ५९३ ॥ विचिन्त्येत्यवदत्पार्थ वत्सागच्छति राक्षसः । अस्य जीवितमादाय भीममुज्जीवय द्रुतम् ॥ ५९४ ॥ इत्यादिष्टः स कोपेन किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥ ५९५ ॥ कुन्ती तु चिन्तयामास पार्थः कर्षति संप्रति । राक्षसापसदस्यास्योदरादाशु वृकोदरम् ॥ ५९६ ॥ अस्मिन्कृतान्तपादान्तपरिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तवत्सलम् ॥ ५९७ ।। चक्रे मनसि कृष्णापि भयात्कृष्णमुखी ततः। हा हतास्मि पतीनेतान्हन्तुमेति क्षपाचरः॥ ५९८ ॥ यत्र निर्नाम निर्मग्नं भीमस्यौजो महौजसः। तत्र पार्थस्य शौण्डीर्यं किंतु(नु) नाम करिष्यति ॥ ५९९ ॥ दुष्टस्य यस्य नियूंढश्चण्डांशावपि चण्डिमा । ग्रसते स सुधारश्मिं राहुरत्र किमद्भुतम् ॥ ६०० ।। तन्मे भर्तृवध वेधा दुर्मेधा दर्शयिष्यति । न च वीक्षितुमेतं च क्षमेते मम लोचने ॥ ६०१ ॥ इत्यालोच्य चिताभ्यर्णे निमील्य नयने निजे । तथैव भृशमस्वस्था तस्थौ द्रुपदनन्दिनी ॥ ६०२ ॥ देवशर्मापि सावित्री स्वकलत्रमभाषत । उत्पातस्याहमेतस्य संजातोऽस्मि निबन्धनम् ॥ ६०३ ।। निहितो बन्धुरेतेषां दृशोरविषये मम । रक्षसा हन्यमानांस्तु द्रष्टुं शक्ष्याम्यमून्कथम् ॥ ६०४॥ तच्चेदुद्बन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्य च स्वयं चेद्वा स्यात्तदैव मम प्रियम् ॥ ६०५ ॥ इति जल्पत एवास्य कुर्वन्किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः ॥ ६०६ ॥ अथ व्यापारितस्फारफालमालोक्य तं तदा। तेषां रोमोद्गमव्याजात्सर्वाङ्ग मुदितं मुदा ॥ ६०७ ॥ अथ स्फूर्जदवष्टम्भमभाषिष्ट युधिष्ठिरः। बन्धुर्मीमो मदीयः किं राक्षसैः परिभूयते ॥ ६०८ ॥ भवितारस्तरां पञ्चाप्यजय्या जगतोऽप्यमी। इयन्ती भारती दिव्या जन्मोत्था हि किमन्यथा ॥ ६०९ ॥ गति भवन्तो गन्तारः क्रमात्पञ्चापि पञ्चमीम् । इत्याख्यायि मुनीन्द्रर्यत्तदसत्यं भवेत्किम् ॥ ६१०॥ एवमस्मिन्वदत्येव वेगादेत्य बृकोदरः। कुन्ती च ज्येष्ठबन्धुं च नमस्यामास सादरम् ॥ ६११ ॥ दूरात्प्रणमतो बन्धून्समालिङ्गय कनीयसः । स्मितोत्फुल्लमुखो भीमः पप्रच्छ क्षोभकारणम् ॥ ६१२ ।। अथ पार्थः समाचख्यौ यथावृत्तं तदातनम् । दिक्षु भीमोऽथ चिक्षेप चक्षुः कृष्णादिदृक्षया ॥ ६१३ ॥ दृष्ट्वा कृष्णां तथाभूतां चितानिकटवर्तिनीम् । स गत्वा पिदधे तस्याः पाणिभ्यां क्रीडया दृशौ ॥ ६१४ ॥ भयेन वेपमानाङ्गी कृष्णाथ गिरमादधे । रात्रिंचर दुराचार रे पाप परतो भव ॥ ६१५॥ आर्यपुत्रस्य भीमस्य बलाद्वधविधानतः। अदृष्टव्यमुखोऽसीति मया नेत्रे निमीलिते ॥ १६ ॥ मम प्रियवधे हस्तौ यौ तव व्यापृतौ पुरा । उग्रदण्डोचितौ दुष्ट तावेतौ दूरतः कुरु ॥ ६१७ ।। हतैवाहं पुरा हन्त जीवितेशवधात्त्वया । हे दुरात्मन्निदानीं तु कुरुषे मृतमारणम् ॥ ६१८ ॥ कान्तमन्वेतुकामाहमारोहामि स्वयं चिताम् । निजाङ्गस्पर्शतः पाप मामा मां मलिनीकुरु ॥ ६१९ ॥ नाद्याप्यसौ भयं शत्रोर्मुञ्चतीति विचिन्तयन् । अपसार्य निजौ पाणी भीमस्तामिदमभ्यधात् ।। ६२० ॥ प्रिये द्रौपदि मा भैषीर्विलोकय निराकुला । पुरस्ते न ह्ययं रक्षो रक्षोघाती तु ते प्रियः ॥ ६२१ ॥ पङ्कजोत्फुल्लनयना नयनाभ्यामुदैवत । सा प्रेयांसमुदाराङ्गं नोत्तमाङ्गं तु तत्पुरः ॥ ६२२ ।। दिया मे जीवितव्येशः कुशलीति मुदं पराम् । किमु मायाविनी माया राक्षसस्पेति संभ्रमम् ॥ ६२३ ॥ क्व नु तेनोत्तमाङ्गेन प्रयातमिति विस्मयम् । मया रक्षोभयात्प्रोक्तमसंबद्धमिति त्रपाम् ॥ ६२४ ॥ इत्थं वहन्ती संकीर्णान्भावान्प्रियतमेन सा । तथाश्लेषि यथा तन्वोर्मेदवादो न्यवर्तत ॥ ६२५ ॥ (त्रिभिर्विशेषकम् ।। स्तनोपपीडमाश्लिष्टा प्रेयसा सा रसापरान् । मुक्त्वा जितसुधासेकमेकमानन्दमन्वभूत् ॥ ६२६ ॥ प्रियाप्रेम्णातिरेकेण तेन संप्राप्तपूर्विणा । अनेशदाशु भीमस्य सर्वोऽपि समरश्रमः ॥ ६२७ ॥ अनवद्यैर्महावाद्यैः शङ्खाद्यैर्मेदुरीकृतः। तस्याथ दुन्दुभिध्वानः कर्णजाहमगाहत ॥ १२८ ॥ ज्ञातप्रबन्धमायान्तमेकचक्रानरेश्वरम् । सोऽपश्यदन्वितं पौरैर्नामङ्गल्यपाणिभिः ॥ ६२९ ।। पार्थदत्तासनासीनस्तपःसूनुपदान्तिके । वेगादागत्य विनयी निषसाद वृकोदरः ॥ ६३०॥ अकृत्रिमत्रपारङ्गन्नीरजी सुभगाकृतिः । श्वश्रूपाधै समेयाय द्रुतं द्रुपदनन्दिनी ॥ ६३१ ॥ चक्रवत्येकचक्रायाः समेत्याथ युधिष्ठरम् । वर्धयामास माङ्गल्यैरझे रोमाङ्करं वहन् ।। ६३२ ।। अहंप्रथमिकाः पूर्व सर्वेऽपि नगरीजनाः। ज्यायसः पाण्डवेयस्य मङ्गलानि वितेनिरे ।। ६३३ ।। असत्कुटुम्बजीवातो जीव त्वं जीवितेन नः । इत्याशास्य पुरीवृद्धा भ्रमयामासुरञ्चलम् ॥ ६३४ ॥ विहिताद्भुतशृङ्गाराः शृङ्गारास्तस्य नायकाः (१) । तत्र नृत्यं स्त्रियः काश्चियधुः कुलवधूचितम् ॥ ६३५ ।। हल्लीसकप्रबन्धेन वीररत्नप्रसूरिति । अमन्दानन्दसंदोहाः कुन्ती काश्चिजगुर्मुहुः ॥ ६३६ ।। नूतनोलूलकल्लोलैनिःसीम भीमविक्रमम् । काश्चिकवधाधानमनोहरमुदाहरन् ॥ ६३७ ।। इत्थं मनसि काये वा न पौराणां ममुर्मुदः । प्रीत्यै शुभोदयोऽन्योऽपि किं पुनर्जीवितागमः ॥ ६३८ ॥ बद्धाञ्जलिरथोवाच भूपतिस्तपसःसुतम् । एकचक्राप्रजाप्राणसत्रिन्कल्याणमस्तु ते ॥ ६३९ ।। यतः प्रभृति कल्याणिन्नुपागान्नगरीमिमाम् । ततः प्रभृति पौराणामभूदभ्युदयो महान् ॥ ६४० ॥ इदानीं तु समानीते बके कीनाशदासताम् । संजातोऽस्य शरण्यानां प्रजानामभयप्रदः।। ६४१ ।। अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥ ६४२ ।। जनन्योऽनुपमस्नेहाः पालयन्तु तनूरुहान् । चिराय चिरवस्यन्तु सवित्रीः स्वाः सुता अपि ॥ ६४३ ॥ एतत्तु कथ्यतां सौम्य कतमस्ते स बान्धवः । इन्द्रेण पाकवचक्रे वको येन यमातिथिः ।। ६४४ ।। ततो धर्मात्मजस्तस्मै कथयामास लीलया । बन्धुः सैष कनीयान्मे संहर्ता सकलापदाम् ।। ६४५ ॥ तदुपश्रुत्य सर्वेषामेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा विकसत्पक्ष्मसंपुटाः ।। ६४६ ॥ निमेषविमुखाः क्रोडीकृतानन्दाश्रुबिन्दवः । जीवितव्यप्रदे भीमे निपेतुर्युगपदृशः ॥ ६४७ ।। (युग्मम् ) अथ पप्रच्छ निःशोको लोको बकनिसूदनम् । कथ्यतां प्रथयांचक्रे कथं बकवधस्त्वया ॥ ६४८ ॥ इमामुदाहरिष्यामि कथां कथमिवात्मनः। इति तूष्णी स्थिते भीमे जने वावहितेऽधिकम् ॥ ६४९ ॥ अवतीर्य नभःकोडात्पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धश्च पुरुषावेत्य तस्थतुः ।। ६५० ॥ (युग्मम्) तयोरुवाच वर्षीयान्विस्मितं धर्मनन्दनम् । बकराक्षसराजस्य दुर्बुद्धिः सचिवोऽस्म्यहम् ।। ६५१॥ . अयं महाबलो नाम धाम धाम्नां तदात्मजः। निजान्वयपुरीं लङ्कां समयेऽस्मिन्गतोऽभवत् ॥ ६५२ ।। व्यावृत्तस्त्वधुनापृच्छत्केनेत्थं मे पिता हतः । मयाख्यायि महाकायः कोऽप्यद्यागात्पुमान्वलिः ॥ ६५३ ॥ जज्ञेतमा तमालोक्य स्वामिनो नो मनोरथैः । यथाचिरात्कुटुम्बस्य भवत्वद्याशितंभवः ॥ ६५४ ॥ स्वाम्यादेशात्ततः शैले समानीतं कथंचन । वीक्ष्य(क्ष)माणैरमुं रात्रिंचरैश्चित्रीयितं चिरात् ॥ ६५५ ॥ सूर्यहासमसिं कृष्ट्वा प्रजिहीर्षुः प्रहर्षतः । तेनाथ भूतलोत्थायमभ्यधीयत नः प्रभुः ॥ ६५६ ॥ रे रे निस्त्रप निस्त्रिंश दुराचार निशाचर । निर्मन्तुजन्तुविध्वंसपापप्राग्भारपङ्किल ॥ ६५७ ॥ भवस्येष कथाशेषस्त्वमिदानीमसंशयम् । परं प्रहर रे पूर्वं हन्तुं प्राग्नास्मि शिक्षितः ॥ ६५८ ॥ इत्थमुत्तेजितस्तेजःशालिनामग्रतःश(स)रः । नक्तंचरमहेन्द्रस्तं हतवांस्तरवारिणा ॥ ६५९ ।। तत्राथ वज्रजेत्राङ्गे प्रयुक्तमधिपेन नः । क्षणेन मण्डला तज्जगाम शतखण्डताम् ॥ ६६० ॥ सोऽधावन्मुष्टिना हन्तुं नक्तंचरपति ततः। पर्वतोच्चसरः क्रूरवाणमिव केशवः ॥ ६६१ ॥ मुष्टिना ताडितस्तेन धृतदम्भोलिकेलिना । पपात भुवि नः खामी सपक्ष इव भूधरः ।। ६६२ ।। ततः कुमार ते ताते जाते मूर्छाविसंष्ठुले । रक्षोभिर्विरलैर्जातं हन्त सैन्यमनायकम् ॥ ६६३ ॥ तथाप्येतस्य कूटेन कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं सुमायं नाम राक्षसम् ॥ ६६४ ॥ शिक्षां मम समादाय गते तस्मिन्स्वसिद्धये । मूर्च्छां शीतोपचारेण स्वामिनः प्रापयं क्षयम् ।। ६६५ ।। घट्टितस्य तथा तेन करीषाग्नेरिवाधिकम् । धगद्धगिति जज्वाल तेजस्तेजस्विनः प्रभोः ।। ६६६ ॥ अथ खबाहुपाशेन मोटयित्वा शिरोधराम् । तमधो न्यस्य नः खामी समारोहदुर स्थलम् ॥ ६६७ ।। लब्धविक्रमपाकेन बकेनाक्रम्य वक्षसि । निरुच्छासां दशां नीतः प्रमीत इव सोऽभवत् ॥ ६६८ ॥ प्रावर्तत ततो मङ्गु रक्षःकिलकिलारवः । पुनरासादितोल्लासैः पुष्पितं मे मनोरथैः ।। ६६९ ॥ तत्र कृत्रिमदण्डेन सुमायेन प्रपञ्चिते । अत्र नः खामिनश्चैवं विस्फूर्जति पराक्रमे ॥ ६७० ॥ कुलं लङ्कापते त्रमित्युत्सेकपरे मयि । तृणं त्रिलोकीमप्येतां मन्यमाने च नः प्रभौ ॥ ६७१ ॥ तेन छद्मप्रमीतेन परिवर्तनलाघवम् । तच्चक्रे ददृशे येनौतराधर्यविपर्ययः॥६७२ ॥ (त्रिभिर्विशेषकम्) बकवक्षःस्थलारूढः स(यौ)रूढभुजविक्रमः । मुष्टिमुद्गरमुद्यम्य नीतिमानिदमभ्यधात् ॥ ६७३ ।। खयं दोष्मन्पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां नु नित्यं हरसि लीलया ॥ ६७४ ।। अमार कारयांचने लकेशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा ॥ ६७५ ।। इदानीमपि दुष्कर्म दूरान्मुञ्चसि चेदिदम् । तद्भयं त्वभयं तुभ्यं नष्टं नाद्यापि किंचन ।। ६७६ ।। तस्य तेनातिसान्नापि प्रभुरभ्यधिकक्रुधा। जाज्वल्यते स तत्प्राज्यमिव चन्दनबिन्दुना ।। ६७७ ॥ अभ्यधाच किमाचार्य इव वाचाल जल्पसि । एता वाचो न मे किंचिच्चरन्ति श्रवणान्तिके ।। ६७८ ॥ क्षुधातः कल्यवतै त्वां विधाय विधिनाधुना । सर्वासामपि दास्यामि त्वद्वाचामुत्तरं ततः ॥ ६७९ ॥ इत्युदीर्य स्वधैर्येण प्रातिष्ठासुभृशं प्रभुः । पूर्वकायेन नितरामुत्पपात पपात च ।। ६८० ॥ आक्रान्तस्यापि तेनोच्चैः स्वामिनश्चेष्टया तथा । रक्षोलोकेऽपि शोकेऽपि हास्यमास्ये समुद्ययौ ॥ ६८१ ।। सोऽभ्यधान्नः प्रभु भूयस्तदरे स्मर दैवतम् । महामांसाशिनां क्वापि नहि कल्याणसंपदः ॥ ६८२ ॥ इति व्याहृत्य तेनाथो नाथोऽस्माकमनाथवत् । मूर्द्धानं मुष्टिना भित्त्वा प्राप्यतैकोऽपि पञ्चताम् ॥ ६८३ ॥ विद्याविदितवृत्तान्तः सुमायश्च तदैव सः। विहङ्गराजवेगेन व्यावृत्त्येह समाययौ ॥ ६८४ ॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तात हन्तारं खीचने सांयुगीनताम् ॥ ६८५ ॥ शक्तेस्मिन्नोचितं युद्धं तद्भत्याभ्यर्च्य पृच्छयताम् । कुलविद्येति संबोध्य रुद्धः संवर्मयन्मया ॥ ६८६ ॥ एकतानेन सानेन देवी सम्यगुपासिता । यदादिदेश तदसौ खयमावेदयिष्यति ॥ ६८७ ॥ महाबलस्ततोऽवोचन्मदुपास्तिवशंवदा । देवी मामादिशद्वत्स रु त्यज शमं त्यज ।। ६८८ ॥ गत्वा सान्त्वय सद्भावतत्परः पुरुषानसून् । एते हि निहितानीतिप्रपञ्चाः पञ्च पाण्डवाः ॥ ६८९ ।। मया पुरापि ते तात समादिष्टो भृशं यथा । प्रतीपः पाण्डवेयानां मा स भूर्वत्स जातुचित् ॥ ६९० ॥ भत्त्यानुकूलिता येते कामदाः कल्पपादपाः । भवेयुः प्रतिकूलास्तु विषमा विषपादपाः ॥ ६९१ ॥ महामांसनिषेधं चेत्वत्तातः प्रत्यपत्स्यत । नाहनिष्यत्तदावश्यमेनं मध्यमपाण्डवः ॥ ६९२ ।। १. भजेत्युचित प्रतिभाति. तद्गत्वा विनयीभूत्वा तान्पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति तेऽपि त्वां सन्तो हि नतवत्सलाः ॥ ६९३ ॥ इति देवीसमादेशादसि युष्मानुपस्थितः । मामप्यात्मविधेयानामन्त्यं संख्यातुमर्हथ ।। ६९४ ॥ पश्यतामथ पौराणां व्याजहार वृकोदरः । आर्यपादाः प्रसन्नास्ते निवर्तख वधान्नृणाम् ॥ ६९५॥ इत्युक्तस्त्यक्तवान्सोऽथ तमधयं वधक्रमम् । अभ्यपिञ्चत साम्राज्ये पैतृके तं तपासुतः ॥ ६९६॥ इमे ते विस्फुरत्कीर्तिताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौरैयोऽपि मुमुदेतमाम् ।। ६९७ ॥ नृपतिश्चैकचक्रायाः पौराश्च तपसःसुतम् । समं विज्ञापयामासुः पुर्या पादावधार्यताम् ॥ ६९८ ॥ विन्यस्तखस्तिका कामं तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसाध्वपुष्पप्रकरदन्तुराम् ॥ ६९९ ।। सबन्धुर्वन्धुरश्रीकामेकचक्रां युधिष्ठिरः । महाबलोपनीतेन विमानेन ततोऽविशत् ।। ७०० ।। (युग्मम् ) आगन्तूनामभिज्ञाभिभीमः पौरपुरंधिभिः । बद्धानुरागमङ्गुल्या सप्रमोदमदात ॥ ७०१ ॥ असौ नगरजीवातुरसौ बकनिसूदनः । जगुरेवं पुरस्तस्य बन्दिनो विरुदावलीम् ।। ७०२ ॥ एकचक्रानरेन्द्रेण विनयानम्रमूर्तिना । निजं सौधमनीयन्त तदानी पाण्डुसूनवः ॥ ७०३ ॥ वासराणि व्यतिक्रम्य पञ्चषाणि युधिष्ठिरः। पितृराज्याय सत्कृत्य विससर्ज महाबलम् ॥ ७०४ ॥ परिचरितपदाजखैरसातत्यसेवा- वसरसरभसानां नागराणां गणेन । विपुलधृतिरनेकांस्तत्र मासान् किलैकं दिवसमिव सबन्धुर्धर्मसूनुर्निनाय ।। ७०५ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जुतुगृहहिडम्बबकवधनिरूपणो नाम सप्तमः सर्गः ॥
अष्टमः सर्गः।
एकदा तु कृशां पश्यन्नन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास बन्धुभिर्धर्मनन्दनः ॥ १ ॥ भीमोपज्ञवकध्वंसकीर्तिकोलाहलोदयात् । अभूम भूमावेतस्यामवश्यं विदिता वयम् ॥ २ ॥ इयं च संप्रति ख्यातिः सर्वथाप्यहितेव नः । संनिपातज्वरार्तानां हारद्वारेव हारिणी ॥ ३ ॥ जीवतो जातु जानीयादस्मान्दुर्योधनो यदि । राज्यश्रीदुर्मदः किंचिदोजायेत ध्रुवं तदा ॥ ४ ॥ तदुपक्रम्यते गन्तुमितो नक्तमलक्षितैः । यः पाडण्यप्रयोगे हि कालज्ञः स हि सर्ववित् ॥ ५ ॥ ओमिति प्रतिपेदानैः समेतस्तैयुधिष्ठिरः। सहैव कुन्तीकृष्णाभ्यां रजन्यामचलत्ततः ॥ ६ ॥ अरण्यपद्मपान्थानां तेषामेको वृकोदरः। विभावामवष्टम्भयष्टिरासीत्पदे पदे ॥ ७ ॥ स्कन्धं ममाधिरोहेति प्रार्थनायां बकद्विषः । बभौ मुखेऽङ्गुलिक्षेपः पुरो मातुः पुनः पुनः ॥ ८॥ वत्सला शुशुभे कुन्ती प्रार्थनां तामकुर्वती । अर्थी पुनः पुनर्दैन्या भीमसूः शुशुभेतमाम् ॥ ९॥ नाध्यारोहदधिस्कन्धं पुत्रक्लमभयाद्यथा । मातस्तु पादचारेण भीमस्याभूदृशं क्लमः ॥१०॥ तेषां भीमोऽभवदीपो निशि मार्गप्रकाशकः । विद्यानवद्या तस्यापि चाक्षुपी करदीपिका ॥ ११ ॥ स्कन्धारोहार्थनाभङ्गजागरूकरुपि प्रिये कृष्णा चचाल पश्यन्ती वलितग्रीवमग्रतः ॥ १२ ॥ अतिश्रमात्स्वयं भूत्वा भर्तुः कण्ठावलम्बिनी । पतिप्रणयभङ्गस्य प्रायश्चित्तं चकार सा ॥ १३ ॥ आलिङ्गनोपदादानात्सा तूष्णीमेच तस्थुषी । आदेशातिक्रमक्रुद्धमनुनीतवती पतिम् ॥ १४ ॥ वक्षो वक्षोजकलशैर्लसत्प्रेमरसोर्मिभिः । निपिच्य कृष्णया पत्युस्तापः सर्वोऽप्यपाकृतः ॥ १५ ॥ तस्या निषेधपारुप्यमकुर्वाणो वृकोदरः। नितान्तमुचिताकारश्चकार गरिमोचितम् ॥ १६ ॥ मारुतिर्मातरं स्कन्धे वलादारोप्य दक्षिणे । प्रियामारोपयद्वामे क्रमाभिज्ञा हि तादृशाः ॥ १७ ॥ तदा पत्तीयितं कापि कापि तेषां सखीयितम् । सूपकारायितं कापि कापि तेन स्थायितम् ॥ १८ ॥ भीमसाहायकध्वस्तसमस्ताधवपरिश्रमाः । अहर्दिवं वहन्तस्ते दीर्घमध्यानमत्यगुः ।। १९ ॥ क्रमेण रेणुदिग्धाङ्गास्ते मलीमसवाससः । ययुर्वैपुल्यनिर्लप्तद्वैतं द्वैतवनं वनम् ॥२०॥ कुत्रापि कुररीकोककोकिलाकुलमङ्गलम् । कुत्रापि वृकशार्दूलशृगालव्यालसंकुलम् ॥ २१ ॥ क्वचिच्चम्पक'नागनागकेसरभासुरम् । क्वचिज्जरत्तरुक्रीडकघूत्कारदारुणम् ॥ २२ ॥ खाध्यायध्वनिवाचालतापसाश्रममेकतः। द्विपद्वीपिवधक्रुद्धव्याधसंवाधमन्यतः ॥ २३ ॥ (चतुर्भिः कलापकम्) विदित्वातिसुलभ्यानि कन्दमूलफलान्यथ । विदधुर्वसतिं तत्र कानने पाण्डुसूनवः ॥ २४॥ ते वन्येनापि वेषेण वहन्ति स्म श्रियं पराम् । त्यजन्ति मणयस्तेजस्त्रपुणोपहिता हि किम् ॥ २५ ॥ भीमो नवनवैर्वन्यैराहारैः सुमनोहरैः। लीलयैव समानीय प्रीणयामास बान्धवान् ॥ २६ ॥ दुकूलकोमलैः खेहात्सहदेवो दिवानिशम् । वल्कलोपायनैनव्यैरुपचक्रे कुटुम्बकम् ॥ २७ ॥ कृत्वा पलाशैः पालाशैरुट विकटाजिरम् । भक्तिं चक्रे कुटुम्बस्य नकुलः स कुलोचितम् ॥ २८ ॥ क्षुद्रोपद्रवकर्तृणां निधनाय धनंजयः । कुण्डलीकृतकोदण्डस्तस्थौ जाग्रदहर्निशम् ॥ २९ ॥ स्मरन्ती जिनपादानां दीने दुःस्थे दयावती । शान्त्यै सुतानां धाणि कुन्ती कर्माणि निर्ममे ॥ ३० ॥ परमेष्ठिस्मृतौ निष्ठां ग्राहितास्तनयास्तया । अनारतमजायन्त तन्मयीकृतचेतसः ॥ ३१ ॥ व्यापिप्रिये तथा कृष्णा सर्वेषु गृहकर्मसु । यथातीव तदा तेषां मेधिता गृहमेधिता ।। ३२ ॥ प्रियामेकैकशस्तेऽपि कुसुमाभरणैर्नवैः। प्रेम्णालंचक्रिरे तत्र वने सर्वर्तुशालिनि ॥ ३३ ॥ सर्वर्तुसंभवैः पुष्पैः स्वयं कान्तरलंकृता । विरेजे द्रौपदी साक्षातूनामिव देवता ॥ ३४ ॥ पुलिन्दप्राभृतैर्दृब्धं कुम्भिकुम्भोत्थमौक्तिकैः । हारं मनोहरं भीमः प्रेयसी पर्यधापयत् ॥ ३५ ॥ विनयात्तनयानां च स्नुषायाश्चातिनिस्तुषात् । सस्मार राजसौख्यानां नैव कुन्ती कदाचन ॥ ३६ ॥ द्रौपद्या च कलत्रेण कुन्त्या मात्रा च पाण्डवाः। कृतार्थमानिनः प्रापुः सुखं राज्यश्रियोऽधिकम् ॥ ३७॥ प्रेयोभिस्तैस्तथा श्वश्र्वा मेने सानन्दमानसा । निजामप्रच्युतां राज्यसंपदं द्रुपदात्मजा ॥ ३८॥ चक्रे धर्मसुतो बन्धुसेवाहेवाकरञ्जितः । हस्तिनापुरसंवासात्प्रवासमपि तं वरम् ॥ ३९ ॥ अजस्रसेवावसरं प्राप्य पूज्ये सहोदरे । नत्वारोऽपि कनीयांसः कृतार्थ जन्म मेनिरे ॥ ४० ॥ अन्यदान्तस्तरुश्रेणि दिशत्सु किशलश्रियम् । रवेः करेषु भूपालः प्रभातस्थानमभ्यगात् ॥ ४१ ।। वेद्यां वेत्रासनस्थस्य भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ संवाहयति भक्तिः॥ ४२ ॥ नृपान्तिकनिषण्णायाः कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां देव्या दुपदजन्मनि ।। ४३ ॥ सहदेवे महीम रातपत्रविडम्बिनीम् । खपटी विनयाधारे धारयत्येकतः स्थिते ॥ ४४ ॥ नकुले चालयत्याराच्चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्विराजिन्या राज्यसंपदि ॥ ४५॥ क्षेत्रदण्डोपमं पाणौ कोदण्डं धारयन्दृढम् । आयान्तं कथयामास पान्थमेकं धनंजयः॥ ४६॥ (पञ्चभिः कुलकम्) व्यापार्याम्भोजसौन्दयो दृशं दूरे महीपतिः । उवाच रभसाद्वत्स किं नासौ स्यात्प्रियंवदः ॥ १७ ॥ अथ कृष्णा विहस्याह क नामात्र प्रियंवदः । सोऽप्यभाग्यः किमद्वति चास्माभिः करिष्यति ॥ १८ ।। ततो विलोकयामासुस्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायातस्तैर्निश्चिक्ये प्रियंवदः ॥ ४९ ॥ प्रत्युद्यायाथ पार्थेन प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः स ननाम युधिष्ठिरम् ॥ ५० ॥ निबिडोत्कण्ठमाश्लिष्टो भुजाभ्यां पृथिवीभुजा । संहदेवार्पिते नीचैरुपविष्टः स विष्टरे ॥५१॥ दृशा पीयूषवर्षिण्या सिञ्चन्भूपस्तमभ्यधात् । ! कचित्कुशलिनो वत्स तातपादाजरेणवः ॥ ५२ ॥ कचित्कल्याणवान्कल्पवात्सल्यभरमेदुरः। विदुरो नित्यमस्मासु क्षेमनिर्माणदीक्षितः ॥ ५३ ॥ क्वचिदमप्रियः सौम्य क्षेमवान्नः पितामहः । . द्रोणः कल्याणवान्कच्चिद्गुरुः पूज्यतमोत्तमः ॥ ५४ ॥ धृतराष्ट्रः सुखी कचित्पिता नः पुत्रवत्सलः । कच्चिदास्माकमातृणां ज्यायसीनामनामयम् ॥ ५५ ॥ कच्चित्पूर्णाभिलाषोऽभूद्वान्धवो नः सुयोधनः । तंत्र प्रदीपनादूर्वं किं च किं च तदाभवत् ॥ ५६ ॥ कथं च वयमत्रस्था विदांचकृमहे त्वया । एतत्खरूपमस्माकं प्रियंवद वदाद्भुतम् ॥ ५७ ॥ अथ प्रियंवदोऽवादीदेव दुःस्थेऽपि चेतसि । वर्तन्ते वपुषा तावत्सर्वे कुशलशालिनः ॥ ५८ ॥ तस्मिन्न_लिहज्वाले कराले जातवेदसि । दधन्ते पाण्डवा हा धिगित्येवं पूत्कृतं जनैः ॥ ५९ ॥ लोकः शोकाकुलः कामं तं कृशानुं कृशेतरम् । वेगाद्विध्यापयामास बाष्पद्विगुणितै लैः ॥ ६० ॥ प्रदीपनेन नानेन मम किंचन दह्यते। इत्यौदासीन्यसुस्थोऽहं न किंचिदुःखमस्पृशम् ॥ ११॥ नेत्रयोः पात्रतां तत्र भटित्रीभूतमूर्तयः । दोष्मन्तो युष्मदाकारा नागरैर्निन्यिरे नराः ॥ १२ ॥ असौ धर्मसुतो यस्य मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया पार्वणेन्दुमपि श्रिया ॥ ६३ ॥ एष स्थूलवपुर्भीमो भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थौ मुग्धौ सौम्याविमौ यमौ ।। ६४ ॥ इयं कुन्ती जगन्माता न माता भुवनत्रये तुषाराद्वितुषारांशुशुभ्रा यस्य गुणावली ॥६५॥ असौ द्राधीयसी निद्रां गता द्रुपदनन्दिनी। या प्रेयस्यपि पञ्चानामुच्यते स महासती ।। ६६ ।। इत्थं निश्चित्य निश्चित्य देव युष्मांस्तथा जनैः ।, रुद्यते स तथा सर्व रुदितं पादपैरपि ॥ ६७॥ (चतुर्भिः कलापकम्) युष्मद्गुणानुरागेण वीक्ष्य तान् ऋन्दतो भृशम् । आसीज्ज्ञातप्रवन्धस्य विकल्पो मम चेतसि ॥ ६८ ॥ कापि ते पुण्यनामानः खैरं जग्मुः सुरगया । हा दग्धाः पाण्डवा एते मुधैव विलपन्त्यमी ।। ६९ ॥ ततः कुतूहलादत्वा ते मया पञ्च वीक्षिताः । युष्मदत्यन्तसादृश्यान्मूढोऽप्यहमचिन्तयम् ॥ ७० ॥ धूमस्तोमेन नाद्राक्षुः सुरङ्गाद्वारमाकुलाः । तेनामेरिन्धनीभूताः खामिनो मम पाण्डवाः ॥ ७१ ॥ यद्वाक्यान्तरदौरात्म्यादेतत्ते तेनिरे खयम् । भवेद्धि तादृशी बुद्धिर्याशी भवितव्यता ।। ७२ ।। इति प्रत्यक्षतो जातयुष्मयापत्तिनिश्चयः । तारपूत्कारपर्याप्तरोदोरन्ध्रमरोदिषम् ।। ७३ ॥ अस्पृशं समतामन्यैः शोकेनैवानुजीविभिः । भक्तिनिर्वहणे त्वमिस्तेभ्योऽहमधमाधमः ॥ ७ ॥ मन्वानास्तृणवत्प्राणान्यत्ते त्वामन्वगुस्तदा। दर्शयाम्येष वो वक्रमहं तु प्रियजीवितः ।। ७५ ॥ ततो गजपुरे गत्वा वार्ताया वः शुचा जनम् । एवं दुर्योधनं मुक्त्वा स्वसधर्माणमादधाम् ॥ ७६ ।। देवेन पाण्डुना छन्नमार्येण विदुरेण च । पृष्टोऽहं कथ्यतां भद्रं भद्रं मे तनुजन्मनाम् ॥ ७७ ।। अचीकथं यथादृष्टमिप्टेतरदहं तयोः। तावप्यशृणुता पश्चात्पूर्व मूर्छामगच्छताम् ॥ ७८ ॥ मयोपवीज्य चैतन्यं लम्बितौ तौ विलेपतुः । हा वत्साः स्थ कथं दग्धा दहनेन दुरात्मना ॥ ७२ ॥ कथं शिक्षास्मदीयाथ विस्मृता वः शुभोदया। यद्वा मतिर्विपति वेधसि प्रातिकूलिके ।। ८० ॥ विदुषा विदुरेणाथ पिता ते समबोध्यत । शोको निर्वार्यतामार्य मनो धैर्याय दीयताम् ॥ ८१ ॥ सर्वे किमधुना पूर्णाः पिशुनानां मनोरथाः । किंवा प्रियंवदो भ्रान्तः संशयोऽयं ममाशये ॥ ८२॥ दिनैः कतिपयैरेव सर्वमाविर्भविष्यति । आपदः संपदो वापि न स्युश्छन्ना महात्मनाम् ॥ ८३ ॥ विदुरस्यानया वाचा खल्पीचक्रे शुचं बहिः । बभार भूयसी देवस्तामन्तर्मनस पुनः ।। ८४ ॥ मातरः सत्यवत्याद्या व्यपद्यन्त शुचानया। न हि दावानलज्वाला सहन्ते मालतीलताः ।। ८५॥ विदुराश्वासनावात्यैर्महापद्वार्तया च वः । देवः पाण्डुरियकालमासीज्जीवन्मृतोपमः ॥ ८६ ॥ कीर्तिबकवधोद्भूता खवुनीवाधुना तव । पावयन्ती भुवं देव हस्तिनापुरमभ्यगात् ॥ ८७ ॥ सख्यं सख्याः सुधायाश्च सीतापि युगपत्तया । अलम्भयदमित्राणां मित्राणां च मुखानि सा ॥ ८८ ॥ तदानीं युष्मदीयस्तैः श्रुतेरपि यशोजलैः । देवस्तं निविडं पाण्डः शोकपङ्कमपाकरोत् ॥ ८९ ।। स पाण्डुना परित्यक्तः सर्वः सुखविपर्ययः । साभिमान इवोर्वीशं दुर्योधनमशिश्रियत् ॥ ९ ॥ न प्रियाङ्के न पल्यथेन वने भवने च न । न स्थले न जले कापि रतिमालम्बते स सः ॥ ९१ ॥ अथाभ्येत्य तथावस्थं शकुनिस्तमभाषत । धराधव तव व्याधिराधिर्वा कोऽयमुत्करः ॥ ९२ ॥ येन दावानलज्वालादग्धस्थाणूपमं वपुः । वहसे सहसास्माकं ब्रूहि तं दह्यते मनः ।। ९३ ।। अथाभ्यधत्त गान्धारीतनयो दुर्नयैकभूः । सर्वसहसहायोऽस्मि त्वं मातुल ममातुलः ॥ ९४ ॥ पश्य मां विफलारम्भं कृत्वा जीवन्ति पाण्डवाः। विरोधिनि विधौ पुंसां वृथैव स्युमनोरथाः ॥ ९५॥ विपं पीयूषगण्डूषः पश्य तेषामजायत । जातुषागारदाहोऽपि पयोवाहजलप्लवः ॥ ९६ ॥ हिडम्बवककिौरवधाडम्बरडिण्डिमैः । भुर्भुवःस्वस्त्रयीरने तेषां कीर्तिः प्रनृत्यति ॥ ९७ ॥ आजन्म विद्विषो ये ते जीवन्तीत्यतिदुःसहम् । किं पुनर्जनितानन्दा नन्दन्ति प्रतिपत्तनम् ॥ ९८ ॥ धुर्यो मर्माविधामेष व्याधिर्मा बाधतेऽधिकम् । तदेतस्थागदकारः संप्रत्यप्रतिमो भव ।। ९९ ॥ इत्युदीर्णमनःखेदमाकलय्य सुयोधनम् । सदा दुर्नयदुर्गन्धो गान्धारीतनयोऽभ्यधात् ॥ १०॥ त्वयि देवेन्द्र शौण्डीर्यावमन्तरि निहन्तरि.। यमगेहाङ्गणा(ना)रब्धताण्डवान्विद्धि पाण्डवान् ॥ १०१॥ पाण्डवाः क्व भवान् भूमीमण्डलाखण्डलः क च । कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः ॥ १०२ ॥ यदूर्जितमुजेनेदं त्वया साम्राज्यभर्जित्तम् । शतांशेनापि तन्नासीधुधिष्टिरमहीपतेः ॥ १०३ ॥ सावलेपास्तपःसनोराज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जातास्तवादेशवशंवदाः ॥ १०४॥ सन्त्येते हस्तिमल्लस्य प्रतिमल्ला इव द्विपाः ।, एते च देवदेवाश्चबान्धवाः सैन्धवाः पुरः ॥ १०५ ॥ साम्परायिकसंचारकृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीतवैरिबातविपत्तयः ॥ १०६ ॥ चमूरमूदृशी विश्वे त्वहत कस्य दृश्यते । तमोपहा रवेरेव केवलं किरणावलिः ॥ १०७॥ श्रीरियं ते कृतार्थीस्यात्पश्येयुर्यदि पाण्डवाः। दृष्टामित्रैरमित्रस्य संपत्संपन्निगद्यते ॥ १०८॥ गोकुलालोकनव्याजागज द्वैतवनं वनम् । ततस्तत्र दशां शोच्यामुपेतान्पश्य पाण्डवान् ।। १०९ ।। राजा राज्यच्युतान् भोगी भोगैः काममुपागतान् । ससैन्यो निष्परीवारानकृशोऽतिकृशाङ्गकान् ॥ ११० ॥ यदा वीक्षिष्यसे तांस्ते तदा मोदिष्यते मनः ।। अन्याश्चित्रातपापाये स्युर्धान्यस्य मुखश्रियः ॥ १११ ॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यथ्यन्ते पावणे चन्द्रे दृष्टे दन्ता हि दन्तिनाम् ॥ ११२ ॥ यद्वीक्ष्यते विपक्षाणां मानिभिः श्रीर्विपद्गतैः । स एव मृत्युरेतेषां मृत्युस्तु न तु जीवितम् ॥ ११३ ॥ अथ सत्यव्रतं बन्धोरनुपेक्ष्य शुभैस्तव । सामर्षा चायुधं धत्तः करे भीमार्जुनौ यदि ॥ ११४ ॥ ततो जानीहि संजातं भूमण्डलमपाण्डवम् । महार्णवमिवानीकं तव को हि स्खलिप्यति ॥ ११५ ॥ तदिमं शकुनमन्त्रं कर्णदुःशासनावपि । शंमन्यावनुमेनाते दुष्टात्मानो ह्यमी त्रयः ॥ ११६॥ ततोऽसाच्छकुनेमन्त्राढुष्टाशयतया तथा । युष्मदन्तिकमागन्ता कदाचन सुयोधनः॥ ११७ ॥ एवं विभाव्य मनसा सावधानतया भृशम् । युष्माभिः स्थेयमित्येतदुक्तं विदुरवाचिकम् ॥ ११८ ॥ विदुरेणेदमाख्याय यदाहं विहितः पुरा । इदं मया तदा पृष्टं कुत्र ते सन्ति पाण्डवाः ॥ ११९ ॥ विदुरेण समादिष्टं पूर्वेऽहि नृपसंसदि । आयातैरेकचक्रातश्चरैरावेदितं ह्यदः ॥ १२० ॥ एकचक्रास्थितैर्दैव शुश्रुवेऽस्माभिरीदृशम् । पुरस्य निखिलस्यास्य दत्ताः प्राणाः पृथात्मजैः ॥ १२१ ॥ चिरं नन्दन्तु भूयोऽपि राज्यं कुर्वन्तु पाण्डवाः। सूर्याचन्द्रमसौ यावज्जीवन्त्वास्माकजीवितैः ॥ १२२ धन्या कुन्त्येव यत्कुक्षिसरसीसरसीरुहैः। एमिः कृपाजपारामैरामोदितमिदं जगत् ॥ १२३ ॥ पुरीपाणहरः सोऽयं पापपङ्कबको वकः । अपरेणान्तरेणामून्किं प्रसह्य निगृह्यते ॥ १२४ ।। प्रतिपन्थी यथास्माकममीभिर्लम्भितः क्षयम् । तथैषामस्मदाशीभिर्विपक्षः क्षीयतां क्षणात् ॥ १२५॥ अहो अमीषां माहात्म्यं वसेयुर्यत्र पत्तने । ईतिर्न तत्र नानीतिर्न व्याधिर्न च विप्लवः ॥ १२६ ॥ न मारिन च दुर्मिक्षं न च भीः परचक्रजा । केवलं सुखसंपद्भिर्मोदन्ते सप्रजाः प्रजाः ॥ १२७ ॥ (युग्मम्) चरेयुर्यदि कान्तारे प्रच्छन्ना अपि ते क्वचित् । तत्रापि पादपाः सत्यं नित्यपुष्पफलर्द्धयः ।। १२८ ।। अन्योन्यं कलहायन्ते न शाश्वतिकवेरिणः । दधते रससौन्दर्यमन्यवन्यफलान्यपि ॥ १२९ ।। अथ पृष्टो जनोऽस्माभिः क ते संप्रति पाण्डवाः। तेनाप्याख्यायि ते भद्रा ययुद्वैतवनेऽधुना ॥ १३०॥ अथागमाम तैश्चिहर्यत्र ते सन्ति पाण्डवाः । पुलिन्दवृन्दमध्यस्थांस्तांश्चापश्याम निश्चलाः ॥ १३१ ।। सहकारतरोर्मूले वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताधिव्याधिस्तस्थौ युधिष्ठिरः ॥ १३२ ।। न केवलं विनीतास्तमुपासांचक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या आरण्याः पशवोऽपि च ॥ १३३ ॥ पाण्डवेयसभाबन्धोरुटजद्वारवर्तिनः । परावर्तत न छाया तस्य माकन्दभूरुहः ॥ १३४ ॥ तेषामद्भुतलक्ष्याणि स्वयं साक्षात्कृतान्यपि । अपि जिहासहस्रण को वर्णयितुमीश्वरः ॥ १३५ ॥ श्रुत्वेति पाण्डवोदन्तं तदा जज्ञे सुयोधनः । सखीभिः सपितः किं नु नीलिभिः किं नु रञ्जितः ॥ १३६ ॥ स विषण्णसदास्थानं विससर्ज चरैः सह । पुंसामुदित्वरे दुःखे न किंचिदपि रोचते ॥ १३७ ।। ततस्तमपि चारोक्तैस्तत्र तैस्तैः प्रियंवदः। लक्षणैर्लक्षये मजु पाण्डवानां निवेशनम् ॥ १३८ ॥ आदिश्य विदुरेणैवं प्रहितोऽहतं हितार्थो वः । एकचक्रां पुरीं पश्यन्क्रमेणात्र समागमम् ॥ १३९ ॥ नकुलं दन्दशूकेन हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य विज्ञासिषमिहास्मि वः ॥ १४०॥ इत्युक्तवन्तमत्यन्तप्रीतस्तं पवनात्मजः। पप्रच्छ वर्तते राष्ट्र धार्तराष्ट्रः कथं कथम् ॥ १४१ ॥ स किं शास्त्यधुना धात्रीमनयेन नयेन वा। स्नेहात्तमनुरुध्यन्ते भीष्मद्रोणादयोऽपि किम् ॥ १४२ ॥ इति पृष्टो यथादृष्टं समाचष्ट प्रियंवदः । कुरुनीतिरनीतिश्च नैति राज्ञि सुयोधने ॥ १४३ ॥ पितरीवातिवात्सल्यात्प्रजाभ्युदयतत्परे । संपद्धिः कुरवस्तस्मिन्प्रशासति चकासति ॥ १४॥ पुरुषार्थाः किलकत्र निवासस्पृहयालवः । नचेत्तत्र धरित्रीशे न बाधन्ते परस्परम् ॥ १४५॥ स प्रजामृतकुल्याभिः सेचसेचमनारतम् । अनपायमुपायद्भूनादत्ते फलमुत्तमम् ॥ १४६ ॥ आकर्णितभवन्मृत्युनिराशीभूतमानसाः । भीष्माघाश्चक्रिरे तेन सर्वथात्मवशंवदाः ॥ १४७ ॥ संप्रत्यावर्जितास्तेन दानेन विनयेन च । प्राणैरपि समीहन्ते ते विधातुं तदीप्सितम् ।। १४८॥ आत्मानं मन्यते क्षोणिपट्खण्डाखण्डलोपमम् । स यद्यपि तथाप्यन्तर्भवञ्चो वहते भियम् ॥ १४९॥ अर्जुनात्तरुनानोऽपि स स्मृतार्जुनविक्रमः । भीतो मुञ्चति निश्वासान्कम्पते च मुहुर्मुहुः ॥ १५० ।। चने वृकोदरं कापि दृष्ट्वा स्मृत्वा वृकोदरम् । मृगव्यव्यावृतोऽप्याशु स खिद्यति भयातुरः॥ १५१ ॥ स्वप्ने भीमार्जुनौ वीक्ष्य द्रुतं जागरितो भयात् । स क्षोभं लम्भयत्येवं भृशं भानुमतीमपि ॥ १५२ ॥ इत्याकर्ण्य तपःसूनुः प्रत्युवाच प्रियंवदम् । मद्गिरा भद्र विज्ञाप्यौ तौ तातविदुरौ त्वया ॥ १५३ ॥ निखिले युष्मदादिष्टं प्रहृष्टाः प्रतिशुश्रुमः । नमस्यामश्च भक्या वः क्षोणीमिलितमौलयः ।। १५४ ॥ स्नेहादापदमस्मासु नैवाशक्तितुमर्हथ । युष्मदाशीर्भिरस्माकं रिपुर्न प्रभविष्यति ॥ १५५ ॥ कृकलासः कृतोल्लासमारूढः शिखरं वृतेः। व्युत्पश्यन्सतिरस्कार भास्करस्य करोति किम् ॥ १५६ ॥ इति धर्मसुतः प्रीतः समर्प्य प्रतिवाचिकम् । सत्कृत्य वन्यसत्कारैर्विससर्ज प्रियंवदम् ॥ १५७ ॥ धार्यं तद् धार्तराष्ट्रस्य श्रुत्वा श्रवणदुःसहम् । विहाय स्त्रैणमर्यादां जगाद द्रुपदात्मजा ॥ १५८ ॥ छद्मना मेदिनी जित्वा कृत्वा मे केशकर्षणम् । दत्त्वा कान्तारवासं च रिपु द्यापि तृप्यति ॥ १५९ ॥ एवं वनेचरानस्मान्येनागत्य जिघांसति । निर्मर्यादा यकृत्येषु मत्सरच्छुरिताशयाः ॥ १६० ॥ देवि वन्ध्येव कुन्ति त्वं न शूरप्रसवा किमु । पुत्रिणीनां त्रपाकारि कथं क्लीवप्रसूरिति ॥ १६१ ॥ अहो सुवाहवः पाण्डोः सूनबोऽभिनवौजसः । पुरतः पश्यतां येषां प्रिया केशेषु कृष्यते ॥ १६२ ॥ आर्यपुत्र तपासूनुः सत्यमेव त्वमुच्यसे । रिपोः परिभवेऽप्येवं क्षमा ते कथमन्यथा ॥ १६३ ।। निकारं कुरुवंशोऽपि संसहेत यदीदृशम् । तर्हि सा नाम निर्नाम निर्ममज्ज मनखिता ।। १६४ ॥ यदि नाम वनक्लेशो लेशतोऽप्यस्ति नात्मनः । किं दुनोति न ते चेतो वन्धुदत्तापदोऽप्यसौ ॥ १६५ ॥ सूक्ष्मक्षौमोचिता येऽमी बन्धवस्तव भूधव । वल्कलानि वसानांस्तान्किमु पश्यन्न लज्जसे ॥ १६६ ॥ भ्रातरः सिन्धुरारोहकेलिदुर्ललिता हि ते । चरन्तः पादचारेण त्वां व्यथन्ते न ते किमु ॥ १६७ ॥ वनेऽस्मिन्क्लिश्यते नेहमोहिता वो हिताय या। देवी सापि न किं कुन्ती तवोद्बोधयति क्रुधम् ॥ १६८ ॥ निश्चिन्तोऽसि किमेवं त्वमसावभ्येति ते रिपुः । उत्तिष्ठख ततः खामिन्निधेहि दृशमायुधे ।। १६९ ॥ प्रतिज्ञाभङ्गभीतोऽथ न त्वमुत्सहसे खयम् । इहायातमरिं हन्तुं भीमपाौँ तदादिश ॥ १७० ॥ अथैनां द्रौपदीवाचमिष्टामनुवदंस्तथा । भीमोऽभ्यधत्त देवास्ति तवाज्ञैव ममार्गला ॥ १७१ ।। तवादेशं वहन्मूर्ध्नि पुराहं नाहनं रिपुम् । तं जिघांसुमिहायान्तं न सहिप्येऽधुना पुनः ॥ १७२ ॥ देव प्रसादितोऽसि त्वमागतश्चेत्स दुर्मतिः । तदा मम गुरुन वं न विधेयोऽप्यहं तव ॥ १७३ ।। हस्तिनापुरसाम्राज्यगर्वपर्वतमस्तकात् । लीलयैव पराजित्य पातयिष्यामि विद्विषम् ॥ १७४ ॥ अथास्या भीमभारत्यास्तदा वाचः किरीटिनः । विवृण्वत्यस्तमेवार्थ भाष्यलीलायितं दधुः ॥ १७५ ॥ एतास्तेषां गिरः श्रुत्वा वाचमूचे युधिष्ठिरः। अभ्यधीयत युष्माभिः क्षत्रवंशोचितं वचः ।। १७६ ॥ पर ममानुरोधेन हायनानि कियन्त्यपि । बहुधापि विराध्यन्तं विपक्षं क्षन्तुमर्हथ ॥ १७७ ॥ बनवासावधौ पूर्णे तीर्णे सत्यव्रते मया । को युष्मानभ्यमित्रीणान्स्खलिष्यत्यर्णवानिव ॥ १७८ ॥ तदा भीमाद्रणे भीमाद्दुःशासनसमन्वितः । लब्धा दुर्योधनः कृष्णाकेशाकर्षणनिष्क्रियम् ॥ १७९ ॥ तदिदानीमितो गत्वा सेव्यन्तां स्वःसनाभयः । उल्लसल्लवलीगन्धा गन्धमादनभूमयः ।। १८० ॥ निजश्रीगर्वितोऽरातिनै दृश्येत तथा सति । वनवासकृशास्तेन दृश्येमहि वयं न च ॥ १८१ ॥ प्रत्यपद्यन्त भीमाद्यास्तामाज्ञामग्रजन्मनः । अप्युल्लुण्ठधियां पुंसां गुर्वादेशो नवाडशः ॥ १८२ ॥ मातृभ्रातृप्रियोपेतः प्रतस्थेऽथ महीपतिः । उदात्तः सह यूथेन यूथाधिप इव द्विपः ॥ १८३ ।। वरिवस्यन्स तीर्थानि नमस्यंश्चारणान्मुनीन् । , नाना चित्राणि पश्यंश्च ययौ पूर्वोत्तरां दिशम् ॥ १८४ ॥ क्रमाब्रुवमतिक्रम्य तटिनीशैलसंकटम् । भूधरं स ययौ साधैं बन्धुभिर्गन्धमादनम् ॥ १८५॥ नक्तमिन्दूपलोद्वान्तर्वारिभिर्यत्र पूरिताः । प्रावृषेण्या तरङ्गिण्यः शश्वदनुवते श्रियम् ॥ १८६ ।। प्रियरूपासितोपान्ता यसिन्नादेशवर्तिभिः । विलासान्दधते तांस्तानीप्सितानप्सरोगणाः ॥ १८७ ॥ तस्मिन्वादुफललाध्यै रिनिर्झरशालिनि । बबन्धुर्वसतिप्रीति पाण्डवेया निराधयः ॥ १८८।। सर्वर्तुकमनीयानां वनानां रामणीयकम् । तेषां विस्मृतिमानिन्ये तत्र शत्रुपराभवम् ॥ १८९ ॥ कुन्ती क्रियासु धासु तत्र व्यापृतमानसा । हस्तिनापुरराज्यस्य न सस्मार मनागपि ॥ १९० ॥ विदित्वाथ समीपस्थमिन्द्रकीलं नगोत्तमम् सव्यसाची महीभर्तुर्दर्शयामास विस्मितः ।। १९१॥ देव यन्नितरामिन्द्रः क्रीडत्यत्र शचीसखः । इन्द्रकील इति ख्यातिं ततः प्रापदसौ गिरिः॥ १९२ ॥ खेचरैर्व्योमगैरेव खिन्नैश्छाया महीरुहाम् । अत्राघोगामितिग्मांशौ सेव्यन्ते सान्द्रशीतलाः ॥ १९३ ॥ वीक्ष्य, स्वप्रतिमामन्यस्त्रीशङ्काकुपिताः प्रिये । सुरीः प्रसादयत्यब्जवायुर्यत्राम्वुकेलिषु ॥ १९४ ॥ असाधुसाधुपुत्राभ्यां पितेवासौ दिवानिशम् । सूर्यकान्तेन्दुकान्ताभ्यां तापशैत्यं च लभ्यते ॥ १९५ ॥ मध्येमणितटीकोडं परिभ्राम्यन्नभोमणिः । नित्यं । कन्दलयत्यस्मिन्किनरीणां मणिभ्रमम् ॥ १९६ ।। तदस्मिन्युष्मदादेशादुपेत्य गुरुगहरे । आराधितचरीविद्याः पुनरावर्तयाम्यहम् ॥ १९७ ॥ इत्यापृच्छय नृपं कुन्तीं प्रणम्य विनयात्ततः । याज्ञसेनी च समाप्य ययौ तस्मिन्धनंजयः॥ १९८॥ गच्छतोऽस्य तपःसूनुरङ्गुलीयकमङ्गुलौ । तातख्यापितमाहात्म्यं बलादेव न्यवेशयत् ॥ १९९ ॥ जिष्णुमणिमयं तस्मिन्नहत्प्रासादमुत्तमम् । अद्राक्षीतर्कयन्नन्यं भूघरोपरि भूधरम् ॥ २० ॥ शशाङ्कोपलसोपानां विकचोत्पलशालिनीम् । उत्कल्लोलजलां वापी सोऽपश्यत्तस्य वामतः ।। २०१ ॥ तस्यां स्नात्वा गृहीत्वा च विकचाम्भोजसंचयम् । अर्चामानर्च तस्यान्तर्गत्वाद्यस्य जिनेशितुः ॥ २०२॥ स्तुत्वा स्तोत्रैर्जिनं जिष्णुः कृतवानष्टमं तपः । तपो हि विहितं तीर्थे भवेदिष्टार्थसिद्धये ॥ २०३ ॥ जिनवेश्मान्तिकेऽध्यास्य पावनीमवनी कचित् ।' स परावर्तयामास विद्योपनिषदं निजाम् ॥ २०४ ॥ प्रादुर्बभूवुर्भूयोऽपि पुरतस्तस्य देवताः । किं कुर्म इत्यजल्पंश्च को न भक्ते वशंवदः ।। २०५ ॥ स्मृतामिः संनिधातव्यं भवतीभिर्द्धतं मम । आहतो वः स्मरिष्यामि मन्थने परिपन्थिनाम् ।। २०६ ॥ इति विज्ञाप्य सत्कृत्य सर्वा विद्याधिदेवताः। उपकारोत्सुकाः कामं विससर्ज धनंजयः॥ २०७ ॥(युग्मम्) गतासु तासु पार्थोऽपि शैललक्ष्मीदिक्षया । नन्दनोद्यानसधीचि विजहार वने वने ॥ २०८ ॥ बाणमिन्नवपुः कश्चिद्यमसैरिभसंनिभः । निःशूकः शूकरस्तेन दृष्टः संमुखमापतत्(न्) ॥२०९ ॥ क्रुधासौ ध्रुवमभ्येति नृशंसो मजिघांसया । एवं विमृश्य सोऽधिज्यं धनुष्मान्धनुरादधे ॥ २१० ॥ पार्थेन पोत्रिणः प्राणमार्गणोत्क्षेपिमार्गणाः। दत्त्वा प्राणांस्तिरश्चापि तेन सोऽथ कृतार्थितः ।। २११ ।। आगतः शूकराभ्यणे बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीकिरातं कंचिदर्जुनः ॥ २१२ ॥ सगुणं धारयन्धन्व यमभ्रूभङ्गभङ्गुरम् । शरांश्च पंचषापाणौ सोऽप्युपक्रोडमाययौ ॥ २१३ ॥ पार्थोऽथ पश्यतस्तस्य खर्णपुङ्खमनोरमम् । आददानो निजं बाणं बभाषे तेन सौष्ठवात् ॥ २१४ ॥ सौम्य वीक्षे तवाचारमाकारव्यभिचारिणम् । कान्यथा पुण्यमूर्तिस्त्वं क च स्तैन्यममूदृशाम् ।। २१५ ॥ वरं तृणमिव प्राणांस्त्यजन्त्युज्वलबुद्धयः । न पुनर्जातु कर्मेहगाद्रियन्ते मलीमसम् ॥ २१६ ॥ सदाचारसमीचीना भिक्षा माधुकरी वरम् । अतिचार्व्यऽप्यनाचारदूताहूता न तु श्रियः ॥ २१७ ॥ तन्मामकीनमारण्यपशुशोणितपायिनम् । विषदिग्धशिखं नैनं विशिखं हर्तुमर्हसि ।। २१८॥ मयासौ कुरुचन्द्रस्य तव द्रोहसमीया । वराहराहुरागच्छन्बुधेनैव निवारितः ॥ २१९ ।। सतः खच्छन्दमाच्छिन्दनबाणरत्नमिदं मम । हन्त प्रत्युपकारार्थमित्थं प्रक्रमसे किमु ॥ २२० ॥ रिपुव्यापादनपणक्रीतं मित्रं भविष्यसि । इत्याशा मम दूरेऽस्तु प्रत्यर्थी प्रत्युताभवः ॥ २२१ ।। अमुना संचरन्ते चेहर्मना त्यादृशा अपि । पथिकस्तत्पथि न्याय्ये को नाम भविता वद ॥ २२२॥ अथासि त्वममुं दिव्यं पृषत्कमभिलाषुकः । तन्मैत्रीसुखसाकाई तरिक प्रार्थयसे न माम् ॥ २२३ ॥ अर्थिनां प्रार्थनाभङ्गं विधातुं नास्मि शिक्षितः । पुण्यप्रागल्भ्यलभ्यो हि त्वादृशः प्रणयी यतः ॥ २२४ ॥ यस्ते मुक्तापरापेक्षमिषोरेष इह ग्रहः । न ते स मामनिर्जित्य निर्वाहमवगाहते ॥ २२५॥ इति व्याहृत्य विरतं तं बीभत्सुरभाषत । उदीरितमिदं सर्वमसत्यं सत्यवत्त्वया ॥ २२६ ॥ खबाणग्रहणे केयमुपालम्भपरम्परा । लुम्पन्ति हन्त मर्यादां दुर्जनाः सुजनेष्वपि ॥ २२७ ॥ दुर्जनः कालकूटश्च ज्ञातमेतौ सहोदरौ । अग्रजन्मानुजन्मा वा न विघ्नः कतरोऽनयोः ।। २२८ ॥ मां चौरंकारमाक्रोशन्क्रूरचेता मुहुर्मुहुः । भवितासि कथं मित्रममित्रः प्रकटोऽसि यः ॥ २२९ ।। का नाम पामरेणांस्तु संगतिर्मतिशालिनः । तमस्काण्डेन चण्डांशोः सौहार्दं हन्त कीदृशम् ॥ २३० ॥ कलयामि न कालुष्यं दुर्वाक्यैरिमकैस्तव । किमारवैः शृगालानामिभारिः क्षुभ्यति कचित् ।। २३१ ॥ एनमह्नाय गृह्णामि पश्यतस्ते निजं शरम् । अस्ति दोर्दण्डयोः शक्तिर्यस्यासौ मां निषेधतु ॥ २३२ ।। न नरेन्द्रो न देवेन्द्रः खेचरेन्द्रोऽपि नो पुरः । त्वय्यप्यधिज्यतां बिभ्रत्त्रपते हन्त मे धनुः ॥ २३३ ॥ अथाह शबरखामी सौम्य मिथ्या प्रगल्भसे । फणिनः किं फणाटोपः कुर्यात्खगपतेः पुरः ॥ २३४ ।। तत्तिष्ठ सौष्ठवमिदं मा त्याक्षीमयि योद्धरि । इति जल्पन्ननल्पोजाः संदधे शवरः शरम् ॥ २३५ ।। चल्गितं फाल्गुनोऽप्यस्य पश्यन्वाणासने शनैः । रोपमारोपयांचक्रे किरिशोणितशोणितम् ॥ २३६ ॥ अखर्वमौर्वीटकारः साहंकारस्तयोस्ततः । विडम्बितयुगावर्तः प्रावर्तत रणो महान् ॥ २३७ ॥ मिषादिसादिभीमेन निःसीमेन समेयुषा । तदा गजाश्ववृन्देन पुलिन्दः पर्यवार्यत ॥ २३८ ॥ यावत्प्रतिभटं वाणान्मुश्चता सव्यसाचिना। तस्य क्षणादनीकस्य ददृशे कान्दिशीकता ॥ २३९ ॥ पार्थबाणाङ्किताः सैन्या व्यावर्तन्ते स्म सैनिकाः । तदासौ दर्शयामास युद्धकौशलमात्मनः ।। २४० ॥ तदानीं द्रष्टुकामानां विमानैव्योमचारिणाम् । व्योमाभोगतडागोऽभूत्संकुलः कमलैरिव ॥ २४१॥ वारंवारमजायन्त तेनार्धपथखण्डिताः । पत्रिणः श्वेतवाहस्य निःखस्येव मनोरथाः ॥ २४२॥ सादरः सोदरोऽभ्येत्य पुरोचनपुरोधसः । डिण्डिमं वारयामास क्रूरचेताः खुरोचनः ॥ १९८ ॥ ततः पाटहिकैर्नीतः स दुर्योधनसंनिधौ । उद्यतः कथयामास शक्तिव्यतिकरं निजम् ॥ १९९ ॥ आराधिता मया पूर्वमस्ति कृत्येति राक्षसी । क्रुद्धासौ असते क्षोणीं षट्खण्डी किमु पाण्डवान् ॥ २०० ॥ विधास्यामि तवाभीष्टमहि तद्देव सप्तमे । ममापि पाण्डवेया हि पुरोचनवधाविषः ॥ २०१॥ वाचं सुरोचनस्यैतामवधार्य सुयोधनः । मुदं प्रसादयामास लम्भयामास तं तदा ॥ २०२॥ तेन तेनोपचारेण तैस्तैश्च जपकर्मभिः । कृत्याराधनमाधातुं सोऽपि गेहमुपाययौ ॥ २०३ ॥ अहं चेहागमं भीम युष्माकमतिपीडया । आजन्माभ्यस्तदुष्कृत्या कृत्या सात्यन्तदुर्जया ॥ २०४ ॥ अतिरौद्रमनोवृत्तरन्यरक्षोविचक्षणम् । तस्या भीष्मत्वमद्वैतं विख्यातं भुवनत्रये ॥ २०५॥ सोऽप्युपासितदुर्विद्यादीग्रो विप्रः सुरोचनः । अतिक्रूरमनाः कामं दक्षः क्षुद्रेषु कर्मनु ॥ २०६ ॥ ततः कृत्याप्रणीतो वः प्राणसंदेहकृद्धवम् । दुरात्मनो द्विजादस्मादागतोऽसावुपद्रवः ॥ २०७ ॥ तदस्या विपदः सौम्याः प्रतीकाराय धावत । महात्मखपि निखिशं पिशुनाना हि मानसम् ॥ २०८ ॥ इत्युदीर्य मुनौ तस्मिन्स्वस्थानमुपजग्मुषि । सौष्ठवाज्येष्ठमवढद्दापाणिर्सकोदरः॥२०९ ॥ एतु कृत्याद्भुतं द्रष्टुमहमस्मि समुत्सुकः । चूर्णयिष्यामि कणशस्ता क्षुद्रा गदयानया ॥ २१०॥ ५० ज्येष्ठोऽथ तमभाषिष्ट सत्यमेव वचस्तव । सा चेत्ते दृक्पथं यायाद् व्यापाद्येत तदा त्वया ॥ ११ ॥ रक्षोजातिस्त्वतिक्षुद्रा नानाकूटपटीयसी । अदृश्या वैरिणी हन्तुं शक्या नोर्जस्वलैरपि ॥ २१२ ।। कुरु कर्णे ममोपायं सर्वापायनिवारणम् । आयान्ति विपदः कर्मदूताहूता हि देहिनाम् ॥ २१३ ॥ तच्च कर्म निराकर्तुमलंकर्मीणविक्रमः । एक एव परं धर्मों वत्स चेतसि धार्यत्ताम् ॥ २१४ ।। निःशेषदुःखमूलानि यः कर्माणि निकृन्तति । धर्मोऽस्माकं स एवैकः स वेत्तुमुचितोऽधुना ॥ २१५॥ एतां धर्मसुतस्याज्ञां कृत्वा मौलिशिखामणिम् । सर्वेषु कृतचर्यासु चक्रुरुज्जागरं मनः ॥२१६ ॥ अशनं खादिम सर्व खाद्यं त्रिविधमप्यमुम् । परितत्यजुराहारं ते सर्वे सप्तबासरीम् ।। २१७ ॥ एकतानाः स्मरन्तस्ते पञ्चानां परमेष्ठिनाम् । उटज परितो भेजुर्निर्जनां पृथिवीं पृथक् ॥ २१८ ॥ प्रलम्बितभुजास्तन्न नाशा(सा)निहितलोचनाः । तस्थुः प्रतिमया जातु देहेनोवैदमेन ते ॥ २१९ ॥ वशीकृतेन्द्रियग्रामा विधायोत्कटिकासनम् । आत्मारामं मनः कृत्वा कदाचित्तेऽवतस्थिरे ।। २२० । कदाचनापि चक्रुस्ते स्थिता गोदोहिकासने । अर्हत्तत्वैकलीनान्तःकरणाः कर्मणां क्षयम् ॥ २२१ ।। कायक्लेशनिसृष्टाङ्गाः शुचयो ब्रह्मचारिणः । एवं निर्गमयामासुर्वासराणि क्रमेण षट् ॥ २२२ ।। किरीटी त्वेकपादेन प्रतिमामास्थितस्तदा। मन्त्रराजैकतानात्मा निन्ये षड्दिवसीमपि ॥ २२३ ।। अधिष्ठायोटजक्रोडं दिनान् षडपि सादरम् । निष्ठाप्राप्तमनुष्ठानं कुन्ती कृष्णा च चक्रतुः ।। २२४ ॥ कृत्योपसर्गसोत्कण्ठाः सप्तमे त्वह्नि पाण्डवाः। सर्वे धर्मे व्यधुर्ध्यानं निधायास्त्राणि संनिधौ ॥ २२५ ।। उज्झितः शान्तचेतोभिस्तैस्तदा चिरसंस्तुतः । अस्त्रव्याजाद्रसो वीरस्तदुपास्तिमिवाकरोत् ॥ २२६ ॥ अथ पाण्डुसुतैः पांसुपूरो दूरोपसृत्वरः । अभितः करभीकण्ठरोमधूम्रो व्यलोक्यत ॥ २२७ ॥ अतिजङ्घालमुत्तालफालग्रस्तनभस्तलम् । तैरश्वीयमनल्पीयः प्रेक्षांचके समन्ततः ॥ २२८॥ जितोद्दामतडिद्दामवर्षवर्षास्विवाम्बुदाः । सिन्दूरेण स्रवद्गण्डास्तैरदृश्यन्त दन्तिनः ॥ २२९ ॥ अथ वेणुलता पाणौ बिभ्राणाः क्रूरमूर्तयः । केचन द्वाःस्थवर्गीणास्तानागत्य बभाषिरे ।। २३० ।। अरे वनचराः शीघ्र स्थानमेतद्विमुञ्चत । राज्ञो धर्मावतंसस्य निवासोऽत्र भविष्यति ॥ २३१ ॥ तेषां दुर्वचसा तेन समुत्सार्य समं बलात् । भीमान्तःकरणे क्रोधः समर्थोऽस्थाप्यत क्षणात् ।। २३२ ।। आकस्मिकतिरस्कारै रौद्राकारो वृकोदरः। साटोपकोपकम्प्रेण पाणिनोपाददे गदाम् ।। २३३ ॥ अभाषिष्ट च रे दुष्टाः कः कालेन कटाक्षितः । बलान्मौलिमणिं हन्त वासुकेः को जिघृक्षति ॥ २३४ ॥ कः केसरिकिशोरस्य कर्षति स्कन्धकेसरान् । तिष्ठतोऽत्र सुखेनास्मान्को नु निर्वासयिष्यति ॥ २३५ ॥ वयं निर्वासयिष्यामो युष्मानिति विवक्षवः । ते भीमेन तथा क्रोधाद्गले धृत्वापहस्तिताः ॥ २३६ ॥ उच्चैःकारं कृताक्रोशाः क्रोशमात्रां भुवं यथा । उत्पतन्तः पतन्तश्च जग्मुः कन्दुकलीलया ॥ २३७ ॥ उल्लुण्ठैर्वेत्रिवण्ठैस्तैर्गत्वा संवर्मितां चमूम् । समानीय निमेषार्धात्सर्वेऽरुध्यन्त पाण्डवाः ।। २३८ ॥ ऊर्जस्वलस्तपस्तेजोनिस्तुषीकृतकान्तयः । सावज्ञमनसस्तेऽपि जगृहु: स्वं स्वमायुधम् ॥ २३९ ।। तैः संग्रामकृतोद्योगैरुद्यतास्तैः पुरस्कृताः । अनेशत्पञ्चभिः सिंहैरेणश्रेणीव सा चमूः ॥ २४० ।। सेनानुगमशौण्डेषु पाण्डवेप्वेव पृष्ठतः । नृपलक्ष्मा पुमानेकस्तेपामुदजमाविशत् ॥ २४१ ।। षड्दिनोपोपिते कुन्तीकृष्णे धमैकतत्परे । परं पुरुषमालोक्य परमं क्षोभमीयतुः ॥ २४२ ॥ पाण्डवेषु दवीयेपु ते उभे भयकातरे । निमील्य केवलं नेत्रे हृदि सस्मरतुर्जिनम् ॥ २४३ ॥ बलाबाहौ स जग्राह नरेन्द्रो द्रुपदात्मजाम् । हयमारोहयित्वोच्चैरुदीर्णरुदितध्वनिम् ॥ २४४ ॥ तुरङ्गान्तरमारुह्य स प्रसह्य जहार ताम् । द्रौपद्याश्च तमाक्रन्दं शुश्रुवुः पाण्डवाः समम् ॥ २४५ ॥ त्यक्त्वा च तां क्रुद्धास्तेऽभ्ययुः कान्तापहारिणम् । जविना वाजिना सोऽपि ध्वजिनीमध्यमध्यगात् ॥ २४६ ॥ एकतस्तन्नृपानीकमन्यतः पञ्च पाण्डवाः । तथापि बलिनां तेषां न क्षोभस्य लवोऽप्यभूत् ॥ २४७ ॥ करे यासि करे यासि प्रेयसीमपहृत्य नः । इति व्याहृत्य पार्थेन तमनु प्रेषिताः शराः ।। २४८ ॥ उद्यतैर्युगपत्पातुं सेनासप्तार्णवीमिव । चक्रे तपःकृशीयोभिस्तैरगस्तीयितुं स्पृहा ॥ २४९ ॥ यदा ते संनिदधते दधते च पराक्रमम् । तदा स नृपतिः कृष्णां कशापात्रताडयत् ॥ २५०॥ तेन न्यकारतापेन शिरःस्थेनांशुमालिना । तपसा चाभवत्तेषामुदन्या तालुशोषिणी ॥ २५१ ॥ तेन तर्षप्रकर्षेण क्लान्तोऽतीव तपासुतः। बभाषे बान्धवान्वत्सा तृष्णा मां बाधतेऽधिकम् ॥ २५२ ॥ सुशादलदलश्रेणिव्याख्यातजलसंनिधेः । असौ पश्यत वामेन दृश्यते निकटो वटः ॥ २५३ ॥ इन्द्रनीलशिलानीलैः पौर्नेत्रप्रियंकरैः । दृष्टोऽपि बन्धुबदर न्यग्रोधो मां धिनोत्ययम् ॥ २५४ ॥ पथिकाश्वासनाहेतुः सेतुरेतस्य वामतः । शंसत्यसौ पिपासार्तवितीर्णावसरं सरः ॥ २५५ ।। अमी वञ्जुलहारीतजीवंजीवकपिङ्गलाः । एतस्योपरि कूजन्ति जलवैभवबन्दिनः ॥ २५६ ॥ एतानि मृगयूथानि निर्यान्ति प्रविशन्ति च । ध्रुवमेतस्य निर्दोषं स्वाद्य चाचक्षते पयः ।। २५७ ॥ एषोऽपि द्रौपदीदस्युर्विलोक्यास्मानवस्थितान् । यावद्विलम्ब्यमानोऽस्ति तावदानीयतां पयः ॥ २५८ ॥ द्विषं प्रोषिततृष्णस्तु दोष्णोर्बलभरादपि । कीनाशवेश्म नेष्यामि प्रत्यानेष्यामि च प्रियाम् ॥ २५९ ॥ इत्युदीर्य तपःसूनुस्तस्मिन्सरसि रहसा । नकुलं सहदेवं च प्रेषयामास वारिणे ॥ २६० ॥ तावथ त्वरितं गत्वा यथेष्टं पपतुः पयः । कृत्वा च पमिनीपने चेलतुः पञ्चषान्क्रमान् ॥ २६१ ॥ तस्तावुच्छलन्मूर्छानिःसहौ पेततुर्भुवि । जन्तवो हि विडम्व्यन्ते कर्ममिभिन्नमर्मभिः ॥ २६२ ॥ विलम्बमम्बुनः पश्यन्पार्थमूचे युधिष्ठिरः । जलाय प्रहितौ वत्स वत्सौ चिरयतः कथम् ॥ २६३ ॥ जवात्तद्गच्छ वृत्तान्तं जानीहि च कनीयसोः । तूर्णमानीय पानीयं मुषाण च तृषां मम ।। २६४ ॥ तडागमथ जङ्घालो जगाम च धनंजयः । खांसाविव कनीयांसौ पेतिवांसौ ददर्श च ॥२६५॥ तावालोक्य तथावस्थौ पार्थः पृथुलपूत्कृतः। पर्यदेवत हा वत्सौ केनेमां गमितौ दशाम् ॥ २६६ ॥ द्रुतमुत्तिष्ठतां वत्सौ नन्वार्यः खिद्यतेतमाम् । तस्मै तृष्णातुरायैतदुपढौकयतां पयः ॥ २६७ ॥ एतां तूष्णीकतां वत्सौ मुक्त्वा कथयतं मम । कृतमत्याहितं केन निगृह्णाम्येष येन तम् ॥ २६८ ।। यद्वा पिपासामार्यस्य पूर्व व्यपनयाम्यहम् । ततो विपदमेतां वा प्रतिकर्तास्मि यत्नतः ॥ २६९ ।। इत्युदीर्यार्जुनः साश्रुकणेहत्यपयः पपौ । बन्धुहेतोहीत्वा च प्रतस्थे कियती भुवम् ॥ २७० ॥ अश्रुमिश्रं वहन्नीरं कनिष्ठान्तिकमागतः। तार्तीयिकस्तयोरासीत्सोऽपि मूर्छाविसंस्थु(छु)लः ॥२७१ ॥ अभ्यधाद्धर्मजो भीमं बान्धवान्वेषणाकृते । प्रहितस्यार्जुनस्थापि कालो भूयानभूत्कथम् ॥ २७२ ॥ कनिष्ठबन्धुवर्गस्य निसर्गप्रीतिशालिनः । गत्वा जानीहि वृत्तान्तमपतृष्णं च मां कुरु ॥ २७३ ॥ इति ज्येष्ठगिरा भीमः सरस्तीरमुपेयिवान् । अपश्यद्वान्धवान्प्राप्तान्मृत्योर्नेदीयसी दशाम् ॥ २७४ ॥ विललाप च हा वत्साः किमिदानीमुपस्थितम् । इदं वोऽस्त्येकतो दौस्थ्यमन्यतः क्लिश्यते गुरुः ।। २७५ ॥ इतश्च ह्रियते कृष्णा केनाप्यस्मद्विरोधिना । इतश्चैकाकिनी माता दुःखं तिष्ठति पृष्ठतः ॥ २७६ ॥ न जाने सममस्माभिर्हतकस्य विधेरहो। कौतस्कुतमिदं वैरमेवं द्रुह्यति येन नः ॥ २७७ ।। परं पिपासामार्यस्य प्रतिकृत्याम्बुनामुना। अहं वत्साः प्रतीकारं विधास्यामि विधेरपि ।। २७८ ॥ शुचं कृत्वैवमापीय पयस्तृष्णाप्रवासकृत् । गृहीत्वा च ब्रजन्नासीत्तुल्यावस्थः स बन्धुभिः ॥ २७९ ।। स्थित्वातिमहती वेलां ततो दध्यौ तपःसुतः। विलम्बते स्म भीमोऽपि कथंकारमनादरः ।। २८० ॥ तद्गत्वा निखिलाचारचतुरांश्चतुरोऽपि तान् । शौण्डीरमकलासिन्धून्बन्धूनन्वेषयाम्यहम् ।। २८१॥ इत्यालोच्य शुचा चान्तचेताः कुन्तीसुताग्रजः । गतस्तत्रानुजान्प्राप्तानद्राक्षीत्तादृशी दशाम् ॥ २८२ ॥ विलप्य तुमुलं चोच्चैः शुचा चात्यन्तविलः । वत्सा युष्माभिरेकाकी कथं त्यक्तोऽस्मि कानने ।। २८३ ॥ चतुर्भिरपि युष्माभिर्वैरिभूधरभेदिभिः। दन्तैत्रिदशदन्तीव सदैवाहं विजित्वरः।।२८४ ।। बभूवाहमनुल्लङ्घयो युष्माभिः पार्श्ववर्तिभिः । धराभोगसमर्यादैश्चतुर्मिः सागरैरिव ॥ २८५ ॥ हा वरस भीम मां त्यक्त्वा किं शेषे निद्रयानया । सांप्रतं सांप्रतं किं ते सदुःखं मामुपेक्षितुम् ।। २८६ ।। दुर्योधनस्य गदया नोरुमतस्त्वया कृतः । न च दौःशासन वक्षः क्षुण्णं तन्मां किमत्यजः ।। २८७ ॥ हिडम्बवककिीराः कृतान्तातिथयस्त्वया । महाबाहो कृता येन तच्छौण्डीय क ते गतम् ।। २८८ ।। सिंहेनेव त्वया मुक्तो बनोद्देश इवाधुना । अभूवमहमाक्रम्यो हा मृगैरिव वैरिभिः ॥ २८९ ॥ हा वत्स पार्थ पार्थक्यं प्राणैरपि न ते मम । इयं कथमवस्था ते जीवत्यपि युधिष्ठिरे ॥ २९० ॥ किं पूरयसि वत्स त्वं पिशुनानां मनोरथान् । दृढचण्डिमगाण्डीवं यद्दूरं तत्यजे त्वया ॥ २९१ ।। येन मृत्युपरीरम्भं लम्भितास्तलतालवः । अकाण्ड एव गाण्डीवे तत्रानास्था कथं तव ॥ २९२ ॥ नाद्यापि विहितं कृष्णापराभवनिशुम्भनम् । त्वमेव किमु निद्रासि विस्मृतारातिविक्रमः ॥ २९३ ॥ इदानीमपि केनापि हियमाणा सर्भिणी । मोचनीया त्वयैवेयं तत्किं स्वपिषि निर्भरम् ॥ २९४ ॥ अभवत्पूर्णदेशीया वत्स द्वादशवत्सरी । प्राप्तोऽस्यम्बुधिमुत्तीर्य गोष्पदे मजनास्पदम् ॥ २९५ ॥ राधासुतस्य सफलैः संजातमुपयाचितैः । यातोऽसि दैवयोगेन यत्त्वमेतादृशी दशाम् ॥ २९६ ॥ वत्सौ यमौ युवां दृष्ट्वा हृदयं मे विदीयते । अक्षतोऽहं गतो मातुर्मान्या वक्ष्यामि किं पुरः ॥ २९७ ॥ एवं विक्लवमुर्चीशं कश्चिदूचे पुलिन्दकः । भोः कापुरुष केनापि प्रेयसी ते विलुप्यते ॥ २९८ ॥ उत्तरीयमपाकृत्य कशाभिस्ताड्यते भृशम् । आर्यपुत्रार्यपुत्रेति करुणं सापि रोदिति ॥ २९९ ॥ हेतोः कुतश्चिदेते तु मूच्छितास्तव बान्धवाः । सर समीरणस्पर्शादुत्थास्यन्ति स्वयं क्रमात् ।। ३०० ॥ ततः प्रियतमामाशु शत्रोस्त्रायस्व सांप्रतम् । कलङ्को हि महान्पुंसां दाराणामप्यरक्षणम् ।। ३०१ ॥ अनेन वचसा तस्य धर्मसूनुः क्रुधा ज्वलन् । पयः पीत्वा जवाद्धावन्बन्धूनां सविधेऽपतत् ॥ ३०२ ॥ तदा तेषामुपागच्छन्मूर्छा काप्यतिशायिनी । पञ्चत्वमेव निश्चिक्ये यथा व्योमचरैरपि ॥ ३०३ ॥ तस्मिन्मूर्छाक्षणे तेषामारण्याः पशवोऽपि हि । तृणप्रासादिकं सर्वं सर्वेऽपि मुमुचुः शुचा ॥ ३०४ ॥ समं समस्तभूतानां प्रमोदनवकन्दलैः । किंचित्क्षणान्तरे तेऽथ नयनान्युदमीलयन् ॥ ३०५ ॥ कृत्वाम्बु नलिनीपत्रे रत्नमालापवित्रितम् । प्रत्येक तेऽभिषिञ्चन्तीं द्रौपदी ददृशुः पुरः ॥ ३०६ ॥ स्ववासःपल्लवाग्रेण बीजयन्ती मुहुर्मुहुः । सिञ्चन्तीं चाश्रुभिः कुन्ती ते वीक्षांचक्रिरेऽग्रतः ॥ ३०७ ॥ बाष्पप्लावितपक्ष्मान्तैनभश्चरवनेचरैः । ते पश्यन्ति स्म रोदस्यौ संकीर्णे खजनैरिव ।। ३०८॥ निविष्टास्ते पटान्तेन प्रसृष्टरजसोऽम्बया । प्रियामद्राक्षुराक्षेपात्प्रत्याशप्रहितेक्षणाः ॥ ३०९ ॥ तवापहर्ता पापीयान्स निस्त्रिंशशिरोमणिः । क ययौ यदिहायासीः सुमनोमालभारिणी ।। ३१० ॥ प्रक्षिप्तरत्नमालेन किं नो नीरेण सिञ्चसि । वृत्तान्तमेतमस्माकं द्रुतमावेदय प्रिये ॥ ३११॥ समक्षमेव सर्वेषामाचख्यौ साथ भूभुजे । त्वय्यायाते पयः पातुं तं नाद्राक्षं च तां चमूम् ॥ ३१२ ॥ कित्वेकाकिनमात्मानमपश्यमटवीगतम् । व्यालानां शृण्वती नादानभूवं च भयातुरा ॥ ३१३ ॥ त्वमार्यपुत्र कुत्रासि रक्ष मामिति वादिनी । इतश्चेत्तश्च पर्याटमटवीपदवीष्वहम् ॥ ३१४ ।। पञ्चषान्विशिखान्पाणौ दधद्धन्व च जर्जरम् । उपेत्य शंबरः कश्चिन्मामवादीद्दयान्वितः ॥ ३१५ ॥ परिभ्रमसि शून्येषु कथं कान्तारवर्त्मसु । भद्रे भद्रंकराकाराः सन्तीह तव वल्लभाः ॥ ३१६ ॥ स युष्मान्दर्शयित्वा मे कुन्तीं चार्यामिहानयत् । अपश्याव मृतप्रायानावां वः साश्रुलोचने ।। ३१७ ॥ यावदावामतीवार्ते प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा तावत्किलकिलारवम् ॥ ३१८ ॥ ततो व्यात्तमुखप्रेवदंष्ट्राङ्कुरभयंकराम् । पिङ्गाक्षीं पिङ्गचिकुरां गवलश्यामलाकृतिम् ॥ ३१९ ॥ आलोकयावः फेत्कारैः कर्णज्वरकरी भृशम् । कांचित्त्वरितमायान्तीमन्तरिक्षण राक्षसीम् ॥ ३२०॥ (युग्मम्) दूरादालोक्य तस्यास्तमाकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां सेयं कृत्येति निश्चितम् ॥ ३२१ ॥ विभाव्याथ तथोद्धान्ते स पुलिन्दः पितेव नौ । अन्तर्द्धाय खदेहेन तस्थौ स्नेहार्द्रमानसः ॥ ३२२ ॥ साप्यागत्य मृतान्युष्मान् वीक्ष्य वैलक्ष्यमागता। अभ्यर्णस्थामभाषिष्ट राक्षसी राक्षसेश्वरी ॥ ३२३ ॥ पिङ्गले पाण्डवानेतान्मृतानेव निशुम्भितुम् । प्रहिताहमहो तेन ब्राह्मणेन दुरात्मना ॥ ३२४ ॥ एतेषां किंनु निश्छद्ममृत्युश्छद्मकृतोऽथवा । इत्यासन्नतरीभूय सम्यग्जानीहि पिङ्गले ॥ ३२५ ।। तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला। युष्मान्पर्यस्य पश्यन्ती पुलिन्देन न्यगद्यत ॥ ३२६ ।। त्वादृशां मृतकस्पर्शः पिङ्गले न त्वमङ्गलम् । सरस्यमी विषं पीत्वा मृता एव न संशयः ।। ३२७ ॥ यदल्पमपि जीवेयुरेते ते चण्डि पाण्डवाः । विपक्षक्षयमाधातुं प्रभवेयुस्ततो ध्रुवम् ॥ ३२८ ॥ विक्रामन्ति मृतेष्वेव शृगालाः सरभादयः । जीवत्वेव महेभेषु सिंही संरभते पुनः ॥ ३२९ ।। गत्वा हन्तु तमेवासौ तद्विपं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तारमभिचारो हि लुम्पति ॥ ३३० ॥ पिङ्गलाव्यपदेशेन तां गिरं शबरोदिताम् । निशम्य गगनेनैव ययौ व्यावृत्य राक्षसी ॥ ३३१ ॥ युष्माकमन्तिकेऽभ्येत्य भूयोऽपि सममार्यया । विलापान्कुर्वती तांस्तांस्तार तारमरोदिषम् ॥ ३३२ ॥ स्मृत्वाथ नागराजस्य गिरं वं कर्णपङ्कजम् । वीक्ष्य चासंदिहानाहमायौं कुन्तीमवादिषम् ॥ ३३३ ॥ देबि कर्णावतंसालमद्याप्येतद्विकखरम् । यत्रामी नियतं प्राणैर्विमुच्यन्ते सुतास्तव ॥ ३३४ ॥ केवलं दधते दूर परीपाकमुपेयुषा । केनाप्यापद्विवर्तेन ध्रुवं मूर्छालताममी ।। ३३५ ।। तत्तस्यैव प्रतीकारः कश्चिदन्तर्विचिन्त्यताम् । एवं वदन्ती मामेत्य कृपालुः शबरोऽब्रवीत् ॥ ३३६ ॥ कृतं ते चिन्तया भद्रे नृपकण्ठविलम्बिनी। रत्नमालां निधायान्तः कान्तान् सिञ्च सरोम्भसा ॥ ३३७ ॥ कृत्वा चेतसि तद्वाचं निषिञ्चामि जलेन वः । युष्मचैतन्यलाभाच्च फलितं मे मनोरथैः ॥ ३३८ ॥ निष्कारणोपकारी मे स कुन शबरोऽधुना । इति कन्दलितानन्दः पप्रच्छ नृपतिः प्रियाम् ।। ३३९॥ कृती सांप्रतमत्रैच सोऽभूदिति तयोदिते । दृशौ व्यापारयामास सर्वाखाशासु पार्थिवः ।। ३४० ॥ स दूरे शबरस्तावन्न सरस्तन्न तं वटम् । तं भूनभश्चरं लोकं न चाद्राक्षीन्नरेश्वरः ॥ ३४१॥ तपस्याशु व्यवस्यन्तमात्मानमुटजान्तिके । मुदितः सानुजन्मानमालोकत स केवलम् ।। ३४२ ॥ पुरुषं च पुरः कंचित्काञ्चनद्युतिविग्रहम् । चलन्माणिक्यताटकं सोऽपश्यदिव्यमूर्तिकम् ॥ ३४३ ॥ अथासौ विस्मयत्रस्यदितिकर्तव्यताजडम् । जगाद मेदिनीनाथं प्रसादविशदाननः ॥ ३४४ ॥ शृणु विश्वंभराधीश तदेकमनसा त्वया । योऽयमाराधितो धर्मस्तस्येयं स्फूर्तिवर्णिका ॥ ३४५॥ यतः सौधर्मवास्तव्यः सुरो वा स च वल्लभः । अहं धर्मावतंसाख्यो धुर्यों धार्मिकपालने ॥ ३४६ ॥ ज्ञात्वाहमवधिज्ञानात्तपोनियमशालिनाम् । कृत्योपसर्गमुच्छेत्तुं रभसादागतोऽस्मि वः ॥ ३४७ ॥ उत्पाद्य कृत्रिमा सेनामेनां हृत्वा च वः प्रियाम् । अपूजयं कशाधातमिषान्मन्दारदामभिः ॥ ३४८ ॥ सरोऽपि च तदन्येषु पीयूषप्रतिमोदकम् । युष्माखहं विषीचक्रे पुलिन्दश्चाभवं ततः ॥ ३४९ ।। सांप्रतं मुक्तभूयिष्ठं भवतामपि दुष्कृतम् । निकाचितेष्वपि तपः प्रभवत्येव कर्मसु ॥ ३५० ।। इदानीमनुजानीहि पुनः खर्गमनाय माम् । ज्ञेयः सहायसंख्यायामहमप्यात्मनस्त्वया ।। ३५१ ॥ इत्युदीर्य गते देवे ययौ सूर्योऽप्यदृश्यताम् । सतां कृत्वोपकारं तं हर्षादन्वीयिवानिव ॥ ३५२ ।। स्थापिते च नभःस्थाले नक्षत्राक्षतसंभृते । आययौ किल तानिन्दुदना वर्धयितुं निशा ।। ३५३ ।। मत्सरं कुरुराजस्य क्रूरतां च द्विजन्मनः । तीक्ष्णत्वं यच्च कृत्यायाः सौजन्यं च दिवौकसः ॥ ३५४ ॥ मुहुश्चिन्तयतां नानाभावचित्रेण चेतसा । सा तेषामतिचक्राम क्षणेनैव निशीथिनी ।। ३५५ ।। अम्लानांस्तानिव द्रष्टुं सप्तरात्रमुपोषितान् । पौरस्त्यादर्णवात्तूर्णमर्यमाथ विनिर्ययौ ॥ ३५६ ॥ पारणाविधये तेषां कुर्वन्नभ्यर्थनामिव । पाणिपादे सहस्रांशुलंगति स्म मुहुः करैः ॥ ३५७ ।। अथ वन्यैः फलैर्धान्यैः शाकैश्च हृदयंगमैः ।। कृष्णा निष्पादयामास नवां रसवती जवात् ।। ३५८ ॥ स्वस्वासनोपविष्टानां जनन्या परिवेषिते । वस्तुजाते समस्तेऽपि चिन्ता तेषामभूदियम् ॥ ३५९ ।। कुतोऽपि समयेऽमुष्मिन्किचित्पात्रं तपोमयम् । यद्युपैति तदा विमो भाग्यानामनुकूलताम् ॥ ३६०॥ धन्यास्ते पुण्यकर्माणस्तेषां चासन्नभव्यता । येषाममूदृशे काले सत्पात्रमुपतिष्ठते ॥ ३६१ ॥ अवतारो मनुष्येषु तेषामेव फलेग्रहिः । सुक्षेत्र इव यैः पात्रे न्यायात्तं वित्तमुप्यते ॥ ३६२ ॥ इति चिन्तापरेण्वेषु सार्थे वचन तस्थुषः । सूरेः सुचरिताख्यस्य मुनिः कोऽप्यतिसंयमी ॥ ३६३ ।। वपुष्मदिव चारित्रं मूर्तं तप इवानघम् । एत्य तेषां पुरस्तस्थौ मासक्षपणपारणे ॥ ३६४ ॥ (युग्मम्) तं तपोधनमालोक्य लोकोत्तरगुणोदयम् । पुनः पल्लवितानन्दास्तेऽन्तःस्वान्तमचिन्तयन् ॥ ३६५ ।। एषणीयमिदं वस्तु पात्रमेतत्तपोमयम् । तदयं सुकृतप्राप्यः कौमुदीन्दुसमागमः ॥ ३६६ ॥ क कुरङ्गारिसंचारघोरकान्तारभूरियम् । पुण्यैरप्यतिदुर्लम्भः क चैष मुनिकुञ्जरः ॥ ३६७ ॥ ततो रूक्षकटध्वाङ्घशमीमात्रतरौ मरौ । अकस्मादयमस्माकं भुवं कल्पद्रुसंगमः ।। ३६८॥ इत्युद्दामपरीणामशुद्धिनिधीतचेतसः । आदाय भाजनान्येते मुनिमेत्य बभाषिरे ।। ३६९ ।। प्रभो सुप्रातरचैव पुण्यैरथैव पुष्पितम् । निजैर्यत्पावितं पादैस्त्वयेदमुटजाङ्गण(न)म् ।। ३७० ॥ तदिमं शुद्धमाहारं गृहाणानुगृहाण वः । लभ्यतां दैवयोगेन निर्धनैरपि से(शे)वधिः ।। ३७१ ॥ द्रव्यादिशुद्धमाहारं विज्ञायात्यन्तनिस्पृहः । मुनिरप्याददे तादृग्न विराध्यति संयमम् ॥ ३७२ ।। तदानीं ताडयामासुटुंसदो दिवि दुन्दुभिम् । उद्यत्प्रमोदकल्लोलाचेलोत्क्षेपं च चक्रिरे ॥ ३७३ ॥ विहितार्थिजनाधारा वसुधारा दिवोऽपतत् । पुष्पगन्धाम्बुवृष्टी च पेततुर्वासितक्षिती ॥ ३७४ ॥ अवादीद्देवता काचित्प्रसन्ना तान्नमःस्थिता । दानस्यास्य प्रभावाद्वः समीपे संपदोऽखिलाः ॥ ३७५ ॥ विराटनगरे किंतु वर्षमेतत्रयोदशम् । न चाभ्यां वेषकर्मभ्यां प्रच्छन्नाः स्थातुमर्हथ ॥ ३७६ ॥ एवमावेद्य सा तेभ्यः क्षणेनैव तिरोदधे । मुनिश्च स्वर्गिणश्चैव ययुः सर्वे यथागतम् ॥ ३७७ ॥ पारणं पाण्डुतनयास्तेनुः पुण्यमयं पुरा । पश्चादन्नमयं चक्रुः शरीरस्थितिहेतवे ।। ३७८ ॥ अर्थिनः प्रीणयामासुस्ते तया वसुधारया । सतां च तोयदानां च सार्वजन्या हि संपदः ॥ ३७९ ॥ सौरभ्यसारघनसारकणावदातै- र्लोकंपृणैर्मुनिपतेर्विमलैर्गुणौघैः। तत्रैव ते विदधतो वदनाधिवासं द्वित्राण्यहानि मुदिता गमयांबभूवुः ॥ ३८०॥
इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दुर्योधनमोचनकृत्योपद्रवनिवर्तनवर्णनो नाम नवमः सर्गः ।
दशमः सर्गः।
अथ द्वैतवनात्पाण्डुसूनवो देवतागिरा। प्रतस्थिरे गुप्ततमा विराटनगरं प्रति ॥१॥ ते मातरं पुरस्कृत्य मूर्तां नीतिमिवाध्वनि । व्रजन्तोऽनुगता रेजुः साक्षाल्लक्ष्म्येव कान्तया ॥२॥ नगेन्द्रनगरग्रामनिम्नगारामसंकुलाम् । भूयसीं भीमसंचारामतिक्रम्य क्रमान्महीम् ॥ ३ ॥ नीलदुद्यानकल्लोलिसर श्रेणिमनोरमे । ते विराटमहीभर्तुः पुरीपरिसरे ययुः ॥ ४ ॥ (युग्मम्) रामणीयकमारामसरःपुष्करिणीगतम् । पश्यतां पाण्डुपुत्राणां तत्रोच्चैर्मुमुदे मनः ॥ ५॥ क्वचित्सरसि निर्निद्रनलिनीमालभारिणि । पयःपानादिना तेऽध्वश्रमव्यपगमं व्यधुः ॥ ६॥ तत्तीरे सहकारस्य नल(व)पल्लवशालिनः । छायायामतिसान्द्रायां तेऽनुज्येष्ठमुपाविशन् ॥ ७ ॥ अथारातिपराभूतिसरणार्द्रीकृतेक्षणः । सदैन्यमवद्बन्धून्धर्मसूर्गद्गदाक्षरम् ॥ ८॥ वत्साः साम्राज्यसारैभ्यसंभोगसुभगोदयाः । युधिष्ठिरेण नीताः स्थ ह हा धिक्कामिमां दशाम् ॥ ९ ॥ वस्तव्यमस्ति तत्रापि वर्षमेतत्त्रयोदशम् । प्रच्छन्नैर्जनवन्मत्स्यभर्तुः सेवापरायणैः ॥ १०॥ ततो निसर्गविज्ञातसर्वसेवाक्रमानपि । स्नेहाद्ब्रवीमि वः किंचित्सागरे घनवृष्टिवत् ॥ ११ ॥ परं मान्यत्वमाप्यापि विश्वास्यं क्षितिपेषु न । विधावैवधिकेभ्योऽपि जातु रुष्यन्ति दन्तिनः ॥ १२ ॥ कुर्वन्ननुल्बणं वेषं श्रयन्नुचितमासनम् । अजल्पितोऽप्रजल्पंश्च राज्ञो भवति वल्लभः ॥ १३ ॥ नान्तःपुरपुरंध्रीभिर्न चान्तःपुरचारिभिः । न च द्वेष्यैर्महीशस्य संगच्छेत विशारदः ॥ १४ ॥ यस्य कोपो महाबाधः प्रसादश्च महाफलः । न तस्य मनसापीच्छेद्विप्रियं प्राज्ञसंमतः ॥ १५॥ असूयन्ति हि राजानो जनायानृतवादिने । क्षणादप्यवमन्यन्ते तथा पण्डितमानिनम् ॥ १६ ॥ अम्लानो बलवान् शूरश्छायेवानुगतः सदा। सत्यवादी मृदुर्दान्तः मापतेः प्रियतां व्रजेत् ॥ १७ ।। सर्वं मनसि कृत्वैतद्यः सम्यकर्म वेत्ति यत् । स तदेव पुरस्कृत्य श्रयतु क्षितिवल्लभम् ॥ १८ ॥ जयो जयन्तो विजयो जयसेनो जयद्बलः । आतुरे क्वचिदाह्वाननामानीति भवन्तु नः १९॥ इति ज्येष्ठानुशिष्टिं तामोमिति प्रतिपद्य ते । विश्वधानुष्कधौरेयं सव्यसाचिनमूचिरे ॥ २० ॥ विलोक्य सायुधानस्मान् लोकः पार्थ व्यथिष्यते । आयुधानि निधातुं तत्क्वचिदेतानि सांप्रतम् ॥ २१॥ जगाद विजयो येयमुपप्रेतवनं पुरः । निरूप्यते शनी जीर्णा फणिकृत्कारकोटरा ॥ १२॥ लताजालकरालयानतुच्छच्छन्दसंपदि । निहितान्यायुधान्यस्यां कोऽप्यभिचने नहि ॥ २३ ॥ इत्युक्त्वा सर्वतेजामि धारयन्तीव मूर्तताम् । आयुधानि न्यधात्तत्र गनीमालिनि फाल्गुनः ॥ २४ ॥ मध्येऽद्रिकन्दरं तेऽश पत्र पजानना इव । विराटस्य विशाभतुरन्तनगरमाविशन् ॥ २५ ॥ तिलकान्द्वादगापु फेरे कुलपवित्रिकाम् । कलयन्नुपवीतादतनुधीनसिताः ॥ २६ ॥ गत्वा राजकुलं कश्चित्रामणम्त्यां दिक्षने। इत्यात्मानं तपासूनुर्यत्रिणाज्ञापयतृपम् ॥ २७ ॥ तथा विज्ञापितो वनिपुंगवन विशांपतिः । तं सभामर्धदानादिपुरःसरमवीविद्यात् ।। २८ ।। विलोकयंस्तमायान्तमिति चान्नचिन्तयत् । किं स्वयं धर्म एवायं महीतलमवातरम् ।। २९ ।। न हि ब्रामणमात्रस्य कचिदृष्टेयमाशतिः । समुद्ररसनामेष मही शासितुमर्हसि ॥ ३०॥ अभिवाद्य नमन्मीलितं वितीर्णागिपं पुरः । प्रीत्या परमया पीठे विशामीणो न्यवीविंगत् ॥ ३१ ॥ जगाद च कुतो ब्रह्मन्नजिह्मब्रह्मवार्धिना आगम्यते त्वया को वा भवान्भुवनपावनः ॥ ३२ ॥ अथावोचदजातारिः कङ्को नाम द्विजोऽस्म्यहम् । भूमिभर्तुस्तपासूनोः प्रियमित्रं पुरोहितः ।। ३३ ।। अक्षैश्च दीव्यतस्तस्य सभारतारोऽस्मि सर्वदा । मदन्यो हि न दक्षोऽभूदक्षद्यूतेऽस्य संसदि ॥ ३४ ॥ मयि ग्रामान्तरे याते समानीय निजं पुरम् । कुरुभिः कैतवागारैर्हारितः सोऽखिलां महीम् ॥ ३५॥ पाण्डवेयास्तदारभ्य बभूवुर्वनवासिनः । राज्यप्रत्याशया तेषामनैषमियतीः समाः ॥ ३६॥ मायावीति मया राजन् श्रितो दुर्योधनो नहि । पाण्डवानामिदानीं तु किंवदन्त्यपि न क्वचित् ॥ ३७॥ धर्मन्यायसदाचारविवेकविनयादिभिः। गुणैराकीर्णमेषोऽहं तद्भवन्तमुपस्थितः ॥ ३८ ॥ अजल्पन्नृपतिः कङ्क निःशङ्कोऽत्रापि पूर्ववत् । सुखेन तिष्ठ मत्पार्थे काप्यते त्वादृशः सुहृत् ॥ ३९ ॥ धन्यः स राजा कौन्तेयो यस्य मित्रं भवादृशम् । सुलभा खलु राज्यश्रीर्दुर्लभं मित्रमद्भुतम् ॥ ४० ॥ इत्युदीर्य समभ्यर्च्य काश्चनैरश्चिताञ्जलिः । विराटभूपतिश्चक्रे सभास्तारं युधिष्ठिरम् ॥ ११ ॥ ज्वलन्निव वपुर्लक्ष्म्या खजं दीं च धारयन् । करवालकरोऽत्युच्चैः सानुमानिव जङ्गमः ॥ ४२ ॥ राजपद्यामुपेताय मध्येनगरमन्यदा । विराटभूभुजे तस्थौ गुरुस्थामा मरुत्सुतः ।। ४३ ॥ (युग्मम्) दूरादुर्वीपतिर्भीमं वीक्ष्य मांसलमंसलम् । मुदा नेदंयुगीनाङ्गं वेत्रिणाह्वाय तत्क्षणात् ॥ ४४ ॥ सोऽनुयुक्तस्ततो राज्ञा स्वां कथामित्यचीकथत् । बल्लवः सूपकारोऽस्मि भूपतेर्धर्मजन्मनः ॥ १५ ॥ न केवलमलंकारपौरोगवकलैव मे । ममैव मल्लसंदोहज्येष्ठताप्यस्य भूभुजः ॥ ४६॥ किं तु राज्यपरिभ्रंशात्तस्य भ्राम्यन्नितस्ततः । राजन्कलाविशेषज्ञमिदानीं त्वामुपागमम् ॥ १७ ॥ नृपोऽप्यूचे न सूदत्वमस्यामुचितमाकृतौ । कुर्वीत को हि गन्धेमे कक्षभाराधिरोपणम् ॥ ४८ ॥ ऊर्जस्विनौ हि ते बाहू पृथिवीरक्षणक्षमौ । तथापीच्छसि यत्कर्तुं तदेव कुरु बल्लव || ४९ ॥ इत्यामाष्य नृपो भीममानन्द्य कनकोत्करैः । पौरोगवानां सर्वेषामसूत्रयदधीश्वरम् ॥ ५० ॥ आमुच्य कम्बुकं चित्रमावध्य कवरीं वराम् । कर्णयोः कुण्डले न्यस्य नेत्रयोरञ्जनं वहन् ॥ ५१ ॥ निर्मायान्यदपि स्त्रैणमाकल्यं नृपवेश्मनि । विवेश विस्मयस्मेरैर्लोलेरालोकितोऽर्जुनः ।। ५२ ॥ (युग्मम् ।) भूपतिर्वलभौ कुर्वन्केलिचंक्रमणक्रमम् । उदीक्ष्य मुदितो वेत्रपाणिना तमजूहवत् ॥ ५३ ।। ऊचे च भद्रे स्त्री चेत्त्वं वक्षस्तल्लक्षणं न किम् । यदि वासि पुमानेव कुतः स्त्रीवेषधारिता ॥ ५४ ॥ आकृतिस्ते पुनः सेयं स्त्रीपुंसव्यतिवर्तिनी । इहागत्य च किं स्थान विहितं विरहातुरम् ॥ ५५ ॥ कपिकेतुरभाषिष्ट नास्मि नारी न वा पुमान् । अहं बृहन्नटो नाम किंतु षण्ढोऽस्मि भूपते ॥ ५६ ॥ योषिद्वेषं वहन्नेबमवन्यां विहराम्यहम् । नाट्याचार्यस्तपःसूनोरभूवं राज्यभूषणम् ।। ५७ !! तूर्यत्रयरहस्यानामहं वा खलु कोविदः । देवी विश्वत्रयाराध्या सा च वाचामधीश्वरी ॥ ५८ ।। हेमस्तोमैस्ततस्तैस्तैरभिनन्ध बृहन्नटम् । भूमीन्दुरुत्तरां पुत्रीमध्यापयितुमार्पयत् ।। ५९ ।। ततस्तूर्यत्रयाभ्यासहेतोः पुत्र्याः क्षितीश्वरः । उत्तरेण निजं वेश्म नाट्यशालामचीकरत् ॥ ६०॥ काव्यमाला। हरिदश्वरथाश्वाभमन्येद्युरवनीभुजः । हयं कारयतश्चित्रं बाह्याल्पां चक्रमक्रमम् ॥ ६१॥ मांसलांसस्थलो बद्धमौलिः प्रावारवाससा । निर्लोमाङ्गिः कसा(शा)पाणिर्दृढं परिकरं वहन् । ६२ ।। नकुलः कुलशैलाभमूर्तिरागाद्दृशोः पथि । वेत्रिणाचाह्वयत्स्मेरविस्मयस्तं महीपतिः॥६३॥ (त्रिभिर्विशेषकम् सोऽभ्यधाद्भूभुजा पृष्टस्तपासूनोर्महीभुजः । सर्वाश्वसाधनाधीशस्तन्त्रपालाभियोऽस्म्यहम् ।। ६४ ॥ अश्वानां लक्षणं वेद्मि वेद्मि सर्वं चिकित्सितम् । देशं वेद्मि वयो वेद्मि वेद्मि वाहनिकाक्रमम् ।। ६५ ॥ राजाब्रवीत्तव ज्ञानमाकृत्यापि निवेद्यते । आर्द्रता हि वदत्यन्तः कुम्भस्य परिपूर्णताम् ॥ ६६ ॥ इत्युदीर्य स्वमारोप्य परीक्ष्य किल तत्क्षणात् । नेतारं नकुलं चक्रे निजाश्चीयस भूपतिः ॥ ६७ ॥ परिधानपटार्धेन बद्धकक्षं स्थवीयसीम् । बिभ्राणं वैणवीं यष्टिं वृषस्कन्धं महाभुजम् ॥ ६८॥ गोव्रजेषु व्रजन्नूर्ध्वीभूतं भूपः परेद्यवि । सहदेवमुदक्षिष्ट व्रततीबद्धमूर्धजस् ॥ ६९ ॥ (युग्मम्) धरित्रीपतिरामन्त्र्य विस्मयेन तमभ्यधात् । भद्र कोऽसि कुतश्चासि स्थानादागतवानिह ।। ७० ॥ जगाद सहदेवोऽथ पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्प्रत्येकं लक्षसंख्यया ।। ७१ ।। स तेषां ग्रन्थिकं नाम संख्याकारं न्ययुक्त माम् । सर्वेषां बल्लवानां च राजन्नेतारमातनोत् ।। ७२ ॥ गर्भाधाने गवां कालमुपायमपि वेड्यहम् । शरीरलक्षणव्याधिचिकित्सासु तु का कथा ॥ ७३ ॥ पाण्डवचरितम् । इत्याफर्ण्य गिरं माद्यत्प्रमोदविवशाशनः । सहदेवं महीदेवो गोकुलाधिपतिं व्यधात् ॥ ७१ ॥ अथ वैदेशिकौचित्यकाल्पिताकल्पशालिनी । रूपलावण्यसौभाग्यविस्मारितरतिन्मया ॥ ७५॥ महादेव्याः सुदेष्णायाः सद्मायणं कदाचन । विहरन्ती भुजिप्याभिर्दो द्रुपदात्मजा ॥ ७६ ॥ दृष्ट्वा सविलयाम्नाय सुदेष्णायै न्यवेदयन् । कुतुहलवती सापि तामेताभिराजूवत् ॥ ७७ ॥ उपवेश्य परप्रीत्या तां महत्यागन जानिन । नरेन्द्रपत्नी तान्बलदानपूर्वगभापत ॥ ७८ ॥ शुभे तवायमामारो न क्ष्मावस्थानमर्हति । किं पुनः पादचारेण विदगगगनं पचित ॥ ७ ॥ ततः कथय कामि त्वं पत्नी कन्यापि नृभुजः । कुतश्चेयमवस्या त विषयान्तरदर्शनी ॥ ८०॥ स्नुपाथ पाण्डुराजस्य म्मितपूर्वमभापन । मालिनी नाम सैरंध्री दास्यस्मि न नृपप्रिया ॥ ८१ ॥ मयि प्रमाणमत्युचद्रीपदी धृतपूर्विणी । मुकुन्दमहिषी दध्रे सत्यभामापि संमदम् ॥ ८२ ॥ प्रिया विराटभूभर्तुः पाञ्चाली पुनरब्रवीत् । हन्ताहमपि सैरध्रि ब्रूपे यत्तत्करोमि ते ॥ ८३ ॥ किंतु त्वां यदि वीक्षेत कदाचिस्थितियासवः । प्रियामपि तदानीं मां मनसा नहि संस्पृशेत् ॥ ८४ ॥ भूयोऽप्युवाच पाञ्चाली कृतं ते शङ्कयानया । प्रच्छन्नाः सन्ति यत्पञ्च गन्धर्वाः पतयो मम || ८५ ॥ विरूपया विलोकेत यः कश्चन दृगापि माम् । नैव ते तस्य मृष्यन्ति तत्क्षणादेव जीवितम् ॥ ८६ ॥ ४१४ काव्यमाला। विद्यातिरोहितात्मानः सर्वतः संचरन्ति ते । न च दन्तीव सिंहानां तेषां राजापि किंचन ॥ ८७ ॥ ततोऽभ्यधत्त भूपालवल्लभा तर्हि मालिनि । मम लक्ष्मीस्तवैवेयं यथेच्छमुपभुज्यताम् ॥ ८८ ॥ इत्यालप्य दुकूलानि काञ्चनाभरणानि च । परिधाप्यात्मनः पार्थे सुदेष्णा तामतिष्ठिपत् ॥ ८९ ॥ मुखवासं वितन्वाना कुर्वती पत्रवल्लरीः । धम्मिल्लं विविधैः पुष्पैर्ग्रन्थती ललिताः स्रजः ॥ ९० ॥ तैस्तैः सुगन्धिभिर्द्रव्यैरङ्गरागं च पिंषती । नरेन्द्रपल्याः सैरंध्री नीरन्ध्रा मुदमातनोत् ।। ९१ ॥ (युग्मम्' तेऽपि कर्माणि कुवार्णाः स्वानि स्वानि प्रतिक्षणम् । प्रीतिं ताण्डवयामासुः पाण्डवाः पृथिवीपतेः ॥ ९२ ।। केनाप्यविदिताः शश्वद्गत्वा सर्वेऽपि ते निशि । कुन्त्याः पादानवन्दन्त स्थापितायाः कचिद्गृहे ॥ ९३ ॥ अवाप्तैरवदानेषु भूपतेः पारितोषिकैः । ते प्रीत्या परया नित्यमभ्यनन्दन्परस्परम् ॥ ९४ ॥ तेषां सर्वप्रकारेण तत्रान्योऽन्योपकारिणाम् । सेवादुःखमपि प्रायो न मनस्तापमातनोत् ।। ९५ ॥ इति संवसतां तेषां विराटनृपतेः पुरे। त्रयोदशस्य वर्षस्य मासा एकादशाभ्यगुः ॥ ९६ ॥ अथ निध्याय सैरंध्रीं कदाचिदपि कीचकः। सहोदरः मुदेष्णायाः कंदर्पवंशगोऽभवत् ॥ ९७ ॥ दध्यौ च किं रतिभूमौ खर्गलोकादवातरत् । प्राणेशदेहदाहार्ता(त) तस्या वा क्वेदृशं वपुः ॥ ९८॥ १. 'धम्मिल्लविधये पुष्पैर्घनती ललिताः सजः। इति गयपाण्डवचरितधतः पाठ उचितः. २. 'कुर्वती' इत्यपि तत्रैव पाठान्तरम्. पाण्डवचरितम् । इमां रसायनैर्मन्ये तरुणीभूय निर्ममे । रूपेऽस्मिन्न प्रगल्भेत जराकम्प्रोऽन्यथा विधिः ॥ ९९ ।। न चेदस्यास्तनुस्पर्शैः प्रीणितं शिशिरात्मभिः । वपुरेतत्तदानीं मे हविर्भूतं स्मरानले ॥ १० ॥ ममात्मनो रसस्येव तप्तस्य मदनाग्निना । जायेत यद्यवस्थानमस्या धातोरिवाशया ॥ १०१॥ इति संचिन्त्य दीर्णाङ्गः कीचकः स्मरसायकैः । प्रगल्भवदनां कांचिद्दूतीं प्रैषीत्तदन्तिके ॥ १०२ ।। क्षणादभ्येत्य सा तस्याः पुरः कृपणमभ्यधात् । पतिव्रतावतं जाने भवत्या विश्वविश्रुतम् ॥ १०३ ॥ तत एवास्मि सैरंन्ध्रि त्वदभ्यर्णमुपागता । जानासि कीचकं देव्या सुदेष्णायाः सहोदरम् ॥ १०४ ॥ तस्य प्रकाममस्वस्थं वपुरद्य कुतश्चन । न केनापि प्रकारेण स्मेराक्षि खास्थ्यमश्नुते ॥ १०५॥ यदि नाम भवत्पाणिस्पर्शः शाम्यति तद्यथा । अनुभावः सतीनां हि सर्वदोषद्विपंतपः ॥ १०६ ॥ वेगात्तदेत्य कल्याणि निजस्पर्शसुधारसैः । प्रसीद रतये तस्य त्वादृश्यो हि कृपालवः ॥ १०७॥ इति श्रुत्वा वचस्तस्याः कमनीयाक्षरं बहिः । व्यञ्जयन्ती दुराकूलमन्तर्जज्वाल मालिनी ।। १०८॥ कोपादूचे च रे दूति तावकं सविषान्नवत् । मुखे मधुरमादत्ते शीलप्राणानिदं वचः ॥ १०९ ॥ मृत्यवे कीचको नूनं मत्पाणिस्पर्शमिच्छति । सिंहीकरावमर्शेन गोमायुः किमु जीवति ॥ ११० ॥ यदि खरूपमप्येतज्जानीयुः पतयो मम । तदा न ते न तस्यापि.जीवितव्यकथा क्वचित् ।। १११ ॥ ४१६ काव्यमाला । इत्याक्रुश्य भृशं दूतीमा(सा)लिङ्ग्य गलहस्तिता । गत्वा म्लानमुखी सर्वं कीचकस्य न्यवेदयत् ॥ ११२ ।। उपायैर्विविधैरन्यैरपि दानादिभिर्यदा.। प्रयुक्तैरीहते रन्तुं पाञ्चाली न कथंचन ।।.११३ ।। तदान्येद्युर्बलाद्वाहौ रहः कचन कीचकः । करेण धारयामास तां मृणालीमिव द्विपः ॥ ११४ ॥ तस्करस्पर्शमासाद्य ज्वलदङ्गारसोदरम् । तदैव ताम्रतां भेजे दारुवन्मालिनीमुखम् ॥ ११५ ॥ तस्यावधीर्य सैरंध्री चाटूक्ति विषवृष्टिवत् । हठादाकृष्य दोल्लिमाक्रोशमुखरा ययौ ॥ ११६ ।। विलक्षमनसा तेन कीचकेन दुरात्मना । गच्छन्ती सा पदा पृष्ठे ततः कोपादन्यत ।। ११७॥ दीनवक्रा भुवि न्यस्तदृष्टिरसाविलेक्षणा । संसद्युपेत्य भूभर्तुरिति चक्रन्द सा भृशम् ॥ ११८ ॥ राजन्नन्यायदुर्वारपावकमावृडम्बुदः । त्वमेव भुवनेऽमुष्मिन्सर्वदुर्वृत्तशासिता ॥ ११९ ।। पूत्करोमि पुरः कस्य बभूव शरणाद्भयम् । धराधीश यदन्यायं त्वदीया एव कुर्वते ।। १२०॥ स्वप्रतिज्ञातनिर्वाहकोविदाः सत्यवादिनः। परोपकारैकघना भुवि प्रच्छन्नचारिणः ॥ १२१ ॥ ऊर्जस्वलभुजोर्जित्या धर्मधामान्यमर्षणाः।। गन्धवर्पतयः पञ्च यस्याः पञ्चाननोपमाः ।। १२२ ॥ व्यलीकरहितां तां मामनाथामिव दुर्भदः। पतिव्रता पदा पृष्ठे पापीयान्कीचकोऽवधीत् ।। १२३ ॥ (त्रिभिर्विशेषकम् ।। नियतं तेऽपि कुत्रापि न सन्त्येव मम प्रियाः। भवेयुश्चेन्निहन्येत स्पृशन्नेवैष मां यदा ॥ १२ ॥ पाण्डवचरितम् । ४१७ भ्रूकुटीमङ्गभीमास्यो दृशा धर्मात्मजन्मना । मारुतिस्तं क्रुधा हन्तुमुत्थास्यन्विनिवारितः ॥ १२५ ॥ ततो ज्ञातेयदाक्षिण्याकिंकर्तव्यत्वमोहिते । किंचिदप्रतिपेदाने राज्ञि तूष्णीकताजुषि ॥ १२६ ॥ असंस्तुत इवोत्थाय मध्येसंसद्युधिष्ठिरः। औदासीन्यजुषा वाचा सैरंध्रीमित्यभाषत ।। १२७ ॥ तादृशास्तव चेत्सन्ति प्रिया वदसि यादृशान् । ते न नाम सहिष्यन्ते त्वां प्रत्यविनयं द्विषः ॥ १२८ ॥ तद्गच्छ गच्छ सैरंध्रि खस्थानं किं नु रोदिषि । विद्धि कीचकमन्यायदावपावककीचकम् ॥ १२९ ॥ उदासीनवदित्युक्ता द्रौपदी धर्मसूनुना । संवृत्य शोकसंरम्भमन्तःपुरमगात्पुनः ॥ १३०॥ कीचकस्यानये तस्मिन्निर्माय गजमीलिकाम् । पृथिवीपतिरास्थानादुत्थायाभ्यन्तरं ययौ ॥ १३१ ॥ तस्यामेव निशीथिन्यामविज्ञाताथ केनचित् । जगाम द्रौपदी मन्दपादपातं महानसे ॥ १३२ ॥ चरणामुष्ठमानम्य याज्ञसेनी शनैः शनैः । तत्र जागरयामास सुखसुप्तं वृकोदरम् ॥ १३३ ॥ सोऽब्रवीत्प्रेयसीं देवीं (वि) किमशूणि विमुञ्चसि । दीर्घदीर्घाश्च निश्वासान्भाषसे चातिगद्गदम् ॥ १३ ॥ साप्यूचे पृच्छसि स्वामिन् किं नामासंविदान(त)वत् । किं न हन्त त्वमद्राक्षीः कीचकाविनयं मयि ॥ १३५ ॥ भवन्तोऽद्यापि जीवन्तमात्मानं मन्वते किमु । प्रेयसी पश्यतां येषामपरैः परिभूयते ।। १३६ ॥ शौर्यं सत्त्वमहंकारश्चण्डिमा भुजदण्डयोः । जगाम सर्वमप्येतन्मन्ये लक्ष्म्या सहैव वः ॥ १३७ ॥ ४१८ काव्यमाला। ! पक्षिणोऽपि प्रियां वीक्ष्य सपत्नान्यपराभवाम् । 'न ह्यलंभूष्णवः सोढुं किं पुनर्मानशालिनः ॥ १३८ ॥ इत्यादिभिः प्रियावाक्यैर्मत्सितो मरुतः सुतः । ज्वलन्नंपत्रपानम्रमौलिनींचैरवोचत ।। १३९॥ : कथं दुरात्मनो देवि तस्यैतावदहं सहे । ध्रुवः संज्ञा तदार्यस्य प्रत्यूहाय न चेद्भवेत् ॥ १४० ॥ प्रातस्तु यदि कीनाशदासतां लम्भये न तम् । कदापि गणयेद्देवि मा स तत्पुरुषेषु माम् ॥ १४१॥ परं कामातुरः स त्वां प्रातर्भूयोऽपि योक्ष्यते । नारीषु सिद्धये काममवैलक्ष्यं हि कामिनाम् ॥ १४२ ॥ स च त्वयाभियुञ्जानो माननीयो मनस्विनि । निहन्तुमनसा पीनमामिषं हि न धीयते ॥ १४३ ॥ ततः किरीटिनो नाट्यशालायां शीलशालिनि । गृह्णीयास्तेन संकेतं निशीथसमये निशि ॥ १४४ ॥ त्वदीयेनैव वेषेण तत्राहं पुरतो गतः । तज्जीवितं हरिष्यामि निबिडालिङ्गनाच्छलात् ॥ १४५॥ इत्यालोच्य रहः कान्तां विससर्ज वृकोदरः। निर्ययौ निभृतन्यस्तपदं सापि महानसात् ॥ १४६ ॥ अप्सरोजित्वराकल्पशिल्पेनाधिकशालिनी । आकृषन्ती विशेषेण कामिनीनामपीक्षणे ॥ १४७ ॥ द्रावयन्ती मनः कामं कृष्णा लीलावलोकितैः । कीचकाय प्रगे तस्थे राजवेश्मप्रवेशने ॥ १४८ ॥ (युग्मम् । तां प्रेक्ष्य पदमप्येकं जातस्तम्भः स नाचलत् । तत्पृष्ठचरणाघातपातकेनेव यन्त्रितः ॥ १४९ ॥ स्वेदोदबिन्दुसंदोहैस्तस्य दन्तुरितं वपुः । द्रौपदीस्पर्शपापेन जातस्फोटमिवाभवत् ।। १५०॥ पाण्डवचरितम् । तद्वपुर्बद्धरोमाञ्चनरकक्रोडभाविमिः । सर्वे विद्धमिहैवाभूदयःशू(सू)चीचयैरिव ॥ १५१ ॥ कृष्णापि तं तथैक्षिष्ट विग्यस्निग्धैरिवेक्षणैः । स प्रकामं यथा मेने तामात्मन्यनुरागिणीम् ।। १५२ ॥ शनैः शनैः समभ्येत्य दीनैर्दीनैर्वचःक्रमैः । । सोऽथ तामर्थयांचक्रे तद्गिरं साप्यमन्यत ।। १५३ ।। तमभ्यधत्त सैरंध्री निशीथे नाट्यवेश्मनि । स्थास्याम्यहमुपागम्य तत्रागच्छेद्भवानपि ॥ १५४ ॥ इति संकेतमादाय द्रौपद्यन्तःपुरं ययौ । कीचकोऽप्युल्लसत्प्रीतिरन्तिकं नृपतेरगात् ॥ १५५ ॥ देवताराधनस्तैस्तैः कीचकस्याभिलष्यतः । प्रियः सुहृदिवागच्छत्कथंचिद्दिवसात्ययः ।। १५६ ॥ भाविनीमापदं पश्यन्सुदेण्णासोदरस्य ताम् । शङ्के पङ्कजिनीनाथस्तदुःखादस्तमाययौ ॥ १५७ ॥ यथा यथातिपीवानो बभूवुस्तिमिरोर्मयः । पीवतामाप हर्षोऽपि कीचकस्य तथा तथा ॥ १५८ ॥ अथ बिभ्रत्यहंकारमन्धकारे वृकोदरः। निर्माय मालिनीवेषमविशन्नाट्यवेश्मनि ॥ १५९ ॥ कीचकोऽपि तमस्काण्डताण्डवाडम्बरोल्वणे । वासयन्नङ्गसौरभ्यर्दिशस्तस्मिन्नुपागमत् ॥ १६० ॥ स नखाघातसंकेतं द्वारि तिष्ठन्नसूत्रयत् । भीमोऽप्यन्तः स्थितस्तूर्ण हुंकारमकरोच्छनैः ॥ १६१ ॥ प्रविश्य नृपतेः श्यालस्तरङ्गितमनोभवः । जगाद मुदितो भीमं सैरंध्रीवेषधारिणम् ॥ १६२ ।। एहि देवि सरभि दोमणालैहिमोपमैः।। अङ्गं निर्वापयालिङ्गय मन्मथज्वलितं मम ॥ १६३ ॥ ४२० काव्यमाला। इत्यालपन्तमायान्ते तमभ्येत्य वृकोदरः । सप्रेम च तथालिङ्गाद्यथासोऽगात्परासुताम् ॥ १६४ ॥ नाट्यौकसो बहिस्तस्मान्मारुतिः कीचकं भुवि । मांसपिण्डीभवद्देहं गवाक्षेण ततोऽक्षिपत् ॥ १६५ ।। मरुत्सुतः कृतात्मीयवैरिनिर्यातनस्ततः । मेदुरानन्दमागत्य खपिति स्म महानसे ॥ १६६ ॥ तथाभूतं च लोकेभ्यः प्रातर्विज्ञाय कीचकम् । शतं शोकोर्मिविवशास्तस्याधावन्त बान्धवाः ॥ १६७ ॥ तं तथाविधमालोक्य महीतलविलोठिनम् । ते सर्वे तारपूत्कारमरुदन् शोकविक्लवाः ॥ १६८ ॥ तेषां नेत्रतडागेषु स्वबन्धोर्वधकारिणि । अमर्षग्रीष्मधर्माशुरश्रुवारीण्यशोषयत् ॥ १६९ ।। यदा विलोकयन्तोऽपि भ्रातुर्नाज्ञाशिघुषिम् । तदा सर्वेऽपि संभूय ते पर्यालोचयन्मिथः ॥ १७०॥ पूर्वमप्यस्य जानीमो मालिन्यामनुरागिताम् । भ्रातुनः सैच तन्नूनमभवन्मृत्युहेतवे ॥ १७१ ।। तदीयदयितैरेव बन्धुर्नों नियतं हतः। कथंचिन्नोपलभ्यन्ते ते च प्रच्छन्नचारिणः ॥ १७२ ।। तदेतामेव सैरंध्री सहानेन खबन्धुना । चितावैश्वानरे क्षिप्त्वा क्रोधं विध्यापयामहे ॥ १७३ ॥ इत्यालोच्य चितावहौ निजेन सह बन्धुना । प्रक्षेप्तुमनसोऽभ्येत्य मालिनीमाकृषभुजे ॥ १७४ ।। बलादाकृष्यमाणा तैरिति पूत्कुरुते स्म सा । जयो जयन्तो विजयो जयसेनो जयबलः॥ १७५॥ यूयं चेत्कापि वर्तध्वे तन्मां रक्षत रक्षत । एतैश्चितानले क्षेप्तुं नीयमानां दुरात्ममिः ॥ १७६ ।। पाण्डवचरितम् । ४२१ इत्यस्याः कृपणां वाणीमाकर्ण्य पवनात्मजः। क्रोधाद्दूरोच्छलत्फालं धावति स महानसात् ॥ १७७ ।। सोऽब्रवीत्तान्किमेतां भो बलादाकृष्यथ स्त्रियम् । अस्यां कुत्रापि किं नाम कश्चिदस्त्येव न प्रभुः ॥ १७८ ॥ तेऽप्यूचुर्बल्लवैतस्य मृत्यवे सोदरस्य नः । इयमेवाभवत्कोऽपि हन्ता तु ज्ञायते नहि ॥ १७९ ॥ यं निहत्य बलाद्वैरमात्मनः शमयामहे । चितामध्ये निधास्यामस्तदिमामेव पुंश्चलीम् ।। १८० ॥ भीमोऽभ्यधायघादेवमन्यायं वः सहोदरः। रिरंसुः परवामाक्षीं तत्फलं चाप्यवाप्तवान् ।। १८१॥ किं नामाबिभ्यतो यूयं स्त्रीहत्यापातकादपि । द्वैतीयीकां कुरुध्वेऽमुं लप्स्यध्वेऽस्य न किं फलम् ॥ १८२ ॥ ज्ञातेययन्त्रितो वश्चेन्नृपोऽन्याय सहिष्यते । नोदेष्यति शिरःशूलं किमन्यस्यापि कस्यचित् ।। १८३ ।। तेऽथाभ्यधुः क्रुधा शक्तिर्यस्यास्ति भुजदण्डयोः । इमामवतु सोऽस्माभिः क्षिप्यमाणां चितानले ॥ १८४ ॥ ततस्तान्निकटं भीमः कमप्युत्पाट्य शाखिनम् । कीचकस्यावधीद्वन्धूछतमप्येकहेलया ॥ १८५ ॥ बल्लवेन हताः पेतुः मुदेष्णाबन्धवो मुवि । जघ्निरे साधु दुर्वृत्ता इत्युदस्थात्तु लोकवाक् ॥ १८६ ।। स्वस्थानं मालिनीं प्रेष्य हतारातिमतङ्गजः । गुहामिव हरिभीमो ययौ निर्भीर्महानसम् ॥ १८७ ।। ततो बन्धुवधक्रोधस्फुरदोष्ठभयंकरा । सुदेष्णा भूपमभ्येत्य बभाषे साश्रुलोचना ॥ १८८ ॥ आर्यपुत्र तवायं मे प्रसादोऽपि विडम्बना । हन्यन्ते बान्धवा यस्याः पश्य कर्मकरैरपि ॥ १८९ ॥ ४२२ काव्यसाला। तदेकः कीचकारातिस्तावन्न ज्ञायते क्वचित् ।।. बल्लवस्त्वयमस्त्येव पापस्तद्वन्धुघातकः ॥ १९० ॥ सैन्यैः समस्तैरप्यद्य न चेदेन हनिष्यसि । नूनमात्मानमुद्बध्य ततस्त्यक्ष्यामि जीवितम् ॥ १९१ ।। राजाथ सान्त्वयन्वाक्यैः कोमलैः कोमलैः प्रियाम् । पाणिनोदश्रुणी नेत्रे पुंस(प्रोन्छ)यन्निदमभ्यधात् ॥ १९२ । देवि दुर्नयमप्युच्चैस्त्वद्दाक्षिण्यादहं सहे । बन्धूनां ते न खल्वन्ये सहन्ते भुजशालिनः ॥ १९३ ॥ ब्रूषे तथापि यत्किचित्तन्मृगाक्षि करोम्यहम् । बल्लवोऽयं परं सर्वं सैन्यं हन्यात् खलीकृतः ॥ १९४ ॥ तस्यान्यस्तु वधोपायः संप्रत्यस्त्येव भामिनि । बुद्ध्यैव हि निहन्यन्ते दुर्जयाः परिपन्थिनः ॥ १९५ ॥ आगतो धार्तराष्ट्रस्य राज्ञो मल्लमतल्लिका । वृषकपरनामास्ति पुरेऽसिन्हस्तिनापुरात् ॥ १९६ ॥ जितानेकाहवः सर्वान्स च मल्लानधिक्षिपन् । नाखर्वभुजगर्वेण बल्लवेन सहिष्यते ॥ १९७ ॥ ततः शश्वत्कृताभ्यासः कदाचिदकृतश्रमम् । स एवामुं दुरात्मानं निहनिष्यति बल्लवम् ॥ १९८ ।। इति पृथ्वीपतिः प्रेम्णा मृदुभिर्मदुभिः पदैः । सान्त्वयित्वा शनैः प्रैषीदन्तरन्तःपुरं प्रियाम् ॥ १९९ ॥ मल्लवर्गतिरस्कारकारणं दृषकपरम् । बल्लवोऽन्येद्युराह्वास्त नियोद्धुं नृपतेः पुरः ॥ २०० ॥ ततोऽक्षवाटमुक्षेशवलक्षसिकवाचितम् । भूपतिः कारयांचके तन्नियुद्धकुतूहली ॥२०१॥ इमं च परितो मचान्सुरेन्द्रसदनोपमान । धराधीशोऽधिरोहाय राजन्यानामकारयत् ॥ २०२ ॥
- पाण्डवचरितम् ।
४२३ दिव्येऽन्यस्मिंस्ततो मञ्चे रत्नभण्डपिकातले। मणिसिंहासनेऽभ्येत्य भूमीपतिरुपाविशत् ॥ २०३ ॥ ततो निदेशमासाद्य विराटवसुधाभुजः । सर्वेऽप्यारुरुहुर्मश्चान्सामन्ताः सपरिच्छदाः ॥ २० ॥ यद्यप्यरिजयं भीमे न ते संशेरते कचित् । आययुस्तदपि त्रस्तमनसो धर्मजादयः ॥ २०५॥ स्थेयांसौ बिभ्रतावंसौ कस्तूरीस्तबकाङ्कितौ । । चन्दनालिप्तसर्वाङ्गौ चण्डचण्डातकांशुकौ ॥ २०६॥ सद्यविन्ध्याविवाध्यक्षौ मल्लश्रेणिशिरोमणी । तौ ततो विशतां रङ्गं वृषकपरवल्लवौ ।। २०७॥ (युग्मम्). असौ कृतश्रमो मल्लो बल्लवस्त्वकृतश्रमः । नियुद्धमनयोर्युक्तं नादधे वसुधाधिपः ॥ २०८ ॥ परं श्यालारिरस्यायं हन्तव्योऽस्ति यथा तथा । निनिन्द मेदिनीनाथमिति सर्वस्तदा जनः ॥ २०९ ॥(युग्मम्) कन्दरादारिणोऽद्रीणां भुजास्फोटरवास्तयोः । तदा चक्रुर्जगत्सर्वं विद्राणश्रवणेन्द्रियम् ॥ २१० ॥ कम्पयन्तौ भुवं पादैर्ददानौ तलहस्तकान् । ततस्तौ विविधैर्मङ्गैर्बद्धमुष्टी प्रसर्पतुः ॥ २११ ॥ आश्वेव हन्तुमीशोऽपि बल्लवो दृषकपरम् । नेत्रोत्सवाय लोकानां कंचित्कालं व्यलम्बत ॥ २१२ ॥ अभूतां शतशस्तत्र तयोर्जयपराजयौ । विन्ध्यधात्रीधराटव्यां मत्तमातशयोरिव ॥ २१३ ॥ बल्लवेनाथ कस्मिंश्चिदानीय निजबन्धने । 'प्राणप्रयाणदीनास्यो बभञ्ज वृषकपरः ।। २१४ ॥ बल्लवस्य जये हृष्यल्लोककोलाहलो महान् । उदस्थादवनीभर्तुः सहैव पुलकाङ्कुरैः ॥ २१५ ॥
f H $ ४२४. काव्यमाला। सहायो विधुरे देवि नेदृशः क्वापि लभ्यते । प्रसीदासिंस्तदित्येवं भूपः कान्तामसान्त्वयत् ॥ २१६ ॥ हन्त पौरोगवेनाथ विराटस्य महीशितुः । वृषकर्परमाकर्ण्य चरेभ्यो धृतराष्ट्रभूः ॥ २१७ ॥ कर्णदुःशासनद्रोणगाङ्गेयसुबलात्मजान् । प्रद्विष्टमतिरेकत्र मीलयित्वेत्यमन्त्रयत् ॥ २१८ ॥ (युग्मम् ) कृत्योपायः पुरा चक्रे हन्तुं यः पाण्डुनन्दनान् । सोऽयं सुरोचनस्यैव प्रत्युत प्राभवत्क्षणात् ॥ २१९ ।। छन्नं च वसतः कापि समामेतां त्रयोदशीम् । पाण्डवान्संप्रति ज्ञातुं प्राहैषं वृषकर्परम् ।। २२० ॥ शतकोटिकठोराङ्गं सर्वसिन्नवनीतले । विना भीममलंभूष्णुर्जेतुमेनं न कश्चन ।। २२१ ॥ कुत्रापि यदि गुप्तोऽपि भवेदनिलनन्दनः । नूनं तन्न सहेतास्य भुजाहंकारडिण्डिमम् ॥ २२२ ।। युध्यमानोऽमुना भीमश्चेन्निहन्येत तन्मम । हतः स्यादहितो हन्यात्स वामुं विदितो भवेत् ॥ २२३ ॥ इत्याकूतवतो(ता) मल्लग्रामणीः प्रहितो मया । स मेदिनीं क्रमात्क्रामन्विराटलगरं ययौ ।। २२४ ।। तस्मिंश्च तस्य भूभर्तुः सूपकूद्वषकर्परम् । जघानेति श्रुतिर्जाने तन्नूनं स वृकोदरः ॥ २२५ ।। स यत्रास्ति ध्रुवं भाव्यं तत्रान्यैरपि पाण्डवैः । राजयक्ष्मा हि न श्वासकासश्लेष्मादिभिर्विना ॥ २२६ ॥ परं ते चेदतिव्यक्तिमानीयन्ते कथंचन । तत्तानुच्छेत्तुमुत्सेको मदीयः सफलो भवेत् ।। २२७ ॥ विराटपुरसंरोधप्र(पू)ष्टैरौपयिकैरपि । न ते व्यक्तिमुपेष्यन्ति तैरमीषां तु का कथा ।। २२८॥ पाण्डवचरितम् । ४२५ किं तूभयोर्दिशोस्तत्र कृते जीवधनग्रहे । भजेयुः प्रकटीभावं ते दयामयचेतसः ॥ २२९ ॥ अस्माभिस्तद्भहे पूर्वमेकस्यां विहिते दिशि । धाविष्यते धराधीशः स्वसैन्यैरखिलैरपि ।। २३० ।। अन्यस्यां तु कृते तस्मिशून्यतां नगरे गते । निर्यास्यन्ति स्थिताः पश्चात्पाण्डवा एव केवलम् ।। २३१ ॥ तदेव पाण्डवेयेषु गतेषु स्फुटतां भृशम् । संरप्स्येऽहं तदुच्छेदहेतवे पृतनोमिमिः ॥ २३२ ।। इत्यालोच्य बलैः कैश्चित्सारैर्दन्तुरयन्दिशः । विराटपुरमभ्येतुं प्रतस्थे धृतराष्ट्रभूः ॥ २३३ ॥ तदश्वीयखुरोत्खातरजःस्थगितमण्डलः। तस्यान्यायमिवाद्रष्टुं रविरागाददृश्यताम् ।। २३४ ॥ मूर्तिमद्भिरिवाधर्मेस्तस्याश्वबलपांसुभिः । पतद्भिरखिलाः शेषमनीयन्त समुद्रगाः ।। २३५॥ कुरुगोत्रप्रदीपस्य सांप्रतं ते न दस्युता । इत्याख्यातुमिवैतस्य मारुतोऽभिमुखं ववौ ।। २३६ ।। युक्तं न तव कर्मैतत्कर्मसाक्षिणि पश्यति । इत्याख्यात्य इव शिवाः सूर्यस्याधो वासि(शि)रे ॥ २३७ ॥ अथाविदित एवायं प्रयाणैरविलम्बितैः । विराटनगराभ्यासमाससाद सुयोधनः ॥ २३८ ॥ ततोऽभ्यणे समायान्तं द्रोणकर्णादिभिः सह । भीत्या चराः स्खलद्वाचो विराटखाचचक्षिरे ॥ २३९ ॥ ततः स्वसैन्यसभारभारभङ्गुरितक्षितिः । गान्धारेयमभिक्षोणिपतिर्यावत्प्रतिष्ठते ॥ २४ ॥ तावद्व्रणितनिःशेषवर्ष्माणो बाणपङ्क्तिभिः । आगत्य मन्दिरद्वारि पूत्कुर्वन्ति स्म बल्लवाः ॥ २४१॥ ४२६ काव्यमाला। भूरिभिर्बलसंभारैरागत्य प्रणिहत्य नः । कुरुभूपालगृह्येण नरेन्द्रेण सुशर्मणा ॥ २४२ ॥ दक्षिणस्या दिशः सर्वे नीयन्ते सुरभीगणाः । क्षानं धर्म पुरस्कृत्य ततो धावत धावत ॥ २४३ ॥ इत्युपाश्रित्य गोपानां गिरः करुणपीवराः । भूपतिर्गोगणत्राणमैच्छत्पाणैरपि क्षणात् ॥ २४४ ॥ गोमुनिब्राह्मणभ्रूणस्त्रैणत्राणे हि साधवः । प्राणानपि तृणीयन्ति यशो हि किल तत्प्रियम् ॥ २४५ ॥ संग्रामरसवाचालैर्बलैस्तुमुलयन्दिशः । ततः सर्वाभिसारेण प्रतस्थे पृथिवीपतिः ॥ २४६ ॥ (युग्मम्) रणकौतूहली तत्र कृतगाण्डीवताण्डवः । विमुक्तवनितावेषः सैष द्राग्भविता स्फुटः ।। २४७ ॥ इत्यालोच्य व्यवस्थाप्य कथंचन किरीटिनम् । विराटेन समं सर्वे पाण्डवेयाः प्रतस्थिरे ।। २४८ ॥ आयुधानि समानीय सहदेवः शमीतरोः । यथात्मीयसमग्राणामग्रजानां तदार्पयत् ॥ २४९ ॥ विराटभूभुजो वाजिसैन्यैर्धावद्भिरुद्धतम् । क्षुण्णा क्ष्मा शरणं रेणुव्याजाद्विष्णुपदं ययौ ॥ २५० ॥ यमप्रतिममालोक्य नृपमेनममूः खियः । कम्पिष्यन्तेऽधुनेतीव पांसवः पिदधुर्दिशः ।। २५१ ॥ मा गाश्चौर विशंसन्त इव कामं सुशर्मणः । कर्णजाहमगाहन्त तस्य निखाननिखनाः ॥ २५२ ॥ कानप्यधिकवाचालान्प्रेष्य वैतालिकोत्तमान् । त्वरमाणं सुशर्माणं स्थापयामास पार्थिवः ॥ २५३ ॥ जातशर्मा सुशर्मापि विराटाय महीभुजे । निधाय धैनुकं पृष्ठे सर्वैः सैन्यैरतिष्ठत ॥ २५४ ।। पाण्डवचरितम् । ४२७ उभयोरपि नासीरशौण्डीराणां शराशरि । रणः क्षणमभूत्पीत्तपत्तङ्गकरपञ्जरः ॥ २५५ ॥ अलभन्त रणोत्सङ्गबद्धोत्सेका गुणस्पृशः । धानुष्केभ्यस्तदा लक्ष्यमुभयेऽपि हि मार्गणाः ।। २५६ ।। परस्परस्य विशिखैः खण्डिता शरमण्डली । अधोमुखी सखेदेव भूपत्यङ्कतलेऽपतत् ॥ २५७ ॥ सैन्ययोरुभयोर्बाणैर्विलूनावयवावलिः । दुर्धरो रुधिरोदारित्रणः प्रववृते रणः ॥ २५८ ॥ कच्छपायितमूर्द्धानो मीनायितकराङ्घ्रयः । पङ्कजायितपाण्योघाः प्रसस्रुरसृगापगाः ॥ २५९ ॥ चक्रिरेऽथ विराटस्य भटैः सैन्याः सुशर्मणः । पाश्चात्यगामिनोऽम्भोधितरङ्गैनिम्नगोर्मिवत् ।। २६० ॥ अथोत्तस्थे बलैः कैश्चित्सारैः स्फारैः सुशर्मणः । दवाग्निनेव निःशेष वैरिकक्षं दिधक्षुणा ॥ २६१ ।। कृतस्वैरस्वरास्तीव्राः शस्त्रज्वालाकरालिताः । विहङ्गमा इवानश्यन्विराटस्यापि सैनिकाः ॥ २६२ ॥ एकाङ्गवीरयोः कामं संगरोऽभूदमङ्गुरः । द्वयोरपि तयोरन्तर्वणं पोत्रीन्द्रयोरिव ॥ २६३ ॥ जयलक्ष्मीः शरासारवर्षदुद्धर्षतेजसोः । एकमप्यनयोरात्ममृत्युभीतेव नाश्रयत् ॥ २६४ ॥ एकस्मिन्नतिविक्रान्ते स्वर्गिणां पुष्पवृष्टयः । पतन्त्योऽन्यशरैर्मार्गच्छेदच्छेकैर्न सेहिरे ॥ २६५ ॥ समाप्तिमागते शस्त्रप्राग्भारे तावुभावपि । रथादुत्तीर्य दोर्युद्धमतिक्रुद्धौ वितेनतुः ॥ २६६ ॥ विराटं विकटाभोगैर्मुजदम्भोलिकेलिभिः । सुशर्मा हतकर्माणमावध्य स्वे रथेऽक्षिपत् ॥ २६७ ॥ ४२८ काव्यमाला। अथालोक्य तथा कङ्क: सातङ्कमवनीपतिम् ।। भीममाहूय दाक्षिण्यक्षीराम्भोनिधिरभ्यधात् ॥ २६८ ॥ वत्स संवत्सरः सोऽयमस्माभिर्गमितोऽखिलः । एतत्साहायकेनैव तदेनं किमुपेक्षसे || २६९ ।। निहत्य क्रूरकर्माणं सुशर्माणं क्षणादमुम् । विराटपृथिवीनाथं विमोचयितुमर्हसि ॥ २७० ।। उद्धर्तव्यः सतामापन्निमग्नोऽनुपकार्यपि । किं पुनः कृतसर्वस्वोपकारोऽयं महामनाः ॥ २७१ ॥ इत्यादेशगिरा ज्येष्ठबन्धोः पवननन्दनः । हन्तुकामः सुशर्माणमधावत सबान्धवः ॥ २७२ ।। विभाव्य भीममायान्तं दोःशृङ्गस्थगदाद्रुमम् । भ्रातृभिर्गण्डशैलाभैर्गिरीन्द्रमिव जङ्गमम् ॥ २७३ ॥ पुनः काका इवोपेताः संबिभत्कुञ्जया(?)मिषम् । दिशो दिशि पलायन्त सुशर्मपृतनाचराः ॥ २७४ ॥ पर्वतं कुलिशेनेव देवो गोत्रनिषूदनः । सुशर्मणो मरुत्सनुर्बिभेद गदया रथम् ॥ २७६ ॥ भीमस्तुतीरिव ऋष्टुमनिर्यान्तीरिं प्रति । क्षिपन्तमङ्गुलीर्वक्त्रे तं जीवन्तममुञ्चत ॥ २७६ ॥ विराटभूपतिं भीमो विधाय गतबन्धनम् । आवध्य पुनरात्मीयैर्गणैरारोपयद्रथम् ॥ २७७ ।। पाण्डवानामुदात्तं तद्विभाव्य चरिताद्भुतम् । प्रीतिप्रह्वीभवचेताश्चिन्तयामास पार्थिवः ।। २७८ ॥ कौतुकारकेऽप्यमी देवाः किं धरित्रीमवातरन् । विस्मृत्य युगमेतद्वा धात्रा विदधिरे नराः ॥ २७९ ॥ किं वा कृतयुगस्यैव नराः कतिचिदुद्धृताः । स्फुरत्यैदंयुगीनं हि नामीपां पुरुषत्रतम् ॥ २८० ॥ पाण्डवचरितम् । ४२९ न भवेयुः सहायाताश्चेदमी समरे मया । क्रूरैस्तन्मे समाप्येत कथापि परिपन्थिनः ॥ २८१ ॥ सुशर्माम्भोधरारब्धो मद्यशश्चन्द्रविद्रवः । वल्लवेनानलेनेव रक्षितः सोऽयमक्षतः ॥ २८२ ।। विचिन्त्येति महीपाल: प्रीतिपर्यश्रुलोचनः । निमीलितकराम्भोजकुमलस्तानभाषत ।। २८३ ॥ कङ्कश्रीकेलिपल्यङ्क वल्लव प्रीतिपल्लव । तन्तिपालद्विपत्कालग्रन्थिकाप्रतिपन्थिक ।। २८४ ।। एषा लक्ष्मीरिदं राज्यमदश्च मम जीवितम् । अद्यप्रभृति युष्माकमेवैतलिमतः परम् ॥ २८५ ।। यौष्माकीणभुजौर्जित्यफलकेनैव संप्रति । सत्कीर्तयो ममोत्तेरुः सुशर्मविपदार्णवम् ॥ २८६ ॥ इत्युच्चैः स्तुतिवाचाले भूपाले पुलकाङ्कित्ते । उपावनतमूर्धानः पाण्डवेया बभाषिरे ॥ २८७ ॥ अनुभावस्तवैवायं जयामो यदरीन्वयम् । महोभिमिहिरस्यैव हन्ति ध्वान्तं यतोऽरुणः ।। २८८ ॥ इत्युदीर्य भटान्वाक्यैः संभाण्यापत्रपाहरैः । गाः समस्ताः पुरस्कृत्य भूत्वा भूमिपतेः पुरः ॥ २८९ ॥ नेत्रनीलाजमालाभिरर्चिताः पृतनाचरैः । विश्वं विस्मापयन्तस्ते चलन्ति स पुरं प्रति ॥ २९० ॥ (युग्मम् ) किंभविष्यत्तया मूकमागत्य नृपतिः पुरम् । चिन्ताचान्तपरीवारं राजमन्दिरमाविशत् ।। २९१ ॥ बहिः संस्थाप्य कङ्कादीन् सशङ्कोऽन्तःपुरं ययौ। वीक्ष्य मेदस्विखेदां च सुदेष्णामवदन्नृपः ।। २९२ ॥ विच्छायं ते मुखं देवि किं प्रगे मृगलक्ष्मवत् । मत्कीर्तिवल्लरीकच्छः क्व वत्सोऽगच्छदुत्तरः ॥ २९३ ॥ काव्यमाला। साब्रवीदेव युष्मासु धावितेष्वनुगोग्रहम् । एत्य मध्यंदिने कश्चित्पूत्करोति स्म बल्लवः॥ २९४ ॥ तमूचे विक्रमाधारः कुमारः खेदकारणम् । कृच्छ्रात्तदाचचक्षेऽसौ दक्षिणेर्मवपुः शरैः ॥ २९५ ॥ उत्तरस्यां दिशि द्रोणभीष्मकर्णादिभिः सह । खयं दुर्योधनोऽभ्येत्य सौरभेयीरचालयत् ।। २९६ ॥ ततः सर्वेऽपि संभूय बल्लवास्तमयोधयन् । तव प्राणपरित्यागाद्वामानृण्यमाययुः ॥ २९७ ।। किंवदन्तीहरस्तेषामेक एवासि जीवितः। सन्ति चाद्यापि गावस्तान्पतितान्परितः स्थिताः ॥ २९८॥ इत्याख्यातं मया तावद्विराटतनयस्य ते । कुमारस्फारदोःसार तद्यथोचितमाचर ॥ २९९ ॥ इत्याकर्ण्य वचस्तस्य वत्सः स्फुरितमत्सरः । शौडीरिमसरोमाञ्चः सखेदमिदमभ्यधात् ।। ३०० ॥ सहापि द्रोणकर्णाद्यैः को नु दुर्योधनो मम । पपौ बलिमुकुन्दाद्यैः सहैव मुनिरर्णवम् ॥ ३०१ ॥ जयः किंतु न विज्ञेन रणे सारथिना विना । विश्वदाहक्षमोऽप्यग्निर्न ज्वलत्यनिलाहते ॥ ३०२ ।। तमभ्यधान्मदाभ्यर्णवर्तिनी मालिनी ततः । योऽयं तूर्यत्रयाचार्यो भगिन्यास्ते बृहन्नटः ॥ ३०३ ॥ जानीहि तममुं सर्वसारथीनां शिरोमणिम् । कोटिशोऽयं मया दृष्टः प्रेरयन् रथवाजिनः ॥ ३०४ ॥ ततः क्लीयोऽयमित्युचैर्विचिकित्सापरोऽपि सन् । त्वत्तनूजः समाहूय वितेने सारथिं रथे ॥ ३०५ ॥ गृहीतास्त्रेण तेनाथ प्रयुक्ताश्वमतल्लिकः । सुतोऽभूदभ्यमित्रीणस्त्रबैकाङ्गभटाग्रणीः ॥ ३०६ ॥ पाण्डवचरितम् । तां निशम्य गिरं तस्या भूपतिः सुतवत्सलः । गतमेकाकिनं सूनुमित्यशोचन्मुहुर्मुहुः ।। ३०७॥ ह हा बाहुसहायोऽयं क्षीरकण्ठः क मे सुतः । क्व चेयं वैरिकासारगाहिनी कुरुवाहिनी ॥ ३०८ ॥ तदनीके हि योधानामेकैकस्य पराक्रमैः । हरेर्मनसि वास्तव्या भीतयश्चक्रिरे चिरम् ॥ ३०९॥ तद्दोर्वीर्यानले कीर्तेरायुष्टोमाय जाग्रति । हा भविष्यति तन्नूनं सूनुमें प्रथमाहुतिः ॥ ३१० ॥ इत्यभीक्ष्णं पतिः क्षोणेः शोचन्नूचे ससौष्ठवम् । मालिन्येति न भीः काचित्सहायश्चेद्बृहन्नटः ।। ३११ ॥ भीतिर्नहि भुजङ्गेन्द्रादभ्यर्णस्थे गरुत्मति । न तमस्काण्डभीः कापि भास्करे करवर्तिनि ।। ३१२ ॥ इमा वृहन्नटस्तोत्रकोविदा मालिनीगिरम् । आकर्ण्य कुपितो यावन्नृपः किमपि जल्पति ॥ ३१३ ।। ताबद्धावद्भिरभ्येत्य राजमन्दिरचारिभिः । आगच्छत्युत्तरो दिष्ट्या वर्धितो भूमिवल्लभः ।।३१४ ॥ (युग्मम्) सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षादीयतुः श्रवणान्तिकम् ॥ ३१५॥ अद्भिर्नेत्रघटीयन्त्रमुक्ताभिः प्लाविते मुदा । क्षणाक्षोणीभृतः क्षेत्रे जज्ञिरे पुलकाङ्कुराः ॥ ३१६ ॥ प्रीत्या पृथ्वीपतिर्यावत्तं प्रत्युदन्तुमिच्छति । कुमारस्तावदभ्येत्य पपात पदयोः पितुः ।। ३१७ ।। ततस्तनयमुत्थाप्य गाढमालिङ्गय भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ।। ३१८ ॥ आसीनेषु यथास्थानं सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं कुमारस्तमचीकथत् ॥ ३१९ ।। ४३२ काव्यमाला। यस्मिन्कृप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः। जयः किमिति दुर्लम्भस्तत्र संभाव्यते रणे ॥ ३२० ॥ तादृशा बाहवोऽस्यैव यादृशैर्बैरिनिर्जयः। करा मृगपतेरेव देवदन्तावलद्रुहः ॥ ३२१ ।। इत्युत्तरस्य भारत्या विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूलात्तमुदन्तं विशेषतः ॥ ३२२ ।। अभ्यधत्तोत्तरः स्वामिन्नभावादन्यसारथेः । सारथिं षण्ढमप्येनमादाय समरेऽगमम् ॥ ३२३ ॥ अनेकरथचीत्कारवाचालवियदञ्चलम् । गन्धसिन्धुरसिन्दूरैलॊहितायितपुष्करम् ॥ ३२४ ॥ तुरङ्गमखुरोद्भूतधूलीकन्दलिताम्बुदम् । शौर्यावदातपादातक्ष्वेडाक्षोभितकातरम् ॥ ३२५ ॥ प्लावयन्परितो धात्री कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः ॥ ३२६ ॥ (त्रिमिर्विशेषकम् ) गाङ्गेयो यमयं द्रोणः कर्णोऽसावेष सौबलः। सैष दुर्योधनश्चेति विशेषमविदं ततः ।। ३२७ ।। गतं निःसत्त्वतां सत्त्वं विक्रमोऽभूदविक्रमः। जातमोजोऽप्यनोजखिगर्वोऽप्यागादगर्वताम् ।। ३२८॥ क्षणादत्यजदभ्यास शस्त्राभ्यासः सभीरिव । अतिष्ठत्कुललज्जापि तदानीं पृष्ठतो मम ॥ ३२९॥ (युग्मम् ) केवलं नौरिवाभ्येत्य भयोदन्वति मज्जतः । पलायनमतिर्मेऽभूदैवादभ्यर्णवर्तिनी ॥ ३३०॥ विस्तीर्णवेपथुर्भीत्या ततोऽवोचं बृहन्नटम् । पुरः पश्यसि पाथोधिप्रतिमां वैरिवाहिनीम् ॥ ३३१ भूयोभिरपि मे शुण्येन बाणकलशैरसौ। करैर्हि परिमी(मी)येत किं नाम गगनाङ्गण(न)म् ॥ ३३२ ॥ पाण्डवचरितम् । पलायिष्ये तदाश्वेव कातरं मा स मां वदः। दावानलोऽपि को नाम वर्षति प्रावृडम्बुदे ॥ ३३३ ।। इत्युदीर्य प्रणश्यन्तं स्वामिन्नादाय मां करे। वृहन्नटः ससंरम्भः सावष्टम्भमभापत ।। ३३४ ॥ कुमार युज्यते नैतद्विराटतनयस्य ते । शूरस्यायशसे दृष्टे परानीके पलायनम् ।। ३३५ ।। पश्चादपि प्रयास्यन्ति प्राणा न स्थानवस्तव । यशस्तद्गत्वरैरेभिरर्जनीयमगत्वरम् ।। ३३६ ।। उत्तरेण रणे नष्टमित्यकीर्तिरवस्तव । कीर्तिकोलाहलैस्तैस्तैः पितुर्नो तिरयिप्यते ॥ ३३७ ।। प्रकामं यदि नामासि संग्रामोत्सवभङ्गुरः । तथापि मा पलायिष्ठास्तिष्ठत्येवान्तिके मयि ।। ३३८ ॥ जयन्निव रिपुंश्चेन्मे विभाति भुजविक्रमः । तदानीमवतिष्ठेथाः पलायेयास्त्वमन्यथा ॥ ३३९ ।। किं पुनः सारथीमावं भजस्व मम संप्रति । निहन्मि द्विपतो यावद्रोग्राहिग्रहलौजसः ॥ ३४० ॥ इत्थमेतस्य भारत्या भिया तरलतारकः । स्थितोऽहमुल्लसल्लज्जाभारः सारथ्यमाचरन् ॥ ३४१ ॥ लज्जयारम्भनिर्वाहो मृत्युयुद्धेपु लज्जया । लज्जयैव नये वृत्तिर्लज्जा सर्वस्य कारणम् ॥ ३४२ ।। ततः स्त्रीवेषमुन्मुच्य कलयन्कार्मुकं करे । बृहन्नटः स्फुटानन्दनिस्यन्दं ददृशे न कैः ॥ ३४३ ।। विभाव्य दिव्यमूर्ति च तं तदाहमचिन्तयम् । कोऽप्ययं खेचरः क्रीडातिरोहितवपुः किमु ॥ ३४४ ॥ धनुर्वेद: किमध्यक्षः साक्षाद्वीरो रसो न(नु) किम् । किं वा निःशेषशौण्डीरसौण्डीर्यं पिण्डतां गतम् ॥ ३४५ ॥ 'काव्यमाला। इत्याद्यालोचयन्नास्यखेलदुच्छृङ्लेक्षणः । चिरमाप्तोऽस्मि नो तृप्तिमीक्षमाणो बृहन्नटम् ॥ ३४६ ॥ (निभिर्विशेषकम्) तेनाथ शिखरोन्माथपटीयः पृथिवीभृताम् । चक्रे विपक्षे वक्षाश्मटष्टकारिकार्मुकम् ॥ ३४७ ॥ प्रत्यनीकभीष्मभारद्वाजादिभिस्ततः । वितेने विगतानन्दस्पन्दैः साराविणं क्षणम् ॥ ३४८ ॥ ऊचेऽन्योन्यं पुरः सोऽयमर्जुनः सोऽयमर्जुनः । वर्षतो विशिखानस्य विलोकयत कौतुकम् ॥ ३४९ ॥ परं कस्यापि पश्यामो नेदृशीं सत्त्वसंपदम् । अवस्थाय भुजस्थाम क्षणं वीक्षिष्यतेऽस्य यः ॥ ३५० ॥ ततोऽमी किं द्विषो युद्धं किमेतन्मृत्युरन किम् । विस्मृत्य सर्वमप्येतदानन्दैकमयोऽभवम् ।। ३५१।। अथान्तःखान्तमासीन्मे किमयं पाण्डवोऽर्जुनः । अन्वेनं खलु योद्धारं श्रूयन्ते सांप्रतं भुवि ।। ३५२ ॥ सोऽयं मन्ये नटीभूय दुरनेहसमभ्यगात् । प्रविश्य जलधिं रात्रौ देवोऽप्यभ्येति भानुमान् ॥ ३५३ ।। तत्संप्रत्यस्य सारथ्ये प्रत्यर्थिभ्यो भयं न मे । नारुणोऽर्के हि पृष्ठस्थे तमोभिरभिभूयते ॥ ३५४ ॥ विस्मृतातङ्कनिःशङ्कस्ततोऽहं समराजिरे । यथामनसमेतस्य प्रेरयामासिवान्हयान् ॥ ३५५ ॥ रथो दीप इवैतस्य धावति स्म यतो यतः । तमांसीवारिशौण्डीरा नालोक्यन्त ततस्ततः ।। ३५६ ।। एकतो दोःसहायोऽयमन्यतः कोटिशोऽरयः । नोत्थितः किंतु तैः सेहे पतङ्ग इव तारकैः ॥ ३५७ ॥ एकमेवास्य संधानमपश्यं निकटेऽप्यहम् । पाण्डवचरितम् । ४३५ विस्पष्टं मुष्टिमप्येकं कैशिकन्यायवर्तिनम् ।। ३५८ ।। निर्वाणप्राणसौहार्दाः क्ष्मातले पतयालयः । लक्षशः प्रतिपक्षास्तु निरीक्षांचक्रिरे मया ॥ ३५९ ।। अन्यतेजोऽसहस्यास्य पिधातुं धर्मदीधितिम् । कृपयेव शराश्चक्रुरस्तम्भं दिवि मण्डपम् ।। ३६० ।। द्विषां गाण्डीवनिर्मुक्तैः काण्डैरेतस्य खण्डिताः । हियैव मार्गणाः क्षोणिरेणुष्वास्थमनीनशन् ॥ ३६१ ॥ प्रक्रीडति प्रतापेऽस्य प्रक्षरत्क्षतजा द्विषः । रणधारागृहे धारायन्त्रपुत्रकतां ययुः ॥ ३६२ ॥ यावन्तो वैरिवाहिन्यां भटाः प्रत्येकमेव तैः । आत्मनैव समं जिष्णुयुध्यमानो व्यभाव्यत ।। ३६३ ।। क्रीडत्तत्कीर्तिसीमन्तधुसूणौधैरिवारुणाः । जज्ञिरे रुधिराम्भोभिः सरितः कूलमुगुजाः ॥ ३६४ ॥ रणे चकार कीलालकूलिनीनामुपर्यसौ । संचाराय चिरं कीर्तिरिव सेतुं शरोत्करैः ॥ ३६५॥ पार्थनिर्लनमौलीनां सुरस्त्रीसंगमीयुषाम् । कबन्धैरिवीराणां मुदेव ननृते चिरम् ॥ ३६६ ।। ततः किमपि बीभत्सुशरैराकुलतां गतौ । द्वावपि द्रोणगाङ्गेयौ रणाग्रादपसस्रतुः ।। ३६७ ॥ तन्मनःक्षोभविक्षिप्तमन्दाक्षरपरैरपि । स्था महारथैर्दूर निन्थिरे समरोदरात् ।। ३६८।। नीतां वरूथिनीं पार्थशरौधैर्विशरारुताम् । विलोक्य चकितः कर्णं नियुज्यैतस्य संगरे ॥ ३६९ ।। सौरभेयीः पुरस्कृत्य धृतराष्ट्रतनूरहः । लुण्टाक इव साशङ्कः प्रतस्थे स्वपुरीं प्रति ॥ ३७० ॥(युग्मम्) . कैशिक केशसमूहः. काव्यमाला। स बभूव रणारम्भस्ततः कर्णकिरीटिनोः । यत्रैकोऽपि जयन्नीषे जयलक्ष्म्यापि न द्रुतम् ॥ ३७१ ॥ विलोकितुमिवाश्चर्यात्तयोः समरलाघवम् । उभयोरपि शौण्डीर्यादुत्तस्थुर्मौलिकुन्तलाः ॥ ३७२ ॥ तावुभावपि संग्रामरसरोमाञ्चितं वपुः । पुरैव दधतुः कीर्णमन्योन्यविशिखैरिव ।। ३७३ ॥ वीरयोरुभयोर्बाणैः परस्परपराहतैः । पतद्भिरन्तरालेऽपि राशितामुच्चकैर्गतम् ॥ ३७४ ॥ गच्छन्सोत्सेकमेकस्य प्रतिवीरशरेरितः । उच्चकैरुच्छलन्बाणो गीर्वाणान्दिव्यनीनशत् ।। ३७५ ॥ संग्रामसाम्यमालोक्य मुञ्चता मार्गणानथ । सहैव क्रोधयोधेन द्विगुणः फाल्गुनोऽभवत् ॥ ३७६ ॥ अथ सारथिरालोक्य फाल्गुनेष्टकरालितम् । राधेयमभ्यधान्मूर्ध्नि निधाय प्रणयाञ्जलिम् ॥ ३७७ ॥ गतः सुयोधनस्तावद्दूरमादाय धैनुकम् । ततः स्वामिन्किमात्मानमिदानीं खेदयिष्यसि ॥ ३७८ ॥ सन्ति भूयांसि कार्याणि कार्याणि सुहृदस्त्वया । तदात्मानमकाण्डेऽपि किं मुधा गमयिष्यसि ॥ ३७९ ॥ इत्युदीर्य सशौण्डीर्यरसोत्कर्षादनिच्छतः । रथं कर्णस्य संग्रामादपवाहितवान्बलात् ॥ ३८० ॥ अप्रणाशक्तं वीक्ष्य कर्णमप्यवकीर्णिनम् । मामुत्साह्य ततस्तैस्तैरथवेगाय चाटुभिः ॥ ३८१ ॥ मत्पुरस्तादुरात्मायं गच्छत्यादाय गा इति । अनुदुर्योधनं क्रुद्धो धावति स धनंजयः ।। ३८२ ।। (युग्मम् ) आगच्छत्यर्जुने दूराद्धृतराष्ट्राङ्गजन्मनः । तुषैरिव महावायौ सैनिकैरपचक्रमे ॥ ३८३ ॥ पाण्डवचरितम् । ततः प्रक्षिप्य गाः पृष्ठे सुभटैकधुरंधरः । बभूव सुतदृग्येन सांयुगीनः सुयोधनः ॥ ३८४ ॥ क्षुरपानक्षिपत्तस्मिन् भ्रातेति सदयोऽर्जुनः । सर्वप्राणं (8) स वाणांस्तु मुमुचे सव्यसाचिनि ॥ ३८५ ॥ तथापि नात्यरिच्यन्त पार्थेषुभ्यस्तदाशुगाः । गजेन्द्रगर्जयः किं नु विजयन्ते धनध्वनीन् ।। ३८६ ॥ ततो दौर्योधनं शौर्यमिव साक्षात्कपिध्वजः । चिच्छेद सायकैश्छेकः केतुदण्डं पताकिनः ।। ३८७ ॥ तथापि कौरवे दर्पसर्पदष्टान्तरात्मनि । चैतन्यविकले काममात्मनीनमजानति ।। ३८८ ॥ मनाग्विद्यामनुस्मृत्य जिष्णुरप्राणहारिणम् । कृपालुहृदयोऽमुश्चद्गागवखापनं शरम् ॥ ३८९ ।। (युग्मम्) दुर्योधनयशश्चन्द्रलक्ष्मीलीलामुषस्ततः । क्षणादाक्रान्तदिक्चक्राः प्रसस्नुस्तिमिरोर्मयः ॥ ३९० ॥ उच्चरचण्डगाण्डीवप्रतापोल्काभयादिव । निखिलानीकनेत्राणि निमीलन्ति म निद्रया ॥ ३९१ ॥ ससैन्यस्यापि संजातलज्जानीव भुवस्तले । आयुधानि पतन्ति स्म करात्कुरुनरेशितुः॥ ३९२ ॥ केचिद्धनुरवष्टभ्य रथमाश्लिष्य केचन । सूतमालम्ब्य केचिच्च तस्थुर्योधास्तदाखिलाः ॥ ३९३ ॥ तस्थुषः केतुमाश्रित्य सानीकस्य कुरुपभोः । ततस्तात मया जिष्णुरुत्तरीयाण्यहारयत् ॥ ३९४ ॥ क्षणं नानुबभूवासौ मयापहृतचीवरः । महीयःप्रसरन्मोहसज्जो लज्जारसज्ञताम् ॥ ३९५ ॥ अस्त्रे कारुण्यतस्तत्र संहृते सव्यसाचिना । रिपुसैन्येऽथ चैतन्यमाविरासीत्त्रपाकरम् ॥ ३९६ ॥ 1. 'छको विदग्धः' इति शब्दार्थचिन्तामणिः. काव्यमाला। अथोच्चैश्चकितस्वान्तः सौरभेयीखुरोद्धतैः । संवीताङ्गो रजःपूरैरनेशद्धृतराष्ट्रभूः ॥ ३९७ ॥ प्रक्षरन्तीस्ततः क्षीरमुत्सुकाः प्रतिवत्सकान् । आदाय च बले स्वामिन्नर्जुनीरर्जुनोऽखिलाः ॥ ३९८ ॥ सितांशुरुचिसधीची मूर्ता कीर्तिरिवात्मनः । नागरेभ्यः स्तुतीगृहन्नार्पयद्गाः कपिध्वजः॥ ३९९ ॥ शपथैर्देवपादानामहं तेनासि वारितः । यदाख्येयो न देवाय व्यापृतोऽहं महाहवे ॥ ४०० ।। सर्वश्चाप्येतदेव त्वमाचक्षीथाः क्षितीशितुः । यदानीता मया गावो निर्जित्य कुरुवाहिनीम् ॥ ४०१॥ किं तु मे नैव जिह्वेयमेतदाख्यातुमिश्वरी । स्वशक्तेरतिरिक्तं हि वाणोऽप्युपहस्यते ॥ ४०२॥ यन्मृगेण मृगारीणां श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां प्रस्थपाकं न कश्चन ॥ ४०३ ॥ पुनः स्त्रीवेषमादाय वयं तु विजयोऽधुना । नाट्यशालामगाद्देवपादाभ्यर्णे प्रहित्य माम् ॥ ४०४ ॥ इत्युत्तरगिरं श्रोत्रसुधाकादम्बिनीं नृपः। आसाद्यासीन्नवोन्मीलन्मेदुरानन्दकन्दलः ॥ ४०५ ॥ स प्रेक्ष्य नाट्यशालायां धरित्रीशोऽथ वेत्रिणम् । पराक्रममिवाध्यक्षं धनंजयमजूहवत् ।। ४०६ ॥ तमानन्दाश्रुभिः सार्धे सहैव पुलकाडरैः । आयातमुदितैः 1प्रत्युज्जगाम जगतीपतिः॥४०७॥ हृदयेन नरेन्द्रस्तमालिङ्गय निबिडं भुजैः । कामिनीवेषमुन्मुच्य परिहासपुरःसरम् ॥ ४०८ ॥ दुकूलानि समं रत्नभूषणैः परिधाप्य च । महीयसि समश्रेण्यामासने जिष्णुमासयत् ।। ४०९ ॥(युग्मम्) पाण्डवचरितम् । ४३९ जगाद त महीनाथः पार्थमीषत्कृतस्मितः । वासरोऽयं समग्राणां वासराणां विशेषकः ॥ ४१०॥ तस्मिन्नपि मुहूर्तोऽयममृतैकमयः खलु । वीरावतंस यत्र त्वं किरीटीति निरीक्ष्यसे ॥ ४११॥ विश्वस्मिन्नहमेवैकः श्रेयसो यशसः पदम् । आत्मागमामृतैर्यस्य त्वं गृहानभिषिञ्चसि ॥ ४१२ ॥ राष्ट्रमेतद्विराटाख्यमद्याभूदपशात्रवम् । स्पृष्टं यद्वीरचौरेय त्वदीयपदांसुभिः ।। ४१३ ॥ अनुत्तरगुणैवेयमुत्तरा तनया मम । त्वमध्यापयिता यस्याः कलानां कुलदेवता ॥ ४१४ ॥ ममासि तनयस्यास्य प्राणत्राणेन संप्रति । धनुर्धरधुरीण त्वं जीवितस्यापि जीवितम् ॥ ४१५ ॥ कङ्कवल्लवयोस्तन्तिपालस्य ग्रन्थिकस्य च । अमीषामपि चान्ण्यं न मे प्राणैरपि कचित् ॥ ४१६ ॥ संप्रत्येव रिपुक्षोददर्दक्षिणगोग्रहे। यशश्च जीवितव्यं च थैर्मदीयमरक्ष्यत ॥ ४१७ ॥ किंचिद्विहस्य सोत्साहमथाह कपिकेतनः। कोऽपि स्वभाव एवायमखण्डः पाण्डतेजसाम् ॥ ४१८ ॥ किं किमात्थेति विस्मेरमनसा मेदिनीभृता । पृष्टोऽथ स्पष्टरोमाञ्च व्याजहार महेन्द्रसूः ॥ ४१९ ।। कङ्कोऽरिजनितातङ्कः सोऽयं देवो युधिष्ठिरः। बल्लवश्च द्विषद्वल्लिवह्निरायौँ वृकोदरः॥ ४२०॥ तन्तिपालो विलूनारिकुलश्च नकुलः खल्ल । ग्रन्थिकश्च कृतासेवः सहदेवो विरोघिमिः ॥ ४२१॥ किं च देव्याः सुदेष्णायास्तां तामापुष्णती मुदम् । सैरंध्री मालिनी नाम सेयं द्रुपदनन्दिनी ॥ ४२२ ॥ काव्यमाला। इति बीभत्सुभारत्यां गतायां कर्णपूरताम् । विराटेन्द्रः प्रमोदश्रीसुभगंभावुकोऽभवत् ॥ ४२३ ॥ अथाभ्येत्य स पार्थोऽपि युधिष्ठिरपदाम्बुजम् । आनन्दाश्रुकणैर्मुक्ताफलैरर्चन्निवानमत् ॥ ४२४ ॥ कौशेयवसनैस्तैस्तैर्भूषणैश्च हिरण्मयैः । तान्विभूष्याखिलानात्मभद्रपीठं युधिष्ठिरम् ॥ ४२५ ॥ निवेश्य स्वयमासीनः पुरः कन्दलिताञ्जलिः । व्यज्ञापयद्विराटेन्द्रः सान्द्रहर्षोर्मिगद्गदम् ॥ ४२६ ॥ (युग्मम् यत्प्रति त्वां कदाप्युक्तमवज्ञावचनं भवेत् । देव तत्किंचन प्राच्यं व्यलीकं हृदि मा कृथाः ॥ ४२७ ॥ अद्य माद्यन्ति नाधर्मविषाणि विषये मम । यत्र ते पुण्यपीयूषप्रावृषः पादपांसवः ।। ४२८ ॥ वीक्षणैर्धार्मिकंमन्यमनसां जातपाप्मनोः । प्रायश्चित्तमिवासीन्मे नेत्रयोस्तव दर्शनम् ॥ ४२९ ॥ पुरेऽस्मिन्नध कल्याणभूरुहः कोरकोल्वणाः । यत्र स्वयं गुणश्रेणिसुरभिस्त्वमुपागमः ॥ ४३०॥ त्वत्प्रसादामृतैः सिक्तास्त्वत्प्रतापार्कतापिताः । मम श्रीवल्लयो देव पल्लवैरुल्लसन्त्यमूः ॥ ४३१ ॥ मत्कीर्तिवीरुधो यन्न देहिरेऽरिदवानलैः । नूतनाम्भोभृतः सोऽयं खड्गस्य महिमा तव ॥ ४३२ ।। अवेदं गोग्रहेऽप्येतत्किचित्तत्वान्तरं खलु । प्राकृतानां न नामेदमीक्ष्यते भुजवैभवम् ॥ ४३३ ॥ किमात्मानं निगूखैवं नामवेषविपर्ययैः । स्थितं युष्माभिरागत्य निज एव निकेतने ॥ ४३४ ॥ जातसंविदि निर्गुढं मयि भक्तिं वितन्वति । युष्मान्को नाम जानीयाद्वसतोऽत्र स्ववेश्मनि ॥ ४३५ ॥ पाण्डवचरितम् । ४४१ परं किं नाम भाग्यानि तादृशान्येव सन्ति मे। सेवां वः पादयोः कालमियन्त तादृशैर्लभे ॥ ४३६ ॥ इदानीमपि तद्देव स्वप्रतापार्जिता इमाः । श्रियः सहोदरैः सार्धं परिभोगैः कृतार्थय ।। ४३७ ।। भ्रातृभिः पुरुहूताभैः पत्तिना च मया तव । न ता अपि दवीयस्यो हस्तिनारपुरसंपदः॥ ४३८ ॥ ऊर्जितं वो ध्रुवं राज्यादिदानीमतिदुःसहम् । वह्निः प्रदीपावस्थायामधिकं हि प्रदीप्यते ॥ १३९ ॥ राज्यं च जीवितव्यं च दत्तमेव त्वयैव मे । तत्किमन्यदिदानीं ते करोमि यदुपायनम् ।। ४४० ॥ अर्जुनो मे सुतां कन्यामुत्तरामध्यजीगपत् । तामस्यैवोपदा कुर्वे चेत्प्रसीदस्यनुज्ञया ।। ४४१॥ पश्यत्यास्यं ततो ज्येष्ठबन्धौ बीभत्सुरभ्यधात् । उत्तरा देव मे शिष्या सुतातुल्यैव तन्मम ॥ ४४२ ॥ विराटः कुरुवंश्यैस्तु यदि खाजन्यकाम्यति । सौभद्रेयोऽभिमन्युस्तां तदुद्बहतु मे सुतः ॥ ४४३ ॥ इति प्रणयगर्भी तां भारतीं सितवाजिनः ! प्रीतिकल्लोललोलाक्षो विराटः प्रत्यपद्यत ॥ ४४४ ॥ सुभद्रामभिमन्युं च कृष्णमाह्वातुमुत्सुकः । कंचितमजातारिः प्राहिणोद्वारकां प्रति ॥ ४५ ॥ पञ्चभिः सह पाञ्चालरात्मजै?पदं नृपम् । आनेतुमपरं दूतं काम्पिल्ये प्रजिघाय सः ॥ ४४६ ॥ तौ दूतवचनात्पाण्डुसुतानाकर्ण्य नन्दिनः । भेजतुर्भृशमानन्दं कृष्णद्रुपदभूपती || १४७ ॥ भूयस्तरैर्वितन्वानौ सैन्यैरेकार्णवां महीम् । तौ ततः सपरीबारौ विराटपुरमीयतुः ॥ ४४८ ॥ ४४२ काव्यमाला। सानीकेन विराटेन समं सर्वैश्च बन्धुभिः । ततः प्रत्युदगच्छत्तौ प्रीतचेतास्तपःसुतः॥ ४४९ ॥ विराटस्य श्रियो रेजुयुधिष्ठिरमधिष्ठिताः । स्वदन्ते हि पयोराशेरापः प्राप्ताः पयोमुचम् ॥ ४५० ॥ विराटस्य गिरा कृष्णदुपदौ फुल्लमूरुहि । अथावासमगृह्णीतां पुरस्योपवने कचित् ॥ ४५१ ॥ सुभद्रा च स्नषा नताभिमन्युभक्तिमन्दिरम् । नप्तारः पञ्च पाञ्चाला अपि कुन्तीं ववन्दिरे ॥ ४५२ ॥ कृष्णां मातरमानम्य पाञ्चालैः पञ्चभिः सुतैः । प्रीतिप्रढरनुज्येष्ठं पाण्डवेयाः प्रणेमिरे ॥ ४५३ ।। चिरसंगतयोः प्रीत्या राकाश्चिन्योरिवाभवत् । मनोज्ञप्रणयाश्लेषो याज्ञसेनीसुभद्रयोः॥ ४५४ ॥ इलातलमिलन्मौलि प्रणम्य द्रुपदात्मजाम् । पाण्डवाः क्रमशः सर्वे नम्यन्तेऽस्माभिमन्युना ॥ ४५५ ॥ अर्चितः सकुटुम्बोऽपि देवतेव कृतादरम् । आवासे केशवस्यैव प्रीत्यातिष्ठद्युधिष्ठिरः ॥ ४५६ ॥ चिराय मिलिता विष्णोरपुष्णन्पाण्डवा मुदम् । स्मरस्येव बसन्तेन्दुपिकाम्रमलयानिलाः ॥ ४५७ ॥ पाण्डवाश्च विराटश्च योग्यस्खाजन्यहर्षलाः। उपचक्रमिरे सर्वे कर्म वैवाहिकं ततः ॥ ४५८ ।। तत्तत्कर्म दधानानां यादवीनामितस्ततः । आह्लादिमनसामुच्चैरुञ्चेरुमङ्गलारवाः ॥ ४५९ ।। कर्मण्यौद्वाहिके सक्ता विराटहरिणीदृशः । जानन्ति स्म श्रमं किंचिन्न प्रमोदतरङ्गिताः ॥ ४६० ॥ मन्मथागारशृङ्गारैरप्सरोविसरैरिव । उलूलुचटुलैः प्रीत्यानुयातो यादवीगणैः ॥ ४६१ ॥ १. उलूलुरुत्सवकाले स्त्रीभिः क्रियमाणः शब्दविशेषः. पाण्डवचरितम् । १४३ नवीनकल्पिताकल्पैः सुरकल्पैरनेकशः । विविधं यानमारूढेरन्वितः पृतनाचरैः ।। ४६२ ।। दिक्कुञ्जक्रोडविश्रान्तप्रतिश्रुतिभिरुच्चकैः । सोत्साहपटहश्रेणिध्यानैधिरिताम्बरः ।। ४६३ ॥ राकाशशाङ्कदेशीयविधृतातपवारणः । सुप्रतीकप्रतीकाशमारूढो गन्धसिन्धुरम् ।। ४६४ ।। सह द्रुपदकृष्णाभ्यां पाण्डवैः परिवारितः । अभिमन्युः प्रतस्थेऽथ पाणिपीडनपर्वणि ॥ ४६५ ।। (पञ्चभिः कुलकम्) दिशो हि दर्शनानहश्चिमूरेणुरजखलाः । इतीव चक्रे नीरङ्गी तदानीमभिमन्युना ॥ ४६६ ॥ विहाराय बहिः स्वैरं कुमारयशसामिव । निस्वाननिस्वनारोदः स्फोटयन्त इवोदगुः ॥ ४६७ ।। कुङ्कुमाम्भश्छटाच्छोटैरघण्टापथरेणुकम् । तत्कालमभितः कीर्णपुष्पप्रकरदन्तुरम् ।। ४६८ ॥ नवोत्क्षिप्तैः पताकोङ्कराचान्तार्कमरीचिकम् । मञ्चन्यश्चितगीर्वाणगेहाहंकारहुंकृति ॥ ४६९ ॥ मिलत्पौरचकोराक्षीलोचनाञ्जलिमिर्भृशम् । पीतलावण्यसंभारः कुमारः पुरमाविशत् ॥ ४७० ॥ (त्रिभिर्विशेषकम् ) दत्ताश्मगर्भकाकूतचूतपल्लवतोरणम् । रम्भास्तम्भदलैवर्तीज्यमानासन्नचरज्जनम् ॥ ४७१ ॥ मौक्तिकस्वस्तिकोदारद्वारगोमयगोमुखम् । धावद्वाराशनाचारवीक्षणाक्षिप्तकार्मुकम् ॥ ४७२॥ कृतोऽय शब्दोऽवगुण्ठनवाचकः । 'अगुट्ठीइणिरङ्गीणीरङ्गीउ' इति देशीनाम१४४ काव्यमाला। प्रमोदमेदुरश्वश्रूविहितार्धादिमङ्गलः । विशति स्म विशांपत्युरभिमन्युर्निकेतनम् ॥ ४७३ ॥ कुमारीकरमादत्त मातृगेहे करेण सः । तस्यै ददद्दिवाजन्म प्रेमदक्षिणहस्तकम् ॥ ४७४ ॥ कुमारः कौतुकोद्गारपरीहासविकखरः । प्रसृत्वरत्रपातारं तारामेलकमन्वभूत् ॥ ४७५॥ सर्वतेजखि तेजांसि परिक्षिप्य खतेजसा । जगल्लक्ष्मी ग्रहीयेऽहमित्येवं कथयन्निव ॥ ४७६ ॥ विराटकन्यया सार्धमभिमन्युकरात्तया । प्रदक्षिणीकरोति स ज्वलन्तं जातवेदसम् ॥ ४७७ ॥ दत्ते स्म हास्तिकाश्वीयस्वर्णरलादिकं बहु । कुमाराय विराटेन्दुः पाणिमोचनपर्वणि ॥ ४७८ ।। परं परस्परावासगमनागमनोद्यताः । यादव्यश्च विराटाश्च पौराणां ददिरे मुदम् ॥ ४७९ ॥ आनन्दैकमयाः सुधारसमयाः कल्याणसंपन्मया लक्ष्मीकेलिमया महोत्सवमयाः कौतूहलश्रीमयाः । एतेषां कतिचिद्विराटनगरे तस्मिन्ययुस्तस्थुषा- मन्योऽन्यप्रणयेन पुण्यदिवसेष्वग्रेसरा वासराः ॥ ४८० । इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये विराटावस्थाने गोग्रहवर्णनो नाम दशमः सर्गः ॥ एकादशः सर्गः । अथ प्रीतिपरो विष्णुर्गौरवेण गरीयसा । सबान्धवं सराजन्यं निन्ये खपुरि धर्मजम् ॥ १॥ निर्विष्टयोमिथः स्नेहादेकत्रैव रथे पथि । समपद्यत संवादो द्रौपदीसत्यभामयोः ॥ २ ॥ पाण्डवचरितम् । ४४५ सत्यभामा विहस्योच्चैर्जगाद दुपदात्मजाम् । ममास्ति महदाश्चर्यं ततः पर्यनुयुज्यते ॥ ३ ॥ अस्मादृशीनामेकोऽपि दुराराधः प्रियः सखि । प्रियाणां त्वं तु पञ्चानां कथं चेतोऽनुर्वतसे ॥ ४ ॥ बभाषे महिषी पाण्डुतनयानां नयोज्ज्वला । सखि प्रियवशीकारमन्त्रपारायणं शृणु ॥ ५ ॥ वपुर्वाङ्मनसानां मे प्रियेष्वेव लयोऽन्वहम् । यदेव रोचते तेभ्यस्तदेव च करोम्यहम् ॥ ६ ॥ अहं प्रत्यहमश्नामि भुक्तपूर्वेषु भर्तृषु । तेषु स्वपिमि सुप्तेषु प्रतिबुध्ये च पूर्वतः ।। ७ ॥ अभ्युत्थानं च पञ्चानामथामीषामुपेयुषाम् । करोमि विनयाननं मौलिं चालापकारिणाम् ॥ ८॥ एतेषामङ्ग शुश्रूषां खयं विरचयाम्यहम् । करोम्यपत्यवात्सत्यं निजं परिजनं प्रति ॥ ९ ॥ अविशेषेण वर्ते च पञ्चखपि पतिष्वहम् । तन्मां पञ्चापि मन्यन्ते नित्यं प्राणप्रियां प्रियाः ॥ १० ॥ वार्तयन्त्योस्तयोरेवमतिक्रम्य भुवं क्रमात् । आवासान्दापयामास द्वारकाद्वारि धर्मजः ॥ ११ ॥ दशाप्येत्य दाशार्हाः श्रीसमुद्रविजयादयः । प्रणेमुः प्रणयात्तत्र कुन्तीं सोत्कण्ठचेतसः ॥ १२ ॥ मातुलानतुलस्नेहविक्लवान् विस्मृतक्लमाः । प्रीतिपर्यश्रुनेत्रास्तान्नमस्यन्ति म पाण्डवाः ॥ १३ ॥ अथाभ्यधुदशाहस्तान्पुरास्माभिः किरीटिने । ईयुषे तीर्थयात्रातः सुभद्रा प्रतिपादिता ।। १४ ॥ इदानीं सन्तु युष्माकं शेषाणामप्युपायनम् । लक्ष्मीवतीवेगवतीविजयारतयः सुताः ॥ १५ ॥ ४४६ काव्यमाला। इत्युदीर्य प्रहृष्टैस्तैः प्रारब्धमधुरोत्सवम् । स्वकन्यास्ताश्चतस्रोऽपि पर्यणाय्यन्त पाण्डवैः ॥ १६ ॥ सानुजस्य तपासूनोविधाय खागतक्रियाम् । दर्शयामास कंसारिः स्वयं द्वारवतीश्रियम् ॥ १७ ॥ प्रद्युम्नाद्यैः पुरोद्यानादिषु पाण्डवसूनवः । पाञ्चालप्रमुखाः कृष्णकुमारैः सह रेमिरे ॥ १८ ॥ आगांसि तानि भूयांसि दुर्योधनकृतान्यथ । कृष्णा भीमश्च कृष्णस्य साश्रुनेत्रौ शशंसतुः ॥ १९ ॥ कृष्णोऽपि वाग्मिनामिन्द्रं द्रुपदेशपुरोहितम् । दूत्याय प्रेषयामास क्रोधादुर्योधनान्तिकम् ॥ २० ॥ गुणैः श्रितः स वाग्मित्वचण्डिमम्रदिमादिभिः । दूत्योचितपरीवारो हस्तिनापुरमभ्यगात् ॥ २१ ।। सेवागतानां भूपानां नानामणिविभूषणैः । तुङ्गत्तुरङ्गमातङ्गशकटैः संकटाङ्गणम् ॥ २२ ॥ संचरद्वारनारीणां मञ्जुमञ्जीरशिञ्जितैः । उजागरूकमदनं स राजसदनं ययौ ॥ २३॥ (युग्मम्) द्रोणेन द्रोणपुत्रेण जाह्नवीतनुजन्मना । शल्येन सिन्धुराजेन कृपेण कृतवर्मणा ।। २४ ॥ भगदत्चेन कर्णेन विकर्णेन सुशर्मणा । गान्धारपतिना भूरिश्रवसा चेदिभूभुजा ।। २५ ॥ भ्रातृभिश्चण्डदोर्दण्डैर्दुःशासनपुरःसरैः । नन्दनैर्लक्ष्मणाद्यैश्च परितः परिवारितम् ॥ २६ ॥ गीयमानगुणं रक्तकण्ठैर्गान्धर्वगर्वितैः । स्तूयमान स्तुतिप्रहजिहैवैतालिकोत्तमैः ॥ २७ ॥ वीक्ष्यमाणमुखाम्भोजसेवकैरोपजानुकैः । नम्रमौलिभिरादीयमानादेशं निदेशिमिः ।। २८ ।। पाण्डवचरितम् । ४४७ श्राव्यमाणं सुधासेकच्छेकाः सूक्तीः कवीश्वरैः । कथ्यमानकथं पूर्वभूभृतां वृत्तवेदिभिः ॥ २९ ॥ स्मृतिवेदिभिरावेद्यमानधर्मव्यवस्थितिम् । उद्वाह्यमाणषाड्गुण्यरहस्य नीतिकोविदैः ॥ ३०॥ अध्यासीनं सुधर्मायाः श्रीविलासोपहासिनीम् । निर्मितां मणिचूडेन सभामाजातशात्रवीम् ॥ ३१ ॥ भूषणाङ्कितमाणिक्यज्योतिर्मञ्जरिताकृतिम् । वसुंधरातलोत्तीर्ण साक्षादिव दिवस्पतिम् ॥ ३२ ॥ धृतराष्ट्राङ्गजन्मानं विशामीशं विशारदः । सान्धिविग्राहिकाख्यातपूर्वस्तत्र ददर्श सः ॥ ३३ ॥ (दशभिः कुलकम् ) स करौ कुङ्मलीकृत्य पुरस्तादुपविश्य च । उवाच वाग्मिषु प्राप्तगौरवः कौरवप्रभुम् ॥ ३४ ॥ राजन्देवो मुरारातिररातिकरिकेसरी । तवान्तिकमतिस्नेहादाख्यातुं प्रजिघाय माम् ॥ ३५ ॥ उररीकृतनिर्वाहहेतवे सह बान्धवैः । विराटपुरि दुष्कर्मगुप्तोऽतिष्ठधुधिष्ठिरः ॥ ३६ ।। त्रयोदश्याः समायास्तु प्रान्ते पूर्ण च वोऽवधौ । जगाम गोग्रहोद्धाते व्यक्ततां स विविक्तधीः ॥ ३७ ॥ विराटो दैवतं किंचिदिवानन्दाद्दिवानिशम् । किंकुर्वाण इव प्राणैरप्याराधयति स्म तम् ॥ ३८ ।। आगत्य द्रुपदाद्यैश्च सोऽवनीशैरनेकशः । रसाल इव रोलम्बैः शिश्रिये श्रितवत्सलः ॥ ३९ ॥ अभिमन्यूत्तरापाणिपीडनप्रक्रमे तदा । पुरे तत्राहमत्युचैरेतदुत्कण्ठितोऽव्रजम् ॥ १० ॥ पाञ्चालप्रमुखास्तस्य सर्वे तत्रामिलन्सुताः । समगंसत भूयांसस्तदन्येऽपि सुहृदणाः ॥४१॥ ११८ काव्यमाला। तथापि वदनाम्भोजमपश्यन्सानुजस्य ते । कदाचिदपि कौन्तेयः सुप्रातं नाभिमन्यते ॥ ४२ ॥ त्वदीयविरहे नित्यं स ताम्यत्येव केवलम् । बन्धुस्नेहोऽप्यहो काममनर्थः पृथुचेतसाम् ॥ ४३ ॥ उत्कण्ठातरलोऽप्युच्चैर्विलङ्घ्य समयावधिम् । मास्म भूद्वैमनस्यं ते किंचिदित्यागमन्न सः ॥ ४४ ।। नास्सिन्काचिदभक्तिस्ते नाप्यसौ त्वय्यवत्सलः । तदप्येतदहो जातं धिग्विधेर्विलङ्घयताम् ॥ १५ ॥ पूर्णेऽपि समये सोऽयमनाहूतस्त्वया खलु । हास्तिनं नैच्छदभ्यतुं महात्मानोऽभिमानिनः ।। ४६ ॥ हर्षादुत्तोरणाशेपद्वारा द्वारवती ततः । उपरुध्य मया काममानिन्ये धर्मनन्दनः ॥ १७ ॥ अधुनापि तदात्मीयं बन्धुमाहातुमर्हसि । द्वयोर्वान्धवयोर्मा म विरोधो भून्मुधैव वाम् ॥ १८ ॥ विरोधेनाप्युपायन्ते बन्धुहेतोः खलु श्रियः । उदात्तचेतसः कापि नोदरंभरिचेष्टता ॥ १९ ॥ तेभ्यः सुखं निषण्णेभ्यः श्रियः स्वयमुपायनम् । प्रणयेन क्रियन्ते चेत्तन्महत्पुरुषव्रतम् ॥ ५० ॥ हेतोः कुतश्चन त्वं चेदेन नाहाययिष्यसि । भ्रातृभिस्त्रिजगत्येकवीरैरानेष्यते बलात् ॥५१॥ न चैवमागतास्तुभ्यमेते कल्याणहेतवः । सर्वां कदाचिदुत्सेकादाच्छिन्दीरन्महीमपि ।। ५२ ॥ भवतापि तदावश्यं मर्तव्यं वा रणाङ्गणे । कर्तव्यं वा श्रियं हित्वा तैरिवारण्यगाहनम् ॥ ५३ ॥ प्रच्युतप्रभुशक्तेरप्युत्साहे मतिशालिनः । कामं धर्मः सुखस्यैव जयस्य प्रतिभूयः ॥ ५४ ॥ पाण्डवचरितम् । भूयांसश्चापि मादृक्षास्तादृशां सहचारिणः । श्रियं बृहत्सहायश्च कलयत्यमहानपि ॥ ५५ ॥ नातिदुर्लम्भमम्भो हि वारिदे वशवर्तिनि । न च मौक्तिकदुर्भिक्षमम्भोराशौ निदेशिनि ॥ ५६ ।। वर्धयिष्यसि पैशुन्यं त्वं तु केवलमात्मनः । उलूक इव वैरायमाणः किरणमालिनः ॥ ५७ ॥ तां निशम्य गिरं तस्य कम्पमानाधरः क्रुधा। कामं ताम्रीभवच्चक्षुरभ्यधत्त सुयोधनः ॥ ५८ ॥ ब्रह्मन्नजिह्मवाग्ब्रह्मन्वचस्ते प्रतिभासते । कर्कन्धूफलवत्पूर्वं कोमलं कठिनं ततः ॥ ५९ ॥ को भुवं मद्भुजरतम्भन्यस्तामुत्तारयिप्यति । प्रक्षिप्य कवलं कुम्भिमुखात्क इव कर्षति ।। ६० ॥ को नाम केशवः के च पाण्डवाः पुरतो मम । को नाम चन्द्रमाः के वा तारकास्तरणेः पुरः ॥ ६१ ॥ हरिर्मत्कार्मुकोन्मुक्तमार्गणब्रणितो रणे । द्वेधापि वेदनापिष्टः क्रोष्टेव स भविष्यति ।। ६२ ॥ खगाधीशध्वजोऽप्येष मामकीनैः खगोत्करैः। बलीकरिष्यतेऽवश्य खगानां समराङ्गणे ॥ ६३ ॥ इत्युपश्रुत्य तद्वाचमुदश्चितमिवाञ्चयन् । बलादमर्षणो रोषमग्रजन्माग्रणीर्जगौ ।। ६४ ॥ लक्ष्मीभुजा भुजोत्कर्षसहर्षक इवैष ते । आकाशमणिना कीटमणेः स्पर्द्धाकणोऽपि कः ॥६५॥ अरिष्टकेशिचाणूरानाहुतीकृत्य यः पुरा । कंसं पूर्णाहुतिं चक्रे खतेजोजातवेदसि ॥ ६६ ॥ आस्तां तावत्स निःशेषद्विपदावाग्मिवारिदः । सोढारः केन वोढारश्चण्डतां युधि पाण्डवाः ।। ६७ ।। १. कृष्णेन. ४५० काव्यमाला। 1 तपःसुतशमाम्भोदादुत्थितः कोपपावकः । दुर्निवापो रिपुस्त्रैणबाष्पपूरशतैरपि ॥ ६८ ॥ भीमः शमितकिर्मीरहिडम्बवककीचकः । न कस्य समरारम्भपर्वसर्वकषो भुवि ॥ ६९ ॥ सुशर्मा यस्य दोःकर्म वीक्ष्य दक्षिणगोग्रहे । तदानीं भवतः किं न प्राभृतीकृतवान्भियम् ॥ ७० ॥ निहत्य हेलया येन सदर्प वृषकर्परम् । मनश्च तव मृत्युश्च संकथा कारितौ मिथः ।। ७१ ॥ विधाय कीचकध्वान्तविध्वंसं येन भाखता । निर्ममे पिच्छिलच्छायः सुदेष्णामुखचन्द्रमाः ।। ७२ ॥ विद्विषामर्जुनच्छायमर्जुनस्य शिलीमुखाः । 'मलीमसं वितन्वन्ति कीर्तिकैरविणीवनम् ॥ ७३ ।। अस्तमस्तमहीध्रेण प्रत्यूष इव पूषणम् । क्षिप्तमिन्द्रं विपक्षेण यः पदे खे न्यवीविशत् ।। ७४ ॥ भानुमत्यां रुदत्यां यो ज्येष्ठबन्धोनिदेशतः । त्वां मृगेन्द्रादिव मृगं गन्धर्वेन्द्रादमोचयत् ॥ ७५ ॥ ह्यस्तने गोग्रहे येन त्वं नागा एव केवलम् । मोचयांचक्रिरेऽस्त्राणि वस्त्राणि च शरोत्करैः ॥ ७६ ॥ किमाचक्षे रिपुक्षोदविलक्षनियमौ यमौ । गृहीतस्तु नतारातिजीवितं सुनयौ न यौ ॥ ७७ ॥ ज्येष्ठभ्रातुः सरस्वन्त इवाज्ञावेलया धृताः । ते चत्वारोऽप्यहंकारद्वीपं न प्लावयन्ति ते ॥ ७८ ॥ अर्पयिष्यसि तन्नूनं काश्यपी शिरसा सम् । लोभोऽयं लम्भयेत्प्राणसंशयं हि गुरूनपि ॥ ७९ ॥ इत्युक्तवान्स वाग्ब्रह्मप्रौढिमाढ्यंभविष्णुधीः । स क्रुधा धार्तराष्ट्रेण संरम्भादभ्यधीयत ॥ ८० ॥ पाण्डवचरितम् । ४५१ दूतत्वाच्च द्विजत्वाच्च त्वमवध्योऽसि भूभुजाम्। तेन यद्रोचते तुभ्यं ब्रूहि तद्ब्राह्मणब्रुव ।। ८१ ॥ वैरिणां तु पुरः कोऽपि यदि स्यात्तस्य तद्ध्रुवम् । एवं जल्पत एव द्राक् छिन्नैव रसना भवेत् ।। ८२ ॥ किं तु चेत्ते विशिष्टत्वमस्ति किंचित्ततो मम । सवैकुण्ठान्कुरुक्षेत्रे दर्शयेथाः पृथासुतान् ॥ ८३ ॥ इति व्याहृत्य विस्फूर्जत्कोपाटोपारुणेक्षणः । व्यस्राक्षीत्तं पतिः क्षोणेर्ग्राहयित्वा गले बलात् ॥ ८४ ॥ विदुराद्यैस्तदा वीक्ष्य तं तथा गलहस्तितम् । समीरजन्मनो मेने संध्या निर्वाहशालिनीम् ॥ ८५ ॥ वैरिभूधवसंवाधवारकां द्वारकां ततः । सोऽभ्येत्य पाण्डवोपेतं पुण्डरीकाक्षमैक्षत ।। ८६ ॥ स्वस्तिगर्ममुखाङ्गेन निविश्याग्रे गदाग्रजम् । अभ्यधीयत गान्धारीसुतोदन्तः पुरोधसा ।। ८७ ।। देव दोर्गर्विते तस्मिन्साम निर्नाम पश्यति । अम्भःकुम्भ इव क्षिप्तो दीप्ते दबहुताशने ॥ ८८ ।। दीपयेत्प्रत्युत प्रायः साम शौण्डीरिमोद्धतान् । अलं ज्वलति सप्तार्चिः सर्पिषा तर्पितः खलु ॥ ८९ ॥ सैष निःशेषभूपालमौलिलालितशासनः । तृणाय न श्रियं शातमन्यवीमपि मन्यते ।। ९० ॥ राजानतेन संमानदानैरानन्दितास्तथा। चक्रुर्यथोपकुर्वाणाः प्राणानपि न किंचन ॥ ९१ ॥ ह्रियन्ते स्म तथा तेन भीष्माद्या अपि भक्तितः। त(य)था तुल्येऽपि वात्सल्ये तस्यैव जयकाविणः ॥ ९२ ॥ चतुरङ्गचमूक्रान्तविश्वविश्वंभरातलः। नाकनायकमप्येष करदीकर्तुमिच्छति ॥ ९३ ॥ ४५२ काव्यमाला चतुर्भिरपि तन्नायमुपायैर्बत साध्यते । दम्यते क्वापि केनापि किं केसरिकिशोरकः ॥ ९४ ॥ गजेन्द्रसज्जनं वाहवाहनं पत्तिवीक्षणम् । रथनिर्माणमित्युच्चैस्तत्पुरे समरोद्यमः ॥ ९५ ॥ मया विष्णुर्मया जिष्णुर्मया भीमो मया यमौ । तपासूनुर्मयेत्येवं ब्रियन्ते तद्भटैर्भटाः ।। ९६ ॥ कृच्छ्रेणैव ततो नेदंयुगीनभुजताण्डवैः । पाण्डवैर्देवपादैश्च यद्यादीयेत मेदिनी ॥ ९७ ॥ इत्याख्याय स्थिते तस्मिन्नग्रण्यामग्रजन्मनाम् । विकूणितमुखाम्भोजः कैटभारिरभाषत ॥ ९८ ॥ पुरापि ज्ञातमेवैतत्कार्य दण्डैकगोचरम् । दूतस्तु प्रहितोऽमाभिर्लोकनिर्वादभीरुमिः ॥ ९९ ॥ तस्य धीरधुरीणस्य न नाम तदसांप्रतम् । बीक्षितुं समरोत्सङ्गं रङ्गमुद्यच्छते स यत् ॥ १०० ॥ आत्मनश्च रिपूणां च यदृष्ट्वैव तु दोर्बलम् । अर्थ्यते पृथ्वी सा हि शूराणां महती त्रपा ॥ १०१॥ तत्प्रदत्तामहीमेतामस्साकमपि गृह्णताम् । कामं हसिष्यते राजगोष्ठीषु भुजसौष्ठवम् ॥ १०२॥ न नाम निर्जितामन्यैर्लक्ष्मी कान्ति दोर्भूतः । स्वयं हि निहतैनागैराहारं कुरुते हरिः ॥ १०३ ॥ भीमोऽभ्यधाद्भुवस्तेन रमणीयमनर्पणम् । अन्यथा हि कथं मे स्यात्सङ्गरोऽयमभङ्गुरः ॥ १०४॥ शिरःसरोरुहाकीर्णैर्विरोधिरुधिरासवैः । हरिष्याम्यद्य मेदिन्याः खभारवहनक्लमम् ॥ १०५॥ पार्थोऽपि प्रथमानाशवेपथुः कोपतोऽब्रवीत् । क्षोणेरनर्पणे नूनं भाग्यैर्जागरितं मम ॥ १०६ ॥ पाण्डवचरितम् । ४५३ निवाप्येत रणश्राद्धः कौरवैरेव मे भुजः । न सरःकृतसौहित्यस्तृप्यतीमः कराम्भसा ॥ १०७ ॥ आदीयते स्म तैः साकं कृष्णाकेशांशुकैः क्षितिः । गृह्णन्तः केवलामेव वयं लज्जामहे न किम् ॥ १०८ ॥ तत्तां प्रत्याहरिष्यामो जीवितैः सह विद्विषाम् । तत्कीर्तीः सुचिरोपात्ताः कल्यन्तरपदे पुनः ॥ १०९ ॥ यमावप्यूचतुः कालद्विजिहरसनोपमौ । संहर्तुं ताम्यतः कामं शात्रवानावयोर्भुजौ ॥ ११ ॥ धर्मजोऽथाब्रवीद्वन्धुवधाय किमु धावति । मनो मे किंतु कार्येऽसिन्दैवदृष्टे करोमि किम् ।। १११ ॥ सर्वैः सज्जीक्रियन्तां तत्पताकिन्यः क्षितीश्वरैः । धर्मभूः पश्यतु भ्रातृवधपातकमप्यसौ ॥ ११२ ॥ इत्यादेशात्तपासूनोर्देवस्य च मुरद्विषः । प्रस्थानाय नृपः सेनाः सज्जीकर्तुं प्रचक्रमे ॥ ११३ ।। अन्येद्युर्धृतराष्ट्रस्य सारथिः संजयाभिधः । प्रतीतः प्रतिदूत्याय तपःसुतमुपागमत् ॥ ११ ॥ सोऽथ सान्त्वमयैर्वाक्यैरभाषत युधिष्ठिरम् । देवो वैचित्रवीर्यस्त्वां भाषते भूप मदिरा ॥ ११५ त्वं विवेकस्य धर्मस्य नयस्य विनयस्य च । एक एबाकरः शङ्खमुक्तादीनामिवार्णवः ॥ ११६ ॥ तत्करौ कुड्मलीकृत्य वत्स किंचित्त्वमुच्यसे । कन्या इव नियुज्यन्ते पात्रे हि गुरुभिर्गिरः ॥ ११७ ॥ वाचो मेऽस्मिन्पुनः सर्वा ग्रावणीव शिलीमुखाः । कुण्ठीबभूवुरुल्लुण्ठे शाट्यधाग्नि सुयोधने ॥ ११८ ॥ स्वयमासन्न एवास्य पातः पातकिनस्ततः । पित्तज्वरी चिरं हारहूरादिद्विट् किमेधते ॥ ११९ ॥ हारहूरा द्राक्षा. 1 ४५४ काव्यमाला। वंशस्येव खलु प्रांशोरप्यनम्रत्वशालिनः । बहिःसारस्य दुर्वार एव भङ्गः पदे पदे ॥ १२०॥ अकीर्तिपटहं विश्वे दास्यसे तत्किमात्मनः । महात्मानो हि मुञ्चन्ति प्राणानप्ययशस्करान् ॥ १२१ ॥ दीप्रस्यापि विवेकस्य तमासंपर्कशालिनः । महिमा मिहिरस्येव बहीयानपि हीयते ॥ १२२ ॥ विरोधयति लोभेन धर्ममेकोऽपरः पुनः । लोमं त्यजति धर्मार्थमन्तरं सदसत्सतोः ।। १२३ ।। वरं वनं वरं भिक्षा क्षुद्वरं मरणं वरम् । न तु श्रीर्बन्धुसंघातघातपातकपङ्किला ॥ १२४ ॥ द्वेष्टि बन्धून्धनस्यार्थे बन्धुद्वेषे धनक्षयः । तस्माइन्धुविरुद्धानां न धनं न च बान्धवाः ॥ १२५ ॥ रणस्य च गतिर्दैवी कस्तत्र जयनिश्चयः । जीयन्ते जातु दोर्वीर्यस्फूर्तिमन्तोऽपि दुर्बलैः ।। १२६ ।। शाश्वतिक्यः श्रियः पिक्य इव नावेक्षिताः कचित् । अकीर्तयः पुनः काक्य इवावस्थानवश्चिरम् ॥ १२७ ॥ तद्विवेकमनुस्मृत्य कृत्यं मनसिकृत्य च । हातुमर्हसि धात्रीश विरोधं सह बन्धुभिः ॥ १२८ ॥ इति श्रुत्वा रिपुश्रेणिदुर्जयः संजयोदितम् । धर्मभूरभिधत्ते स्म स्मितस्तबकिताधरः ॥ १२९ ।। आर्य संजय जीवातुर्धर्मस्य यशसोऽपि च । तातेन न्यायनिर्णितमुक्तमायाति पेशलम् ॥ १३०॥ शौण्डीराणां तु धर्मोऽयं न खलु कापि गीयते । भुज्यते भूः पुरस्तेषां बान्धवैरपि यद्बलात् ॥ १३१ ॥ अकीर्तिर्मुजविस्फूर्तिमतां बन्धुवधोद्यमः । भूभोगस्तु प्रसह्यायमकीर्तेरपि मञ्जरी ॥ १३२ ॥ पाण्डवचरितम् । ४५५ शमः प्रसाधनं पुंसां यावन्नारिपराभवः । पराभूतौ पुनः क्रान्तवैरिचक्रपराभवः ॥ १३३ ॥ तन्न मे बान्धवान्हन्तुं काममुत्कण्ठते मनः । राज्यमप्यात्मनस्त्यक्तुमेवमेव च नेच्छति ॥ १३४ ॥ त्यजामि चेत्प्रशान्तत्वात्कथंचन महीमहम् । . अमी त्ववार्याशैण्डीर्यमन्दिरं न सहोदराः ॥ १३५ ॥ तद्विचिन्त्य तदादेश्यं यदेवं सति युज्यते । इति मे वृद्धतातस्य नतिपूर्वं निवेदयेः ॥ १३६ ॥ जगाद नन्दनस्तारनिस्वनो मातरिश्वनः । क्षोणिप्रत्यर्पणेनापि न तैः संधिं विदध्महे ॥ १३७ ।। पश्यतां चिरमस्माकमायातोऽयं रणोत्सवः । अत्र चीक्षिप्यते वैरिकवन्धशतताण्डवम् ।। १३८ ।। ऊरुं दौर्योधनीं भित्त्वा छित्त्वा दौशासनी मुजाम् । भविष्यामि ध्रुवं पारंगमः संगरसागरे । १३९ ।। विष्णुरप्युजगावेतत्त्यजामः समरं नहि । तृप्यन्त्यन्यत्र नानासृक्पानश्रद्धाः खगाः क मे ॥ १४० ॥ जल्पतः स्म यमौ संधिश्चेदभूत्तत्कथं द्विषाम् । भित्त्वा वक्षःस्थली वीक्षामहे कौटिल्यपाटवम् ॥ १४१॥ एवमुद्गीर्य संग्रामरङ्गशौण्डैः स पाण्डवैः । विसृष्टः संजयः स्पृष्टखेदोऽगानागसाह्वयम् ॥ १४२ ।। तत्र वैचित्रवीर्यस्य क्रमावानम्य सारथिः । दुर्योधनाद्युपेतस्य व्याजहार गिरं रहः ।। १४३ ॥ विना विश्वभरादानं संधानं वः किलेप्सितम् । अर्पणेनापि मेदिन्याः संधिसन्ते न ते पुनः ॥ १४४ ॥ पाञ्चालीचिकुराकृष्टिप्रतीकारकरालिताः । यौष्माकीणैः सह प्राणैरादित्सन्ते हि ते महीम् ॥ ११५॥ ४५६ काव्यमाला। एते नितान्तकान्तारवासनिर्वासितौजसः । इत्यमून्मावमस्थास्त्वं कुरुभूपाल पाण्डवान् ॥ १४६ ॥ संप्रत्यस्ति यदेतेषां पूर्वस्मादधिकं महः । कामं घनापदुत्तीर्णः पतिस्तपति रोचिषाम् ॥ १४७ ॥ नात्यनीषज्जयो ज्यायानजथ्यावनुजौ पुनः । नात्यनीषत्सहो दन्ती हन्त दन्तौ तु दुःसहौ ॥ १८ ॥ तेजस्विनस्तिरस्कृत्य दुष्करं खलु जीवितम् । प्राणन्ति दन्तिनः कण्ठीरवोल्लुण्ठनया कियत् ॥ १४९ ।। शूरं प्रत्यात्तधारालवैराणां तमसामिव । कन्दराः शरणायन्ते केवलं काश्यपीभृताम् ॥ १५० ।। इयत्यपि गते तेभ्यस्तवं दातुमर्हथ । सर्वस्य चेत्कुटुम्बस्य कल्याणमभिलप्यथ ।। १५१ ।। अथामर्षरसोत्कर्षवर्षदश्रूदबिन्दुना । बभाषे धार्तराष्ट्रेण भारभङ्गुरित वा ॥ १५२ ॥ नूनमेष द्विषयः संजयः समजायत । यदैवं पौरुषोत्कर्षाद्विषां भीषयतेऽद्य नः ॥ १५३ ॥ जिघत्सोः शत्रुसैन्यानि मत्कौक्षेयकरक्षसः । भवन्ति प्रथमग्रास एवं पञ्चापि पाण्डवाः ॥ १५४ ॥ क्षोणिराक्षिप्यते केन मबाहुकुलिशोदरात् । मांसमाकृष्यते केन सिंहदंष्ट्राङ्कुरान्तरात् ॥ १५५ ।। क्वाहं भ्रूभङ्गसंगीतनर्तितानेकराजकः । मत्स्यद्रुपदगोपालमात्रगुप्ताः क्वचिद्विषः ।। १५६ ॥ रणारण्ये ज्वलत्युच्चैर्मत्प्रतापदवानले । भटित्रीभ वितारस्ते वानेया इव जन्तवः ॥ १५७ ॥ निन्दन्नेव तु नः साक्षात्संजयोऽयं धनंजयः । छिद्यते तात दाक्षिण्यान्नास्य जिह्वा दुरात्मनः ॥ १५८ ॥ १. 'क्व च द्विषः' इति युक्तं प्रतिभाति. 0 पाण्डवचरितम् । ४५७ गिरं तामन्बगुस्तस्य कर्णदुःशासनादयः । ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥ १५९ ॥ ययौ दुर्योधनः क्रोधादित्यवज्ञाय संजयम् । द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥ १६० ॥ गते तस्मिन्नपस्मारमेदुरे विदुरादिभिः । शङ्कातकाकुलैमैने नेदीयान्कुलविप्लवः ॥ १६१ ॥ अथाक्षमी कुरुक्षेत्रप्रतिप्रस्थानहेतवे । महौजाः सज्जयामास गान्धारेयो वरूथिनीम् ॥ १६२ ॥ हस्तिनापुरवास्तव्यः समस्तोऽपि जनस्तदा । समग्रकुरुसंहारशङ्काशोकमयोऽभवत् ॥ १६३ ॥ अन्येद्युरुधदानन्दमाहूय विदुरं रहः । पप्रच्छ कुलकल्याणं धृतराष्ट्रो धराधवः ॥ १६४ ॥ अवादीद्विदुरो राजन्प्रतिभामयचक्षुषा । दृष्टः प्रागेव विस्पष्टः सर्वोऽप्यर्थों भवत्यसौ ॥ १६५॥ भवानेवाभवन्मूलमस्य वैरमहीरुहः । जातमेव दुरात्मानं नात्यजद्यः सुयोधनम् ॥ १६६ ॥ मद्वाचः खादवोऽप्यासंस्तदानी विरसास्त्वयि । स्रोतोवार इवाधारपारे वैरस्यधामनि ॥ १६७ ॥ छिनत्ति नाङ्गनप्रान्तप्ररूढं यो विषद्रुमम् । स एव भाविनं हन्त कुलक्षयमपेक्षते ॥ १६८॥ झगित्यम्भोभिरुत्तिष्ठन्नैव निर्मापितोऽनलः । केन नाम निरुध्येत निःशेष सदन दहन् । १६९ ॥ नोद्वेगहेतवे कस्य दुष्टाविष्टो महानपि । भयंकरः पयोदोऽपि ज्वलन्तमशनिं वहन् ॥ १७० ॥ आत्मीयेष्वपथन्यायप्रवृत्तिं येऽधिकुर्वते । तेष्वेव हि कुटुम्बेषु जायन्ते न सुखाय ते ॥ १७१ ॥ काव्यमाला। पातयन्तस्तटीतुङ्गास्तरङ्गा हि तरङ्गिणीः । कुशेशयकुलैः साकं पङ्किलीकुर्वतेतराम् ॥ १७२ ।। अङ्गीकुर्वन् कदाचार न्यायमुल्लुम्पति क्रमात् । शमीद्रुम इवाभ्यक्णं चूतमूरीकृतानलः ॥ १७३ ॥ अपाकृतनयं मोहान्नधमोऽभ्येति भूपतिम् । न हंसः श्रयते हन्त वीताम्भोजवनं वनम् ॥ १७४ ॥ दुर्नयध्वस्तधर्मस्य श्रियो भङ्गुरसंगमाः । व्योम्नि पाथोदपीतेन्दौ कौमुदी कियदीक्ष्यते ॥ १७५॥ भोग्याः श्रियो न साधूनामधर्मशबलीकृताः । सेव्याः किं नाम हंसानामापः प्रावृङमलाविलाः ।। १७६ ॥ श्रियोऽप्यधर्मसंपृक्ताः कस्य नाम न मृत्यवे । हारहूरापि किंपाकसंपर्कान्न हिनस्ति किम् ॥ १७७ ॥ नित्यमारब्धधर्मस्य नेदीयस्यस्तु संपदः । करारोपितदीपस्य न प्रभा हि दवीयसी ॥ १७८ ॥ धर्मकर्मान्तिकीभूय सततं यस्य सिञ्चति । तस्यावश्यं भवेल्लक्ष्मीवलिरुल्लासिपल्लवा ॥ १७९ ॥ नासीरे यस्य धर्मोऽयं संवर्मयति संगरे । तस्यार्पयति केशेषु समाकृष्य जयश्रियम् ।। १८० ॥ धर्मकल्पद्रुमस्यैते पल्लवाः क्षितिपश्रियः । पुष्पाणि वैरिविजयः फलानि सुखसंपदः ॥ १८१ ।। तदा वैरिपराभूतियामिनी क्षयगामिनी । जायतेऽसौ यदा धर्मधर्मद्युतिरुदित्वरः ॥ १८२ ।। अन्तिके यस्य जागति धर्मोऽयं नित्ययामिकः । प्रभवेयुः कुतः क्रूरास्तस्य व्यसनदस्यवः ॥ १८३ ।। यस्य धर्मोऽस्ति सत्कर्मसंधिकृत्पारिपाश्चिकः । स निर्वहणमभ्येति विरोधिवधनाटके ।। १८४ ।। पाण्डवचरितम् । ४५९ स च धर्मो न लुब्धानां सेर्ष्याणामिव सौहृदम् । महान्सहानवस्थानविरोधो धर्मलोभयोः ॥ १८५ ॥ नैव लोभपरीरम्भशालिनोधर्मसंगमः । कुतस्त्यः शौचसंपर्कः सरमासुतसङ्गिनः ॥ १८६ ।। न्यायशैलपविलोभी लोभी धर्मार्कदुर्दिनम् । श्रीवल्लिपरशुर्लोभो लोभः कीर्त्यजिनीविधुः ।। १८७ ।। लोमेन भ्रश्यति न्यायादन्यायी धर्ममुज्झति । मुक्तधर्मों गतश्रीः स्यादश्रीकस्य न कीर्तयः ॥ १८८ ॥ मुञ्चन्महान्वृथा लोभमलुब्धो नयमन्दिरम् । धर्ममन्विष्यति न्यायी धार्मिकं वृणुते जयः ॥ १८९ ॥ राजस्तल्लोभमुन्मुच्य धर्ममालोच्य जित्वरम् । कीर्तिवल्लिसुधासेकं विवेकमवलम्ब्य च ॥ १९० ॥ आत्मजन्मानमेतस्मान्निवर्तय कदाग्रहात् । ग्रासीभूय भजन्मृत्योस्त्रायख सकलं कुलम् ॥ १९१ ।। (युग्मम्) शुद्धधीर्धृतराष्ट्रोऽथ जगाद विदुरं प्रति । स्वां विना वक्ति को नाम तथ्यवाक्पथ्यमीहशम् ॥ १९२ ।। इयमापाततिक्तापि गीस्तवायतिसुन्दरा । मुखद्वेष्यापि किं नैव गुडूची संनिपातभित् ॥ १९३ ॥ यो बन्धूनामुपेक्षेत कुव्यापारदवानलम् । पश्य तस्यापि किं न स्यात्तद्दोषप्लोषवैशसम् ॥ १९४ ॥ मृत्युमूलं ह्यनुच्छिन्द्यात्कालकूटस्य पाटवम् । कलङ्कपङ्किलः शङ्के सुधाधामाप्यजायत ॥ १९५ ।। परं मया दुरात्मायं बोधितोऽपि सहस्रधा । पिशाचकीव दुर्दैवाहुध्यते न कथंचन ॥ १९६ ॥ द्वावप्यावां तमभ्येत्य बोधयावः पुनस्ततः । कथंचिद्यदि नामास्मादपस्मारान्निवर्तते ॥ १९७ ॥ ४६० काव्यमाला। इत्यालोच्याथ तौ गत्वा बद्धप्रणयमूचतुः । दुर्निरोधस्फुरत्क्रोधसुदुर्बोधं सुयोधनम् ॥ १९८ ॥ वत्स वात्सल्यसौत्सुक्यमस्मदीयमिदं मनः । त्वां प्रति प्रसभं वक्तुं नियुक्तं नौ पुनः पुनः ॥ १९९ ॥ निष्ठां वचःप्रतिष्ठेव प्रापयेत्पुरुषव्रतम् । क्षमेव गुणसंसारं राकेव मृगलाञ्छनम् ॥ २० ॥ वाचि भ्रष्टप्रतिष्ठस्तु हीयते पुरुषव्रतात् । पुरुषव्रतशून्यात्मा श्वसन्नपि शवायते ॥ २०१ ।। शवायमानः क्रमशस्त्यज्यते खजनैरपि । जायते क्षुद्रजन्तूनामास्पदं स ततः परम् ।। २०२ ॥ मा कृथास्तद्वचोलोपं पुरुषव्रतहारिणम् । असत्यवचसः सत्यं स्थास्रवो न श्रियोऽपि ते ॥ २०३ ॥ यान्त्यस्ताश्चोत्पथायाताः सपुत्रपशुबान्धवम् । भवन्तमपि नेष्यन्ते तटग्राममिवापगाः ॥ २०४ ।। सत्यपूतं तु कौन्तेयमेष्यन्ति नियतं श्रियः । मरालानामिव श्रेण्यः सरःसरसिजोज्वलाः ॥ २०५॥ सत्यमेव तदीयं ते पुरापि हि महीमदात् । को नामापरथा तस्मादिमामाच्छेत्तुमीश्वरः ॥ २०६ ॥ दोर्दण्डान्पाण्डवेयानां संनिधायाधिमानसम् । आत्मनः सत्यमत्यन्तमुत्तम्भयितुमर्हसि ॥ २०७ ॥ यद्वा राधेयगाङ्गेयद्रोणादीनां धनुष्मताम् । भुजानालोक्य निर्भीको भुवं नार्पयसि ध्रुवम् ॥ २०८॥ अमीषामपि गन्धर्वराजगोग्रहविग्रहे। प्रत्यक्षीकृतमेवास्ति भुजयोसर्जितं त्वया ॥ २०९ ॥ निर्देशाद्यद्यजातारे गमिष्यद्धनंजयः। त्वां गन्धर्वेन्द्रपारीन्द्रात्कस्ततोऽमोचयिष्यत ।। २१० ॥ पाण्डवचरितम् । गोग्रहे मरसि प्राणनिग्रहे सघृणोऽर्जुनः । सानीकस्यापि ते वस्त्रमूर्त्या कीर्ति हरिष्यति ॥ २११ ॥ प्रेयस्याः सर्वदा यस्य धर्ममर्माविधः क्रियाः । धर्माभिसारिणीयाभिलक्ष्मीभिर्नास्य संगमः ॥ २१२ ॥ यस्य धर्मोऽयमेकोऽपि सैन्ये संनह्यते मुदा । कक्षवत्प्रतिपक्षौघं तस्य संहरतेऽग्निवत् ॥ २१३ ॥ वत्स मत्सरमुत्सृज्य तदर्पय महीमिमाम् । धर्मजीवितकीर्तीनां मा स्म भूः क्षयवासरः ॥ २१४ ॥ इत्याकर्ण्य तयोर्वाचमुच्चैरुत्प्रासपांसुरः । दोर्दर्पदर्शितावज्ञमभ्यधाद्धृतराष्ट्रभूः ॥ २१५ ॥ तातौ धर्ममपि क्षात्रं न जानीथाः कथं युवाम् । काश्यपीं करमारूढां क्षत्रियः क इवार्पयेत् ॥ २१६ ॥ प्रत्युतार्पयतः काम दो कीर्तिः कलुषीभवेत् । कराक्रान्तकरित्यागे कुण्ठं कण्ठीरवोर्जितम् ॥ २१७ ॥ न्यायोऽपि स खलु न्यायो यस्तेजस्विमिराहतः । अङ्गीकृतः प्रदीपौधैर्दर्शोऽपि हि महोत्सवः ॥ २१८ ॥ किं च यज्जीयते जातु कातरैरप्यकातरः । तद्दैववैभवं किंचिन्न नाम भटिमव्ययः ॥ २१९ ।। तन्मा भैष्ट अदीपिष्ट विष्टपग्रासलालसः । मद्विक्रमकृशानुश्चेत्तद्दग्धा एव पाण्डवाः ॥ २२०॥ एतैर्जराप्रलापैस्तु मा मा मां भवविक्लवैः । पुनः पुनर्मनाकान्तिहेतुभिर्व्यथयिष्यथः ॥ २२१ ।। तस्येत्युक्तिमुपश्रुत्य श्रुतिविश्राणितज्वराम् । खेदादुत्थाय वैचित्रवीर्यों खस्थानमीयतुः ॥ २२२ ।। अथ दायादसंदोहक्रियाशङ्काविरक्तधीः । संसारसुखसंभारभङ्गुरो विदुरोऽभवत् ॥ २२३ ॥ 7. 'अन्यायोऽपि खलु न्यायः' इति गद्यपाण्डवचरितानुसारेणोचितं प्रतिभाति. ४६२ काव्यमाला। स वैराग्यभराचान्तस्वान्तवृत्तिरचिन्तयत् । धिक्संपदः प्रभुत्वं धिक् धिक वैषयिकं सुखम् ।। २२४ ॥ यत्कृते पितरं पुत्रः पिता पुत्रमपि कचित् । सुहृच्च सुहृदं बन्धुर्बान्धवं च जिघांसति ॥ २२५ ।। धिक्पापप्रभवाः पापप्रसविन्यः श्रियोऽसताम् । जाता हि यादृशस्तादृक्फलं प्रसुवते लताः ॥ २२६ ॥ श्रीमातङ्गीपरीरम्भलम्भिताद्भुतकल्मषाः । न धर्ममग्रजन्मानं स्पष्टुमभ्यधिकारिणः ॥ २२७ ॥ कथं नु विषयासङ्गपङ्कपङ्किलमूर्तयः । सुभगभावुकीभूय भजेयुर्मुक्तियोषितः ।। २२८ ।। एतानधर्मचाण्डालसंश्लेषमलिनान्कुरून् । न खलु द्रष्टुमीशिष्ये म्रियमाणान् रणाङ्गणे ॥ २२९ ॥ तत्तदीयमदृष्ट्वैव संहारं समराजिरे । मम प्रव्रजितुं संप्रत्युत्कर्षं दधते धियः ॥ २३० ॥ एवमालोचयन्सोऽयमश्रौषीत्कस्यचिन्मुखात् । यदुद्याने मुनिर्ज्ञानी विश्वकीर्तिरुपागमत् ॥ २३१ ।। तत्रोपेत्य ततो हर्षादुन्मिषत्पुलकाङ्कुरः । स तं मुनीन्द्रमानम्य तत्पुरस्तादुपाविशत् ।। २३२ ।। अथ संसारसंतापनिर्वापणसुधोपमाम् । आरेभे भगवान्दत्तशर्माणं धर्मदेशनाम् ॥ २३३ ॥ मनःक्षेत्रे गुरोर्वाक्यजलैरप्लावितात्मनि । पुण्यबीजानि किं नाम देहिनां दधतेऽङ्कुरम् ॥ २३४ ॥ कषायग्विषाहीन्द्रविषविक्लविते हृदि । गुरुवागमृतस्यापि नालंकर्मीणता क्वचित् ॥ २३५ ।। कषायधनवर्षेण विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां धर्महंसः कियद्वसेत् ॥ २३६ ।। पाण्डवचरितम् । ४६३ कषायमदिराखांदविपर्यासितचेतसः। हहा देहभृतो हन्तुमीहन्ते बान्धवानपि ॥ २३७ ।। कषायनिम्नगापूरः कषित्वा भाग्यभूरुहम् । जन्तून्लुतनयद्वीपः प्रक्षिपेद्विपदार्णवे ॥ २३८ ॥ भवेत्पाणिधमः कामं सनातनपुरीपथः । स्वतन्त्रास्तत्र चेन्न स्युः कषायाः परिमोपिणः ॥ २३९ ।। त एवास्माद्विमुच्यन्ते कपायदवपावकात् । ये श्रयन्ति नराः पुण्यपीयूपसरसोऽन्तरम् ।। २४०॥ कषायविषकुल्याभिः सिक्तान् संसारकानने । माणापहान्हहा जीवाः सेवन्ते विषयद्रुमान् ।। २४१ ॥ तत्वयाप्यद्य दायादकषायग्रीष्मतापितः । महात्मन् शमपीयूषैरात्मा निर्वाप्यतामयम् ॥ २४२॥ मनस्तव परिज्ञाय ज्ञानात्संसारकातरम् । आयातोऽसि पथो दूरात्तद्विधेहि स्वमीहितम् ॥ २४३ ।। सर्वसंहारसाक्षेपा राक्षसी भवितव्यता। न निवर्तिप्यते सेयमकृत्वा ते कुलक्षयम् ॥ २४४ ॥ उत्थाय विदुरोऽवादीत्ततः कुक्ष्मलिताञ्जलिः । स्वामिस्त्वमेव संसारपारावारान्तरीपभूः ॥ २४५॥ त्वां वीक्ष्य विश्वजीवातुं जीमूतमिव नूतनम् । त्यक्तदुःखौघधर्मसंतापं मे मनोऽभवत् ।। २४६ ॥ विमुक्तिपथपाथेयकल्पमखल्पसौख्यदम् । तत्स्वपाणिसरोजेन व्रतं मे दातुमर्हसि ॥ २४७॥ मा कृथाः प्रतिबन्धं त्वमित्युक्ते मुनिना ततः । प्रणम्य प्रीतिपर्यश्रुर्विदुरः पुरमागमत् ॥ २४८ ।। ज्येष्ठं बान्धवमामन्य मध्यमं तु विशुद्धधीः । निधाय माद्यां तद्वाचा स तं मुनिमगात्पुनः ।। २४९ ॥ १. अन्धकाराद्यावृत मार्गः, ४६४ काव्यमाला। चकार सर्वसावद्यनिवृतिं च तदन्तिके । महीमप्रतिबद्धश्च विजहार समीरवत् ॥ २५० ।। अन्येद्युर्मितसामन्तपरिच्छदविराजितः । देवः स कंसविध्वंसी खयं हास्तिनमाययौ ॥ २५१ ॥ मृगाङ्कमिव राकायां स्तोकतारकभूषितम् । प्रत्युद्ययौ तमत्यल्पपरिवारं कुरूद्वहः ॥ २५२ ॥ मितैरपि हरेः सैन्यैः कुरुसेना महत्यभूत् । भृशं बर्द्धयतेऽम्भोधेस्तरङ्गोऽपि तरङ्गिणीम् ॥ २५३ ।। अथोत्क्षिप्तपताकौघं प्रसूनप्रकरावितम् । पुरं संभ्रान्तरम्भोरु कैटभारातिराविशत् ॥ २५४ ॥ ततः सौधे समानीय सूत्रितखागतक्रियम् । तस्यां संसदि दिव्यायां न्यवीविशदमुं नृपः ॥ २५५ ॥ रत्नसिंहासनज्योतिर्जटालिततनुश्रुतिः । बभार कैटभारातिः सेन्द्रायुधधनश्रियम् ॥ २५६ ।। भीष्मदुर्योधनद्रोणकर्णदुःशासनादिभिः । वृतः स धृतराष्ट्रः स व्यभादिन्दुरिवोडभिः ।। २५७ ।। अथो जगाद सानन्दं मुकुन्दं कुन्दसुन्दरैः। वैचित्रवीर्यः रूपयन्नुदश्च दशनांशुभिः ।। २५८ ॥ धन्यमन्यं गृहं मेऽभूत्त्वत्संभावनयानया। इदानीं तु गिरा श्रोत्रे पवित्रयितुमर्हसि ।। २५९ ।। संसदुद्द्योतनिस्तन्द्रमितचन्द्रातपोज्ज्वलम् । वदनेन्दुं वहन्नुच्चैर्व्याजहार हरिस्ततः ॥ २६० ।। वैचित्रवीर्य धात्रीश बचोवैचित्र्यजन्मभूः । भवद्भिः प्रहितोऽगच्छदारका संजयः पुरा ॥ २६१ ॥ स तदानीमतिखेहाकुलप्रलयकातरः । संधानविषयं किंचित्तपासुतमवोचत ॥ २६२ ।। पाण्डवचरितम् । ४६५ संघौ सत्यपि कौन्तेय भूपाले बलशालिभिः । भ्रातृमिर्भीमवीभत्सुप्रमुखैर्नैव संदधे ॥ २६३॥ ततोऽस्माकमनावेद्य विग्रहे जातनिश्चयः । द्वारवत्याः समेयाय संजयो गजसाह्वयम् ।। २६४ ।। तं समस्तमुदन्तं मे धर्मसूनुरचीकथत् । . हृदयस्य हि सर्वेषामनाख्येयं न किंचन ॥ २६५ ॥ ततोऽहं कुरुभूपालकुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान्दूत्याय खयमागमम् ॥ २६६ ॥ यूयं किंचित्तदाप्तत्वं संभावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं मनस्याधातुमर्हथ ।। २६७ ॥ आप्तवाचोऽपि हि प्रायो दध्माते जडात्मनि । हन्त मज्जन्ति निर्नाम पर्वता इव सागरे ॥ २६८ ॥ प्रत्युत प्रज्वलत्याप्तोपदेशे दोर्मदोद्धतः । दीप्यते नितराममिस्तैलभूरनलोऽम्बुभिः ।। (१)२६९ ।। अन्धत्वं नेत्रसद्भावे बाधिर्ये श्रुतिपाटवे । मूकत्वं वाक्प्रवृत्तौ च श्रीरियं महतामपि ॥ २७०।। दुर्गेहिनी च पुंसा श्रीवेश्मनीव न मानसे । दत्ते हितोपदेशानां खजनानामिवाश्रयम् ॥ २७१ ॥ लक्ष्मीश्च भुजदर्पश्च द्वयमेतहुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च दुःसहौ खलु संहतौ ॥ २७२ ।। सुजनोक्तिः कर्थकारमहंकारमयं मनः। विशेत्कुलीनकन्येव निवासं विटसंकटम् ॥ २७३ ॥ संवृत्त्य तद्भुजागर्दै लक्ष्मीमदमुदस्य च । . शृणोति चेत्तदेतर्हि किंचिद्वच्मि सुयोधनम् ॥ २७४ ।। स्वच्छन्दं वद गोविन्देत्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह विहङ्गेश्वरवाहनः ॥ २७५ ॥ 'अनिलाम्बुभिः' इति भवेत. . काव्यमाला। पाण्डवेभ्यो भुवः खण्डमपि त्वं नैव दित्ससि । एतां ते तु जिघृक्षन्ति तव प्राणैः सहाखिलाम् ॥२७६ ॥ पार्थानुन्मथ्य साम्राज्यं त्वमेवाथ करिष्यसि । तथापि न खलु श्रेयः काः श्रियः खजनैर्विना ।।:२७७ ॥ रणाङ्गणे च ते नूनं विपत्स्यन्ते न केवलाः । तथापि गात्रमात्रेण यदि स्यादवशेषतः ॥ २७८ ॥ तदारब्धकुलोच्छेदः कोऽयं शौण्डीरिमा तव। किमेतच्च कुलाक्षिप्तप्रभावं बुद्धिवैभवम् ।। २७९ ॥ यतो द्वेषाप्यसौ वेधा धर्मभूर्धर्मकर्मणि । आतङ्ककृद्गदोऽरीणां द्वेधापि पवनोद्भवः ॥ २८० ॥ बीभत्सुरतिबीभत्सकर्मकृद्वैरिदारणे । यमौ दोर्बलदुःप्रेक्षविपक्षपटलीयमौ ॥ २८१ ॥ श्रेयस्कारस्तदेतेस्तै संघिरेव पृथासुतैः । ईदृशा हि क लभ्यन्ते सहायाः स्वस्य बान्धवाः ॥ २८२ ॥ विस्मार्य तदपस्मारं वितर्कोदर्कमात्मनः । पञ्चग्रामानिमान्पाण्डुसुतेभ्यो दातुमर्हसि ॥ २८३ ॥ कुशस्थलं वृकस्थलं माकन्दी वारणावतम् । चतुरोऽवरजेभ्योऽमून्कंचिच्चाद्याय-पञ्चमम् ॥२८॥ (युग्मम् इयतापि त्वया संधि ते विधास्यन्ति मदिरा । सन्तोऽल्पेनापि तुष्यन्ति वीक्षमाणा कुलक्षयम् ।। २८५ ॥ अन्यथा नीरराशीनामिव-प्लावयतां जगत्।।, त्वद्बले क इवास्ते यस्तेषां सेतुर्भविष्यति ॥ २८६.॥ व्याहृत्येति हृषीकेशे स्थिते दुःशासनाग्रजः ।। ऊचे चम्पाधिपालोकं साचिसंचारिलोचनः ।।.२८७ ।। एतावदपि गोविन्द, मन्यसे नैव किं बहु ।- यदद्याप्येष मुच्या(श्चा)मि प्राणतः पाण्डुनन्दनान्- ॥:२८८। पाण्डवचरितम् । इदानीमपि यद्येते.वाती ग्रामस्य- दोर्मदात् । एकस्यापि करिष्यन्ति न भविष्यन्ति तद्भवम् ।। २८९ ॥ स्वभुजौर्जित्यपर्यन्तं तेऽथ काङ्क्षन्ति वीक्षितुम् । तदायान्तु कुरुक्षेत्रे क्षिप्रं साकमपि त्वया ॥२९० ॥ इत्युक्ता सह कर्णेन निर्गत्य सदनाहिः। संनिश्चित्य हरेबन्धमेत्य भूयोऽप्युपाविशत् ॥ २९१ ।। तं कथंचित्परिज्ञाय सात्यकिमन्त्रमेतयोः । -संज्ञया ज्ञापयामास कंसविध्वंसकारिणः ॥ २९२ ॥ ततस्ताम्रीभवद्भालकपोलनयनोत्पलः । सखेदपुलकः क्रोधाजगादेति गदाग्रजः ।। २९३ ॥ उपकारिणमप्युच्चैरपकुर्वन्ति दुर्धियः । दन्दहीति न होतारं किं हुतोऽपि हुताशनः ॥ २९४ ।। एतज्जीवातवेऽप्युच्चैबहुधा मम धावतः । बन्धमिच्छति दुर्मेधास्तरकोऽयं कुपिते मयि ।। २९५ ॥ मन्दोऽपि न मृगारातिः शृगालैः परिभूयते । ग्रस्यते न ग्रहोड्योतैः क्षीणस्यापि विधोमहः ॥ २९६ ॥ कृपयैव तु 'नेदानीमेव व्यापादयाम्यमुम् । भवन्तु पाण्डवेयानां सावकाशाः क्रुधोऽपि च ॥ २९७ ॥ कुरुक्षेत्रे त्वसौ क्षत्रलक्षगुप्तोऽपि ढौकताम् । • सर्वेषामपि तत्रैव ज्ञास्यते मुंजवैभवम् ॥ २९८ ॥ एते तु वयमायाता एव संप्रति सत्वरम् । ऊर्जस्विभुजवीर्याणामाहवोऽपि महोत्सवः ॥ २९९ ॥ इत्युक्ता सहसोत्थाय क्रोधाताम्रतनुश्रुतिः । ज्वलन्निव बृहद्भानुर्निर्ययौ सहसा हरिः ॥ ३०० ॥ तत्प्रकोपाकुलीभूतखान्ताः सान्त्वयितुं ततः । गाङ्गेयधृतराष्ट्राद्याः पारिषद्यास्तमन्वयुः ॥ ३०१ ॥ ४६८ काव्यमाला। ततः करे समालम्ब्य गौरवोत्तरया गिरा । i ते कामं चकितात्मानो मञ्जु केशिनमूचिरे ॥ ३०२ ॥ महात्मानो न कुप्यन्ति खेदिता अपि दुर्मदैः। तुषारतरधारो हि तडित्क्षिप्तो हि तोयदः ॥ ३०३ ॥ न ताम्यन्ति महीयांसो दुर्वचोभिर्लघीयसाम् । वहते न हरिः खेदं फेरु(र)ण्डरवताण्डवैः ॥ ३०४ ।। सन्तो विकृतिमेष्यन्ति चेत्परैः परितापिताः । काञ्चनं दहनक्लिष्टं तद्गमिष्यति रीतिताम् ॥ ३०५ ॥ तन्मनागपि मा कृष्ण क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं हिमांशोरमिवृष्टयः ॥ ३०६ ॥ आसतां पाण्डवास्तावत्त्वयाप्येकाकिना रणे । अभियुक्ता क्व नामैते सन्ति दुर्योधनादयः ॥ ३०७ ॥ पुरः केसरिणः के हि.दुर्धरा अपि सिन्धुराः । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः ॥ ३०८॥ त्वया पाणौ कृता पूर्वं जयश्रीः परिभोगभाक् । कथं गोविन्द निर्व्रीडैः पाण्डवैः परितोष्यते ॥ ३०९ ।। विनापि त्वां विजेष्यन्ते कौन्तेयाः समितिद्विषः । येषां तौ सहयोद्धारौ धर्मन्यायौ तरखिनौ ॥ ३१० ॥ पापीयांसस्तु लप्स्यन्ते गान्धारेयाः क्षयं खयम् । जीवितव्यं कियन्नाम गुर्वादेशविलचिनाम् ॥ ३११ ॥ त्वं तु वजनदायादघातपातकसंभवाम् । अकीर्ति मा ग्रहीरेता महतां हि यशः प्रियम् ॥ ३१२ ।। तदाहूतोऽपि कौन्तेयैरायासीर्मा स्म संयति । त एव हन्त युध्यन्तां येषां वैरं परस्परम् ॥ ३१३ ॥ वयं मान्याश्च कायेऽस्मिन्वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ॥ ३१४ ॥ १. रीतिर्दग्धखर्णादिमलम्. पाण्डवचरितम् । १६९ इत्येषां विनयार्द्राभिर्भारतीभिर्मृदूकृतः । कोपप्रशान्तिकान्तश्रीर्जगाद गरुडध्वजः || ३१५॥ वर्षीयांसो भृशं यूयं माननीयगिरो मया । मां वीक्ष्य विग्रहः किंतु प्रस्तुतः पाण्डवैरपि ।। ३१६ ॥ तदेषां सांयुगीनानां संयुगोत्सासङ्गिनाम् । भाव्यमेव मया सद्भिः प्रतिपन्नं हि नान्यथा ।। ३१७॥ किंतु संग्राममुत्तीर्णो न ग्रहीप्ये धनुः खयम् । सारथ्येनैव पार्थस्य सहायो भवितास्म्यहम् ॥ ३१८॥ एतावतास्तु यौष्माकवचसामनतिक्रमः । अमेयमहिमानो हि मान्या एव भवादृशाः ॥ ३१९ ॥ इत्युक्त्वा स मिलत्पाणिकुडालस्तान्निवर्तयन् । राधेयं स्वकरे धृत्वा रथमारोपयन्निजम् ॥ ३२०॥ पाण्डुमालोकितुं गच्छन्हरिविंदुरवेश्मनि । कर्णमभ्यर्णमासीनमभ्यधादिदमादरात् ॥ ३२१॥ कर्ण निर्नाम निर्मज त्वया वीरव्रतं धृतम् । प्रकाशन प्रदीपस्य नेत्रकमेव रात्रिषु ।। ३२२ ।। त्वया दुर्योधनो दुर्योधन इत्यभिधीयते । दम्भोलिनैव देवेन्द्रो देवेन्द्र इति गीयते ॥ ३२३ ॥ दधत्यासीदकर्णैव पुनर्वीराननीदृशः । विभ्रती त्वां तु भूः कर्ण सकर्णेयं द्विधाप्यभूत् ।। ३२४ ॥ त्वय्येवौदार्यगाम्भीर्यशौर्यधैर्यादयो गुणाः । वारिधाविव रत्नानि व्योमाङ्गण इव ग्रहाः ॥ ३२५ ॥ सन्त्येव वीराः किंत्वन्यद्धीर वीरव्रतं तव । गिरयो गुरवः काम मेरोस्तु गरिमा परः ॥ ३२६ ।। किं तु दुर्योधने दुष्टे दुनोति तव संश्रयः । माणिक्यस्येव जात्यस्य भूपणे रीतिनिर्मिते ॥ ३२७ ॥ ४७० काव्यमाला मित्रं करोति को नाम क्रूरकर्माणमीदृशम् । वयस्यीयति विश्रम्भघातिनं को हि पन्नगम् ॥ ३२८ ॥ कामं कृतोपकारेऽपि विश्वस्यान्न जडात्मनि । किं न सायन्त्रिको(१)जातु निमज्जयति नीरधिः ॥ ३२९ ॥ पुमांसमनयकान्तं विजहन्त्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं मुञ्चन्ति हि मरीचयः ॥ ३३०॥ अवश्यं निपतन्त्येव पतयालुषु संश्रिताः। पतत्येव तरुः कूलंकषाकूले निपातिनि ॥ ३३१ ॥ वर्द्धन्ते तु विवर्द्धिष्णुश्रियमाश्रयतः श्रियः । लक्ष्मीर्वलक्षपक्षेन्दुभरीचीनामुदित्वरी ॥ ३३२.॥ पावयत्यन्तरात्मानं प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं कर्पूरद्रुमसंगमः ॥ ३३३ ॥ विक्रमोऽपि स्फुरत्युच्चैः पुरतः पुण्यतेजसः । भास्वतः पुरतः कामं दीप्यते दर्पणद्युतिः ।। ३३४ ॥ सार्वजन्येन सौजन्यं कीर्तिमावहते पराम् । प्राच्येन मरुता मैत्री श्लाघनीया धनस्य यत् ।। ३३५ ॥ तत्तवार्हति धर्मात्मजन्मना सह संगमः । न पुनर्धार्तराष्ट्रेण मतिमन्पापजन्मना ॥ ३३६ ॥ किं च त्वमपि कौन्तेयः प्रकारेणासि केनचित् । ममात्रेष्यत एवासौ रहः कुन्त्या निवेदितः ।। ३३७ ॥ 'त्यक्तलब्धस्तु राधायाः कर्ण त्वमसि नन्दनः । नहि निर्याति वैडूर्य बालवायभुवं चिना ॥ ३३८ ॥ तद्भवान्सुभटोत्तंस कौन्तेयाना सहोदरः। बन्धूनेव ततोऽभ्येतुं साम्प्रतं तव साम्प्रतम् ॥ ३३९ ॥ कृते तेजखिधौरेयसंगते धर्मसूनुना । तदीयबन्धुतामुक्तालतायां नायकायसे ॥ ३४० ।। १. 'सांयात्रिकम् इति भवेत्, 8 पाण्डवचरितम् । इत्युदीर्य स्थिते प्रीतिनिर्भर कैटभद्विषि । कर्णः कीर्णसितज्योत्सावदातवदनोऽवदत् ॥ ३४१॥ सत्यं नीतिलताकन्द गोविन्द त्वं यदभ्यधाः । मैत्री काममयुक्तैव सार्थं दुर्योधनेन मे ॥ ३४२ ॥ आलिङ्गति कदाचित्कि हेमन्त मलयानिलः । लज्जते विभवः किं वा दारिद्येण समागमम् ।। ३४३ ॥ परं दुर्योधनेनैव सूतत्वमवचित्य मे । भूपतित्वं सितच्छत्रपवित्रमभिसूत्रितम् ॥ ३४४ ॥ मयाप्यमायिना तस्मिन्नाजन्मेदमुरीकृतम् । यत्तवैव मम प्राणा नेतव्या यत्र ते रुचिः ।। ३४५॥ मित्रोपकृतिभिर्नित्यमात्मा नीतोऽयमार्द्रताम् । तद्द्विषद्योगधूलीभिः पङ्किलीक्रियते कथम् ॥ ३४६ ॥ गान्धारेयं परित्यज्य पाण्डवेयं श्रयत्यपि । विश्रम्भो हन्त सौहार्दै मयि तस्यापि कीदृशः ॥ ३४७ ॥ अकीर्तयस्तु काकोलकोलकोकिलकश्मलाः। विश्वेऽपि मयि कर्तारः शाश्वती दर्शशर्वरीम् ॥ ३४८॥ तन्न्यायविकलस्यापि गान्धारीतनुजन्मनः । कार्ये नूनममून्याणान्मोक्ष्यामि समराङ्गणे ॥ ३४९ ॥ त्वया कक्षीकृतः कृष्ण धर्मभूभॊक्ष्यते भुवम् । वातनानुगृहीतो हि पुष्पामोदोऽश्नुते दिशः ॥ ३५०॥ भविता तु मया त्यक्तो निराशः कौरवो भृशम् । वह्नेः कियानवष्टम्भो विमुक्तस्य नभखता.॥ ३५१ ॥ अज्ञैर्भूभारभूतैः किं न येषामस्थिसंचयः । दधाति युधि मित्रार्थे सैन्यसंमर्दपांसुताम् ॥ ३५२ ॥ मित्रस्नेहेन दग्धोऽयं रूषितो रणरेणुमिः। स्वङ्गघाराजलैः स्नातो धन्यस्यात्मा विशुध्यति ॥ ३५३:॥ ४७२ काव्यमाला। तत्र किं च न वाच्योऽहं धर्मभूमैत्रकर्मणि । महात्मानो हि सर्वेषां हृदयाकूतकोबिदाः ॥ ३५४ ॥ किं तु मे नतिमाख्याय मातुः कुन्त्या निवेदयेः । जीवितं न हरिष्यामि चतुर्णी त्वत्तनूरुहाम् ॥ ३५५ ॥ फाल्गुनं पुनराबाल्यादपि केनापि हेतुना । मन्मनो विजयाकाङ्क्षि संपराये जिघांसति ॥ ३५६ ॥ तन्मातस्ते भविष्यन्ति पञ्चैव नियतं सुताः। सार्जुना वा हते कर्णे सकर्णा वा हतेऽर्जुने ॥ ३५७ ॥ इत्युक्तवन्तमालिङ्गच तमभङ्गुरसंगरम् । उल्लसद्विस्मयः कर्ण कंसारातिर्न्यवीवृतत् ॥ ३५८ ॥ मन्दिरे विदुरस्याथ मनं शमसुधाम्बुधौ । अद्राक्षात्पुण्डरीकाक्षः पाण्डं ताण्डवितोत्सवम् ।। ३५९ ।। पञ्चग्रामार्थनापूर्व विग्रहान्तमसौ ततः। निजागमनवृत्तान्तं पुरः पाण्डोन्यवेदयत् ।। ३६० ॥ प्रकोपं शमपीयूषवाधैरोनिलोपमम् । तत्कालं कलयन्पाण्डुर्बभाषे कैटभद्विषम् ॥ ३६१ ॥ तत्कोपप्रलयाम्भोधेर्दूरं कौरवभूधरान् । निमज्जयिप्यतः सेतुः शस्त्रसंन्याससंगरः ।। ३६२ ॥ अतस्तानेव मद्वाचमाचक्षीथाः पृथासुतान् । युप्माकं चेन्मया जन्म मा स तद्भूत कातराः ॥ ३६३ ।। मा भूच्च वः समीकेषु बान्धवलेहविप्लवः । कार्य बन्धुष्वपि प्रेम न सर्वखविलोपिषु ॥ ३६४ ॥ समा(ना)भीनपि निर्मिन्द्यात्खपदाक्रान्तकारिणः । निर्नाशयति तिग्मांशुर्यद्वयोमव्यापिनो ग्रहान् ॥ ३६५ ॥ प्राणान्परैर्हतक्षोणिः क्षत्रियः क्षत्रियः किमु । विलुनकेसरो जीवन्केसरी किमु केसरी ॥ ३६६ ॥ १. युद्धेपु. पाण्डवचरितम् । ४७३ जीवतो यस्य जीवन्ति परिभूयाप्यरातयः । तस्मात्पुंसो वरं पांसुर्योऽस्ति वै ग्रसते जलम् ॥ ३६७ ॥ स ग्रावापि परं योऽपादाक्रान्तो ज्वलत्यलम् । . न पुनः स पुमान्वैरिपरिभूतोऽपि यः क्षमी ॥ ३६८॥ तद्वत्साः शममुत्सृज्य स्वमूरीकृत्य तन्महः । महीं कीर्त्या समं प्रीत्या हरेत रिपुभिहृताम् ।। ३७९ ॥ किं चान्यत्कृष्ण निष्णाते वैरिखण्डनकर्मसु । सहाये त्वयि संग्रामः कौन्तेयैर्नातिदुर्जयः ॥ ३७० ॥ इत्युक्ते पाण्डुना चण्डकोपारुणितचक्षुषा । मन्यमानस्तृणं शत्रून्कैटभारातिरभ्यधात् ।। ३७१ ॥ विरोधिनां जये राजन्संशयस्तव मा स्म भूत् । इयत्कालमगोपाय त्वत्तनूजक्षणेक्षणात् ॥ ३७२ ।। दावानले ज्वलत्युचैर्महान्तोऽपि महीरुहः । भवन्ति भस्मसात्तूर्णमिषीकाणां तु का कथा ॥ ३७३ ॥ किंतु राजन्मया सार्धं त्वमप्यागतुमर्हसि । त्वद्वियोगातुराः कामं दुःखं तिष्ठन्ति ते सुताः ॥ ३७४ ॥ इत्युक्तेऽम्भोजनाभेन भूयः पाण्डुरदोऽवदत् । सति त्वयि सुतानां मे न दूरे विजयो हरेः ॥ ३७५ ॥ तद्विध्वस्तरिपुव्रातानुदूढविजयश्रियः । भूयः प्राप्तस्वराज्यांस्तान्द्रष्टुमिच्छामि नान्यथा ॥ ३७६ ॥ तद्गच्छ त्वं जवादेत्य निर्जित्य समितिद्विषः । स्वबन्धुभ्यः पुनर्देहि निजां साम्राज्यसंपदम् ॥ ३७७ ॥ इत्युक्तवन्तं वैचित्रवीर्यमापृच्छय तत्क्षणात् । जगाम त्वरित कोपाद्वारका द्वारकापतिः ।। ३७८ ॥ तत्रोपेत्य रहः सर्व हास्तिनीयं जनार्दनः । तां कथां कथयामास सबन्धोधर्मजन्मनः ॥ ३७९ ॥ ४७४ काव्यमाला॥ पाण्डवेयास्ततः सर्वेऽप्यानन्दमतुलं दधुः । नेदीयानिद्धवाहूनामाहवे हि महामहः ॥ ३८० ॥ मुरारेः पुनरादेशासजीकर्तुमनीकिनीः । सैनिकैर्विकसद्बाहुविक्रमैरुपचक्रमे ॥ ३८१ ॥ दन्ताघातकराघातमात्राघातपुरःसरम् । कर्म सांग्रामिक तत्तदध्याप्यन्ते स्म सिन्धुराः ॥ ३८२ ॥ रचयन्ति स्म संचार्य सर्वसान्नायवीथिषु । तुरङ्गान्सङ्गरोत्सायोग्यानश्वंदमोत्तमाः ॥ ३८३ ।। केषुचिद्धूर्वरूथाक्षयुगचक्रध्वजादिकम् । कांश्चन स्यन्दनान्नव्यान्सूत्रयन्ति स्म सूत्रिणः ।। ३८४ ॥ पित्राख्याजात्यभिज्ञानवृत्यस्त्रप्रश्नपूर्वकम् । प्रस्तूयन्ते स्म पत्तिभ्यो दानानि कनकोत्करैः ॥ ३८५ ॥ सामन्तेभ्यः समस्तेभ्यस्त्वरागमनहेतवे । राजदौवारिकैराप्तै राजादेशा विनिर्ययुः ।। ३८६ ।। करीरपिचुमन्दादिपल्लवाखादभेदुरम् । स्वं स्वमौष्ट्रिकमानायि राजकैर्जाङ्गलस्थलात् ॥ ३८७ ॥ गुडप्रक्षरपर्याणोपकार्या कवचादयः । राजवेश्मनि निर्भातुमारभ्यन्ते स कारुभिः ॥ ३८८ ॥ भारारोपकृते कैश्चिद्दर्पा इव शरीरिणः । दम्यन्ते स्म ककुमन्तो रेणुगोणिभिरुल्वणाः ॥ ३८९ ॥ पण्यसंग्राहिणः केऽपि केऽप्यन्नक्रयकारिणः । वणिक्पुत्रभृतः केऽपि संवहन्ते म नैगमाः ॥ ३९०॥ सौधोपरि सपल्यङ्कदत्तगुप्यद्गुरूत्कराः । सज्जन्ति स्म प्रयाणाय वारसारङ्गचक्षुषः ।। ३९१ ।। इति सर्वतः पुरनिवासिजनः कटकप्रयाणरभसाकुलितः। निजकर्म तत्तदचिरं रचयन्नभवद्भशं प्रमदपल्लवितः ।। ३९२ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रुपदपुरोहितसंचयविष्णुदत्यवर्णनो नामैकादशः सर्गः ॥ ११ ॥ पाण्डवचरितम् । द्वादशः सर्गः । अथान्येद्युर्जरासन्धदूतः सोमकसंज्ञकः । आगमद्विक्रमद्वीपिधारको द्वारकां पुरीम् ॥१॥ स शालस्खलनालोलतुङ्गकल्लोलशालिनि । विश्रान्तचक्षुरश्रान्तं सागरे परिखायिते ॥ २॥ ऊर्म्यानीतस्फुटच्छुक्तिमुक्तमुक्ताङ्कवेदिके । प्राकारे काञ्चनेऽत्युच्चैलॊचने चरितार्थयन् ॥ ३ ॥ वेलावननभवद्भिरसौ बीतपथश्रमः । उल्लसद्विस्मयावेशविवशः प्राविशत्पुरीम् ॥ ४ ॥ (त्रिभिर्विशषकम्) तां विलोक्य स निःशेषहिरण्मयनिकेतनाम् । तृणाय मतिमान्मेने पुरीं पौरन्दरीमपि ॥ ५॥ शुशोच विपणौ वीक्ष्य रत्नकूटान्स कोटिशः। मुष्टः कष्टमसौ दुष्टैरिति रत्नाकर मुहुः ॥ ६ ॥ अथ भ्रातृभिरक्षोभ्यप्रमुखैः परिवारितम् । पुत्रैर्नेमिमहानेमिसीरिशौरिमुखैरपि ॥ ७ ॥ नमद्भूपालमौलिसग्मरन्दसुरभिक्रमम् । वारनारीकराम्भोजचारुचालितचामरम् ॥ ८ ॥ रत्नसिंहासनासीनं सुनासीरमिवापरम् । सोऽन्तःसदसमद्राक्षीत्समुद्रविजयं नृपम् ।। ९॥ (त्रिभिर्विशेषकम् ) जरासन्धस्य भूभानोः प्रताप इव मूर्तिमान् । पर्वेव गर्वशीतांशोः सोऽनृपमुपाविशत् ॥१०॥ वाचालमौलिमाणिक्यमुदश्चितविलोचनः । राजानं सं]जगादेति यादवान्वयकौस्तुभम् ॥ ११ ॥ राजस्त्वामाह माहात्म्यखर्वितामरपर्वतः। कीर्तिकृत्रिदशाधीशमागधो मगधाधिपः॥ १२ ॥ ४७६ काव्यमाला। दारकौ तव गोक्षीरपानपीनांसकुट्टिमौ । अस्मज्जामातरं कसं जग्मतुर्निनचेतसौ ॥ १३ ॥ तदागःपवमानेन प्रेजितेऽस्मन्मनोवने । यदुवंशैकसंहारकारी कोपाग्निरज्वलत् ॥ १४ ॥ सुताया जीवयशसः पतिमृत्यूच्छलच्छुचः । लोचनाश्रुपयःपूरैस्तसिन्नाज्यघटायितम् ॥ १५ ॥ ततः कालकुमारोऽस्मान्कृतोद्योगान्व्यजिज्ञपत् । संरम्भस्तातपादानां किं सुते सति भय्यपि ॥ १६ ॥ हुंकारेऽपि सति प्राणनिग्रहअहिलौजसि । स्वयं संरभते हन्तुं हरिः किं हरिणबजान् ॥ १७॥ ततः प्राप्यासदादेशमावेशविवशः क्रुधः । स युष्मान्प्रत्यधाविष्ट सिन्धुरानिव केसरी ॥ १८ ॥ ततोऽस्मिन्नभ्यमित्रीणे भिया यूयमनश्यत । उन्मीलिते वसन्ते हि कीदृशः शिशिरानिलः ॥ १९ ॥ क्रोधान्धंभावुकोऽधावत्तदप्यनुपदी स वः । व्यज्ञप्यत चरैरेत्य ततः कैश्चिद्दिनैरदः ॥ २० ॥ यत्कुमारः पुरो गच्छन्क्वचित्परिसरे गिरेः । शून्यानेकस्थलं शून्यरथेमाश्वी[य]संकुलम् ॥ २१ ॥ निर्मानुषपरीवारं स्कन्धावारमुदैक्षत । भीषणा_लिहज्वालाजटिलांश्च चिताचयान् ॥ २२॥ नामग्राहं यदूनां च क्रन्दन्ती परितोऽपि तान् । कांचिद्वर्षीयसीमेकां सोऽद्राक्षीदतिदुःखिताम् ॥ २३ ॥ सोऽथ पप्रच्छ तां भद्रे किमेतदसमञ्जसम् । साचचक्षे सबाष्पाक्षी महाभाग निशम्यताम् ॥ २४ ॥ समुद्रविजयोऽमुष्यामस्यामानकदुन्दुभिः । रामदामोदरावस्यामेताखन्येऽपि यादवाः ॥ २५ ॥ पाण्डवचरितम् । ४७७ चितासु विविशुः कालकुमारभयभगुराः। एतस्यां त्वहमप्यसि विविक्षुः कृष्णसोदरा ॥२६॥ (युग्मम्) कुमारोऽथाब्रवीत्प्रत्यज्ञासिषं पुरतः पितुः । विशन्तु यत्र कुत्रापि दुष्टान्क्रष्टास्मि तांस्ततः ॥ २७ ॥ तत्कर्षामि द्विषो नूनमपि वैश्वानरोदरात् । इति क्रोधेन मूढात्मा खमृत्युमविचिन्त्य सः ॥ २८ ॥ देव मा मेति सैन्यानामुच्चैरियतामपि । झम्पां कृपाणी दत्ते स चितायां रामकृष्णयोः ॥ २९ ॥ क्षणाच्च भस्मसादासीत्ततस्तच्छोकविक्कवैः। भीतैश्च देवपादेभ्यः सैनिकैरपि तत्कृतम् ॥ ३०॥ तदाकर्ण्य क्षणान्नोऽभूदुर्मिः शोकसागरः । क्रमेण च ययौ शान्ति शत्रवोऽपि मृता इति ॥ ३१ ॥ दत्वा पत्युश्च बन्धोश्च युष्माकं च जलाञ्जलिम् । सुता जीवयशा लेभे वैरनिर्यातनासुखम् ॥ ३२ ॥ चिराय केचिदादाय रत्नकम्बलकादिकम् । वस्तुजातमथाजग्मुर्नंगमा नगरं मम ॥ ३३ ॥ तैर्जीवयशसोऽभ्येत्य रत्नकम्बलकादिकम् । दर्शयांचक्रिरे चक्रे मूल्यं तेषां च भूरिशः ॥ ३४ ॥ तेनाथ तैरसंतुष्टैः खेदादिदमुदीर्यत । राजपुत्रि पुरा ह्येते द्वारकावासिभिर्जनैः ॥ ३५॥ इतोऽष्टगुणमूल्येन याचिता रचिताग्रहम् । परमानिन्यिरेऽस्माभिरत्र भूयस्तरेच्छया ।। ३६ ॥ तन्महीपतिमात्रस्य सैव द्वारवती वरम् । नत्वर्धचक्रिणोऽश्रीकमिदं राजगृहं पुरम् ॥ ३७॥ तैरित्यावेदितेऽपृच्छद्विस्मयात्तनयापि नः। कासौ द्वारवती नाम येयमित्थं विकथ्यते ॥ ३८ ॥ ४७८ काव्यमाला। तेऽप्यूचुः श्रूयतां देवि तीरे लवणनीरधेः । अस्ति द्वारवती नाम पुरी सुरविनिर्मिता ॥ ३९ ॥ ऊर्मिषु स्खलनादुच्चैरुच्छलत्सु बलाहकाः (कैः)। वप्रासीनाः(नैः) सुखं यस्यां गृह्यन्ते सैन्धवीरपः ॥ १० ॥ यस्यामुत्तुङ्गसौवर्णनिकेतवलभीगतः । प्रत्युत द्योतते विद्युदुत्सङ्गस्य इवाम्बुदः ॥ ११ ॥ यस्यां हिमकरो हैमवेश्मकान्तिकरम्बितः । सत्यमेवेक्ष्यते वह्निमयो रात्रौ वियोगिभिः ॥ ४२ ॥ यस्यां यदुकुमाराणां खुरलीखेदविषः । पिबन्ति मरुतोऽम्भोधिवेलावनविहारिणः ॥ ४३ ॥ रत्नराशिमुपादातुमिवाद्भुततरं चिरम् । शङ्के रत्नाकरो यस्याः सेवाहेवाकवानभूत् ॥ ४४ ॥ समुद्रविजयस्तस्यां यदुवंशैकमौक्तिकम् । खर्वीकृतसुपर्वेशस्फीतगर्वोऽस्ति भूपतिः ॥ ४५ ॥ तस्यास्त्ववरजो दिव्यमूर्तिरानकदुन्दुभिः । यद्गुणाः(णैः) खेचरीवर्गजागरा पर्वशर्वरी ॥ ४६ ॥ तस्याने क]तनूजस्याप्यासाते तनयावुभौ । गोत्रस्य मण्डनं व्योम्नः सूर्याचन्द्रमसाविव ॥ १७ ॥ तयोराद्यो जगत्येकवली बल इति श्रुतः । नित्यशल्यायितं यस्य दोर्दण्डैहृदि विद्विषाम् ॥ १८ ॥ द्वैतीयीकः पुनरिभोगीणभुजवैभवः । कृष्ण इत्युष्णधामोऽपि यन्महो महिमापदम् ॥ ४९ ॥ यस्य गोपाङ्गनावारपरीवारविराजिनः । कालिन्दीतीरवानीरशाखिनः केलिशाखिनः ॥ ५० ॥ तथा केश्यादिकक्षोदरसैर्यद्विक्रमानलः । पटुश्चक्रे यथा तत्तद्वीरग्रासैनं तृप्यति ॥ ५१ ॥ पाण्डवचरितम् । ४७९ अंसयोर्यस्य चाणूरं हन्तुं प्रस्थानकाम्यतः । स्थासकाश्चक्रिरे गोप्यः कटाक्षमृगनाभिभिः ।। ५२ ।। कम्पिताशेषभूमीभृन्नृत्यच्छक्तिप्रियंकरः । कंसकल्पान्तमातेने भैरवो यस्य विक्रमः ।। ५३ ॥ कर्तुं निश्चिन्तमात्मानं समुद्रविजयो नृपः । यं चकार चिरं द्वारवतीराज्याधिदैवतम् ॥ ५४॥ त एते यादवा यस्यां श्रियं निर्जित्य वज्रिणः । विक्रमन्ते न किं सापि श्रुता द्वारवती त(त्व)या ॥ ५५ ॥ इति जीवयशास्तेषां वचः श्रुत्वातिदुःश्रवम् । कष्टमद्यापि पापास्ते जीवन्त्येवेत्यखिद्यत ॥ ५६ ॥ रुदन्ती सा ततस्तारमागत्योन्मुक्तकुन्तला । आस्थानीमास्थितानां नस्तं वृत्तान्तमचीकथत् ॥ ५७ ॥ जगाद सा पितः क्रूरान्न चेत्तान्संहरिष्यसि । तदाह नियतं तात प्रवेक्ष्याम्याशुशुक्षणिम् ।। ५८ ।। इत्येतस्मिन् श्रुते मन्योर्जागर्यामङ्गलध्वनौ । सौखशायनिका चास्य चिन्तास्माकमभूदियम् ॥ ५९॥ धिक् चरैर्न तदाख्यायि निर्दग्धाः कुकुरा इति । अद्यापि ते तु जीवन्ति तत्कि नामेदमद्धतम् ॥ ६ ॥ यद्वा वर्षीयसी मन्ये तद्गृह्या देवतैव सा । संजहार कुमारं नो विप्रलभ्य चितानलैः ॥ ६१ ॥ यद्वा किं तेन तेऽद्यापि दवीयांसो न यादवाः । बद्धक्रोधे निदाघे हि कियत्खेलन्ति पल्वलाः ॥ ६२ ॥ परमद्यापि जामातृद्विषो चेदर्पयिष्यथ । तदुदेष्यन्ति कल्याणवल्लयो वः कुले चिरम् ॥ ६३ ॥ आख्यातुमिति वो राजन्खामिना प्रहितोऽस्म्यहम् । तदर्पय कुलक्षेमकृते गोपालबालकौ ।। ६४ ॥ काव्यमाला। त्यजन्ति कृतिनः काममल्पीयो बहुहेतवे । मुनयो विषयानन्दं महानन्दकृते यथा ॥ ६५ ।। भास्वानपि समानान्तो हेमन्तेन बलीयसा । निजं तेजः परित्यज्य गमयेत्किं न वासरान् ॥ ६६ ॥ एकं क्रमेलकं त्यक्त्वा पामरं पामरैरपि । उष्ट्रकस्य समग्रस्य किं न शान्तिर्वितन्यते ।। ६७ ॥ दूतवाक्यमिति श्रुत्वा खप्रभुः प्राभवोर्जितम् । ईषत्कोपकरालास्यः काश्यपीपतिरब्रवीत् ॥ ६८॥ रमणीयतमैवेयं वाचोयुक्तिस्तव प्रभोः । त्वमप्यहितमस्माकमूचिवानेव किंचन ॥ ६९ ॥ क्षत्रगोत्रप्रसूतानां नैतदञ्चत्यनौचितीम् । गृह्यन्ते मित्रवर्गेऽपि यहरमपराधिनः ॥ ७० ॥ परं स यदि सौहार्दाद्याचतेऽस्मानमूनपि । दद्म एव तदा सर्व मादृशानां हि मित्रसात् ॥ ७१ ॥ यत्तु खाजन्यमुत्सृज्य बलाबलजनार्दनौ । याचते भवतः खामी तदत्यन्तमसांप्रतम् ॥ ७२ ॥ किं च पापात्मनां कार्यं शासनं भूमिशासनैः । भ्रूणघ्नस्तब्धकंसस्य चक्रे चेत्सबलो हरिः ॥ ७३ ॥ तत्किं न ते प्रभोरेव रमणीयमभूदिदम् । अरुणेन तमोध्वंसः श्रेयसे किसु भाखतः ।। ७४ ॥ प्रत्युताधिक्षिपन्गोपदारकाविति ताविमौ । जिघांसति च ते नाथो दोर्दण्डबलदुर्मदी ।। ७५ ॥ तन्नावति स किं यादृग्विधौ गोपालबालकौ । वेत्ति वा शक्तिमोः किं भस्मतामगतस्तरुः ॥ ७६॥ स स्वयं दास्यते नूनं जीवितस्य जलाञ्जलिम् । दर्दुरेण हि दुर्जीव खलीकृत्य भुजंगमम् ॥ ७७ ॥ पाण्डवचरितम् । ४८१ जातौ कंसश्च कालश्च कालस्य भवनातिथी। अध्वना येन सोऽद्यापि बलोऽस्ति न खलु क्वचित् ॥ ७८॥ सावष्टम्भे भुवः पत्यावित्यादाय वचः स्थिते । दूतः स कोपनिष्ठधूतवाग्विषः पुनरब्रवीत् ।। ७९ ॥ राजन्नाजन्म देवस्य जरासन्धस्य शासनम् । मूर्ध्नि त्वयैव किं नाम न शेषाकुसुमीकृतम् ॥ ८०॥ तत्तवाद्यतनः कोऽयमहंकारनवाङ्कुरः । पक्षौ पर्यन्तकाले वा कलयन्ति पिपीलिकाः ॥ ८१ ॥ एतयोर्बल मा दृप्य गोपबालकयोर्बलात् । तमिस्रबलमाश्रित्य कियन्माद्यन्ति कौशिकाः ॥ ८२ ।। भिया कालकुमारस्य विमुच्य मथुरां पुरीम् । नश्यतां वस्तदा नासीदिदं गोपद्वयं किमु ।। ८३ ॥ तज्जरासन्धदेवस्य कश्च त्वं कौ च तौ शिशू । के चामी यादवाः सर्वे सपौत्रसुतबान्धवाः ।। ८४ ॥ वनवह्निर्वनोत्सङ्गे दहन्नखिलभूरुहः । किंनु कण्टकिनां दाहकृते संरभतेऽधिकम् ॥ ८५ ॥ अक्षौहिणीभिरासन्नदेशाभिरुपजन्मिवान् । कौरवेन्द्रोऽपि तं संप्रत्यहितोच्छेदवाञ्छया ॥ ८६ ॥ संप्रत्येष विशेषेण तदिन्द्रेणापि दुःसहः । दुस्तरः सर्वदाम्भोधिः किमुत ग्रीष्मसंगमी ॥ ८७ ॥ कि चाङ्गीकृत्य मित्रस्य शात्रवान्पाण्डवानमून् । मत्प्रभोर्बत युष्माभियंलीकान्तरमादधे ॥ ८८ ॥ तद्वो यावन्न सोऽद्यापि व्यलीक कलयत्यदः । गोपद्वयार्पणातावद्युज्येतास्य प्रसादनम् ।। ८९ ॥ तदद्यापि हि बुध्यस्व हितमालोचयात्मनः । ककुराणां कुलं मा स लम्भयः स्मृतिशेषताम् ॥ ९०॥ काव्यमाला। विमुञ्च सत्वरं दुष्टौ राजद्विष्टकृताविमौ । चिराय मेदुरामोदा मुदं पुष्णन्तु वृष्णयः ।। ९१ ।। वाचालं पुरुहूतस्य श्रुत्वा दूतस्य तां गिरम् । उवाच केशवः कोपरागश्यामारुणेक्षणः ॥ ९२ ।। रे दूत नूतनं किंचित्तवातत्वमिदं खलु । वक्तुं को नाम जानाति त्वां विना पथ्यमीदृशम् ।। ९३ ।। गोपो गोप इति ब्रूते प्रभुते सत्यमेव माम् । खलेभ्यो यत्खलु क्षोणेरहं पातास्मि संप्रति ॥ ९४ ॥ किं चार्धभरतेशोऽपि क एष पुरतो मम । का कक्षस्तुङ्गकूटोऽपि पुरो देव हविर्भुजः ।। ९५ ॥ सारता जयजीवातुर्न पुनर्बहुसैन्यता । उन्मूलयति वातूलस्तूलराशीन्महीयसः ।। ९६ ॥ किं नाम दृषदष्टको दारयेन्न गरीयसीः । न छिनत्ति कुठारः किं भूरुहोऽभ्रंलिहानपि ॥ ९७ ॥ (युग्मम् पक्षपातेन कंसस्य भ्रूणध्वंसविधायिनः । सोऽपि हन्तव्यपक्षेऽभूदस्माकं दुष्टशासिनाम् ॥ ९८ ॥ कुरुनन्यायिनः पुष्यन्नन्यायी नायकोऽपि ते । अन्यायं च सहे नाहं ततोऽप्यस्य न जीवितम् ॥ ९९ ॥ प्लावयत्यत्रकल्लोलैर्मयि कल्पान्ततोयघौ। परित्राणक्षमास्तस्य""नोचैरपि भूभृतः ।। १०० ।। निहन्तुं प्रस्थिता एव कुरून्वर्तामहे वयम् । सोऽप्येतु समरेऽप्यस्मिन्भवत्वस्मत्समीहितम् ॥ १०१ ।। अहितानां तु बाहुल्यं मुदे शौण्डीर्यशालिनाम् । आधिक्यमेधसा काममुत्सवाय हविर्भुजः ॥ १०२ ॥ मय्यागते तु संग्रामे व्योमन्युत्पातवातवत् । प्रभुः स भवतो मागान्मेघवद्विशरारुताम् ॥ १०३ ।। पाण्डवचरितम् । तद्गच्छ कथयेस्तस्य सन्ति चेत्तव वाहवः । पुत्रजामातृकल्पान्तकोपश्च स्फुरति स्फुटः ॥ १०४ ॥ सांयुगीनो झगित्येव तद्भवेः सह सेनया । चिरादुपोषितस्यास्तु मत्कृपाणस्य पारणा ॥ १०५॥ एवमुवीर्य तं दूतं विससर्ज गदाग्रजः । आहूय तमुदन्तं च कौन्तेयानामचीकथत् ॥ १०६ ॥ तेनाख्यातेऽथ वृत्तान्ते पाण्डवैर्मुमुदेतराम् । तत्कार्यमपि शौण्डीर्यात्खयमेव चिकीर्षुभिः ।। १०७ ॥ अथ प्रस्थानके लग्ने सर्वग्रहवलोज्वले । प्रणीतमङ्गलाः कुन्त्या पाण्डवेयाः प्रतस्थिरे ।। १०८ ॥ अपरेऽप्यवनीपाला विराटद्रुपदादयः । तानन्वगुर्महोत्साहाः संस्कारा इव धीगुणान् ॥ १०९ ॥ ते समुच्छलदुत्साहलहरीपीवरश्रियः । समं सेनाभिरभ्येत्य राजद्वारेऽवतस्थिरे ।। ११०॥ देवोऽपि कसविध्वंसी देवकीकृतमङ्गलः । प्रतस्थे सजितानेकराजकानीकराजितः ।। १११ ॥ बान्धवैश्च तनूजैश्च वसुदेववलादिभिः । युतस्तमनुवबाज समुद्रविजयो नृपः ॥ ११२ ॥ तत्कालकलितौद्धत्यः कार्मुकादिपरिग्रहात् । वहन्नुच्चै रसं शान्तं बिभ्राणं वीरभूमिकाम् ॥ ११३ ॥ सवयोभिः स्मराकारैः कुमारैः परिवारितः । दधद्दिव्यानलंकारान्मायूरातपवारणान् ॥ ११४ ।। बालाभिरङ्गसौभाग्यविशेषवलितेक्षणम् । वीक्षितोऽनुक्षणं नेमिः प्रतस्थे स्यन्दनस्थितः ॥ ११५॥ (त्रिमिर्विशेषकम्) दध्वने मधुरध्वानैरानकैरभयानकम् । अवामाः शिशिरास्त्यतपासवो वायवो बवुः ॥ ११९ ॥ ४८४ काव्यमाला। नूतनाम्भोदगम्भीरं गर्जन्ति स्म मतङ्गजाः। उत्तरङ्गास्तुरङ्गाश्च बद्धहर्षं जिहेषिरे ॥ ११७ ॥ अनीकानि तपासूनोर्देवकीनन्दनस्य च । मुदितानि मनांसीव तदानीमेकतां ययुः ।। ११८ ॥ यादवी पाण्डवीया च जाह्नवीयमुने इव । संभूय चेलतुः सेने गन्तुं संगरसागरम् ॥ ११९ ॥ एकैकापि चमूः काम्या किंतु संचलिते उभे । शौण्डीरता च नीतिश्च यथा संजातसंगमे ।। १२० ॥ उत्खातहेमभूपांशुमांसलीकृतकान्तयः । प्रयाणपटहाहूता धावन्ति स्म पुराङ्गनाः ॥ १२१ ॥ गवाक्षलक्ष्यवामाक्षीमुखैः कनकवेश्मभिः । चकाशेऽनेकशीतांशुफलैः कल्पद्रुमैरिव ॥ १२२ ।। जनैरेकमुखैः सर्वैः प्रति प्रस्थानवर्तिनीम् । बभूवे सरितामोधैरिव प्रति महानदीम् ॥ १२३ ॥ दृष्ट्वामून्मा स्म भूद्भानोरवज्ञा निजवाजिषु । इतीव सप्तयः क्लृप्तवितानाः पांशुभिर्ययुः ॥ १२४ ॥ अजैषीत्कुञ्जरश्रेणिमदकल्लोलपकिला । सिक्तं जम्बूरसैर्जाम्बूनदादि काञ्चनावनिः ॥ १२५॥ यावकच्छविकौशेयकिरीटविकटद्युति । उग्रग्रैवेयककाणनिर्वाणानेकनिक्कणम् ॥ १२६ ।। सुवर्णच्छविना साक्षात्तेजसेव निजप्रभोः । चीनांशुकेन संशोभिपृष्ठं प्रातिष्ठतौष्ट्रकम् ॥ १२७ ॥ (युग्मम् - जयमङ्गलतूर्यस्य गम्भीरैर्ध्वनिभिश्चिरात् । स्मार्यते स मुकुन्दस्य सिन्धुमि(नि)मथनध्वनिः ॥ १२८॥ केतुकन्दलितै रत्नपीवितार्कमरीचिभिः । रथैः प्रास्थीयतोत्तीर्णैर्विमानैरिव मेदिनीम् ॥ १२९ ।। पाण्डवचरितम् । अङ्गमात्रेक्षणाकाङ्क्षैः कामिभि(नि)र्मुहुरीक्षिताः । याप्ययानैः पटच्छन्ना राजदाराः प्रतस्थिरे ॥ १३०॥ काषायैः केचिदुष्णीषैः कौसुम्भैरपि केचन । कुर्वन्तः सर्वतः संध्यां नूतनां सादिनो ययुः ॥ १३१ ॥ वारस्त्रियोऽप्सरोरूपवैहासिकतनुश्रियः । अश्वैर्यान्ति स्म दृक्पातपीतकामुकचेतसः ॥ १३२ ।। विलोलपल्लवाश्चेलुरनिलैरानुकूलिकैः ।। जयश्रीकर्षणप्रेङ्खत्कराग्रा इव केतवः ॥ १३३ ॥ वातोद्भूतेभसिन्दूरपूरपिञ्जरिता दिशः। रेजुर्मङ्गलमाधातुं सकौसुम्भाशुका इव ॥ १३४ ॥ गुप्तं खिड्गास्तुदन्ति स्म वेसरं तावदारया । यावदुरमुत्य शुद्धान्तदासीमयमपातयत् ॥ १३५ ॥ प्रयाणमीक्षितुं पादप्रान्तस्थैरट्टमूर्द्धनि । पतद्भिरुपरि स्त्रैणैरुदगुः कामिनां मुदः ।। १३६ ॥ अथ चेलाञ्चलोत्क्षेपपूर्व पौराङ्गनाजनैः । कीर्यमाणौ मुहुर्लाजैर्भूतैः प्रीतिकणैरिव ॥ १३७ ॥ स्थाने स्थाने प्रतीच्छन्तौ पौरमाङ्गलिकान्युभौ । अजातारिर्मुरारिश्च जग्मतुः पुरगोपुरम् ॥ १३८ । बलौघः स तदा तत्र विशन्संकटतामगात् । पयोधिरिव राकायामुकल्लोलः सरिन्मुखे ॥ १३९ ॥ मणीनामनणीयोभिः प्रजापुञ्जः प्रतोल्यपि । बलौघस्यास्य कुर्वाणा रेजे नीराजनामिव ॥ १० ॥ संक्रान्तमभितोऽनीकं गोपुरे रत्नभित्तिषु । बभार त्रिगुणीभावं प्रभावात्प्राभवादिव ।। १४१ ॥ गोपुरे वारनारीणां प्रतिबिम्बैः करम्बिताः । विभान्ति स्म मणिस्तम्भा जीवत्पाञ्चालिका इव ॥ १४२ ॥ २. अश्वतरम्, ३. चर्मप्रभेदिन्या, १. कामुका. ४८६ काव्यमाला। शनैः शनैः पुरोद्वारान्निष्पपात पताकिनी । कवेर्वदनराजीवकुहरादिव भारती ॥ १४३ ॥ उत्तरद्वा(द्धा)स्तिकं हस्तिनखाद्दूरमधोमुखम् । सस्मार नर्मदातीर्थपथानां विन्ध्यकानने ॥ १४४ ॥ निर्यद्भिः शुशुभे शौरिवालसौहार्दसंगतैः । कालिन्द्या इव कल्लोलैश्छत्रैर्मायूरपत्रकैः ॥ १४५ ॥ प्रग्रहाकर्षणादूर्ध्वं भग्नग्रीवैस्तुरङ्गमैः । स्थान""स्थयुगैरेव निन्यिरे स्यन्दनाः क्षितिम् ॥ १४६ ।। हयादुत्तरतो वेगादधःस्कन्धं निपेतुषी । ययौ स्रस्तांशुका काचिद्दासी सैन्यस्य हास्यताम् ।। १४७ ।। लवलीपूगपुंनागनागवल्लीवनोल्वणम् । केतकीकदलीतालीनालिकेरीकरालितम् ।। १४८ ॥ कल्लोलोत्कुलितानेकरत्नराजिविराजितम् । तयाध्यूषे पताकिन्या तीरं लवणनीरधेः ॥ १४९ ॥ मायूरैरातपत्रौधैर्नृतनाम्भोदकान्तिभिः । वेलाविपिनपङ्क्तीनां पौनरुक्त्यमसूत्र्यत ॥ १५०॥ तुहिनधुतिसंतान इवाम्भोधिं पितामहम् । आगतः शुशुभे राज्ञां सितच्छन्त्रावलिच्छलात् ॥ १५१ ॥ राशीकृताः स्फुटन्तीभिः पारेऽकूपारमूर्मिभिः । प्रेक्ष्यन्त सैनिकैः फेनकल्पा मौक्तिकपतयः ॥ १५२ ॥ प्रतिद्विपधिया क्रुद्धानीषादन्तान्निपादिनः। धावन्तो रुरुधुः सिन्धुकल्लोलेभ्यः कथंचन ॥ १५३ ।। ताम्बूलीनां दलैः कांश्चिन्नालिकेरासवैः परान् । कक्कोलैलाफलैरन्यानधिकूलमुपाकरोत् ॥ १५४ ॥ १. 'हस्तिनखः परिकूटम्' इति हलायुधः । पुरद्वारावतरणाथै कृतः क्रमनिनो मृत्कूट इत्यर्थः. २. दीर्घदन्तगजानू, पाण्डवचरितम् । उल्लसत्पल्लवेऽप्यास्यं लवङ्गालवलीवने । दीयते स्म न दासेरैः करीरस्पृहयालुभिः ॥ १५५॥ सांयात्रिकैः कृतं तत्र नानादेश्यमुपायनम् । सर्वमप्युपदीचक्रे चक्रभृद्धर्मसूनवे ॥ १५६ ॥ केतकामोदमेदस्वी वीचिसंचारमन्थरः । मध्याह्नाव्यलीकानि लुम्पति स्मार्णवानिलः ॥ १५७ ।। धावद्भिरूमिभिर्वारिवारणाश्वविराजिभिः । साहायकाय सानीकश्चचालेबोर्मिमानपि ॥ १५८ ।। वारिराशितटारामरामणीयकलम्पटान् । आचकर्ष पुरो वीरान् युद्धश्राद्धं मनोवलान् ॥ १५९ ॥ सैन्यैरैक्षि पुरः श्यामः शूरश्रान्तिच्छिदे रणे। सहागन्तुं स्थितोऽम्भोद इव रैवतकाचलम् (लः) ॥ १६० ।। झरनिर्झरझात्कारमुखरोदारकन्दरैः । उल्लसन्मल्लिकाशोकचम्पकाम्रकरम्बितैः ॥ १६१ ॥ उपत्यकावनस्तस्य भृङ्गसंगीतसंगिभिः । विस्मार्यन्ते स सैन्यानां वाधिवेलावनश्रियः ।। १६२ ॥ (युग्मम्) क्षणात्कन्दलितानेकलोककामेऽत्र भूभृति । रन्तुं निःसङ्गतामेव नेमिनश्चकमे मनः ॥ १६३ ॥ गण्डशैलातिगैर्नागैः केतुभिः काननातिगैः । उत्तरङ्गैस्तरङ्गश्च कुरङ्गनिकरातिगैः ।। १६४ ॥ रेणुभिश्चाम्बरोत्सङ्गसङ्गिमिः शिखरातिगैः। धराधरो वरूथिन्या संक्रमादतिचक्रमे ॥ १६५॥ (युग्मम् ) परक्षेत्राण्यमिक्षुन्दलुण्टयन्सरसां श्रियम् । उद्धतः सबलव्यूहो दूर मार्गमलङ्घयत् ॥ १६६ ॥ क्रमावरूथिनी साथ व्यतीत्य महतीं महीम् । दशाान्प्रवितीर्णारिक्लेशावेशा समाविशत् ।। १६७ ।। ) ४८८ काव्यमाला। धर्मसूनोश्च विष्णोश्च दीयन्ते स्म निदेशिभिः । स्थलानि पृथुलाभोगसुभगानि पृथक् पृथक् ॥ १६८ ।। सौविदश्रेणिसंरुद्धाः प्रतिसीरापरिष्कृताः। एतानि परितोऽभूवञ्शुद्धान्तपटमण्डपाः ।। १६९ ।। यथास्थानं भुजस्थामनामिताशेषविद्विषाम् । सामन्तानामजायन्त निवासाः सुन्दरश्रियः॥ १७०॥ अपराह्णेऽथ पल्यविश्रान्तिगलितश्रमः । एष विज्ञापयांचक्रे वेत्रिणा तपसः सुतः ॥ १७१ ॥ मातुः सहोदरो माद्या मद्रमण्डलचन्द्रमाः । शल्यः कल्याणविक्रान्तिारि ते देव वर्तते ।। १७२ ।। जवात्प्रवेशयेत्युक्त्वा प्रतीहारं महीपतिः । सानुजः संम्रमाद्भूमिमभ्यगात्कियतीमपि ॥ १७३ ॥ आयान्तमग्रतो वेत्रिदत्तहस्तावलम्बनम् । आश्लिष्यति स्म भूमीन्द्रस्तं मद्राणामधीश्वरम् ॥ १७४ ॥ यथौचित्यगतौद्धत्यमनोहारिप्रवृत्तयः । रचयांचक्रुराचारमपरेऽपि नृपानुजाः ।। १७५ ॥ प्रीतिपल्लवितानन्दकन्दलो मेदिनीपतिः । निजासनसमानेऽथ तं न्यवेशयदासने ॥ १७६ ॥ सकुटुम्बस्य तस्याथ नाम गृह्णन्पृथक् पृथक् । पप्रच्छ कुशलोदन्तमुदश्चत्तमदो नृपः ॥ १७७ ।। ऊचे मद्रपतिर्मद्रं तस्य राजन् सनातनम् । स्वस्रीयो यस्य विश्चैकमद्रकारो भवादृशः ॥ १७८ ।। भगिन्यौ विश्वपाविन्यौ कुन्ती माद्री च यस्य मे। ययोः सङ्गेन गङ्गापि प्रत्युत स्वं पुपूषति ॥ १७९ ॥ परं किमपि वक्तव्यमस्ति रुन्धे त्रपा तु माम् । वच्मि किंचित्तथापि त्वां नैव चेहुर्मनायसे ।। १८० ॥ पाण्डवचरितम् । स्वाजन्यप्रणयेन त्वमात्मीयमवगम्य माम् । प्रेषयांचकृषे दूतं समित्यामन्त्रणाय मे ॥ १८१ ॥ किंतु दूतागमात्पूर्वमुर्वीचन्द्रः सुयोधनः । तैस्तैर्भक्तिक्रियारम्भैरुपरोधं मम व्यधात् ॥ १८२ ॥ उपस्थानं समीकेषु तन्मयास्मै प्रतिश्रुतम् । प्रभवाम्यन्यथा कर्तुं न चाहं वाचमात्मनः ॥ १८३ ॥ किं सोऽपि पुरुषो यस्य न गीर्निर्वाहशालिनी। किं नाम स मणिर्यस्य नैव शाश्वतिकी प्रभा॥ १८४ ॥ विमुच्य तदहं राजन्वाहिनीमदवीयसीम् । इत्याख्यातुमिहायातस्त्वं प्रमाणमतः परम् ॥ १८५ ।। अथाजल्पदजातारिः किं नामेदमसांप्रतम् । गान्धारेयोऽपि जामेय एव ते ननु मातुल ॥ १८६ ॥ तत्त्वया न त्रपा कापि कर्तव्या ब्रज सत्वरम् । समराय भवदत्तसौष्ठवः स प्रतिष्ठताम् ॥ १८७ ॥ इत्युदीर्य तमौदाच्यदर्शितस्वागतक्रियः । अजातशात्रवो देवः प्रयाणायान्वमन्यत ॥ १८८ ॥ सपादोपग्रहं कुन्तीमानम्य चलितं ततः । यमौ तमनुगच्छन्तौ खच्छन्दमिदमूचतुः ॥ १८९ ॥ मातुलात्यन्तमौचित्यच्युतमाचरितं त्वया ।:. कर्हिचिन्मुह्यति प्रायो विदुषामपि शेमुषी ॥ १९॥ माद्री मातापि लोकेषु किंवदन्त्यानया तव.। शिरस्त्रपाभराभुग्नं कथमुन्नमयिष्यति ॥ १९१ ॥ भीमोद्धतैरमीमिस्ते दुर्यशोभिर्मलीमसम् । आवामप्यास्यमार्यस्थ दर्शयिष्यावहे कथम् ॥ १९२ ॥ शल्योऽप्याह स्म हे वत्सौ ब्रूतं यावयोर्मतम् । निर्वाहं स्वगिरां कुर्वन्करिष्यामि तदप्यहम् ॥ १९३ ॥ ४९० काव्यमाला। जजल्पतुर्यमौ तर्हि कर्तुमर्हसि मातुल । पदे पदे त्वमुत्साहभङ्गं कर्णस्य संगरे ॥ १९ ॥ गिरं तामुररीकृत्य कृत्यविदागिनेययोः । स्फुरितामन्दमन्दाक्षो मद्रक्षोणिपतिर्ययौ ।। १९५ ॥ प्रतस्थेऽथ प्रगे प्रेङ्खत्पटीयःपटहारवा । कुरुक्षेत्र प्रतिक्षत्रतव्रातरौद्री वरूथिनी ॥ १९६ ॥ क्रमादुपकुरुक्षेत्रं क्षोणिरेणूत्करैर्दिशः । क्षिपन्तीव पिबन्तीय पुञ्जयन्तीव सागमत् ।। १९७॥ प्रसाररुचिरोद्देशे तस्मिन्नुदसरस्वति । निवासानाददाते स्म पुण्डरीकाक्षपाण्डवौ ।। १९८ ।। भारोत्तारकृतेऽप्युष्ट्रपालकैरुपवेशितम् । चुक्रोश परितः क्षिप्तलोलौष्ठमुखमौष्ट्रकम् ।। १९९ ।। क्रमांचक्रिरे स्वैरमश्ववारैः कुतूहलात् । विरश्चिदुहितुः सान्द्रसिकते सैकते हयाः ॥ २० ॥ निरीक्ष्य मुरजित्केतुं शकुन्तेश्वरमुच्चकैः । निजावासभुवः सर्वैः सैनिकैरधिजग्मिरे ॥२०१॥ अन्यस्य वासभूभागमन्ये प्रागागता अपि । शादलानोकहव्यूहपरीतमपि नाश्रयन् ।। २०२ ।। अहंपूर्विकया सर्वैः सर्वतः पृतनाचरैः। श्रिताः सरस्वतीतीरभूरुहः शिशिरश्रियः ॥ २०३ ॥ केचिदालोक्य संप्राप्तमनोज्ञवसतीन्परान् । यानभङ्गादपव्यस्ताः सैनिकाः शुशुचुश्चिरम् ।। २०४ ॥ भूरिलाभस्फुरलोभैरहंप्रथमिकागतैः । तेनिरे विपणौ वेगान्नैगमैः पटमण्डपाः ॥ २०५॥ द्रौहिणीलहरिव्यूहविहारशिशिरीकृतैः । पीयमानश्रमखेदवारयो मातरिश्वभिः ।। २०६॥ पाण्डवचरितम् । द्रुमच्छायासु निद्राणा विसंस्थुलितवाससः । ईश्वराणामपि स्वैरं जनैरेक्ष्यन्त योषितः ॥ २०७ ॥ (युग्मम् ) पीतैरत्यन्तमश्रान्तं रोममार्गविनिर्गतः । यशःक्षीरैरिवारीणां फेनवारिभिरङ्किताः ॥ २०८ ॥ कौमुदीविशदे ब्रह्मनन्दिनीपुलिनोदरे । वेल्लयांचक्रिरे वाहाः स्वैरं वल्लभपालकैः ॥ २०९ ॥ (युग्मम्) विरेजुः कुञ्जराः काममुत्तीर्णकुथकेतनाः । समूलमूलिताशेषपादपा इव पर्वताः ॥ २१० ॥ रुप्यन्नासन्नवारिभ्यः सादिन्यो (1) विस्मृतश्रमः । महामात्रेण मत्तेभ्यः (भः) कथंचित्प्रत्यरुध्यत ॥ २११ ॥ काममध्वक्लमातप्तं नवमुक्ताफलोज्वलैः। सिञ्चति स्म वपुः कश्चित्करेणुकरशीकरैः ॥ २१२ ॥ निन्यिरे दूरमुद्भिन्नकटान्ताः कटकाद्गजाः । कुति कोविदः को वा नेदीयांसं मदोद्धतम् ।। २१३ ।। उपबाह्या न बाह्यत्वं प्रभिन्ना अपि लेमिरे । कलङ्कयति निःशङ्कं मदो हि न महीयसः ॥२१४ ॥ चलन्प्रत्यन्यमातङ्गं कोपतोऽथ शताङ्कुशः । सिन्धुरेन्द्रो धुनोति स्म निषिध्यन्तं निपादिनम् ॥ २१५॥ हसन्त इव हेषाभिर्हरिदश्वहरीन्हयाः। नदीवारिविहारार्थमवतेरुः सरस्वतीम् ॥ २१६ ॥ विस्मृत्य पयसः पानमनारोहादखेदवान् । सखेदमनुदुद्राव द्रुतमश्वां हयेश्वरः ॥ २१७ ॥ दन्तक्षोदैः पदापतिस्तारहेपारवोल्वणाः । बलादकलहायन्त नीरतीरे तुरङ्गमाः ॥ २१८ ॥ वारिबिन्दूत्करैर्मुक्तामण्डितास्तरणा इव । तुरङ्गपत्तयः सद्यस्तटोत्तीर्णा विरेजिरे ॥ २१९ ॥ - राजवाहकहस्तिनो मत्ता अपि बाह्यत्व न लेभिरे इत्यर्थः, ४९२ काव्यमाला। दूरीकृतजनैर्नागा हस्त्यारोहैरमर्षिणः । तीर्थे पृथक्पृथग्दूरं निन्थिरे जलकेलये ॥ २२० ॥ मदाम्बुनिझरोद्गारी करीन्द्रो ह्रदिनीह्रदम् । कामं विलोडयामास पयोधिमिव मन्दरम् ॥ २२१ ॥ हठाकृष्टमुखाम्भोजं क्षिपन्करमितस्ततः । चकार सरितः क्षोभमभीकः करिपुंगवः ॥ २२२ ॥ श्वासोद्भूतैरिव स्थूलमौलिमण्डलमौक्तिकैः । सिञ्चति स्म तनुं हस्ती हस्तोदस्ताम्बुशीकरैः ॥ २२३ ॥ तदूर्मिसौहृदायाताः पयोराशेरिवोर्मयः । विराजन्ते स मजन्तः सरिद्वारिणि वारणाः ॥ २२४ ॥ चित्रिता इव....."भूयोऽपि सरितोऽन्तरात् । सरोजिनीरजापुञ्जपिञ्जराः कुञ्जरा बभुः ।। २२५ ।। समुद्र इव शीतार्तिनिर्गतान्तर्धराधरः । गजैस्तीर्त्वा तटोत्तीर्णै राजते स नदीह्रदः ॥ २२६ ॥ बभौ स्वायंभुवी सिन्धुदन्तावलमदाविला । स्वं मालिन्यमपाकर्तुं कालिन्येव निषेविता ॥ २२७ ॥ क्रीडदुन्मत्तवानेष दन्तिदानाम्बुपङ्किले । कोपतः सरितः कूले पर्यणंसीद्जाग्रणीः ॥२२८ ॥ पेतुषीं सिन्धुरत्रासादवनीश्वरवल्लभाम् । कश्चिदालिङ्गनं सार्धं साधुवादेन लब्धवान् ।। २२९ ।। श्रेणीबद्धैस्तुरङ्गेन्द्रोलबालधिशालिभिः । वीजयद्भिरिवाराजिचामरैः स्वप्रभुश्रियम् ॥ २३०॥ प्रेङ्खत्खुरैः स्फुरत्प्रोथैस्तारं ग्रैवेयकखनैः । राशीकृताः पुरोवाहैः खादयांचक्रिरे यवाः ॥ २३१ ॥ वैरिविक्रान्तिसंतापं सप्ताशयाः स्वाङ्गसंपदः । समुच्छेत्तुमिवातुच्छं क्षरन्तः सप्तधा मदम् ।। २३२ ।। पाण्डवचरितम् । ४९३ निवासान्परितः पाण्डुतनूजवनमालिनोः । इभाः शाद्वलसान्द्रेषु दुमेष्वालानिता वभुः ।। २३३ ॥ (युग्मम्) आलानपादपः पुष्पैरङ्गवल्गनपातिभिः । व्यमादिभेश्वरे हर्षात्पुष्पवर्षे किरन्निव ॥ २३४ ॥ आनीय कुम्भयोः कर्णतालयोर्लोलयन्मुहुः । प्रस्फोटयन्कटे दन्तकोशान्तः स्थापयन्क्षणम् ॥ २३५ ॥ तैस्तैर्हस्तिपकोद्गीणैर्दिनावचनक्रमैः । मन्दादरः करीन्द्रः स्म तुणुते तृणपूलकम् ॥ २३६ ॥ (युग्मम्) अनीहैरिव नागेन्द्रविधापिण्डोऽप्युपाददे । अमेयमहिमानो हि निःस्पृहा एव सर्वतः ॥ २३७ ॥ स्नातपीताः ककुद्मन्तः पर्यटन्तः सरित्तटे । शशाङ्कविशदा रेजुः फेनकूटा इव स्थिराः ॥ २३८ ॥ महीयः शुशुभे शुभैः कूलिनीकूलशाद्वलम् । चरद्भिः शाङ्करस्तोमैव्योंमेव सितचन्द्रितम् ॥ २३९ ।। अन्यापि वाहिनी नामेत्यसूयाकलुपैरिव । जातं कल्लोलिनीकूलमुद्रुजैर्वाहिनीवृषैः ॥ २४०॥ रिरंसुमनसामेकं (का) गामनुद्रवां जवात् । नाभून्नेत्रोत्सवः कस्य महोक्षाणां रणः क्षणम् ॥ २४१ ॥ करीरादितरुस्तोमकनीयसमनीयत । पीताम्माः करमश्रेणिविशालं जङ्गमस्थलम् ॥ २४२ ॥ करीश्वरकराकान्तं दन्तात्तश्रवणाञ्चलः । करभोऽरक्षदात्मानं विक्रमो हि फलेग्रहिः ॥ २४३ ॥ मार्गश्रमच्छिदे सेरदमिनीखण्डमण्डितम् । स्वैरं तरङ्गिणीवारि गाहन्ते स्म चमूचराः ॥ २४४ ॥ १. कमनीयमिति भवेत. ४९४ काव्यमाला। 6 सुश्रुवां नाभयः पायं पायं सारस्वतं पयः । पाथोधिक्षिप्तमन्थाद्रिदरीकार्यमपूरयत् (न्) ॥ २४५॥ तापोच्छित्तिकृते केऽपि सरिद्वारि जगाहिरे । कामप्यालोक्य मज्जन्तीं पुनस्तापं दधुस्तमाम् ॥ २४६ ॥ केचिदुच्छृङ्खलप्रेमरथाङ्गमिथुनं मिथः । वीक्षमाणाश्चिरं तस्थुः श्रमं विस्मृत्य सैकते ॥ २४७ ॥ मराली काचिदालोक्य प्रेयसश्चाटुकारिणीम् । स्त्रीत्वं सासूयमेतस्या निन्दति स्म मुहुर्मुहुः ॥ २४८ ।। इतो भृङ्गाङ्गनागीतैः सारसीरसितैरितः । आकृष्टश्रुतयस्तत्र तस्थुर्व्यग्रं मृगीदृशः ॥ २४९ ॥ काश्चिदच्छपयःपानैर्मणालवलयैः पराः। कर्णोत्तंसोत्पलैरन्या धिनोति स वधूर्धुनी ॥ २५० ॥ काश्चित्तात्कालिकस्नानकमनीयतमश्रियः । वानीरवेश्मसु प्रेयःप्रार्थनामकृतार्थयन् ॥ २५१ ।। प्रियाचंक्रमणे हंसीप्रयाते चाधिसैकतम् । वेत्तुं नाभूदलं कश्चिदुपमानोपमेयताम् ॥ २५२ ॥ फलैः पुष्पैरपि ब्रह्मतनयातीरभूरुहाम् । सैनिकाः पुण्डरीकाक्षं पाण्डवं चोपतस्थिरे ॥ २५३ ।। खर्जूरनागरशाम्रजम्बूजम्बीरमण्डिते । सप्तलामालतीमल्लीचम्पकाशोकशालिनि ॥ २५४ ॥ दत्तोन्मादपिकीनादे हारिहारितनिकणे । कलकादम्बनिहादे पुष्यत्पुष्पंधयध्वनौ ॥ २५५ ॥ दिनान्ते हरिकौन्तेयौ रोधसि ब्राह्मसैन्धवे । आकल्पकमनीयाल्पप्रायप्रेयःपरिच्छदौ ॥ २५६ ॥ न्यञ्चितोच्चैःश्रवःकीर्तिमुच्चमारुह्य वाजिनम् । करम्बितकरौ तैस्तैः फलपुष्पैर्विजहतुः ॥ २५७ ।। (चतुर्भिः कलापकम् ।। पाण्डवचरितम् । तथार्हत्पतिमार्चादिक्रिया प्राथमरात्रिकीम् । निर्माय निर्मितानन्दौ दिव्यसंगीतमङ्गिभिः ॥ २५८ ॥ नमत्संभ्रान्तसामन्तकिरीटमणिजन्मभिः । अंशुभिर्मौसलीभूतपादाम्बुजनखत्विषौ ॥ २५९ ॥ चामीकरमयानेकभूषणाद्भुतकान्तिभिः । यादवैः पाण्डवेयैश्च सेवितावौपजानुकैः ॥ २६० ॥ वारसंगतगाणिक्यमाणिक्यकिरणोत्करैः । दूरान्नीराजितात्मानौ सेवायातैरिवाग्मिभिः ॥ २६१ ॥ उज्जृम्भितप्रभाजालभासुरैर्मणिभूषणैः । निपीतदीपकादीप्तिमण्डलैः परिमण्डितौ ॥२२॥ इदं रम्यमथो बारनारीवक्रमिति स्फुटम् । आत्तब्रह्मसुतासूतकेलिपङ्केरुहौ करे ॥ २६३ ॥ मनोज्ञमेकमासीनौ वैडूर्यमयमासनम् । प्रणयात्तत्तदुद्दिश्य मिथः संकथितौ मुहुः ॥ २६४ ॥ कौन्तेयश्च शकुन्तेन्द्रध्वजश्चाध्वस्तसौहृदौ । समं सायंतनास्थानस्थलमातिष्ठतामुभौ ॥ २६५ ।। क्षणादभ्येत्य कक्षायां वेत्रं निक्षिप्य दक्षिणः । नत्वा कुमलयन्पाणी वेत्रपाणिरभाषत ॥ २६६ ॥ त्वरितक्रममायातो देव राजग्र()हात्पुरात् । चरः शेखरको नाम देवपादान्दिदृक्षते ॥ २६७ ॥ मुरारातेरथादेशाद्वेत्रभृत्तमवीविशत् । सोऽप्यानम्य मिलत्पाणिरुपविश्य व्यजिज्ञपत् ॥ २६८ ॥ देव दूतो जरासन्धभूमुजः सोमकाभिधः । द्वारकातस्तदा वेगादगादाजगृहं पुरम् ॥ २६९ ॥ भवद्भिर्विहितात्यन्तधर्षणा(गः) सोऽत्यमर्षणः। तत्र व्यज्ञापयत्क्रोधमाखरं मगधेश्वरम् ॥ २७०॥ काव्यमाला। देव द्वारवतीं गत्वा समुद्रविजयं नृपम् । देवादेशेन गोपालबालकौ तावयाचिषम् ॥ २७१ ॥ वर्षीयानप्यवर्षीयोबुद्धिरुद्धरकन्धरः । प्रभो ताभ्यां तु गोपाभ्यां स माति न जगत्यपि ॥ २७२। ब्रूते च स्वामिनस्तेऽहमीहकः किंकरोऽथवा । यदाक्रम्य कुमारौ मे दुर्मतिर्याचते बलात् ॥ २७३ ॥ अहीश्वरशिरोरत्नं नूनमादातुमीहते । नरकेसरिणोऽप्येष द्रष्ट्रामाक्रष्टुमिच्छति ॥ २७ ॥ तौ तु गोपालकौ देव नवतारुण्यपीवरौ । अहंकाराविवोत्साहाविवामर्षाविवाङ्गिनौ ।। २७५॥ ज्यायानेकोऽपि तत्रोद्यद्दोविलासः पिपासति । कुम्भोद्भव इवाम्भोधीन्सर्वान्युधि विरोधिनः ॥ २७६ ।। कनीयांस्तु भुजस्तम्भन्यस्तनिस्तुलधामभिः । चरित्रैश्चित्रिताशेषलोकैर्लोकोत्तरः परः ॥ २७७ ॥ असौ शक्तिं तृणायापि शतमन्योर्न मन्यते । मानुषीमलकीटानां पार्थिवानां तु का कथा ॥ २७८ ॥ कश्चित्वचिजरासन्धोऽप्यस्तीत्येवं न वेत्ति सः । भानुं जानाति न ध्वान्तश्चक्रवालगिरेः परः ॥ २७९ ॥ निहत्य तं तथा कंसमुत्तंसं वीरसंहतेः । सोऽभवदूरमुल्लुण्ठकण्ठीरव इव द्विपम् ॥ २८० ॥ तदूष्मकलितोष्माणोऽभूवन्नन्येऽपि यादवाः । किं न तिग्मांशुवर्गीणा ग्रावाणोऽप्यग्निवर्षिणः ॥ २८१ ॥ मारुतैरिव दावाग्निः पाण्डवैर्दत्तचण्डिमा । सांप्रतं सैष निःशेषद्वेषिकक्ष दिधक्षति ॥ २८२ ॥ अवोचच्च स मां किंचिद्यदि दूतत्वमस्ति ते । जरासन्धं तदाबद्धनिर्बन्धं युधि दर्शयेः ।। २८३ ॥ १. 'नरः' इत्युचित प्रतिभाति. पाण्डवचरितम् । ४९७. महानपि स मे कामं न किंचिदिव संगरे। स्थवीयानपि दम्भोलेभूधरः किल कीदृशः ॥ २८४ ॥ वह्निरिन्धनकूटेषु तपनस्तिमिरोर्मिषु । वीरश्च वैरवारेषु खाधिकेष्वपि शक्तिमान् ॥ २८५ ॥ जरासन्धशिरःस्कन्धाच्छिन्नमुच्छलितं दिवि । मम तस्य च दोष्कर्म रुद्रेण द्रक्ष्यते क्षणम् ॥ २८६ ॥ उन्नम्य समरव्योमन्यसिर्धाराधरो मम । निर्वापयिष्यति क्षोणिं जरासन्धभुजोष्मलाम् ॥ २८७ ।। दूरेऽहमर्जुनस्यापि शराणां तं जिघत्सताम् । - तैर्भविष्यत्यपोशान(?)मेव कौरवशोणितैः ॥ २८८ ॥ संख्यानं विषयातीतैर्बलौधैर्यदुभूभुजाम् । अमूभिः पाण्डवेयस्याक्षौहिणीभिश्च सप्तभिः ।। २८९ ।। अयमायात एवास्मि कुरुक्षेत्रक्षितौ क्षणात् । तत्राभ्येतु तदीशोऽपि यद्यस्ति भुजवैभवम् ॥ २९० ॥ (युग्मम्) इत्याकर्ण्योभयाकर्णिकीर्णज्वरभरां गिरम् । जरासन्धोऽपि जज्वाल कालानल इवाङ्गवान् ॥ २९१ ।। ततोऽभ्यधायि गान्धारीपुत्रैरासन्नवर्तिभिः । राजन्कोऽयमिभारातेः संरम्मो मृगधूर्तके ।। २९२ ॥ वयमेनं हनिष्यामः पृष्ठाधिष्ठायिनि त्वयि । पृष्ठस्थे किमु घमौशौ न नन्ति घृणयस्तमः ।। २९३ ॥ पाण्डुनन्दनकल्पान्तनाट्यं नाटयतां हि नः । वघोऽमुष्य भवन्नेत्रानन्दी नान्दी भविष्यति ॥ २९॥ खण्डयन्पाण्डवानेनं भुजो नः शोषयिष्यति । मेरुमुज्झति किं शैलान्मजयन्प्रलयार्णवः ।। २९५ ।। वारितोऽपि ततस्तैस्तैर्दुनिमित्तैः क्षुतादिभिः । आदिदेश जरासन्धः प्रस्थानाय वरूथिनीम् ॥ २९६ ॥ . ४९८ काव्यमाला। भरं वोढुमसंभाव्यमन्ये सैन्यस्य तावतः । देव तन्नगरोत्सङ्गे चकम्पे काश्यपी मुहुः॥ २९७ ॥ प्रभो वि विभाव्येव विपदर्णवमन्जनम् । दिशः श्याममुखाः कामं जज्ञिरे मलिनाम्बराः ॥ २९८॥ सैन्यरेणुभिरश्रान्तं वारयिष्यामहेतमाम् । भियेवेति दिवो भानि झम्पामुल्काच्छलाद्ददुः ।। २९९ ॥ प्रसर्पत्त्वत्प्रतापानिज्वालाजालैरिवाभितः । अदृश्यन्त दिशा दाहाः पुरे तस्य दिवानिशम् ॥ ३०० ।। प्रस्थानोस्त्वदरित्रातं संहर्तुं समवर्तिनः । सैन्यैरुत्तम्भितः शङ्के दिवि केतुर्व्यजृम्भत ॥ ३०१ ॥ प्रस्थित्तोऽमीभिरुत्पातैर्नैत्यसाविति शङ्कया । निर्धाताः परितः क्षोणिवक्षोघाता इवाभवन् ॥ ३०२ ॥ क्रोधावेशादनादृत्य दुनिमित्तान्यमून्यपि । प्रयाणं कुरुभिः सार्धं विदधे मगधेश्वरः ॥ ३०३ ॥ हरिरित्यभिधायास्ते देवत्रस्त इवात्यजत् । आरुरुक्षोः क्षणात्तस्य कुञ्जरग्रामणीर्मदम् ॥ ३०४ ॥ तस्य प्रस्थास्यमानस्य वाहिनीवाजिकुञ्जरम् । पुरीषप्रसवौ चक्रे खखचक्रभयादिव ॥ ३०५ ॥ ज्ञाततद्विपदो राज्यलक्ष्म्या वक्ष इव क्षणात् । ताडनारम्भ एवोच्चैरस्फुटज्जयदुन्दुभिः ॥ ३०६ ॥ भीष्मद्रोणकृपादीनां कुरुसैन्यमहीयसाम् । तदासन् जातखेदानां परस्परमिमा गिरः ।। ३०७ ।। एतैर्दुष्टैः स्फुटं रिष्टैः संगरोत्सङ्गमीयुषाम् । शौण्डीराणामपि प्रायः प्रत्यावृत्तिर्न जायते ॥ ३०८ ॥ परं द्वैमातुरो राजा सोऽयमौद्धत्यमन्दिरम् । अथायत्येकपथ्यानामाप्तवाचामगोचरः ॥ ३०९ ॥ पाण्डवचरितम् । गान्धारेयस्तु धौरेय एव दुर्मेधसामसौ । न खल्वर्हति वृद्धानामुपदेशं मनागपि ॥ ३१० ॥ एकस्तावजरासन्धो दु(ोधनोऽपरः । सैष ग्रीष्मर्तुसंतापकालकूटसमागमः ॥ ३११॥ दावपावकवत्सर्व निर्दह्य कुलकाननम् । नूनमेतौ दूरात्मानौ निर्नाम क्षयमेप्यतः ।। ३१२ ॥ अथासौ कौरवानीकैरैन्दवैरिव रश्मिभिः । चचाल मांसलीभूतो जरासन्धवलोदधिः ॥ ३१३ ॥ प्रागभ्यासा इवात्मानमुदवाहा इवार्णवे। भूमुजः कटकं तस्य विशन्ति स्म सहस्रशः ।। ३१४ ।। तद्वलाक्रान्तभूभारो द्वारसाहायकार्थिना । फणिनोऽन्ये फणीन्द्रेण प्रार्थयांचक्रिरे ध्रुवम् ॥ ३१५ ॥ तत्तुरङ्गखुरापातैर्विव्यथे पृथिवी तया । रजोव्याजेन संजज्ञे यथागमनगामिनी ।। ३१६ ॥ तदा सत्यापयामास स्वां महोबलतां मरुत् । अभूद्वीरावतंसस्य यदस्य प्रातिलोमिकः ।। ३१७ ॥ गच्छन्तं मृत्यवे मित्र त्वमप्येनमुपेक्षसे । इतीवादित्यमभ्येत्य शिवाः कामं ववाशिरे ।। ३१८ ॥ अनीयुषीणां तत्सैन्यशोषिताशेषपाथसाम् । वार्धिः शङ्केत्र कान्तानां विभर्ति विरहव्यथाम् ॥ ३१९ ॥ किमेते भूभृतो हन्त पृथक्कटकशालिनः । इति क्रोधादिवानीकैराचक्राम स भूधरान् ।। ३२० ॥ अनूपान्जङ्गलीकुर्वजङ्गलानप्यनूपयन् । उर्वीमनुर्वी कुर्वाणः सूत्रयन्ननगानगान् ॥ ३२१ ॥ व्यक्तशक्तिर्जरासन्धः सोऽयमन्यः प्रजापतिः । समं कुरुबलैरागान्निकटे कोटरावणे ॥ ३२२ ॥ (युग्मम् ) ५०० काव्यमाला। प्रातरेव कुरुक्षेत्रमयमायास्यति ध्रुवम् । वीरा हि प्रियसंग्रामा न नाम चिरकारिणः ।। ३२३ ।। इत्याकर्ण्य चरोद्गीर्णां तां कथां प्रतिपन्थिनः । हृष्यति म हृषीकेशः पैतृस्वस्रैः (१) सहाखिलैः ॥ ३२४ ।। प्रियाणां च रिपूणां च सविधे हि समागमे । सारङ्गाक्ष्यश्च शूराश्च बिभ्रते परमां मुदम् ।। ३२५ ॥ दापयामास चाराय मुरारिः पारितोषिकम् । नियोज्येषु प्रभोः प्रीतिर्न भवत्यफलेग्रहिः ।। ३२६ ॥ उद्यन्तोऽथ दिशि प्राच्यां सूर्यसारथिना समम् । अश्रूयन्त जनैरूर्जस्विनो निखाननिखनाः ।। ३२७ ।। श्यामायुष्टोमयज्वानो ध्वान्तमेदस्करोदयाः । निपीतमसरदाखदंशयः पासवोऽस्फुरन् ।। ३२८॥ जितोच्चैर्मन्दरक्षुब्धक्षुभिताम्भोनिधिध्वनिः । आकर्ण्यतोल्लसत्कर्णैः सैन्यकोलाहलो जनैः ॥ ३२९ ।। अवतरुस्ततः सार्धं करैः किरणमालिनः । दामोदरचमूलोकलोचनाध्वनिकेतवः ॥ ३३० ॥ रोधस्येव सरस्वत्यास्ततः सान्द्रतरद्रुमे । दवीयस्येव गोविन्दस्कन्धावारस्य भूतले ।। ३३१ ॥ अगृह्यन्त जरासन्धसैनिकैवीतभीतिभिः । निवासा वासवागारगर्वसर्वखहारिणः ॥ ३३२ ॥ (युग्मम्' निवासो मगधेशस्य तैः शशाङ्कसितः सितैः । रोचते स्म तुषाराद्रिरिव प्रत्यन्तपर्वतैः ।। ३३३ ।। कर्णादीनां प्रवीराणां शल्यादीनां महीभृताम् । जाहवीतनयादीनां स्कन्धावारगरीयसाम् ॥ ३३४ ॥ समभूवन्यथास्थानं स्वस्वकेतनशालिनः। आवासा हास्तिकाश्वीयरथ्यापादातशोभिनः ॥ ३३५ ॥ पाण्डवचरितम् । ५०१ रेजे दुर्योधनावांसोऽप्युज्वलैस्तैः परिष्कृतः । मालतीमुकुलश्वेतैः श्वेतभानुरिव ग्रहैः ॥ ३३६ ॥ हास्तिकाश्वमयी रथ्यामयी पौस्नमयी(१) तथा । आसीद्वयैरनीकैस्तैः कुरुक्षेत्रोपकण्ठभूः ॥ ३३७ ॥ अथ सायंतनास्थानमास्थितो मगधेश्वरः । आददे गिरमध्यक्षं सर्वक्षोणीभृतामपि ॥ ३३८ ॥ मम चक्रस्य गोपालं कवलीकुर्वतो रणे । उपदेशपदे नूनं ते भविष्यन्ति पाण्डवाः ॥ ३३९ ।। राजता राजते चन्द्राद्विपरीतैव भूभृताम् । प्रणयादाश्रितं यत्ते मित्रमेवोपकुर्वते ।। ३४० ॥ यस्तु तादृग्विधो नैव स कथं राजशब्दभाक् । लभतां च कथंकारं गणनां पुरुषेष्वपि ॥ ३४१॥ तद्विधाय ध्रुवं प्रातर्महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य राज्यं द्वैराज्यशून्यताम् ॥ ३४२ ।। अथोच्चैः कुबलीकृत्य करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र भारतीं मामिकामिमाम् ॥ ३४३ ॥ त्वयि शौण्डीर्यमाणिक्ये संगराङ्गणसंगिनि । आस्तामन्यः स्फुटं सोऽपि वराकः पाकशासनः ॥ ३४४ ॥ शत्रुमात्रेषु ते स्वैरं तेऽप्यलंभूष्णुविक्रमाः । ये तावकीनमाहात्म्यदेवतापात्रतां ययुः ॥ ३४५ ॥ तदस्य यशसः पाण्डुसूनुसंहारजन्मनः । वीरोत्तंस न मे गन्तुं त्वमर्हस्वंशहारिताम् ॥ ३४६ ॥ तमप्येतैः समं युद्धे हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन विशेषयशसे तब ॥ ३४७ ॥ तद्यावदेव कौन्तेयकौरवीयोऽयमाहवः । सभ्य एव भवेस्तावन्मयि भूयादनुग्रहः ॥ ३४८॥ ५०२ काव्यमाला। ओमिति प्रतिपेदाने तां गिरं मगधेश्वरे । स्वावासान्सपरीवारो जगाम धृतराष्ट्रभूः ॥ ३४९ ॥ संगमय्य तदैवायं निजानेकमहीयसः । गाङ्गेयद्रोणकर्णादीन्सुभटानित्यभाषत ॥ ३५० ॥ समागच्छन्त्वगाधोऽयं प्रातःसंगरसागरः । उत्तरीतुमिमं युष्मद्दोर्दण्डा एव सेतवः ।। ३५१ ।। अति(नी)षत्करमप्युच्चैः कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साहधारिणः सहकारिणः ॥ ३५२ ॥ कृतसाहायकश्चन्द्रवसन्तमलयानिलैः । मुनीनामपि चेतांसि किं न मनाति मन्मथः ॥ ३५३ ॥ भवद्दोविक्रमैः कामं विजेष्येऽहं विरोधिनः । पक्षराजोऽपि यत्पःस्तरत्यम्बरसागरम् ॥ ३५४ ॥ वैरिखड्गाम्बुदुर्वारैोष्माकीणैर्भुजोष्मभिः । मदीया सततोल्लासमल्लिका कीर्तिमल्लिका ।। ३५५ ॥ जरासन्धोऽधुनाभ्यर्थ्य प्रार्थितः प्रथमाहवम् । स्वयं पाण्डुतनूजानां बद्धश्रद्धालुना मया ।। ३५६ ।। तदनुग्रहमाधाय निवेदयितुमर्हथ । स्वरूपं मे समग्राणामात्मनीनधनुष्मताम् ॥ ३५७ ॥ कियन्तोऽतिरथाः सम्यक्कियन्तश्च महारथाः। कति चारथाः सैन्ये सेनान्यं च करोमि किम् ।। ३५८ ।। अथाभाषत भीष्मस्तं राजन्किमिदमुच्यते । स्वयं वेत्स्येव यत्सत्यं रहस्यं सर्वधन्विनाम् ॥ ३५९ ॥ राधेयस्तु प्रमादी च कृपालश्च रणाङ्गणे । तेनाधरथ एवायमिति में प्रतिभासते ॥ ३६० ।। वचस्तदिदमाकर्ण्य कर्णाय विषसोदरम् । अभिधत्ते स राधेयः कोयकम्प्रोष्ठपल्लवः ॥ ३६१ ॥ पाण्डवचरितम् । ५०३ गाङ्गेयस्य रणे यावदातिरथ्यं प्रथिप्यते । न पाण्डवैः समं तावद्धारयिष्ये धनुर्यदि ॥ ३६२ ॥ इत्युदीर्य भुजावीर्यैर्मन्यमानस्तृणं जगत् । कर्णः क्रोधान्धलोऽगच्छदुत्थायास्थानमण्डपात् ।। ३६३ ॥ गतेऽस्मिन्नसुखायन्तं भीष्मोऽभाषिष्ट भूपतिम् । राजन्कोऽयमकाण्डेऽपि मुखे कष्मलिमा तव ॥ ३६४ ॥ प्रधने धृतधन्वाहं यदि कर्णेन किं तदा । न चेदुपात्तचापोऽस्मि राधेयेन तदापि किम् ॥ ३६५ ॥ अथाभ्यधायि गान्धारीतनयेन पितामहः । चेत्प्रसीदसि मे तात किंचिद्विज्ञापयाम्यहम् ॥ ३६६ ॥ तातमेवयमध्यास्तां रणभारधुरीणता । धराभ्युद्धारधौरेयः को नामान्यः फणीश्वरात् ॥ ३६७ ॥ तां गिरं कौरवेन्द्रस्य प्रत्यश्रौषीपितामहः । सेनानी त्वेतदैवायमभ्यषिच्यत वामुना ॥ ३६८ ॥ अथ प्रस्थापितो राज्ञा गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥ ३६९ ॥ राजन्दुर्वारदोवीर्यनिर्जितारातिमण्डलः । जल्पति त्वामिदं वीरो मद्विरा कौरवाग्रणीः ॥ ३७० ॥ त्वद्वान्तभुवः कीर्तेः संविभागमितपचः। अहमाद्यं रणारम्भ जरासन्धमयाचिषम् ।। ३७१ ।। तत्प्रातस्तात गाङ्गेयमाहवोत्सवदीक्षितम् । पुरस्कृत्यावतीणे मां द्रक्ष्यसि त्वं रणक्षितौ ॥ ३७२ ।। तदन्तर्मनसं कोऽपि सत्त्वोत्कर्षोऽस्ति चेत्तव । विश्वविश्वंभराभोगवैभवे च यदि स्पृहा ।। ३७३ ॥ यदि दोर्विक्रमोऽप्यस्ति तव कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्तिसौवस्तिकभुजा यदि ॥ ३७४ ॥ काव्यमाला। तदात्मीयवलैः सार्धं सर्वैरपि हरेर्बलैः । तिष्ठेथाः पुरतः प्रातराहवे मम बाहवे ॥ ३७५ ॥ (त्रिभिर्विशेषकम् ।। तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमङ्कुरितप्रीतिरभ्यधत्त युधिष्ठिरः ॥ ३७६ ॥ तस्यापि स्वप्रभोरेवं वन्दिराज निवेदयेः । त्वमप्येतद्वचः कार्षीर्मा विपर्यासपांसुरम् ।। ३७७ ॥ अहं तु यदि नाभ्येमि त्वत्प्रागेव रणाङ्गणम् । सूनृतव्रतिनस्तन्मे संपूर्णैवावकीर्णता ॥ ३७८ ॥ व्याहृत्येति हिरण्यौधैरमुं सत्कृत्य मागधम् । विसृज्य च तपासूनुर्ययौ कंसान्तकान्तिकम् ॥ ३७९ ॥ निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथमसंग्राममच्युतं सोऽप्ययाचत ।। ३८० ॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हसन् । मामत्रैकतुलाछूते भागिनं न करिष्यसि ॥ ३८१ ॥ नहि साहायकापेक्षी नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तुर्यत्र देदीप्यतेतमाम् ॥ ३८२ ॥ तथापि सारथीभूय दर्श दर्श नवा नवाम् । कपिध्वजधनुष्मत्तां प्रीणयिष्ये दृशौ मम ॥ ३८३ ॥ धर्मभूतिः प्रतिश्रुत्य तां गिरं मुरविद्विषः । गत्वा च खचमूर्युद्धसंवाहाय समादिशत् ।। ३८४ ॥ मतिमान्सर्वसंमत्या द्रुपदोशिनन्दनम् । पताकिनीपतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥ ३८५ ॥ नानावर्णास्तदैवान्तःक्रोधार्चिष्मच्छिखा इव । स्कन्धावारप्रवीराणां नेत्रपट्टा विनिर्ययुः ॥ ३८६ ।। रणारम्भोत्सवो वीरकवलाय भटावलेः । करम्भाकारकाभासो निरपाद्यन्त दाधिकाः ।। ३८७ ।। पाण्डवचरितम् । ५०५ द्रक्ष्यामो भटकण्ठस्था युद्धोत्सवमिति ध्रुवम् । विकाससुभगाभोगाः सृज्यन्ते स्म नवाः स्रजः ॥ ३८८॥ धृष्यते स्म प्रवीराणामङ्गरागाय चन्दनम् । पिष्यन्ते स्म ललामेभ्यो भूयस्यो मृगनाभयः ॥ ३८९ ॥ बलिपुष्पोपहारादिवस्तुभिर्भटवेश्मसु । पुरस्तादस्त्रदेवीनां प्रावर्तत महोत्सवः ॥ ३९० ॥ उपयाचितलक्षाणि देवताभ्यः पृथक्पृथक् । प्रतिशुश्रुविरे वीरदारैर्मर्तृजयैषिभिः ॥ ३९१ ॥ तत्पूर्वसंगमप्रेमकल्लोलिन्य इवोच्चकैः । प्रेयसो रहसि खैरमालिलिङ्गुर्भटाङ्गनाः ॥ ३९२ ॥ वीरसूतिरहं वीरस्नुषा च जगति श्रुता । अखण्डवीरपत्नीत्वमिदानीं तु मम क्रियाः ॥ ३९३ ।। भीताश्च सप्रमोदाश्च त्वय्येव रणरङ्गिाणि । विश्राम्यन्तु दिशः कामं वैरिणां च प्रमोश्च ते ॥ ३९४ ॥ निजकौक्षेयकक्षुण्णकुम्भिकुम्भस्थलोद्भवैः । विदध्यान्मौक्तिकैमी च स्वामिन्कीर्तिं च हारिणीम् ॥ ३९५ ॥ कुर्वीथास्त्वं तथा नाथ यथा त्वां पश्यतो रणे। भटीजनस्य सर्वस्य स्पृशामि स्पृहणीयताम् ॥ ३९६ ॥ निर्जित्यारीनुपेतस्य प्रथयिष्यामि नाथ ते । निबिडालिङ्गनैरेव प्रहारत्रणशोधनम् ॥ ३९७ ॥ इत्यालिङ्गय रहः काश्चिदुच्चरत्पुलकाङ्कुराः । उपस्थितरणान्प्रातः प्राणनाथान् बभाषिरे ॥ ३९८ ॥ (पडिः कुलकम्) वीरश्रिया पुरस्कृत्य प्रीत्या दृष्टोऽप्सरोगणैः । जयलक्ष्म्या समांश्लिष्टो नैव वीक्षिष्यसेऽपि नः ॥ ३९९ ॥ इत्युच्चैः कृतकासूया निर्भर वल्लभाजनैः । रणैषिणः स्मरमेरकपोलैः केचिदूचिरे ॥ ४०० ॥ ५०६ काव्यमाला। मया युधि हताः स्वर्गं यास्यन्ति रिपवः स्फुटम् । मद्वैरात्तत्र योद्धारस्ततः क्षुण्णाः क्व गामिनः ॥ ४०१॥ आत्तासिजर्जरान्स्वर्गभूमिकां ग्राहयन्नरीन् । रणरङ्गेऽभिनेष्यामि स्वामिलक्ष्मीस्वयंवरम् ॥ ४०२ ॥ मत्कृपाणप्रहारोत्थैर्मोक्तिकैरिभसंभवैः । द्विषो द्रक्ष्यन्ति सत्रासं दिवा तारकितां दिवम् ॥ ४०३ ॥ उन्नतः समरव्योम्नि ममासितनाम्बुभृत् । सूत्रयिष्यति संतापं केषां नाम न वैरिणाम् ॥ ४०४ ॥ कीर्तिप्रावारमुन्मुच्य बहिर्बाहूष्मतापिताः । कृपाणाम्भसि मङ्खन्ति मम के नाम नारयः ॥ ४०५ ॥ एकस्मिन्नेव निक्षिप्ता मदीयशरपञ्जरे । द्विषः सर्वेऽपि लप्स्यन्ते केलिपारावतोपमाम् ॥ ४०६ ॥ पास्यन्ति मे पिपासार्ता इव वेगेन गामिनः । विद्वेषिदन्तिनां दानवारिधारां शिलीमुखाः ॥ ४०७ ॥ आदास्यन्ति ममारातिदन्तिदानानि मार्गणाः । कीर्ति तु मत्प्रभोरेव करिष्यन्ति जगत्रये ॥ ४०८ ॥ इत्यादयस्तदानेकाः समीकोत्साहशालिनाम् । भटानामभवन्भूयो भूय एव मिथः कथाः ।। ४०९ ॥ (नवभिः कुलकम्) अथोन्निद्रजपात्रं तन्यमानो रविर्महः । उल्ललास दिशि प्राच्यामानन्दैः सह दोषमताम् ॥ ४१० ॥ सर्वाञ्जागरयन्सैन्यराजन्यान्सह विक्रमैः । वारिजन्मानि दध्वान द्राक्संनाहनिकस्ततः॥ ४११ ।। श्रोत्रेणान्तःप्रविष्टैस्तन्नादैरुद्वेलिता इव । निर्ययुः पुलकव्याजान्महीशानां बहिर्मुदः॥ ४१२ ॥ रणराभसिकाः पत्तिस्यन्दनाश्चेभसज्जने । राजानोऽधिकृतानुचैस्त्वराभाजोऽप्यतत्वरन् ॥ ४१३ ।। पाण्डवचरितम् । मदाम्बुपङ्किलीभूताः कणकनकशृङ्खलाः । काश्यपीशयनादुच्चैरुदस्थाप्यन्त दन्तिनः ॥ ४१४ ॥ सादिभिर्दुतमभ्येत्य रणत्काञ्चनभूषणाः । सर्वतोऽप्युदमोच्यन्त वल्लितोऽश्वमतल्लिकाः ॥ ४१५ ॥ मा स्म कातरता काचिद्वन्धुलोकस्य भूदिति । दृढशौण्डीरवर्माणोऽप्युर्वीशाः समवर्मयन् ।। ४१६ ॥ हृदि यस्यैकदेशेऽपि वरूथिन्यो ममुर्द्विषाम् । युक्तमेव भटस्याङ्गं ममौ वर्मणि यत्नतः ॥ ४१७ ॥ सहिष्यतेऽरिनाराचान् किमेतदिति केचन । परीक्षितुमिवाविध्यन् वर्म रोमाञ्चतोमरैः ।। ४१८ ॥ अनालोक्य मुखं संयत्याहास्यन्ते द्विपो न नः । इति केचिच्छिरस्त्राणं नात्मनः शिरसि न्यधुः ।। ४१९ ॥ क्षणमात्रान्महामात्रैरिभाः संवर्मिता बभुः । भा(सा)नुमन्तो नितम्बान्तलम्बमानाम्बुदा इव ।। ४२०॥ वार्धिकल्लोलतत्कालनिर्यदुच्चैःश्रवः श्रियम् । बिभ्रत्यः प्रक्षरोपेता रेजिरे वाजिराजयः ॥ ४२१ ॥ रथैर्वरूथिभिर्दिव्यैर्युक्तवाहीकवाजिभिः । काम रेजेऽवमन्वानैः पतङ्गस्य पताकिनम् ।। ४२२ ॥ अरिष्टाय द्विपां धर्मजन्मापि सह बान्धवैः । दंशिताको दुरीक्षोऽभूत्परिवेषीव भानुमान् ॥ ४२३ ॥ पश्चापि पाण्डवा रेजुधृतनानायुधास्तदा । कल्पान्त इव पाथोदाः स्फुरितानल्पविद्युतः ।। ४२४ ॥ पाथेयैरिव साम्भोभिर्निचित्य विविधायुधैः । संगरार्णवनौकल्पानारोहन्ते स्म ते रथान् ॥ ४२५॥ आरूढकल्पितानेकरथानेकपवाजिनः । भूभुजः परितो भेजुस्तानिन्द्रानिव नाकिनः ॥ ४२६॥ काव्यमाला. करश्रेणिभिराग्नेयान्मार्गणानिव धारयन् । रौचनिक्या रुंचा हैमं वारवाणं वहन्निव ॥ ४२७॥ तदानीं विनतासूनुनोदिताश्वः पतिर्द्युताम् । तेषां साहायकायैव दृश्यतामगमत्पुरः ॥ ४२८ ॥ (युग्मम्) खेलदुच्छृङ्खलद्योतां चण्डरोचिःसहस्रिणीम् । वीक्षामासुस्तदा सर्वे कौबेरीमपि तां दिशम् ॥ ४२९ ॥ तां दिशं यावदेक्षन्त विस्मयस्सेरचक्षुषः । दिव्यानि ददृशुस्तावत्ते विमानानि भूरिशः॥ ४३० ॥ तेभ्योऽवतीर्य दोपर्यस्तारिभुजौजसः । मणिचूडसहस्राक्षचन्द्रापीडमहाबलाः ॥ ४३१ ॥ चित्राङ्गदादयोऽन्येऽपि खेचरानीकिनीवृताः । विद्याधरेश्वराः सर्वे प्रणेमुर्धर्मनन्दनम् ॥ ४३२ ।। (युग्मम्) ऊचिरे च पुरा देव त्वया तव सहोदरैः । जीवितं सुकृतस्तैस्तैः कामं क्रीतमिदं हि नः ॥.४३३ ॥ अद्य विद्याधरेभ्यस्तत्कौरवैः सह संगरम् । विदित्वा भवतो वेगादिहागच्छाम शाधि नः ॥ ४३.४ ॥ ,अथ कोऽयं रणारम्भसंरम्भो भवतः खयम् । इयद्भिः सद्भिरस्माभिः पत्तिभिर्निविपत्तिभिः ॥ ४३५ ।। इत्युदीर्य यथौचित्यं भीमादीनभिवाय च । तुष्टात्मनस्तपःसूनोनिदेशात्तेऽप्यदंशयन् ॥ ४३६ ॥ हैडम्बेयोऽपि विज्ञाय विद्यया समरोद्यमम् । आययौ मनसा सर्वान्द्विषो गण्डूषयिष्यता ॥ ४३७ ॥ आनन्य धर्मजं नत्वा क्रमात्पितृपितृव्यकान् । आदिष्टस्तैः प्रहृष्टास्यैः सोऽपि संनाहमग्रहीत् ॥ ४३८ ॥ सहर्षों यहेषाभिरूर्जितो गजगजितैः । क्षीबः प्रवीरक्ष्वेडाभिरश्चितो रथचीत्कृतैः ॥ ४३९ ।। $ पाण्डवचरितम् । ५०९ लुम्पल्लोकश्रुतिश्रेणीर्दारयनिगरिकन्दराः। उद्वेलयन्महाम्भोधीन्कम्पयन्काश्यपीतलम् ।। ४४०॥ शब्दाद्वैतमयीं रोदःसंपुटीं घटयन्निव । महानादोऽथ द्ध्वान दुन्दुभिः सांपरायिकः ।। ४४१ ॥ (त्रिभिर्विशेषकम्) अर्कवन्मकर धर्मसूतिरास्थितवानथम् । प्रतस्थेऽरिहिमोच्छित्त्यै रणक्षोणिमनुत्तराम् ॥ ४४२॥ स प्रातिपन्थिकस्तस्य प्लावयिष्यन्निवावनिम् ।। धृष्टद्युम्नं पुरस्कृत्य चचाल बलनीरधिः ॥ ४.४३ ॥ रथाङ्गपाणिः सारथ्यमाचरन्सव्यसाचिनः । ददृशे विसयाल्लोकैररुणस्येव भानुमान् ॥ ४४४ ॥ ममोत्पत्तिभुवो व्योन्नः शल्यान्येतान्यतो ध्रुवम् । निस्वाननिस्वनस्तस्य शैलशृमाण्यपातयत् ॥ ४४५॥ तस्सिन्सैन्यौघसमर्दे निरुच्छासे महीरजः । व्यश्नुते स चिरेण द्यामप्युद्भूतमनेकधा ॥ १४६॥ केतवः पवनैः काममनुकूलैस्तरङ्गिताः। इतो जय इतो लक्ष्मीरित्याख्यान्त्य(न्त) इवाचभुः ॥ ४४७॥ रेणुरान्वीपिकैर्गन्धवाहरुद्वाहितः पुरः । नासीरस्यापि नासीरे द्विषो जेतुमिवाचलत् ।। ४४८ ॥ भटाः शत्रून्न पश्येयुरेभिरन्धभविष्णवः । इतीवाशमयदा(न् दा)नैः क्षोणिरेणून्करेणवः ।। ४४९ ॥ शूरस्यापि परस्योच्चैःकरक्षेपासहैरिव । कामं वीरायुधैर्भास्वत्कराश्लेषात्मजज्वले ॥ १५०॥ विमानैरनुकामीनैः खेचराणां मणीमयैः । चकाशे दूरमाकाशे कुर्वद्भिः कमलाकरान् ।। ४५१ ॥ . अनुकूलैः. ५१० काव्यमाला। निवासेषु पदव्यां च रणक्षोणौ च सा चमूः । साक(ल्ये)नैव सर्वत्र महावृष्टिरिवाबभौ ॥ ४५२ ॥ अथोपेत्य समिद्भमौ पाण्डवेयस्य शासनात् । आरचय्य महद्व्यू(हाव्यू )हं भूनेतारोऽवतस्थिरे ॥ ४५३ ॥ यदैव च तपासूनोरनीकं समनह्यत । तदैव कौरवस्यापि शङ्खः सांनाहिकोऽध्वनत् ॥ ४५४ ॥ किं नामास्मिन्त्रणारम्भे भवितेति धिया समम् । अथ प्रजागरांचक्रुर्भूभुजो भुजशालिनः ॥ ४५५ ॥ वल्लभादोलताश्लेषसुखनिर्मग्नचेतसः । केचिद(त्त)ल्पं चिरादौज्झन्श्रुतशङ्खस्वना अपि ॥ ४५६ ॥ तदानीं विदितात्यन्तविप्रयोगागमा इव । स्वच्छन्दं दयितां केचिदालिलिङ्गुः पुनः पुनः ॥ ४५७ ॥ उत्सुकोऽसि खल खर्गे स्त्रीमोगेष्विति भाषिणी। प्रेयसी कंचिदुत्थास्नुमाश्लिष्य रुरुधे चिरम् ॥ ४५८ ॥ ताभिस्ताभिः कृतोत्साहै राजदौवारिकोक्तिभिः । संवर्मयितुमारेभे ततो विश्वंभराधवैः ॥ ४५९ ॥ नवोढदयितास्येन्दौ केचिनिर्मितदृष्टयः । उदस्तवर्मणोऽप्यने नापश्यन्ननुजीविनः ।। १६० ।। किं भविष्यत्यसौ जाते मम दैवादमङ्गले। शोचन्निति प्रियां कश्चिन्न संवर्मणमस्मरत् ॥ ४६१ ॥ किंचिदव्यक्तजल्पाकबाललालनलालसः । दशनानयनादेशमप्यदान्न निदेशिनाम् ।। ४६२ ।। श्रीशुद्धान्तगजाश्वादिचिन्तयाचान्तचेतसः t: 1 आरोप्यमाणमप्यङ्गे न वर्म विविदुः परे ।। ४६३ ॥ राजानो रेजिरे नद्धहाटकोत्कटकङ्कटाः । वैश्वानरा इवोदग्रज्वालाजालजटालिताः ॥ ४६४ ॥ १. देशनं कवचम् पाण्डवचरितम् । ५११ कश्चित्संहननोत्तालबलकोलाहलाकुलः । आलानद्रुममुन्मूल्य जगाहे शिबिरं करी ॥ ४६५ ॥ सेनाकलकलोद्भ्रान्तचेतसां सामजन्मनाम् । विशुष्यन्ति स्म केषांचिन्मदस्रोतांसि तत्क्षणात् ॥ ४६६ ॥ कथंचिद्राहयांचक्रे श्रुतसांग्रामिकानकः । उन्मीलितकटः सद्यः कङ्कटः कोऽपि कुञ्जरः ॥ ४६७ ॥ आदाय सिन्धुरः सादिमात्तैकगुडपक्षकः । कश्चिदाकस्मिकक्षोभक्षुण्णचेताः पलायत ॥ ४६८॥ आजये सज्जिताः कामं रेजिरे कुञ्जरेश्वराः । पत्रलाः परितो नम्रशाखान्ता इव शाखिनः ॥ ४६९ ॥ विनीता अपि तत्कालं कलिताविनयक्रमाः। ग्राह्यन्ते स्म बलात्केचित्खलीनमपि वाजिनः ॥ ४७० ॥ कल्पयन्तं तथा पञ्च सादिनं कोऽप्यहन्हयः । यथा सोऽभूदलंभूष्णुः सांयुगीने न कर्मणि ॥ ४७१ ।। संसूत्रिततनुत्राणास्तुरङ्गेन्द्राश्चकासिरे । कल्लोला इव कूलिन्याः परीताः पद्मिनीदलैः ।। १७२॥ संप्रत्यमङ्गलं बाष्पनिपातो मास्म भूदिति । ऊर्द्धपक्ष्मपुटप्रान्तं वितन्वत्याः पदक्रमम् ॥ ४७३ ॥ करिष्यति प्रिये सिद्धिसरकं स्खलनात्पदः । पपात पाणेः कस्याश्चिद्वलात्कनकभाजनम् ॥ ४७४ ।। (युग्मम्) कस्यापि कुर्वतो वीरकवलं गृहकुक्कुरः। कृतं करे करम्भस्य श्रंशयामास भाजनम् ॥ ४७५॥ दूर्वादिमङ्गलेषिण्याश्चलन्त्याश्चटुलक्रमम् । हारस्तुत्रोट कस्याश्चित्पत्यौ संग्रामगामिनि ॥ १७६ ॥ उन्मीलति क्षुते नासां विधर्तुं धावतो जवात् । प्रिये चलति कस्याश्चित्ससंसे वलयं करात् ॥ ४७७ ॥ ५१२ काव्यमाला । प्रकाव्यमाला ।
प्रक्षेप्तुमनसः प्रीत्या दूर्वादि पतिमूर्द्धनि ।
असलुप्तशोऽन्यस्याः पतति स्म तदन्यतः ॥ ४७८ ।।
परस्याः कुशली युद्धादागच्छेरिति भारती ।
आपृच्छ्यमाने कान्तेऽश्रुपूरैर्निन्ये वृथार्थताम् ॥ १७९ ॥
आपृच्छ्य गच्छतः प्राणनाथस्य वलिताननम् ।
कस्याश्चित्कृपणैर्दृष्टिनिपातैर्निगडायितम् ॥ ४८० ॥
धृतधारालवैरत्वाद्युद्धश्रद्धावशादपि ।
दर्पाच्च दुर्निमित्तानि तानि तान्यवहेलयन् ॥ ४८१ ॥
तुलामिव रविर्जेतुं जीमूतानिव पाण्डवान् ।
अथारोहन्महाबाहुः स्यन्दनं कुरुनन्दनः॥ ४८२ ॥ (युग्मम्)
सज्जितस्वस्वयानाधिरोहिणः कवचाञ्चिताः ।
मूर्तिमन्त इवोत्साहाश्चापवेदा इवाङ्गिनः ॥ ४८३ ॥
द्रोणाचार्यकृपाचार्यप्रमुखाः सामवायिकाः ।
कनीयांसश्च दग्धारिवना दुःशासनादयः ॥ ४८४ ॥
शल्यप्राग्ज्योतिषाधीशजयद्रथपुरःसराः।
भूमीभुजश्च तं मुक्तपर्यायं पर्यवीवरन् ॥ ४८५ ॥
(त्रिभिर्विशेषकम्
ग्रहैरिव ग्रहाधीशः स्वयूथैरिव यूथपः ।
पुण्डरीक इवाम्भोजैः शोभते स स तैर्नृपः ॥ ४८६ ॥
कातरान्विमनीकुर्वञ्शूरान्कण्टकयंस्ततः ।
जजृम्भे दुन्दुभिध्वानो दिग्निकुञ्जोदरंभरिः ॥ ४८७ ॥
आधाय पुरतो भीष्मं भीष्ममिण्वासकर्मणा ।
कौरवीयाचलत्सर्वपथीना सा वरूथिनी ॥ ४८८ ॥
केतनानि पराञ्चन्ति पवनैः प्रातिलोमिकः ।
कौन्तेयानीकिनीभीत्या नश्यन्तीव चकासिरे ॥ ४८९ ॥
अस्मद्विरोधिनोऽम्भोदान्बिभर्तीदमिति ध्रुवम् ।
पांशुभिर्नभसो लक्ष्मीरक्षुद्यत बलोद्धतैः ॥ ४९० ।।
कस्याप्यौद्धत्यमन्यस्य वयं न हि सहामहे ।
इतीव दन्तिभिर्दानैर्नीयते स्म शमं रजः ॥ ४९१ ।।
आयुधान्यायुधीयानां पतङ्गकरसंगमात् ।
साक्षानिरीक्षमाणामिदैवतानीव रेजिरे ॥ ४९२ ।।
क्षयार्णव इवोद्वेलः क्षणात्कुक्षिभरिदिशाम् ।
बलौघः सोऽपि संग्रामभूमिसीमानमागमत् ।। ४९३ ॥
बलैरलम्बुस(प)प्रष्टै(छै): खेचराणामलंकृता ।
पाण्डवानीकमभ्यस्थात्कृतव्यूहा चमूरसौ ॥ ४९४ ॥
तैस्तैरन्योऽन्यविच्छेदपूरणप्रवणारवैः ।
विरामरहितोद्दामप्रवृत्तनिनदैरिव ।। ४९५ ॥
मिथः पीतप्रतिध्वानरन्तर्मनान्यपि(निखनैः ।
प्रणेदेऽथ रणातोद्यैः सैन्ययोरुभयोरपि ।। ४९६ ॥
(युग्मम् ।)
तर्जयन्त इव क्रोधान्मरुत्प्रेढोलनैमिथः ।
अनीकद्वितयस्यापि विराजन्ते स्म केतवः ॥ ४९७ ।।
स्वामिवरेण वैरायमाणा इव परस्परम् ।
द्वयोरपि वरूथिन्योरम्बरे रेणवोऽमिलन् ।। ४९८ ॥
पूर्वशौण्डीरदोर्दण्डचण्डिमस्तवपूर्वकम् ।
जनकस्यावदानाङ्कनामोद्दारपुरःसरम् ॥ ४९९ ।।
शश्वत्प्राप्ताद्भुतखामिप्रसादस्मरणोत्तरम् ।
प्रस्तुतस्तुतिकर्मभ्यः संगरोत्साहहेतवे ॥ ५०० ।।
उभयोरप्यनीकिन्योः सुभटैः समरोद्यतैः ।
प्रदीयन्ते स्म बन्दिभ्यो भूषणानि यथोचितम् ॥ ५०१॥
(त्रिभिर्विशषकम् )
द्वयेऽपि भर्तुरादेशात्कथंचिद्वेत्रपाणिभिः ।
ध्रियन्ते स धनुष्मन्तः प्रथमप्रधनेच्छवः ।। ५०२ ॥
५१४ काव्यमाला।।
पीयूषांशुमयं मुखैः कुवलयश्रेणीमयं लोचनै-
र्नानारत्नमयैर्विमाननिवहैः संध्याम्बुदालीमयम् ।
कुर्वद्भिः कुरुपाण्डवेयसमरव्यालोकनव्याकुलै-
र्गान्धर्वामरखेचरैर्वियदलचक्रे तदानीं क्षणात् ॥ ५०३ ॥
इति मलपारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये दूतसोमकाग
मनप्रयाणकवलवर्णनो नाम द्वादशः सर्गः ॥ १२ ॥
त्रयोदशः सर्गः ।
अथैवं समय(यः) चक्रे सैनिकैरुभयैरपि ।
नावहारे प्रहर्तव्यं नापशस्त्रे न च स्त्रियाम् ॥ १॥
ततः प्रौढरथारूढौ वृकोदरकिरीटिनौ ।
धृष्टद्युम्नस्य सेनान्यश्चक्रतुश्चक्ररक्षिताम् ॥२॥
अथ प्रतिपताकिन्या भटानेकैकशः पुरः।
सूतं पप्रच्छ पक्षीन्द्रकेतनं कपिकेतनः ॥ ३ ॥
ततः प्रत्येकमालोक्य प्रतिपन्थिवरूथिनीम् ।
अभ्यधान्माधवो वाजिकेतुकीर्तनपूर्वकम् ॥ ४ ॥
एष तालध्वजः कालः साक्षादिव रणक्षितौ ।
सेराहतुरगो गङ्गासूनुः सर्वंकषो द्विषाम् ॥ ५ ॥
द्रोणः सोऽयमविद्राणकीर्तिः कलशकेतनः ।
शोणसप्तिः समित्सर्वधुरीणधनुरूर्जितः ॥६॥
इतश्चायं कृपाचार्यों ध्वजीकृतकमण्डलुः ।
धनुर्विद्यालताकन्दश्चन्दनाभतुरङ्गमः ॥ ७ ॥
सैष दुर्योधनो धन्वी नीलाश्वो नागकेतनः। ।
भुञ्जानस्य भुवं यस्य शल्यन्ति त्वद्भुजाः परम् ॥ ८॥
दुःशासनोऽयमानायकेतुः पीततुरङ्गमः ।
स्थितं यद्भयतो लीनैर्दानैर्मानैरिवारिभिः ॥९॥
पीयूषवर्णाश्वः. पाण्डवचरितम् ।
वोल्लाहैश्च हयैः सोऽयं सौबलो गवलध्वजः । .
भुवनेऽप्युत्तमर्णत्वमस्यैव क्रूरिमश्रियाम् ॥ १० ॥
अश्वत्थामायमास्थानं वैरिवारभुवां भियाम् ।
द्रोणसूनुः कियाहाश्वः सिंहलाङ्गूलकेतनः ॥ ११ ॥
शल्यः सैष मनःशल्यमिव निःशेषविद्विषाम् । .
सीताकेतुषिकेतुरश्वैर्बन्धूकबन्धुरैः ॥ १२ ॥
विद्विषद्वारदुर्वाररथः सोऽयं जयद्रथः ।
लोहिताश्वो हृतारातिचेतनः कोलकेतनः ॥ १३ ॥
असौ भूरिश्रवाः श्रव्यकीर्तिकालाहलः पुरः ।
पञ्चभद्रहरिः कामानुरूपो यूपकेतनः ।। १४ ॥
भगदत्तोऽयमात्तारिकीर्तिरारोहकाग्रणीः ।
सुप्रतीकगजारूढः प्रौढस्तम्बेरमध्वजः ॥ १५ ॥
एतेऽन्येऽपि सुशर्माद्या भूभुजो भुजभूषणाः ।
तैस्तैः केतुभिरश्वैश्च निरीक्ष्यन्तेऽभिलक्षिताः ॥ १६ ॥
एतावन्तो जयद्वीपं यास्यतो धर्मजन्मनः।
अन्तरम्भोधयः सन्ति पोतस्तु धनुरेव ते ॥ १७ ॥
इमामम्भोजनाभस्य निशम्य विमलां गिरम् ।
न्यषीददुज्झितेष्वासो रथक्रोडे कपिध्वजः ॥ १८ ॥
निजगाद च गोविन्दं गुरुसंबन्धिबान्धवान् ।
हन्तुमुत्सहते नैतान्मनागपि मनो मम ॥ १९ ॥
तत्किं राज्यं श्रियस्ताः काः किं च तत्पौरुषं मम ।
बीजानि यानि दायादगुरुबन्धुवधैनसाम् ॥ २० ॥
मत्तनूवीरुधोऽमुष्याः शश्वदावालतामगात् ।
यस्याङ्गः किं शरास्तस्य पतेयुर्मे पितामहे ॥ २१ ॥
अश्वत्थाम्नोऽपि नाम्नायं तथा चापस्य यो ददौ ।
वात्सल्यान्मे यथादत्त तं गुरुं हन्मि किं रणे ।। २२ ॥
वोल्लाहः पाण्डुकेशरवालधिरश्वविशेषः. २. रक्तवर्णाश्वः. काव्यमाला।
बान्धवा बान्धवा एव बाढमप्यपकारिणः ।
एतेष्वपि मदिष्वासः संदधत्रपते शरान् ॥ २३ ॥
अथोज्जगार कंसारिर्ननु वीरावतंस ते ।
कृपानवाङ्कुरः कोऽयं क्षत्रधर्मविलक्षणः ॥२४॥
गुरौ पितरि पुत्रे वा बान्धवे वा धृतायुधे ।
बीतशङ्ख प्रहर्तव्य इति च क्षत्रियव्रतम् ॥ २५ ॥
बान्धवा बान्धवास्तावद्यावत्परिभवन्ति न ।
पराभवकृतस्तूचैः शीर्षच्छेद्या भुजावताम् ॥ २६ ॥
वैश्वानरः करस्पर्शं मृगेन्द्रः श्वापदखनम् ।
क्षत्रियाश्च रिपुक्षेपं न क्षमन्ते कदाचन ॥ २७ ॥
दायादा अपि हन्तव्या वहन्तो वैरिगृह्यताम् ।
तमोगृह्यान्निगृह्णाति ग्रहात्किं न ग्रहापणीः ॥ २८॥
प्रातुर्विश्वैकधानुष्के सत्यपि त्वयि बान्धवे ।
यत्कर्षन्ति द्विषो लक्ष्मीं सापि ते महती त्रपा ॥ २९ ॥
तत्कृपां शिथिलीकृत्य चापमादाय पाणिना।
आधिपत्यं भुवो भूयः स्वभ्रातुर्दातुमर्हसि ॥ ३० ॥
किं चामीषामुपेतोऽयमन्तः स्वैरेव कर्मभिः ।
त्वं तु केवलमेतस्मिन्हेतुमात्रं भविष्यसि ॥ ३१ ॥
अवश्यमव्यलीकस्य वधः पापाय जायते ।
धनुष्मन्तो जिघांसन्ति जिघांसन्तं पुनः परम् ॥ ३२ ॥
तद्गृहाण करे बाणान् चापमारोपय द्रुतम् ।
घानिष्यन्तेऽरिभिः पश्य पश्यतस्तव बान्धवाः ॥ ३३ ॥
इत्यादिष्टामुपश्रुत्य विष्टरश्रवसो गिरम् ।
समुत्तस्थौ शनैः पार्थः कार्मुकं कलयन्करे ॥ ३४ ॥
उभयोरपि कौन्तेयकौरवानीकयोस्ततः।
धनूंषि धन्विनो घोरनिर्घोषाण्यध्यरोपयन् ॥ ३५॥
उत्तरङ्गयशोराशिक्षीरनीरनिधिध्वनीन् ।
ते विडम्बयतो दध्मुर्जलजांश्च निजान्निजान् ॥ ३६॥
तन्नादेन तदाचान्त इवास्तमिव लम्भितः ।
प्राप्तवानिव विश्रान्ति रणतूर्यरवोऽभवत् ।। ३७ ।।
अथोवीर्य रथात्पद्भ्यामुपेत्य तपसः सुतः।
भीष्म कृपं च द्रोणं च कल्याणीभक्तिरानमत् ।। ३८॥
ततो वैजयिकीं तां तामुच्चार्य मुहुराशिषम् ।
तेऽतिप्रह्वमभाषन्त तं लज्जानिमिताननाः ॥ ३९ ॥
वत्स त्वयि न वात्सल्यमस्माकं परिहीयते ।
तथैव भवतोऽद्यापि भक्तिरप्यधिभूयसी ॥ १० ॥
परं किं कुर्महे वीर कौरवैर्भूरिभक्तिभिः ।
गृहीताः स्मस्तथा नैतान्यथा हन्तुं सहामहे ॥ ४१ ।।
अस्माभिर्जनताहास्यैर्धनेन निधनप्रदः ।
कृतः सुकृतहृद्दैन्यानिकायः कायविक्रयः ॥ ४२ ॥
युधि युष्माकमेवायं जयस्तु नहि संशयः।
यन्नासीरे महावीरौ न्यायधर्मी विसर्पतः ।। ४३ ॥
साक्षाद्विजयमूर्ति तामादाय गुरुभारतीम् ।
आगत्य पुनरारोहत्वं रथं स महारथः ॥ १४ ॥
समीके मनसा साकं विपक्षे सह चक्षुषा ।
इषूनवासिकाश्चण्डान्कोदण्डेष्वथ संदधुः ॥ ४५ ॥
दिक्कूलंकषनिर्घोषनिर्भराशेषरोदसः ।
ततश्चकृपुरिष्वासानुमयेऽपि धनुर्भृतः ॥ ४६॥
नवविस्फूर्तिदोःकीर्तिपटहोऽथ किरीटिनः ।
निपीतेतरविस्फारः स्फारितश्रुतिवैशसः ॥ १७ ॥
उल्ललास प्रतिस्वनैः कामं तुमुलयन्दिशः।
गाण्डीवकर्षणक्वाणः प्राणप्रावा(या)णिको द्विषाम्॥४८॥ (युग्मम्)
काव्यमाला।
व्योम्नि व्योमचरस्त्रैणैर्वीक्षितश्चकितेक्षणम् ।।
जृम्भते स ततो वीरंदोःप्रियकरणो रणः ॥ ४९॥
पुञ्जयन्त इवाशान्तान्संवृण्वन्त इवाम्बरम् ।
चेरुर्नासीरवीरासृग्मात्रभोजनिकाः शराः ॥ ५० ॥
पत्रिणां पत्रनिहादैः शिञ्जिनीनां च शिञ्जितैः ।
क्ष्वेडामिर्दोभृतां चाभूत्संभ्रमक्षुभितं जगत् ।। ५१ ॥
निशातविशिखव्याजाद्भूयस्यो रसना इव।
समं सर्वान्भटानत्तुं प्रेतभर्तुजम्भिरे ॥ ५२।।
अन्योन्यास्फालनोद्भुतस्फलिझैार्गणा अपि ।
कोपादस्त्रमिवानेयमातेनुरितरेतरम् ।। ५३ ॥
खेचरैः खेचराः खड्गपाणिभिः खड्गपाणयः ।।
सादिभिः सादिनश्चाधोरणैराधोरणा अपि ॥ ५४ ॥
रथारूढै रथारूढा अप्युच्चैः समगंसत ।
द्वन्द्वयुद्धमिति स्वैरं शौण्डीराणामवर्तत ॥ ५५॥ (युग्मम्)
मा स्म रश्मीषवोऽस्यापि पतन्योधेष्विति ध्रुवम् ।
रेणवोऽतिरयन्भानुं रथप्रधिभिरुत्थिताः ।। ५६ ॥
बहीयसि तदा पशिौ रणोत्सवमिवेक्षितुम् ।
ललम्बेडणवमभ्यणबभूवुः ककुभोऽखिलाः ॥ ५७ ।।
शराशरिपरित्रासादिव व्योनि पलायिताः ।
विद्याधरविमानान्तराविशत्रणेरणवः ॥ ५८ ॥
निर्माय नूतनां सिद्धकामुका इव यामिनीम् ।
पांसवो दिक्पुरंध्रीणामाकृषन्नम्बराञ्चलम् ॥ ५९ ॥
घनानौपम्यबन्धून्नः पड्कयन्तितमाममी ।
इतीव शमयामासुः पासून्मदजलैर्गजाः ॥ ६०॥
कर्णतालच्छलात्तालवृन्तैरिव मतङ्गजाः।
रजः पराजयांचक्रुः संपरायान्तरायकृत् ।। ६१ ।।
१ 'अम्बरम्' इति भवेत् पाण्डवचरितम् । ५१९
दन्तिनामनिलोद्धूता रेजुः सिन्दूररेणवः ।
अन्तःकोपहुताशस्य ज्वाला बहिरिवोत्थिताः ॥ १२॥
धावन्तः सिन्धुराः कामं प्रतिस्तम्बरमान्यति ।।
उत्पातपवनोत्क्षिप्ताः शैला इव चकासिरे ॥ ६३ ॥
वाजिनोऽप्याजिधौरेया नवाधोरितबन्धुराः ।।
मनांसीवाश्ववाराणामश्वरूपेण रेजिरे ॥ ६४ ॥
रथानां पतयः केतुदुकूलैरनिलाकुलैः ।
चेरुराह्वयमानानामिव प्रतिचमूरथान् ॥ ६५ ॥
ऊर्ध्वजमूर्द्धजाः शौर्यास्कोपारुणितचक्षुषः ।
वल्गन्ति स मुहुः कालकिंकरा इव पत्तयः ॥ ६६ ॥
बले द्रौपदिरेकसिन्नन्यस्मिञ्जाह्नवीसुतः ।
सुरान्कुमारवयोधान्योधयामास वैरिभिः ॥ ६७ ॥
ततः शौर्यप्रबालानि वीरव्रतनवाङ्कराः ।
उत्साहकन्दलोद्भेदाः क्षत्रधर्माप्रसूचयः ॥ ६८॥
उत्तरश्चाभिमन्युश्च पाञ्चालाश्च रणाङ्गणम् ।
मुहुर्जगाहिरेऽन्येऽपि कुमारा नवबाहवः ॥ ६९ ॥ (युग्मम्)
पराञ्चश्चक्रिरे वीरशौण्डीरातान्छिलीमुखैः ।
श्वापदा इव शार्दूलवायुभिर्नासिकंधमैः ॥ ७० ॥
मद्रराजस्य शल्यस्य वैराटेरुत्तरस्य च ।
जज्ञेऽथ समरो घोरः स्यन्दनस्थगजस्थयोः ।। ७१ ॥
श्रुतिनिर्भेदिनिहादानभिद्योतयतो दिवम् ।
अशनीनिव जीमूतौ तौ महेषूनमुञ्चताम् ॥ ७२ ॥
अम्बरेऽप्यमरस्त्रीणां कुतूहलितयोर्डशोः।
मानसस्य च भीतस्य तदाभूत्कलहो महान् ॥ ७३ ॥
उत्तरेणातिदुर्वारं शरासारं वितन्वता ।
तिरश्चक्रे क्षणं शल्यस्तोयदेनेव भानुमान् ॥ ७४ ।।
, 'उद्भूतमूर्द्धजा।' इति युक्त प्रतिभाति. ५२० काव्यमाला॥
जितानेकाहवः शल्यो ह्रादिन्येव गिरिं हरिः ।
वैराटिं नवसंस्फोटसक्तं शक्त्या न्यपातयत् ॥ ७५ ॥
मन्थानगिरिनिर्मथ्यमानार्णवरवोपमः ।
आसीत्कौन्तेयसैन्येषु हाकारतुमुलो रवः ॥ ७६ ॥
अथ प्रथितकर्माणो धर्मसूनुर्धनुर्धराः ।
शरैः सेनानिभोगीनैः कामं भीष्ममयोधयन् ॥ ७७॥
देवव्रतशरवाताः शत्रुसांतापिकास्ततः ।
दिशः सर्वाः क्षयाम्भोदधारासारा इवागृणन् ॥ ७८ ।।
अथ केषांचिदक्षस्य भङ्गो मानैः सहाभवत् ।
परेषामथ तद्बाहुसौष्ठवैः सह केतवः ॥ ७९ ॥
समं सत्त्वेन केषांचि सन्ते स्म धनुर्लताः ।
शिञ्जिन्यो जन्यकाङ्क्षाभिः साकं केषांचिदत्रुटन् ॥ ८० ॥
प्राणैः सार्धं पलायन्त युग्याः केषांचन द्रुतम् ।
विक्रमैः सह चक्राणि परेषां खण्डशोऽभवन् ।। ८१ ॥
छिद्यन्ते स्म सहान्येषां वर्माणि रणकर्मणा ।
सार्धं रोषेण केषांचिदधःसारथयोऽगमन् ॥ ८२ ॥
समं महिम्ना केषांचिदास्यपत्राणि दुद्रुवुः ।
सहान्येषामहंकारैः कूबराः कणशोऽभवन् ॥ ८३ ॥
पार्थानि जज्ञिरेऽन्येषां शून्यानि मनसा समम् ।
ओजसा सह केषांचित्सलंसे कार्मुकं करात् ॥ ८४ ॥
वल्गन्ति स्म समं कीर्त्या केषामप्यसृगूर्मयः ।
भेजे भुजैः सहान्येषां रथोत्सङ्गेऽस्त्ररिक्तताम् ॥ ८५॥
इत्थमुत्थापितानन्यसामान्यशरकर्मणाम् ।
पाण्डवानां चमूश्चक्रे गाङ्गेयेनाकुलाकुला || ८६ ॥
धृष्टद्युम्नोऽपि दोर्युम्ननिनितारातिविक्रमः ।
कौरवीये बले भूपान्संजहार सहस्रशः ॥ ८७ ॥
शैवलिन्यः कचै रक्तोत्पलिन्यः सुभटाननैः ।
रथस्तोमैस्तरीमत्यो मीनवत्यः कराझिभिः ॥ ८८॥
सितच्छत्रैः कुमुद्वत्यो वेतखत्यश्च केतुभिः ।
प्रावर्तन्त ततः कूलंकषाः शोणितसिन्धवः ॥ ८९ ॥ (युग्मम् )
उच्छृङ्खलं पतन्तीनामसृग्जलधियोषिताम् ।
प्रहारपतिता मार्गे शैलायन्ते स दन्तिनः ॥ ९० ॥
केतुदण्डमयी क्वापि चापदण्डमयी क्वचित् ।
तोत्रदण्डमयी क्वापि छत्रदण्डमयी क्वचित् ॥ ९१ ॥
तुरङ्गाङ्गमयी क्वापि क्वचिदिपवपुर्मयी।
वीरवमयी क्वापि रणक्षितिरवैक्षत ॥ ९२ ॥ (युग्मम्)
प्रहारपाटवात्काम नभोऽङ्कमभिधावितैः ।
रक्तैः सक्तैरिवाताम्रो भाखानस्तमुपाययौ ॥ ९३ ।।
त्यजन्ननायुधं षण्डं योषितं पूर्वपोषितम् ।
वित्रस्तं कातरं दीनं पराश्चमभयार्थिनम् ॥ ९ ॥
व्योमान्तापिमिस्तैस्तैः शरासारैररंतुदैः।
भीष्मः पर शतान्भूपानादिनान्तादपातयत् ॥ ९५॥
ततः स कृपया चापशिञ्जिनीमवरोपयन् ।
सैन्यद्वयेऽपि तत्कालमवहारमकारयत् ॥ ९६ ॥
अथोत्तरवधात्खेदमेदुराः पाण्डसूनवः ।
धार्तराष्ट्रास्तु सानन्दाः स्वं स्वं शिबिरमन्वगुः ॥ ९७।।
विराटदयितां रात्रौ पुत्रशोकार्तिविक्लवाम् ।
सुदेष्णां निर्यदुष्णानु धर्मभूरित्यसान्त्वयत् ॥ ९८ ॥
कल्याणि वीरकान्तासि शुचा कस्तव संस्तवः ।
ननु वत्सेन तेनाद्य वीरसूरसिं निर्मिता ॥ ९९ ॥
तस्य पापीयसो मद्रभूभर्तुरुदरादहम् ।
पृषत्कैश्चेन्न कर्षामि तवाङ्गरुहमुत्तरम् ।। १०० ॥
काव्यमाला।
तदायं समरारम्भो मा स्म भून्मे फलेग्रहिः ।
कदाचिदपि मन्येथा मा च मां सत्यसंगरम् ।।१०१॥ (युग्मम्
एवमाश्वासिता धर्मसूनुना सामुचच्छुचम् ।
उदात्तप्रकृतीनां तु शोकः स्तोकतरस्थितिः ॥ १०२ ॥
तथैव विशिखनातैर्नृपानीकान्यनेकशः।
भीष्मो निनन्घृणानिनः सप्ताहान्यत्यवाहयत् ॥ १०३ ।।
उदारधीः सदाराय धृतराष्ट्राय संजयः ।
नित्यमावेदयांचवे निशि सांग्रामिकीः कथाः ॥ १०४ ॥
धर्मात्मजोऽधिवात्सल्यान्निजानां दक्षिणेर्मणाम् ।
निर्ममे खोमिकावामिः प्रत्यहं व्रणरोहणम् ॥ १०५ ।।
अष्टमेऽपि तथैवाहि युध्यमाने पितामहे ।
भृशमारेमिरे योद्धं पाण्डवानीकभूभुजः ॥ १०६ ॥
निषड्ने योऽगमत्पाणिस्तत्रैव तमकीलयत् ।
यश्चक्रे शरसंधानं चिच्छिदुस्तस्य चाङ्गुलीः ॥ १०७ ।।
ज्यां करो योऽकृषत्तं तु समं कर्णेन विव्यधुः ।
चक्षुरैक्षत यल्लक्ष्यमाकर्षस्तस्य तारकाम् ॥ १०८ ॥
स्थैर्यगर्वं च मूर्छाया मनागपि न सेहिरे ।
किं पुनर्च्महे छेदे कार्मुकस्य गुणस्य च ॥ १०९ ॥
एवं कुरुवरूथिन्या धनुर्दण्डैकमण्डलीम् ।
कुर्वते स निरुच्छासा कौन्तेयबलधन्विनः ॥ ११०॥
(चतुर्भिः कलापकम् ।
दोर्भुतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः।
शल्याकुलशरीरस्य श्वाविधो दधिरे तुलाम् ॥ १११॥
मज्जत्तलिननाराचमण्डलव्याप्तमौलयः ।
बभुर्युद्धरसोत्तब्धकुन्तला इव केचन ॥ ११२ ।।
बाणवणितसर्वाङ्गं कुरूणां तहलं बभौ ।
उद्बुद्धमिव बन्धूकवनं जङ्गमतां गतम् ॥ ११३ ॥
तदानीं धन्विनां खैरमुच्छलद्भिः शरोत्करैः ।
क्षुण्णः प्रेक्षकवन्मन्ये वासरोऽप्यन्तमासदत् ॥ ११४ ॥
हतवत्यपि गाङ्गेये महीपालान्सहस्रशः।
हताभ्यधिकभूपालाः सानन्दाः पाण्डुनन्दनाः ॥ ११५ ॥
कौरवाः पुनरुद्वेलवैमनस्यमहार्णवाः ।
अवहारे कृते जग्मुः स्कन्धावारं निजं निजम् ॥ ११६ ।।
(युग्मम् )
धार्तराष्ट्रस्ततो रात्रौ गाङ्गायनिमुपागमत् ।
प्रणिपत्योपविश्याने सोपालम्भमदोऽवदत् ॥ ११७ ॥
तात स्पष्टमवष्टम्भात्तव कार्मुककर्मणाम् ।
सर्वपार्थविघातार्थमारम्भोऽयं ममाभवत् ॥ ११८॥
को नाम हिममुच्छेत्तुं शूरोऽपि सुरभिं विना ।
कीदृशः काननं दग्धुमग्निरप्यनिलाहते ॥ ११९ ॥
त्वं तु कौन्तेयदाक्षिण्यात्संगरे तद्धनुर्धरैः।
नित्यमास्माकगीर्वाणान्हन्यमानानुपेक्षसे ॥ १२०॥
तेभ्योऽस्मदहितेभ्यश्च दातुं राज्यं तवेप्सितम् ।
तव्यापादय मां तात सद्यः खेनैव पाणिना ।। १२१ ॥
इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् ।
वत्स तुच्छोचितः कोऽयमुद्भारोऽद्य गिरां तव ॥ १२२ ॥
ज्ञातेयान्मे यदप्येतच्चतस्तेष्वपि वत्सलम् ।
तथापि त्वयि विक्रीतं जीवितव्यमिदं मया ॥ १२३ ॥
त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् ।
योद्धव्यमनुरोधं च विमुच्य सह पाण्डवैः ॥ १२४ ॥
परं कपिध्वजो यत्र करे धारयते धनुः ।
जयः सांशयिकस्तस्मिन्नवश्यं समराङ्गणे ॥ १२५॥
तथाप्याजन्मतोऽभ्यस्तनिस्तुषैश्चापकर्मभिः
तात प्रातः करिष्यामि निःशौण्डीरां वसुंधराम् ॥ १२६ ।।
काव्यमाला।
एवमुन्मीलितप्रीतिर्जाह्नवीतनुजन्मना ।
जगाम निजमावासमुत्थाय कुरुपुङ्गवः ॥ १२७ ॥
नवमेऽह्नि ततः कोपात्कौन्तेयानिकिनीमटान् ।
मश्नाति स शरैर्भीष्मः करैर्ध्वान्तानिवांशुमान् ॥ १२८ ॥
करेषु कार्मुकं कर्तुमपि केचिन्न सेहिरे ।
शिञ्जिनीमटनिप्रान्तमानेतुं तु कथैव का ॥ १२९ ॥
केचन ध्वजचण्डस्य लीयन्ते स्मान्तरे मुहुः ।
विशन्ति स्म वरूथान्त चकैर्भूय केचन ॥ १३० ।।
पान्ति स्म केचिदात्मानमन्तराकृत्य सारथिम् ।
अकीर्तिमुररीकृत्य मुमुचुः केचिदाहवम् ।। १३१ ॥
पश्यन्ति स्म तदा पश्चाद्भागानेव पितामहः ।
वैरिणां च शराणां च नैव केषांचिदाननम् ॥ १३२ ॥
पार्थाय पार्थिवान्भीष्मो हन्ति कोऽप्यनकेशः।
नादेयानिव कल्लोलान्कल्लोलः सलिलेशितुः ।। १३३ ।।
बाणवर्षिणि गाङ्गेये पाण्डवीया धनुर्भूतः ।
निर्जीवर्धन्विभिः सार्धं निर्जीवा एव जज्ञिरे ॥ १३४ ॥
अथ ताम्राम्बुदव्याजाच्छोणितोदाविला दिवम् ।
कुर्वन्नवनिसंहर्षादिवाभूद्दिवसात्ययः॥ १३५ ॥
विकाशश्रीस्तदा लेभे कौरवैः कैरवैरिव ।
प्राप्यते स च संकोचः पाण्डवैः पङ्कजैरिव ॥ १३६ ॥
उभे अपि पताकिन्यौ वेत्रिवारितसंगरे।
सायंकाले ततः खखनिवासानुपजग्मतुः ॥ १३७ ॥
समाहृत्य हृषीकेशमुखान्सांसदिकांस्ततः ।
इदमालोचयामास क्षपायां तपसः सुतः ॥ १३८ ॥
जाहबीतनयो यावद्धनोति प्रधने धनुः ।
दूरेऽस्तु विजयस्तावजीविताशा विनश्वरी ॥ १३९ ।।
संवर्मयति हि ध्वान्तध्वजिन्यां नवनीरदे ।
कः प्रकाशस्तुपारांगोरस्तित्वेऽपि हि संशयः ॥१४॥
तदेदकालिक किंचित्कर्तव्यमुपदिश्यताम् ।
संशय्य तिष्ठते यमायुप्माखेव गनो मम ॥ १४१ ॥
ततः कंसान्तकोऽवोचन्ननु मन्दाकिनीसुतम् ।
संग्रामेऽद्यतने काम संहरन्त धराधवान् ।। १४२ ।।
स्वयमेव क्ऱुधा हन्तुं बाहुरुत्सहते स मे ।
किं पुनः शपथैस्तैस्तै रुरोध प्लवगध्वजः ॥ १४३ ॥ (युग्मम् )
इदानीमपि निःशङ्कमनुजानीथ मां यदि ।
करोमि तदिदं प्रातनिर्गाङ्गेयमिलातलम् ॥ १४४ ॥
व्याजहाराथ भूनाथो हरे चापकरे त्वयि ।
रणतन्द्रालुरिन्द्रोऽपि गङ्गाम्नोस्तु का कथा ॥ १४५ ॥
कीर्तयः किंतु गान्धारीसुतवर्गवधोद्भवाः ।
प्रीतेन भवतास्मभ्यं दक्षिणीचक्रिरे पुरा ॥ १४६ ॥
गाङ्गेयस्याङ्कपल्यङ्कलालितौ बालकावतः ।
वधं विधित्सतः साक्षात्कथं भीमकिरीटिनी ॥ १४७ ।।
तदावेदय गोविन्द किंचिदौपयिकान्तरम् ।
येन जीयेत विश्वकरथी भागीरथीसुतः ॥ १४८ ।।
अथाह स हरिस्तर्हि ममेदं श्रूयतां वचः ।
इदमावालगोपालं तावदस्त्येव विश्रुतम् ॥ १४९ ॥
स्त्रियां पूर्वसियां दीने भीते षण्ढे निरायुधे ।
यद्भीष्मस्य समीकेषु न पतन्ति पतत्रिणः ॥ १५० ॥
तत्प्रातर्दुपदोशिसुतं पण्ढं शिखण्डिनम् ।
पुरस्कृत्योपतिष्ठध्वं समराङ्गणसीमनि ॥ १५१ ॥
ततस्तस्मिन्नमुञ्चन्तं नाराचनिचयान् रणे ।
स हन्यान्निशितैर्बाणैरौपकर्णिककर्षणैः ॥ १५२
काव्यमाला।
इत्युपायं परिज्ञाय देशितं केशिवैरिणा ।
सर्वे निजं निजं स्थानं ययुरुत्थाय हर्षुलाः ।। १५३ ॥
अथ प्रातः पुरोधाय तेऽपि चण्डं शिखण्डिनम् ।
संग्रामानमुपागच्छन्गाङ्गेयवधवाञ्छया ।। १५४ ॥
बभौ भीमकिरीटिभ्यां गताभ्यां चक्ररक्षिताम् ।
शिखण्डी चण्डरश्मीन्दुमध्ये बुध इव स्थितः ॥ १५५ ॥
मिथः सायकसंपातखाटारमुखराम्बरम् ।
आत्यन्तिकमभूयुद्धमुभयोरप्यनीकयोः ॥ १५६ ॥
द्विपानामपनीतास्यावरणानामपि क्षणात् ।
पांसवः स्यन्दनोद्भूता मुखप्रच्छदतां ययुः ॥ १५७ ।।
अन्योऽन्यरदनाघातजातैः कार्शानवैः कणैः।
अयुध्यन्तान्तरं तेजो वमन्त इव दन्तिनः ॥ १५८ ।।
दन्तिनो दन्तदम्भोलिसंघदृघटितैर्मिथः ।
नुष्यन्ते स शिखिज्वालाकलापैरास्यकङ्कटौ ॥ १५९ ॥
केनापि करिणोरिक्षप्ते रथाने पृथिवीं ययौ ।
रथी ससारथी रथ्या योक्रवद्वाललम्बिरे ॥ १६० ॥
कुन्तैरूईमुदस्ताङ्गाः सादिभिः प्रतिसादिनः ।
वंशाप्रगतशैलूषकेलिमाकलयन्मुहुः ॥ १६१ ।।
न वर्मिणैर्न रथ्याभिर्नाश्वीयैर्न च हास्तिकैः ।
रेवापूर इव क्वापि कोऽपि सादी न चस्खले ॥ १६२ ।।
एकैव विविदे मुष्टिः कर्णजाहविगाहिनी ।
भटैः पतद्भिः केषांचिदिषुमोक्षस्तु लक्षशः ॥ १६३ ॥
कस्यापि रथिनः क्रोधाद्धावतोऽनुबिरोधिनम् ।
आसीद्दुरुत्तरारक्तनिममैवान्तरार्गला ॥ १६४ ॥
कांश्चिज्जर्जरयन्कांश्चित्समरादपसारयन् ।
कांश्चित्पिंषन्निषुव्रातैयुध्यते स पितामहः ॥ १६५ ॥
न तस्य भेजिरे वैरिश्रेणयः संमुखीनताम् ।
तरूणामापराह्णिक्यश्छाया इव विवस्वतः ।। १६६ ॥
केचिद्द्विषंतपैर्भीष्मसायकैराकुलीकृताः ।
क्षिपन्ति म परासूनां दन्तिनामन्तरे रथान् ।। १६७ ॥
अनीकप्रत्यनीकानां कामं विमुखतां गते ।
भीष्मस्य समरेऽतिष्ठदव्यापारः करश्चिरम् ॥ १६८॥
राकेन्दुमण्डलं भानुबिम्बस्येवाम्बरे ततः ।
शिखण्डिस्यन्दनो भीष्मरथस्याभूत्पुरो रणे ॥ १६९ ॥
शिखण्डिनमनूद्दण्डं धावन्तो धन्विनः परे ।
वृकोदरकिरीटिभ्यां नाराचैः प्रतिचक्रिरे ॥ १७०॥
पुरोऽवलोक्य कोदण्डचण्डपाणिं शिखण्डिनम् ।
वभूव रणसंरम्भमन्दो मन्दाकिनीसुतः ॥ १७१ ॥
कोटिशो भटसंभारसंहारविहितश्रमम् ।
धनुर्विक्रमयांचक्रे कृपयेव पितामहः ॥ १७२ ॥
हैमन्तिक इवादित्यो मन्त्रस्तब्ध इवानलः ।
जरीव हरिणारातिर्गाङ्गेयो ददृशे तदा ॥ १७३ ।।
ततः शिखण्डिना कामं भीष्मः खैरमताड्यत ।
गजो गम्भीरवेदीव न किंचित्तु विवेद सः ॥ १७४ ॥
एतस्मिन्नन्तरे हृष्टा धृष्टद्युम्नादयोऽपि तम् ।
सर्वे सर्वामिसारेण शरासारैरताडयन् ॥ १७५ ।।
प्रहारदारुणानेतान्वीक्ष्य गङ्गासुतस्ततः ।
कोपकम्प्राधरश्चापि रोपानारोपयत्पुनः ।। १७६ ॥
तच्चक्ररक्षिणौ दुर्योधनदुःशासनावपि ।
समं ववृषतुर्वेगावाणैः प्राणैकभिक्षुभिः ॥ १७७ ॥
न दिशो विदिशो नापि नाकाशं न च काश्यपी ।
आलोकि केवलं लोकैः शराद्वैतमयं जगत् ।। १७८ ॥
काव्यमाला।
ससंभ्रममथाजल्पत्कपिकेतुं वृषाकपिः।
कथं वृथा पृथासूनो सैन्यक्षयमुपेक्षसे ॥ १७९ ॥
शिखण्डिना तिरोधानान्मानयित्वा त्रपामपि ।
तत्कुरु श्रीलतामूलं भीष्ममुन्मूलय स्वयम् ॥ १८० ॥
कथंचिदमुमाहत्य निदेशं मञ्जुकेशिनः।
शिखण्डिरथमारोहत्ततः प्लवगकेतनः ॥ १८१ ॥
शिखण्डिवपुषा गुप्तमूर्तिनाथ किरीटिना ।
इष्वासश्चकृषे कर्णप्रान्तविश्रान्तमुष्टिना ॥ १८२ ॥
अनिमेषा अपि दृशः समुन्मेषयतां भृशम् ।
बभूव रसभोत्तालो देवानां तुमुलस्तदा ॥ १८३ ॥
मार्तण्डमण्डलं भूरि वार्षिका इव वारिदाः।
निरयन्तोऽन्तरा भीष्मरथं दुर्योधनादयः ॥ १८४ ॥
वातूलैरिव दिछमूलकेलिकारपराक्रमः।
भीमप्रभृतिभिः सद्यो निन्यिरे विशरारुताम् १८५ ।।(य
पताकापल्लवैर्वायुवेल्लितैः सव्यसाचिनम् ।
नोदयन्निव नाराचमुक्तयेऽभात्तदा रथः ॥ १८६ ॥
सहैव त्रपया भक्त्या लेहेन च पितामहे ।
गाण्डीवधन्वना काण्डमण्डली मुमुचे ततः ॥ १८७ ॥
शिखण्डिरचितान्तधिमपश्यत्कपिकेतनम् ।
गाङ्गेयो दक्षिणेर्माङ्गस्तदासूतमवोचत ॥ १८८ ॥
कामं मर्माविधो वर्मच्छेदकर्मणि कर्मठाः ।
वेगादच्छिन्नसंतानपातिनः सरलक्रियाः ॥ १८९ ॥
अलक्ष्यगतयो लक्ष्यभेदभेदुरितौजसः ।
कुर्वन्तो विद्युदुद्द्योतलेखां पुलैर्हिरण्मयैः ॥ १९० ॥
सुरा इव सुपर्वाणः सत्फलाः शुभकर्मवत् ।
अवश्यमर्जुनस्यैते विशिखा न शिखण्डिनः ॥ १९१ ।।
(त्रिमिर्विशे पाण्डवचरितम् । ५२९
वत्सस्यास्य धनुर्विद्यामद्यानुभवतः स्वयम् ।
जीवतीवान्तरात्मायं मृत्युकोटिगतोऽपि मे ॥ १९२ ॥
अत्रान्तरेऽन्तरिक्षान्तरुल्ललास सरस्वती।
मा स्म विस्मर गाङ्गेय गिरं गुरुसमीरिताम् ॥ १९३ ॥
अथ दुर्योधनोऽभ्येत्य भीष्मं पप्रच्छ विस्मितः ।
कामेते खेचरास्तात सरयन्ति गुरोर्गिरम् ।। १९४ ।।
अथ गाङ्गायनिः प्राह मातामहगृहे वसन् ।
चारणश्रमणान्बाल्ये मात्रा सममनंसिषम् ।। १९५ ।।
विशुद्धं साधुधर्म च श्राद्धधर्मं च मे पुरः ।
व्याकुर्वन्कुरुराजेन्द्र मुनीन्द्रास्ते कृपालवः ॥ १९६ ॥
धर्मस्योपनिषत्तेभ्यो बभूव हृदयंगमा ।
तथा मम यथाकामं कामोऽभून्नार्थकामयोः ॥ १९७ ॥
ततः प्रभृति पश्यामि भूतसंघातमात्मवत् ।
वाचं वाचंयम इव ब्रुचे सत्यपवित्रिताम् ।। १९८॥
परवित्तेषु मे चित्तं सर्वथाभूत्पराङ्मुखम् ।
अजिमब्रह्ममनसः सर्वं स्त्रैणं तृणं मम ॥ १९९ ॥
अकार्षे प्रियसंतोषपरिग्रहविनिग्रहम् ।
किं नाम दुष्करं जैनधर्मवासितचेतसाम् ॥ २००॥
इत्थंकारमनाचारविमुखो धर्मसंमुखः ।
व्यरंसिपमशेषेभ्योऽप्याश्रवेभ्यः श्रुतैकधीः ॥ २०१॥
अर्हत्पूजनरूपास्ति तपःखाध्यायसंयमैः ।
दानेन च त्रुटत्कर्मा षट्कर्मस्म्यहमन्वहम् ।। २०२ ।।
सर्वसङ्गपरित्यागमङ्गीकर्तुमना अपि ।
कलाः पवनवेगेन मातुलेनासि शिक्षितः ।। २०३ ।।
एकदा तु त्रिकालज्ञं मुनिचन्द्राभिधं मुनिम् ।
मातामहेन सहितो गतवानसि वन्दितुम् ॥ २०४ ॥
काव्यमाला।
आसाद्यावसरं सद्यः कलयन्पुलकाङ्कुरान् ।
सर्वप्रत्यक्षमद्राक्षं तं गुरुं रचिताञ्जलिः ॥२०५॥
मुनीन्द्र परमानन्दमूलकन्द कदा मम ।
मोहान्धकारसविता भविता सर्वसंयमः ।। २०६ ॥
सोऽप्याख्यद्भद्र या माता नवचन्द्रोज्वला गुणैः ।
सती सत्यवती नाम भविष्यति यवीयसी ।। २०७॥
तदात्मजानुरोधेन स्थातासि सुचिरं गृहे ।
परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् ॥ २०८ ॥
पितुः प्रीत्यर्थमाकालं कलयन्ब्रह्मचारिताम् ।
देवन्त्रत इति ख्यातिं गृहिधर्मेऽपि लप्स्यसे ॥ २०९ ॥
बंहीयो महिमा भूत्वा क्रमानगोत्रपितामहः।
आर्तस्य धार्तराष्ट्रस्य रणे नानृण्यमीयिवान् ॥ २१० ॥
ममान्तेवासिनो भद्रगुप्ताचार्यस्य संनिधौ ।
अथ श्रद्धालरुद्धृत्य भावशल्यानि सर्वतः ॥ २११ ।।
तां दशां द्रव्यशल्योत्था सहमानोऽतिदुःसहाम् ।
वर्षमात्रावशेषायुः प्रयतः प्रत्रजिष्यसि ॥ २१२ ।।
(त्रिमिविशेषकम् )
विधायाराधनां सम्यक्साम्यनिर्मनमानसः ।
उपगन्तासि वर्षान्ते सुखी खर्लोकमच्युतम् ।। २१३ ॥
इत्याख्याय यथाख्यातचरित्रोऽन्यत्र सोऽगमत् ।
अहमप्यन्वभूवं तत्प्रतिपादितमादितः ॥२१४ ।।
ततोऽमी खेचरा वत्स धर्मसब्रह्मचारिणः ।
दक्षाः सवयसो दीक्षासमयं स्मारयन्ति मे ॥ २१५ ॥
एवमावेदयन्नेव पार्थीयैः परिपूरितः ।
प्रतिरोमशरस्तोमै रोमाञ्चनिचयैरिव ॥ २१६ ॥
करादलितकोदण्डः संमीलितविलोचनः ।
निष्पपात रथक्रोडे मूलिस्तालकेतनः ॥ २१७ ॥ (युग्मम्)
अवस्थादौस्थ्यमेतस्य मन्ये वीक्षितुमक्षमः ।
विमुक्तवसुसर्वस्वः प्रापद्द्वीपान्तरं रविः ॥ २१८ ॥
तमस्तोमनिरस्तोऽसौ नक्षत्रोदयशालिनौ ।
कौरव्यश्च प्रदोषश्च द्वावप्यभवतां तदा ॥ २१९ ॥
अवहारस्ततस्तात तातेति परिदेविभिः ।
शोकान्धकारविधुरैश्चक्रे कौरवपाण्डवैः ॥ २२० ॥
उपेत्य पुरतो भद्रगुप्ताचार्यैरलंकृतम् ।
भीष्मो निन्ये विनीतैस्तैरासन्नगिरिकन्दरम् ॥ २२१ ॥
तं वृत्तान्तमुपश्रुत्य धृतराष्ट्रोऽपि संजयात् ।
तद्दत्तबाहुरुद्वाष्पो भीष्मान्तिकमुपाययौ ।। २२२ ॥
कौरवैः पाण्डवेयैश्च साश्रुनेत्रैः पितामहः ।
तेन तेनोपचारेण पुनः प्राप्यत चेतनाम् ॥ २२३ ।।
सुधारसमयीमेष दृशं न सुमुखेषु च ।
न्यवीविशत्तुषारांशुः कौमुदी कुमुदेष्विव ।। २२४ ।।
तेषामुत्फुल्लनेत्राणि तदानीं वदनानि च ।
भेजुरुद्धान्तभृङ्गाणि विकाशं कैरवाणि च ॥ २२५ ॥
मन्दं मन्दध्वनिर्नतुनथ प्राह पितामहः ।
वत्सा मे बाधते बाढं निराधारा शिरोधरा ॥ २२६ ॥
ततः सुखनिधानानि हंसतूलमयानि ते ।
उपादायोपधानानि विनयादुपतस्थिरे ॥ २२७॥
निषिध्य मूर्द्धकम्पेन तानाह्वाय पितामहः ।
अर्जुनामर्जुने दृष्टिं न्यस्यति स मिताननः ॥ २२८ ॥
विज्ञाततदभिप्रायश्चापमारोप्य फाल्गुनः ।
कङ्कपत्रमयीं तस्य न्यधादधिशिरोघरम् ॥ २२९ ॥
अदृष्टे वैरिभिः पृष्ठे साधु साध्वित्युदीरयन् ।
ज्याकृष्टिकृष्टिना सोऽथ पार्थं पस्पर्श पाणिना ॥ २३० ।।
पितामहं प्रणम्याथ जजल्प तपसासुतः।
शल्यानेतानि ते तात मनो दुन्वन्ति नो भृशम् ॥ २३१ ।।
तदादिश यथेमानि नीरन्ध्राण्युद्धराम्यहम् ।
करोमि चोमिकावार्मिः सर्वाङ्गव्रणरोहणम् ॥ २३२ ॥
ऊर्मिकायाः पुरो ह्यस्याः स्फूर्तिस्तातेन पाण्डुना ।
कीर्तिता मे मयापीयमीक्षांचक्रे च लक्षशः ॥ २३३ ।।
किं चाकृत्यकरैरेभिः पुत्रैरिव पतत्रिभिः ।
धत्ते पार्थः खनामाङ्कैस्त्रपावामनमाननम् ।। २३४ ॥
ततः प्रसीद सीदन्तं धिनु तात धनंजयम् ।
अनुज्ञामधुना देहि शल्योद्धारविधौ मम ॥ २३५ ॥
अथ धर्मात्मजं भीष्मः सप्रसादमभाषत ।
नैतानि वत्स शल्यानि व्यथयन्ति मनागपि ।। २३६ ॥
अरंतुदानि मे सन्ति भावशल्यानि यानि तु ।
सुखमेवोद्धरिप्यन्ति तान्येते गुरवोऽधुना ॥ २३७ ।।
देहमेवेदमात्मेति मतिर्येषां व्यवस्थिता ।
तेषामेव भवेद्देहव्यशल्यैरुपद्रवः ॥ २३८ ॥
ममामूनि पुनर्वत्स भिन्दानानि बहिर्वपुः ।
दुष्कर्ममर्मनिर्भेदे भजन्ते सहकारिताम् ।। २३९ ।।
विलम्ब्याथ क्षणं भीष्मः पश्यतः कंसविद्विषः ।
श्लिष्यन्निव दृशावादीत्पुरः कौरवपाण्डवान् ॥ २४०॥
मामप्यन्यमिवोदन्या वत्साः क्लमयतेऽधिकम् ।
ततः पानीयमानीय ममैतां हर्तुमर्हथ ॥ २४१ ॥
इत्याकर्ण्य सकर्णास्ते स्वच्छं सुरभि शीतलम् ।
नीरमानाययामासुर्मूर्तं मन इवात्मनः ॥ २४२ ।।
कृत्वा स्वर्णमये पात्रे पुरस्तैरुपढौकितम् ।
दूरान्निवार्य तद्वारि पुनरूचे पितामहः ॥ २४३ ॥
यत्तिर्यभिरनुच्छिष्टमस्पृष्टं च रवेः करैः ।
मञ्चेतस्तत्पयः पातुं वहति स्पृहयालुताम् ।। २४४ ॥
ततस्ते चिन्तयामासुरीदृगम्भोऽतिदुर्लभम् ।
यतस्तन्मानसाच्छोदप्रभृतिष्वप्यसंभवम् ॥ २४५ ॥
इति किंकार्यतामूढान्बाढमालोक्य तांस्तदा ।
भीष्मोऽक्षिपद्दृशं पार्थमुखं पीयूषवर्षिणीम् ॥ २४६ ॥
विज्ञाय तदभिप्रायं सोऽपि शस्त्रास्त्रकोविदः ।
मण्डलीकृत्य कोदण्डं संदधे वारुणं शरः ॥ २४७ ॥
उद्यदानन्दगोविन्ददृष्टिपातपवित्रितः।
यदैवापातयत्पार्थस्तदैव तमधोमुखम् ।। २४८ ॥
खच्छां तदैव तत्कीर्तित्रिस्रोतःस्रोतसः सखीम् ।
सर्वेऽप्यैक्षन्त निर्यान्तीं वारिधारां धरातलात् ।।२४९॥(युग्मम्)
पाण्डवानां कुरूणां च दृष्टिपातैः सितासितैः ।
जाह्नवीयमुनासङ्गभङ्गिमङ्गीचकार सा ॥ २५० ॥
ततस्तत्तोयमादाय किरीटी भीममभ्यगात् ।
सोऽपि नेत्रपुटैः पीत्वा प्रीतः पार्थमभाषत ।। २५१ ॥
वारीदमानयन्नेव तृष्णां त्वं वत्स मेऽच्छिदः ।
रोचिरुल्लासयन्नेव कोकस्येव शुचिं(च) रविः ॥ २५२ ॥
तन्निषीद सुखं वत्स ज्यायसो भ्रातुरन्तिके ।
एभिश्च विजयीभूयाः स्वगुणैर्भुवनातिगैः ॥ २५३ ॥
दुर्योधनमथोवाच हितां वाचं पितामहः ।
पार्थावदानतस्तस्य म्लानमुन्नमयन्मुखम् ॥ २५४ ॥
अस्मिन्कुरुकुले जन्म वत्स पुण्यैरवाप्यते ।
अनुत्तरेषु संभूतिर्न सम्यग्दर्शनं विना ।। २५५ ॥
एतत्कुलोचिता एव विस्फुरन्ति गुणास्त्वयि ।
सुरसिन्धुसरोजानां व्यभिचारि न सौरभम् ॥ २५६ ॥
पराक्रमात् ५३४ काव्यमाला।
तथापि वत्स वात्सल्यादिदानी किंचिदुच्यसे ।
विनयं च नयं चापि गुणावेतौ पुरस्कुरु ॥ २५७ ।।
विनयो विनयार्हेषु कीर्तिमावहते पराम् ।
रामे नम्रस्य सौमित्रेः पश्याथापि कियद्यशः ॥ २५८ ॥
क्रमानतिक्रमः कस्य न स्यादुदयहेतवे ।
क्रमेण क्रामतां पश्य ज्योतिषामुदयो ध्रुवः ॥ २५९ ॥
तत्तवार्पयितुं न्याय्यं राज्यं ज्येष्ठयुधिष्ठिरे।
वयं पूर्वमिव स्थातुमिन्द्रप्रस्थे तु युज्यते ।। २६०॥
उत्सार्य परतः किंचिज्जनमासन्नवर्तिनम् ।
कौरवेश्वरमेकान्ते गाङ्गेयः पुनरभ्यगात् ।। २६१ ॥
वत्स षाड्गुण्यचिन्तायामपि संधिस्तवोचितः ।
विग्रहं हि निषिध्यन्ति बुधाः सार्धं बलाधिकैः ॥ २६२ ॥
तेषु तेषु समीकेषु शैशवात्प्रभृति त्वया ।
बहुकृत्वः समालोकि बलं भीमकिरीटिनोः ॥ २६३ ॥
नीतिमान्नतिमानेव संजायेत बलीयसि ।
धायमाने धुनीपूरे नमन्नन्दति वेतसः ।। २६४ ॥
व्याजेन दर्शितेदानीं पार्थचापकला तव ।
ममोपधानपानेच्छा त्यक्तदेहस्य का पुनः ॥ २६५ ॥
तदद्यापि तपासूनोः श्रियं प्रत्यर्पय स्वयम् ।
रक्ष रक्ष विशेषज्ञ शेषराजन्यकक्षयम् ॥ २६६ ॥
इत्युक्तस्त्यक्तमर्यादः सुदुर्बोधः सुयोधनः ।
वर्धमानमनःसादः समाधत्त शनैर्वचः ॥ २६७ ।।
अन्तरेण रणं तात पाण्डवेभ्यो ध्रुवं मम ।
मनो नखशिखामानामपि धात्री न दित्सति ॥ २६८॥
उच्छलन्मत्सरोत्सेकपिच्छलामिति भारतीम् ।
श्रुत्वा दौर्योधनीं दूरं दूयते स पितामहः ।। २६९ ॥
अथासौ निश्वसनुच्चैर्विभाव्य भवितव्यताम् ।
संभाष्य धृतराष्ट्रादिज्ञातिवर्गं पृथक्पृथक् ॥ २७० ॥
भरतार्धपतिर्भूत्वा हरेः शासनमार्हतम् ।
प्रभावय प्रकारेस्तैस्तैरित्याशास्य केशवम् ॥ २७१ ॥
आलोच्य पापकर्माणि खादयन्स(श)मतामृतम् ।
श्रीभद्रगुप्तसूरीणामन्तिके व्रतमाददे ॥ २७२ ॥
(त्रिभिर्विशेषकम्)
ज्ञानचक्रेण मिथ्यात्वदण्डनाथमथोन्मथन् ।
भिन्दानः समताशक्त्या रागद्वेषमतङ्गजौ ॥ २७३ ॥
ध्यानकुन्तेन दुर्दान्तानिन्द्रियाश्वानुपद्रवन् ।
क्रोधादियोधसंघात निघ्नन्बाणैः शमादिभिः ॥ २७४ ॥
श्रद्धासनद्धसर्वाङ्गो गाङ्गायनिमुनिस्ततः ।
संग्रामयितुमारेभे मोहराजेन निर्भयः ।। २७५ ॥
(त्रिभिर्विशेषकम्)
मुनिमेकैकशो नत्वा तत्त्वैकमनसं ततः ।
सामाः सर्वे निजावासाखग्मुः पाण्डवकौरवाः ॥ २७६ ॥
प्रम्लानवदनं किंचिचिन्तामुकुलितेक्षणम् ।
भारद्वाजस्तदाभ्येत्य कौरवेश्वरमभ्यधात् ॥ २७७ ॥
राजन्का नाम ते सत्त्वनिषण्णस्य विषण्णता ।
चिन्ता च केयमाचान्तस्वान्तशौण्डीर्यडम्बरा ॥ २७८ ॥
शोच्यं किमपि तस्यास्ति शान्तनोस्तनुजन्मनः ।
येनैवमदवीयांसो वीरलोका वितेनिरे ॥२७९॥
न नाम वीरचौरेयमन्यं मन्ये पितामहात् ।
बालेष्विवान्तरङ्गेषु विक्रान्तं येन वैरिषु ।। २८० ॥
रणे तु दक्षिणे सत्यप्यसिन्वामधुरीणता ।
ममैवासीत्तदन्तः किं चिन्तया परितप्यसे ॥ २८१ ॥
प्लवङ्गकेतुना राजन्ननध्यासितसंनिधिम् ।
बद्धा धर्मात्मजं नूनमर्पयिष्यामि ते युधि ॥ २८२ ॥
इति द्रोणगिरा चिन्तामुल्लूय मनसः क्षणात् ।
धार्तराष्ट्रोऽवपत्तस्मिन्सद्यः पल्लविनीर्मुदः ।। २८३ ।।
तदैव सूत्रयामास स द्रोणं पृतनापतिम् ।
दन्तीन्द्रस्यैव दन्तीन्द्रव्यापारेऽलंभविष्णुता ॥ २८४ ॥
प्रातस्तद्विहितव्यूहरचनारञ्जिताशयः ।
आयोधनधुरां दुर्योधनः स्वैरमवातरत् ॥ २८५ ॥
कौन्तेया अपि गाङ्गेयदुर्दशादुर्मनायिताः ।
जयाशासप्रमोदाश्च समीकमुपतस्थिरे ॥ २८६ ।।
अथ व्यावल्गदाधीयः सैन्ययोरुभयोरपि ।
उज्जजम्मे ससंरम्भसिन्धुराधोरणो रणः ॥ २८७ ।।
नीरन्ध्रैरम्बरे पत्रैः सूत्रयन्तोऽब्दडम्बरम् ।
मिथः संघट्टसंभूतस्तन्वन्तस्तडितोऽग्निभिः ॥ २८८ ॥
अशीतकिरणस्यापि प्रतापमसहिष्णवः ।
द्वयानामपि वीराणां प्रेङ्खन्ति स शिलीमुखाः ॥ २८९ ॥
(युग्मम्)
शरैः शिरसि लूनेऽपि कयोरप्येकहेलया ।
कबन्धावप्ययुध्येतां तथैव कुपितौ मिथः ॥ २९॥
समं निस्त्रिंशनिस्त्रिंशघातोच्छलितसंगते ।
कयोश्चिच्छिरसी व्योनि दन्तादन्ति बितेनतुः ॥ २९१ ॥
कश्चिन्मौलौ विलूनेऽपि वैरिणा तरवारिणा ।
सकृपाणे पुनः पाणौ पातिते व्यरमद्रणात् ॥ २९२ ॥
हते प्रसभमात्मीयकबन्धेन विरोधिनि ।
कस्याप्यहसदुत्फुल्लनेत्रमाल्हादतः शिरः ॥ २९३ ॥
केषांचिद्दूरमुद्भुतैः पतितेभनिपातिभिः ।
बभूवे मौलिमिः सभ्यैः क्रीडतामसिवर्मभिः ॥ २९४ ॥
५३७
प्रेषिताभिः शरैयोनि पतन्तीभिरिभैः पुनः ।
प्रेङ्खयद्भिः करैर्मूर्ध्नि भस्त्रिकाभिरदीव्यत ।। २९५ ॥
पर्यणंसीत्करी कश्चित्कस्मिन्नप्युटे भटे ।
अन्येषामीषदारोहोऽभवद्वैरिवधैषिणाम् ॥ २९६ ॥
आत्माधिका गुरुः पश्यन्धनंजयधनुष्कलाम् ।
आचार्यान्तरसंस्कारं भृशं तस्मिन्नशङ्कत ॥ २९७ ॥
अर्जुनोऽपि गुरोर्वीक्ष्य चापविद्यानवद्यताम् ।
कलारोपमसाकल्याकाममात्मन्यमन्यत ॥ २९८ ।।
शोणितारुणितैः शस्त्रवणौधैरनुचक्रतुः ।
उभे अपि चले बादं फुल्लाई मल्लिकाननम् ॥ २९९ ।।
अथ संध्या व्यतीतेऽहि कौसुम्भाम्बरधारिणी।
रिरंसुस्तत्र जेतारं जयलक्ष्मीरिवागमत् ।। ३०० ।।
अवहारं विधायाथ वरूथिन्यावुभे अपि ।
जग्मतुः शिबिरं खंखममन्दितमदे मिथः ॥ ३०१॥
अथ धर्मजगोप्तारं निशि कौरव्यशासनात् ।
संसप्तकाख्यानैगर्ता भूभुजोऽभ्येयुरर्जुनम् ॥ ३०२ ।।
व्याहरन्ति स्म ते स्मेरभुजाहंकारकोरकाः ।
त्वमेवं युध्यसे पार्थ किमु सामूहिकोऽन्यवत् ॥ ३०३ ॥
न खल्वपरशौण्डीरडम्बरोड्डामरे रणे ।
तव त्रिजगदुल्लचि व्यज्यते भुजवैभवम् ॥ ३०४ ॥
ततः सर्वकषोन्मेषप्रदीपशतसंकुले ।
जृम्भते कौस्तुभस्यापि किमहो महिमा कचित् ॥ ३०५॥
तत्प्रभाते पृथग्भूय कुरुक्षेत्ररणक्षितौ ।
युध्यख क्षणमस्माभिरर्जुनः कोऽपि यद्यसि ॥ ३०६ ॥
अथाभाषिष्ट बीभत्सुइतत्किंचिदसांप्रतम् ।
मा भूवन्वः पुनर्वाचो रम्भास्तम्बस्य संनिभाः ॥ ३०७ ॥
काव्यमाला।
मद्बाणाः सुभटप्राणानास्वाद्यातिपिपासिताः ।
कुरूनत्तुं क्षमिष्यन्ति पीत्वा वः शोणितासवम् ॥ ३०८ ॥
एकाक्येव तदेतस्मात्क्षेत्रादेष्याम्यहं बहिः ।
सर्वे संभूय यूयं तु द्रुतमागच्छत प्रगे ॥ ३०९ ॥
इत्यर्जुवनचःस्फूर्जत्प्रमोदभरमेदुराः ।
आगच्छन्निजमावासं ते संसप्तकभूभृतः ॥ ३१०॥
द्रोणप्रतिश्रुतज्येष्ठबन्धुबन्धनकातरः ।
धृष्टद्युम्नं च भीमं च नकुलादींश्च दोभृतः ॥ ३११ ॥
तस्य गोपायने काम नियुज्य स्फुरदूर्जितान् । ।
जिष्णुः संसप्तकाज्जेतुं द्वादशेऽथ दिने ययौ ॥३१२॥(युग्मम्)
तदैव कौरवीया च पाण्डवीया च वाहिनी ।
प्रभिन्नगजतासीमसमीकमवतेरतुः ।। ३१३ ॥
सद्यः प्रीणयितुं वीरप्रियामिव जयश्रियम् ।
अहंपूर्विकया सर्वे युध्यन्ते स्म भुजाभृतः ।। ३१४ ॥
धृष्टद्युम्नादिवीराणां निराकृत्य शरोत्करान् ।
करान्हिमकरादीनामहस्करकरा इव ।। ३१५ ।।
दिग्मण्डलीमिवानेकदिव्यानेकपमण्डिताम् ।
द्रोणबाणास्तृणन्ति स पाण्डवेययताकिनीम् ॥ ३१६ ॥
(युग्मम्
कौन्तेयवाहिनीहेतित्रातरौद्रो गुरुस्ततः ।
कान्तारीयां तरुश्रेणि दवानल इवाविशत् ।। ३१७ ॥
सुप्रतीकद्विपारूढो भगदत्तक्षितीश्वरः ।
तमन्वविशदादित्यमिवोद्द्योतो भवार्णवे ॥ ३१८ ॥
सेनान्तर्दिद्युते मुञ्चन्विष्वद्रीचः शरान्गुरुः ।
विवस्वानिव मध्याह्ने तन्वन्मध्येऽम्बरं करात् ॥ ३१९ ॥
करेणाथ हठात्क्रान्तभगदत्तस्य दन्ति ना ।
वाहिनी सा नवोदेव काममाकुलतामगात् ॥ ३२० ॥
५३९
जीवतोऽप्सरसां दातुमिवाभिगगनाङ्गण(न)म् ।
कानप्यभिमुखान्वीरान्स करेणोदलालयत् ॥ ३२१ ॥
नानाभटशवाकीर्णे तस्य संचरतो रणे ।
कीकसौधकटत्काराः कक्षानादान्निरासिरे ॥ ३२२ ।।
सर्पत्सारिपक्षान्तवातोद्भूतद्रुमोपमाः।
गर्जितैः परितो नेशुर्धावन्तस्तस्य सैन्धवाः ।। ३२३ ॥
भजति प्रसभं तस्मिन्मयादिव पलायितैः ।
उड्डीनै रथकट्यानां यातं दूरे ध्वजांशुकैः ॥ ३२४ ॥
तमिन्नीरघरध्वानधीरहितशालिनि ।
केषांचित्करिणां चित्र"..."मदनिर्झराः ।। ३२५ ॥
तेनाहतास्तथा केचिच्चीत्कुर्वन्ति स्म दन्तिनः ।
जग्मुत्रासाद्भुवं दूरां यथाऽन्येऽवमताडशाः ॥ ३२६ ॥
तेन केचन दन्ताप्रपोतोत्क्षिप्ताः करेणवः ।
रेजुरद्रीन्द्रशृङ्गस्थास्तोयदा इव नूतनाः ॥ ३२७ ॥
द्विषत्कीर्तिश्र(स)वन्तीनामादिशैला इवामुना ।
पातयांचक्रिरे केचित्पहृत्य द्विरदा रदैः ।। ३२८ ।।
एवं पाण्डवसैन्यानां तेन दुर्दान्तदन्तिना ।
शुश्राव मृद्यमानानां दूरादाक्रन्दमर्जुनः ॥ ३२९ ॥
हतशेषान्परित्यज्य ततः संसप्तकान्युधि ।
अन्धंभूष्णुः क्रुधा कामं दधावे वानरध्वजः ।। ३३० ॥
तं ततो निशितैर्बाणैः समातङ्गमतल्लिकाम् ।
साग्रहः प्रतिजग्राह जिष्णुः प्राग्ज्योतिषेश्वरम् ।। ३३१ ॥
नवोन्मीलन्मदासारपानैकस्पृहयालवः ।
तं महेभमनूच्चेलुः फाल्गुनस्य शिलीमुखाः ।। ३३२ ॥
निष्पुण्यक इवोत्तुङ्गमर्थं प्रति मनोरथम् ।
भगदत्तोऽपि तं नागमन्वर्जुनमनोदयत् ॥ ३३३ ।।
काव्यमाला।
महातिमिरिवाम्भोधिं महोर्मिमतिभैरवम् ।
तमायान्तमिभं पार्थः क्षुरप्रैर्विदधे द्विधा ॥ ३३४ ॥
दर्शयन्भगदत्तोऽथ महामात्रकलां निजाम् ।
ऊरुभ्यां गाढमाक्रम्य क्रमयामास तं बलात् ।। ३३५॥
तथैव प्रथयन्सैन्यसंमर्दमतिदुर्दमः ।
किरीटिनमनुक्रोधात्ततोऽधावत्स सिन्धुरः ॥ ३३६ ॥
तदा तेनावदानेन सानन्दमनसोऽमुचन् ।
दिवौकसो दिवः पुष्पवर्षं प्राग्ज्योतिषेश्वरे ॥ ३३७ ॥
तत्तस्मिन्नपतत्पश्चाद्भगदत्ते महीपतौ।
पूर्वमेवेषुवर्षे तु पतति स्म किरीटिनः ॥ ३३८ ॥
ह्रियन्ते स क्षणात्प्राणास्तेन प्राग्ज्योतिषेशितुः ।
वारिवर्षेण कासारस्येव राजीवराजयः ॥ ३३९ ।।
हते सकुञ्जरे तस्मिञ्जिष्णुना राजकुञ्जरे ।
कौरवीयबले राज्ञां शृङ्गभङ्ग इवाभवत् ॥ ३४० ॥
दयालव इव प्राणिकदम्बकदने तदा ।
दिक्पुरंध्यः प्रणुद्योचैर्निन्युरस्तगिरौ रविम् ॥ ३४१॥
द्रोणोऽथा पाण्डवानीकाव्यावृत्य खबलं ययौ ।
सरित्प्रवाहतो वेलाजलौघ इव सागरम् ॥ ३४२ ॥
प्रतिषिद्धे ततो युद्धसंरम्भे वेत्रपाणिभिः ।
वरूथिन्यावुभे खे खे स्कन्धावारमुपेयतुः ॥ ३४३ ॥
मध्यराने ततः पाण्डुपुत्राणां गूढपूरुषाः ।
अभ्येत्य कौरवानीकं किंवदन्तीमचीकथन् ॥ ३४४ ॥
भगदत्तवधक्रुद्धो भारद्वाजो गुरुः प्रगे।
चक्रव्यूह तपासूनुमादातुं रचयिष्यति ॥ ३४५ ॥
चरवाचमिति श्रुत्वा चक्रव्यूहभिदाविधिम् ।
सर्वैरालोचयांचक्रे(क्रुः) पार्षदैः सह पाण्डवाः ॥ ३४६ ॥
५४१
अभिमन्युरथावादीदार्जुनिमहिमोर्जितः।
द्वारकायां पुरा तिष्ठन्प्रवासे वः पुरान्निजात् ॥ ३४७ ।।
मुखात्कस्यचिदश्रौषमहं गोविन्दसंसदि ।
प्रवेशं केवलं चक्रव्यूहस्य न तु निर्गमम् ॥ ३४८ ॥ (युग्मम्)
भाषते स्म ततो भीमस्तस्कृतं शङ्कयाधुना ।
त्रैगर्तविजये प्रातर्गतेऽपि प्लवगध्वजे ॥ ३४९ ।।
चत्वारोऽपि वयं सर्वान्निर्भिद्य प्रसभं भटान् ।
मार्गमासूत्रयिष्यामो निर्गमाय बलादपि ।। ३५० ।। (युग्मम्)
इत्यालोच्य ततः सर्वे पाण्डवाः सपरिच्छदाः ।
विश्रमाय रणश्रान्ताः स्थानं जग्मुर्निजं निजम् ।। ३५१ ॥
प्रातर्जिष्णुस्तपासूनुमभिमन्यु च रक्षितुम् ।
नियुज्य कामं भीमादीन्संसप्तकजये ययौ ।। ३५२ ।।
एत्य द्रोणो रणक्षेत्रं धर्मसूतेजिघृक्षया ।
चक्रे संसारचक्रामं चक्रव्यूह दुरुत्तरम् ॥ ३५३ ।।
पाण्डवा अपि निःशेषैरभिमन्युपुरःसरैः ।
सार्धं धनुर्धरैर्युद्धधरित्रीमध्यरत ॥ ३५ ॥
रक्तपाटलबिस्फूर्जच्छिलीमुखकुलाकुलः ।
प्रवीरजीवनग्रीष्मः समरः सैन्ययोरभूत् ।। ३५५ ॥
अभिमन्यु पुरोधाय चत्वारोऽप्यथ पाण्डवाः ।
सौष्ठवेनोदतिष्ठन्त कल्पान्तमिव सागराः ॥ ३५६॥
ते यमा इव पञ्चापि द्रोणं निर्जित्य कर्मवत् ।
दुर्भेदं विभिदुश्चक्रव्यूह संसारचक्रवत् ॥ ३५७ ॥
क्षान्त्यादिभिः 'फलोदग्रैः कषायानिव संयमी।
पाण्डवांश्चतुरोऽरौत्सीत्कङ्कपत्रैर्जयद्रथः ॥३५८ ॥
समन्युरभिमन्युस्तु निस्तुषोत्साहसाहसः ।
तं व्यूहमविशद्भीष्मं पातालविवरोपमम् ॥ ३५९ ।।
काव्यमाला। ५४२ काव्यमाला।
निहन्ति स्म स एकोऽपि कोटिशः सुभटात्रणे ।
उद्वेलो हि महाम्भोधिः सर्वान्प्लावयते गिरीन् ॥ ३६० ॥
तस्यैकधन्विनो भूपाः शरैर्विव्यथिरेऽधिकम् ।
अकालजलवाहस्य सलिलैरिव शालयः ॥ ३६१ ॥
शल्यकर्णकृपद्रौणिकृतवर्मसुयोधनः ।
स नासह्यत सस्यौघैस्तीव्रताप इवानलः || ३६२ ॥
तान्विक्षिप्य क्षिणोति स्म लक्ष्मणप्रभृतीनसौ ।
बहून्कुमारान्दुष्कर्ममहिमेव मनोरथान् ॥ ३६३ ॥
अथैनं दुर्जयं ज्ञात्वा कौरवानीकनायकाः ।
तुल्यमावारिषुः सर्वे कोलं को(कौ)लेयका इव ॥ ३६४ ॥
तमेकमपि तेऽभूवञ्जेतुं विश्वेऽपि नेश्वराः ।
शृगाला इव शार्दूलं तरणिं तारका इव ।। ३६५ ।।
तस्यादलयदिष्वासमङ्गेशः सारथिं कृपः।
कृतवर्मा रथं सोऽथ युयुधे खड्गचर्मभृत् ।। ३६६ ।।
तस्य द्रौणिः क्षणात्कोपहव्यवाहस्य दीव्यतः ।
धूमदण्डनिभं काण्डैमण्डलायमखण्डयत् ॥ ३६७ ॥
स्वकीर्तिकमलक्षेत्रतृणस्तम्बोपमांस्ततः ।
चक्रेण राजचक्रस्य मौलीनभ्युद्दधार सः ।। ३६८ ॥
इत्यनेकायुधैर्युद्धं कुर्वन्कोपात्पिपेष सः ।
गदादम्भोलिना शैलनिभं दौःशासनं रथम् ॥ ३६९ ॥
युध्यमानस्ततस्तेन दुःशासनसुतेन सः ।
प्रजह्रे ह्रियमुत्सृज्य समं सर्वमहारथैः ॥ ३७० ॥
इति नानास्त्रसंपातजर्जरीकृतविग्रहः ।
पपात स भुवः पृष्ठे छिन्नमूल इव द्रुमः ॥ ३७१ ॥
मृतमारणदौरात्म्यात्स्वकीर्तिलतया समम् ।
ततो दौःशासनिस्तस्य निस्त्रिंशेनाच्छिनच्छिरः ॥ ३७२ ॥
५४३
तत्तदानीं द्वयोः कर्म पश्यता नाकिनामभूत् ।
मुखेषु साधुवादस्य हानादस्य च संकरः ।। ३७३ ॥
तदानीं चार्जुनेः शौर्यसंतुष्टः पुष्पवृष्टये ।
पुष्पाणि रविरुचेतुमिवास्ताद्रिवनं ययौ ।। ३७४ ।।
अवहारे प्रतीहारपूरुषैर्विहिते ततः ।
ते उभे अप्यनीकिन्यौ खं खं शिविरमीयतुः ॥ ३७५ ।।
गान्वभुजावर्ते कीर्तिशेषानथार्जुनः ।
निर्माय यावदागच्छच्छिबिरं तनयोत्सुकः ॥ ३७६ ॥
तावदैक्षिष्ट तत्सर्वं निमग्नं शोकसागरे ।
मनःकदनमाक्रन्दध्वनि चान्तःपुरेऽशृणोत् ।। ३७७ ॥
न चापि कचिदौषीद्वीराणां रणसंकथाः।
भटानां विकटाटोपां वाचमाकर्णयन्न च ।। ३७८ ॥
न चाश्वानां पुरः कीर्णं ददर्श यवसोत्करम् ।
सिन्धुराणां विधापिण्डप्रदानादि न चैक्षत ॥ ३७९ ॥
शून्यारण्यनिभा लोकसंकुलामपि तां चमूम् ।
वीक्ष्यात्मजन्मनो मृत्युमाशशङ्के कपिध्वजः ॥ ३८० ॥
बलादानन्दमुच्छिद्य संसप्तकवधोद्भवम् ।
तस्यास्तोकः पदं शोकः सूत्रयामास मानसे || ३८१ ॥
प्रविश्य स नृपावासं ततोऽपृच्छत्तपःसुतम् ।
सोऽप्येतस्मै यथावृत्तं युद्धोदन्तं न्यवेदयत् ।। ३८२ ॥
ततः शुद्धान्तमाविश्य शोकवीचिमलिम्लुचैः। .
सुभद्रां वचनैस्तैस्तैः सान्त्वयित्वा धनंजयः ॥ ३८३ ॥
अवोचदन्तर्वलीयमुत्तरास्ति सुषा तव ।
तत्सुतो भवितेदानीमावयोनयनोत्सवः ॥ ३८४ ॥ (युग्मम्)
प्रत्यश्रौषीच्च चेत्नातरादिनान्ताजयद्रथम् ।
त्वत्पुत्रमृत्युहेतुं नो हन्मि बहिं विशामि तत् ॥ ३८५॥
काव्यमाला।
अथौर्ध्वदेहिकं सूनोस्ते समाप्य विशश्रमुः ।
शोच्याः किं नाम वीराणां रणार्जितसुरश्रियः ।। ३८६ ।।
प्रातर्द्रोणोऽथ विज्ञाय तां प्रतिज्ञां किरीटिनः
विकीर्णहृदयस्तूर्णमागत्य समरावनौ ।। ३८७ ॥
प्राणत्राणकृतेऽनेकराजन्यकतिरोहिते।
सैन्धवं शकटव्यूहसूचीपाशे न्यवेशयत् ॥ ३८८॥ (युग्म-
पाण्डवा अपि कोदण्डटंकारध्वनिडम्बरैः ।
क्षोभयन्तो विपक्षौघं रणक्षोणिमुपागमन् ॥ ३८९ ॥
अन्योन्यस्खलनाद्रमुच्छलन्तो नभस्तले ।
उभयेऽपि शराश्चेलुः प्राक्प्रत्यञ्च इवानिलाः ॥ ३९० ॥
अथ द्रोणस्य जिष्णोश्व विजेतुमनसोरपि ।
व्याप्रियेतां करौ स्नेहान्न बाणेष्वितरेतरम् ॥ ३९१ ॥
द्रोणं प्रदक्षिणीकृत्य ततो व्यूहं विवेश तम् ।
जिष्णुर्विन्ध्याद्रिकान्तारमारण्यक इव द्विपः ॥ ३९२ ॥
सर्वेऽप्युर्वीभृतस्तस्य सायकासारवर्षिणः ।
रयं सेहिरे कामं वातूलस्येव शाखिनः ॥ ३९३ ॥
सुतशोकामिसंतापशमायेव किरीटिनः ।
वैरिणां प्राणवारीणि भृशमाददिरे शरैः ।। ३९४ ॥
दध्मौ तत्रार्जुनः शङ्खं देवदत्तं यथा यथा ।
जयाशा धर्मजादीनां जागर्ति स्म तथा तथा ॥ ३९५ ॥
अथ खबलमालोक्य पार्थबाणैः कदर्थिथितम् ।
उत्तस्थे कुरुराजेन्दुरुत्पात इव मूर्तिमान् ॥ ३९६ ॥
द्विपयूथाधिपेनेव विपिने गन्धहस्तिना ।
तेन सार्धं चिरं घोरः संगरोऽभूत्किरीटिनः ॥ ३९७ ॥
तं विलङ्घ्य प्लवङ्गेन्द्रकेतुः सेतुविडम्बनम् ।
नदीरय इव स्वैरं प्रतस्थे पुरतो रणे ॥ ३९८ ॥
अवोचत च रे कर्मचण्डाल मलिनाशय ।
दुरात्मन्कुरुभूपालगोत्रहालाहलद्रुम ॥ ६०३ ॥
अधर्मेकमय क्षत्रजातिपूर्णेन्दुलाञ्छन ।
अकीर्तिकन्दलीकन्दमूल दुर्नयशेवधे ।। ६०४ ॥
द्रौपदीप्रसभावृष्टिपांसुवृष्टिरजस्वलः।
स त्वदीयो भुजः कोऽयं ननु संप्रति दर्शय ॥६०५ ॥
इत्युदीर्य भुजेनाद्यं वैरप्रसवशाखिनम् ।
दौःशासनं भुजं भीमः समूलमुदमूलयत् ।। ६०६ ॥
तन्मूलोत्थैरसम्बिन्दुसंदोहैरङ्गसङ्गिभिः ।
निर्ववौ नितरां भीमो जितलोहितचन्दनैः ॥ ६०७ ॥
रोषभीममुखे भीमे दुःशासनमरंतुदम् ।
खण्डीकुर्वति दत्तारं प्रतिकारमिव द्विपे ॥ ६०८ ॥
सर्वस्मिन्विद्रुते त्रासात्सैन्ये तत्प्रांशुवाससा ।
भियेव द्यौरपि छन्नदिनेशवदनाभवत् ॥ ६०९।। (युग्मम् )
दिदीपे नितरां भीमस्तीर्णसंगरसागरः ।
क्लेशाकूपारपारीण इव योगीन्द्रपुंगवः ।। ६१० ॥
शङ्के नाकिविमानानां मिलितानां कुतूहलात् ।
प्रेरितः पौनरुत्तये {न] ययौ व्योमान्तमंशुमान् ॥ ६११!!
निषिद्धे रणसंरम्मे ततोऽधिकृतपूरुषैः ।
वरूथिन्यावुभे खं खं संनिवेशमगच्छताम् ॥ ६१२ ।।
दुःशासनवधाधानसुभगंभावुकागमम् ।
नेत्राभ्यां द्रौपदी भीमं दूरादायान्तमापपौ ॥ ६१३ ॥
भीमाऽप्यभ्येत्य पाञ्चालीमालिङ्गय कबरी स्पृशन् ।
दुःशासनवधोदन्तमानन्देन न्यवेदयत् ॥ ६१४ ॥-
सापि विज्ञातनिःशेषवृत्तान्तापि परिच्छदात् ।
शृण्वती वल्लभाद्भूयः कामप्यागाद्दशां पराम् ॥ ६१५॥
काव्यमाला।
राधेयोऽपि विभावर्यां स्कन्धावारमुपेयिवान् ।
धार्तराष्ट्रमभाषिष्ट कनिष्ठवधदुःखितम् ॥ ६१६ ॥
राजन्नर्जुन एवास्ति पाण्डवीये बले शिरः ।
छिन्ने तस्मिन्नशेषं तल्लप्स्यते शवकल्पताम् ॥ ६१७ ।।
प्रथमैवाहुतिः सोऽपि मामके बाणपावके ।
किं पुनः समरे सूतमुखमालोकते जयः ॥ ६१८ ।।
पार्थस्य सर्वकर्मीणः स सारथिरुदारधीः।'
वर्तते मे पुनः कश्चित्सारथिर्न तथाविधः ॥ ६१९ ॥
तन्मे मातलिना तुल्यं शल्यमर्पय सारथिम् ।
हत्वार्जुनं यथा बन्धुशोकमुन्मूलयामि ते ॥ ६२० ।।
ततो मन्द्रेन्द्रमाहूय गौरवात्कौरवाधिपः ।
सारथ्यमर्थयांचक्रे चम्पेशस्य कृताञ्जलिः ॥ ६२१ ॥
शल्योऽवोचत्किमौचित्यवन्ध्यमित्यभिधीयते ।
क्व जन्यकुलीनोऽहं सूतसूतिरसौ क्व च ।। ६२२ ।।
किं नाम न त्रपे काममस्याहं सारथीभवन् ।
काकोले कलहंसस्य दास्यं हास्यं न किं भवेत् ।। ६२३ ॥
कौरवेन्द्रस्ततोऽवादीदिदं मद्रेश मा वद।
आतुरे हि सुहृद्धाचामौचिती न विचार्यते ॥ ६२४ ॥
धीराः कार्ये हि मित्राणामकृत्यमपि कुर्वते ।
मित्रकार्य विचारश्च नैकत्र खलु खेलतः ।। ६२५ ॥
तत्त्वमिच्छसि यद्यस्मिन्संपराये जयं मम ।
तद्दूरीकुरु कर्णस्य सारथ्यं समराजिरे ।। ६२६ ।।
इति दाक्षिण्यमत्यन्तमानीतः कुरुभूभुजा ।
स्मृतपूर्वी च माद्रेयो प्रत्यूरीकृतमात्मना ।। ६२७ ।।
शल्योऽब्रवीत्करिष्येऽहमेतत्तर्हि भवद्वचः ।
किंतु कर्णेन सोढव्यः स्वैरजल्पो रणे मम ।। ६२८ ॥
(युग्म)
गिराथ कुरुनाथस्य वचस्तन्भद्रभूपतेः ।
अङ्गीचक्रेऽङ्गभूपालः कालज्ञा हि मनीषिणः ॥ ६२९ ।।
प्रतिजज्ञेच चेत्प्रातः काश्यपीमकपिध्वजाम् ।
न करोमि तदा नूनं हव्यवाहं विशाम्यहम् ॥ ६३० ॥
अथोदगात्प्रगे भानुस्तिमिरानीकमन्तयन् ।
तत्प्रहारव्रणोद्गीर्णैः शोणितैरिव शोणितः ॥ ६३१ ॥
पुरो विधाय राधेयं ततस्ते शल्यसारथिम् ।
आययुः सज्जितक्रूरवारणं कौरवा रणम् ॥ ६३२ ॥
राजहंसकृतोत्तंसा पुण्डरीकौघमण्डिता ।
समित्सीमां समागच्छत्पाण्डवीयापि वाहिनी ॥ ६३३ ।।
गम्भीरवीरसंरम्भसंभ्रान्तभुवनत्रयः ।
वल्गति स्म ततो बाणधोरणीभीषणो रणः ॥ ६३४ ॥
निष्कामन्ति स्म केषांचिदिषवश्च शरासनात् ।
प्राणाश्च प्रतिवीराणां स्पर्धयेव शरीरतः ।। ६३५ ॥
वितेरुः फलमस्मभ्यं कर्मण्यविहितेऽप्यमी ।
इति प्रीता इवान्येषां शराः किं किं न तेनिरे ।। ६३६ ॥
दन्तान्दन्तावलेन्द्राणामसिना कश्चिदच्छिनत् ।
असावपि ततश्छिन्ने निन्ये तानेच शस्त्रताम् ॥ ६३७ ।।
वीरप्रहारमूर्छालचेतसः पतिता अपि ।
हुंचक्रिरे चिरं शून्यक्षिप्तकौक्षेयकाः परे ॥ ६३८ ॥
क्व रे पार्थः क्व रे पार्थ इति जल्पन्तमुच्चकैः ।
सधैर्यमथ राधेयमभ्यधान्मद्रभूपतिः ॥ ६३९ ॥
मूर्ध्नि कर्ण न कर्णौ ते हृदये न विवेकिता ।
नान्तरात्मनि चैतन्यमिति मे मन्यते मतिः ॥ ६४० ॥
यत्प्रतिज्ञामकास्त्विमात्मनीनेतरामिमाम् ।
यथा दोर्विक्रमाचन्नद्य वध्यो मयार्जुनः ॥ ६४१ ॥
काव्यमाला।
किं नाम सोऽपि कोऽप्यस्ति येन जीयेत सोऽर्जुनः ।
नरकण्ठीरवे कुण्ठीभवन्ति भुवनान्यपि ॥ ६४२ ॥
यत्त्वमप्याचरः कान्तः शरैरेतस्य गोग्रहे ।
अनीषत्करमत्यन्तं तद्वक्तुमपि मादृशैः ॥ ६४३ ।।
त्वां विधाय युधि क्रोधानान्धारेयं बबन्ध यः ।
सोऽप्यस्मिन्विनयाद्धत्ते गन्धर्वेन्द्रोऽतिखर्वताम् ॥ ६४४ ।।
तमद्याह्वयमानस्त्वमर्जुनं किं न लज्जसे ।
विपर्यस्यन्ति नेदीयोमृत्यूनां मतयोऽथवा ॥ ६४५ ।।
अथ प्रादुर्भवत्कोपकम्पश्चम्पेश्वरोऽब्रवीत् ।
मद्राणां म्लेच्छवृत्तीनामनुरूपमिदं वचः ॥ ६४६॥
परमेतर्हि ते किंचिदन्तरं दर्शयिष्यते ।
चेत्कुण्डलितकोदण्डः पुरो वीक्षिष्यतेऽर्जुनः ॥ ६४७ ॥
शल्येनाभिदधे शीर्षच्छेदादाकिरीटिनम् ।
सम्यङ् न ज्ञास्यसे कर्ण पश्य पश्य पुरस्ततः ।। ६४८ ॥
पार्थः सोऽयं रथारूढः कृष्णसूतः कपिध्वजः ।
अभ्येति निघ्नन्सैन्यानां ध्यानवहिरिवनसाम् ।। ६४९ ॥
इत्याकर्ण्य गिरं कर्णः कीर्तितां मद्रभूभुजा ।
क्रोधधूमायितखान्तः क्षणं तूष्णीकतामधात् ।। ६५० ।।
शरैर्वर्षन्दधावेऽथ राधेयोऽनु धनंजयम् ।
विरोकैरनु मूर्लोक कल्पान्तद्युतिमानिव ॥ ६५१॥
मार्गे स मार्गणैर्वीरान्संजहार सहस्रशः ।
तर नूतनः प्रावृड्नदीरय इव दुमान् ।। ६५२ ।।
प्रत्यैच्छदुरुमात्सर्य तमायान्तं तपःसुतः ।
सरिदोघमिवोद्वीचिरापतन्तं महादः ॥ ६५३ ।। .
निर्भरासम्मरोद्गारकातरीकृतखेचरः ।
आसीत्तयोः शरासारव्याप्तव्योमाङ्गणो रणः ५४ ॥
५६५
मास्मान्योऽन्यमिवोत्क्रुद्धौ निरीक्षेतामिति ध्रुवम् ।
शराः शैलीभवन्ति स्म छिन्नास्ताभ्यां मिथोऽन्तरे ॥ ६५५॥
मुष्टिरन्योऽन्यनिर्मुक्तैः सायकैरिव कीलितः ।
एक एव तयोर्वीक्षांचक्रे कर्णान्तमागतः ॥ ६५६ ॥
पत्रिभिस्त्वमितोऽप्यस्त्रविद्ययैव विनिर्मितैः।
गगनं च दिगन्ताश्च तिरयांचक्रिरेतराम् ।। ६५७ ॥
तयोर्वाणवणोद्वीरें रेज"रुधिरनिर्भरः।
निर्यनङ्गेष्वपर्याप्तः कोपजन्मेव शोणिमा ।। ६५८ ॥ (युग्मम्)
युगान्ताशनिदेशीयैः क्रमाकर्णशिलीमुखैः ।
कामं लोक इवाकारि तपसःसूनुराकुलः ॥ ६५९ ॥
नृणां (न चा)दातुं न संधातुमाक्रष्टुं च न संहृतम् ।
न चाकृष्टं शरं मोक्तुमीश्वरोऽभूधुधिष्ठिरः ।। ६६० ॥
केवलं कर्णनिर्मुक्तमार्गणव्रणशोणितैः ।
भीमाग्रजो बभाराङ्गं जितपुष्पितकिंशुकम् ।। ६६१ ।।
तं कर्णेन तथा मथ्यमानमालोक्य केशवः ।
स्पृष्टक्षेपैरभाषिष्ट बचोमिः कपिकेतनम् ॥ ६६२ ।।
धिक् ते कोदण्डपाण्डित्यं धिक्क दोर्दण्डचण्डताम् ।
धिग् धिक् शौण्डीरमानित्वं धिर धिक्क पुरुषव्रतम् ।। ६६३ ॥
अखण्डभुजदण्डस्य पश्यतो यस्य वैरिभिः ।
ज्येष्ठबन्धुः किमप्येवं प्राप्यते प्राणसंशयम् ॥ ६६४ ॥
न्यस्तपूर्वी धनुर्विद्यामात्मनोऽप्यधिकां त्वयि
अद्येह सदसि द्रोणो गुरुर्लज्जिष्यते ध्रुवम् ।। ६६५ ।।
भृशं पञ्चोत्तरे पौत्रशतेऽपि त्वयि वत्सलः ।
अद्य भीष्मनपामुच्चैर्मुमुक्षुरपि वक्ष्यति ॥ ६६६ ॥
लोके न समरालोकविलीनहृदयस्य ते ।
सारथ्यं प्रथयन्पार्थ हसिष्येऽहमपि स्फुटम् ।। ६६७ ।।
त्वत्पदे हन्त कुन्ती चेत्कन्यां कांचिदसोष्यत ।
ततस्तस्याः पतिर्नूनमरक्षिष्यत्तपःसुतम् ।। ६६८ ॥
इत्याद्यम्भोजनाभेन तर्जितो मुहुरर्जुनः ।
धावति स्मानुराधेयममर्ष इव मूर्तिमान् ॥ ६६९ ।।
स धावन्वृषसेनेन राधेयतनुजन्मना ।
क्षणं मार्गद्रुमेणेव सिन्धुरः प्रत्यरुध्यत ॥ ६७० ॥
अभिमन्युवधस्मृत्या तरङ्गितरयोऽर्जुनः ।
तूलशैलमिवाकृच्छ्रात्तं ममन्थ महाबलः ॥ ६७१ ॥
तदीयवधनिर्भिन्नचेतास्त्यक्त्वा तपासुतम् ।
राधासूनुरधाविष्ट स्पष्टकोपोऽनु फाल्गुनम् ।। ६७२ ।।
तस्मिन्विरमापिताशेषविश्वे दोःस्तम्भजृम्भितैः ।
आगच्छति जवाच्छौरिरवोचत्सव्यसाचिनम् ॥ ६७३ ।।
पार्थ नन्वेति राधेयः श्वेताश्वः शल्यसारथिः ।
नागकक्षाध्वजः साक्षादिव वीरो रसः पुरः ।। ६७४ ।।
आजन्मकार्मुकाभ्यासतारतम्यं द्वयोरपि ।
इदानीं युवयोर्जन्यदक्षयोर्लक्षयिष्यते ॥ ६७५ ॥
मा पुनः सिंहिकासूनुकान्तस्येव विवखतः ।
कर्णरुद्धस्य तेजस्ते समस्तमपि गात्कचित् ।। ६७६ ॥
इत्युदीर्य मुकुन्देन वचसा सव्यसाचिनः।
नोदिताश्वो रथः कर्णरथं प्रत्यचलजवात् ।। ६७७ ।।
संमुखीनौ तदान्योऽन्यं धन्विनौ तौ रुषारुणौ ।
वासरादौ तुषारांशुभास्कराविव रेजतुः ॥ ६७८ ।।
किंकिणीजालवाचालौ विलोलध्वजपल्लचौ।
आहासातामिवान्योऽन्यं रथावपि तयोस्तदा ।। ६७९ ।।
तावुभावनुरूपारिलाभलम्भितसंमदौ ।
अभूतामुच्चरोमाञ्चत्रुटत्कचकबन्धनौ ।। ६८० ।।
संपरायरसोद्रेकादुल्लसन्मौलिकुन्तलः ।
राधेयोऽथाभ्यधात्क्रोधपाटलाक्षः किरीटिनम् ॥ ६८१ ।।
अर्जुन द्रुतमेह्येहि मा म मन्थरतां गमः ।
ओजस्वी खलु वीराणां कवीनां च पदक्रमः ॥ ६८२ ॥
प्रवीरानपरान्नित्यं निघ्नतां पतत्रिणाम् ।
अभ्यासोऽभूदियत्कालं तत्फलैस्त्वद्य भाविता ।। ६८३ ॥
त्वामहत्वा जगत्येकवोरभन्यमनारतम् ।
कषितानेकवीरोऽपि न प्रीयेऽहं निजौजसा ।। ६८४ ॥
निर्दग्धनिखिलक्षोणीरुहपक्षोऽपि लक्षशः।
को नाम दहनो हन्त महीधरमनिर्दहन् ॥ ६८५ ॥
तदस्ति तव चेकिंचिदूर्जितं भुजदण्डयोः ।
तत्कुण्डलय कोदण्डं न त्वेष न भविष्यसि ॥ ६८६ ॥
भारद्वाजं गुरुं किंतु मा स तं हन्त लज्जय ।
न्यासीचक्रे मुदा येन कार्मुकोपनिषत्त्वयि ॥ ६८७ !!
भग्नोर्वीशद्रुमौघस्य वीरकुञ्जरमानिनः ।
शौण्डीर्यदन्तभङ्गाय भवतोऽद्यास्मि भूमिभृत् ॥ ६८८ ॥
मत्प्रतापयुगान्तार्कस्त्वबाहुमहिमाणवम् ।
निपीयाद्य कुलं पाण्डोर्विश्वं निर्दग्धुमीहते ॥ ६८९ ।।
महीतलमिदं पाण्डुसुतानुत्पाट्य कण्टकान् ।
अद्य कौरवकीतीनां सुसंचार करोम्यहम् ॥ ६९०॥
इत्यहंकारझंकारिगिरमजावनीश्वरम् ।
सौष्ठवोत्तिष्ठदुद्दामरोमाञ्चोऽवोचदर्जुनः ॥ ६९१ ॥
राधेय वीरधौरेयः को विना त्वां जगत्यपि ।
ऋते मिहिरमन्योऽस्ति यदि वा न दिवाकरः ॥ ६९२ ।।
किंतु नात्मगुणः सद्भिरात्मनैव प्रकाश्यते ।
क्रियैव खलु कर्तव्या गुणवैतालिकी जनैः ॥ ६९३ ॥
काव्यमाला।
विषप्रमोष एवोचैर्वक्ति गारुत्मतं मणिम् ।
निगदत्युदयं ध्वान्तध्वंस एव विवखतः ।। ६९४ ॥
तत्त्वया मद्वधायैव जन्मप्रभृति संभृतम् ।
यज्जगत्रितयामोदि कार्मुकाभ्यासपाटवम् ॥ ६९५ ॥
द्रुतमिष्वासमाकृष्य तदद्य प्रकटीकुरु ।
शौण्डीराणां हि शौण्डीर्यं दोष्णोर्वसति नो गिरि ॥ ६९६ ॥
(युग्मम्)
किंत्ववश्यं वचस्येव पर्याप्तत्वात्पराक्रमः ।
भुजस्तम्भेषु वीराणां खल्प एव विजृम्भते ॥ ६९७ ॥
इत्युदीरयति श्रेष्ठं सौष्ठवं सव्यसाचिनि ।
कालपृष्ठे भटप्रष्ठो राधेयः संदधे शरम् ॥ ६९८ ॥
जृम्भमाणगुणः शश्वद्विश्वकर्णान्तसीमनि ।
कृष्ट्वा चापगुणं कर्णः स्वकर्णाभ्यर्णमानयत् ॥ ६९९ ॥
तदाकर्षभवत्क्रूर क्रेंकारकपटादभूत् ।
साट्टहास इवेष्वासः संगरोत्सवहर्षुलः ॥ ७०० ॥
कलयामास कर्णस्य मुष्टिः कर्णान्तसंगतः ।
विकासविकलोत्तंससरसीरुहविक्र(प्र)मम् ॥ ७०१॥
नीरादिवोर्मयः सिन्धोर्बिम्बादिव रवेः कराः ।
कार्मुकादथ कर्णस्य क्रामन्ति स शिलीमुखाः ॥ ७०२ ॥
अश्रान्तसंहिताशेषसंग्रामजयवासने ।
शरासने शनैः पार्थोऽप्यवन्ध्यं संदधे शरम् ॥ ७०३ ॥
जीवितव्याशया सार्धं समग्रकुरुभूभुजाम् ।
आचकर्ष जगजिष्णुर्जिष्णुरिष्वासशिञ्जिनीम् ॥ ७०४ ॥
संमुखस्याप्यसौ युद्धे जग्राह गुणमेव मे ।
पृथासूनोः सुवंशोत्थमितीव धनुरानमत् ॥ ७०५ ॥
एततत्रिजगल्लोकाः पश्यतार्जुनदोःकलाम् ।
इत्युवाचेव गाण्डीवं स्फारविस्फारकैतवात् ॥ ७०६ ॥
कर्णोत्तंसीभवत्पाणिपाणिजद्युतिकन्दलैः
कोदण्डमण्डनं प्रापदिषुरेकोऽप्यनेकताम् ॥ ७०७ ॥
जिष्णोरुन्मुच्य नाराचमूर्ध्वीभूताङ्गुलि करः ।
विश्वविश्वकधन्वित्वकीर्तिहस्त इवाबभौ ।।,७०८ ॥
क्वापि स्थेमान(ल)मन्यस्य न व्यलोकि त्वया विना ।
इतीवास्फालयत्प्रीता प्रकोष्ठं तस्य शिञ्जिनी ।। ७०९।।
स्थेयसीमिव तौ मुष्टिं बिभ्रतावपराकि
अलक्ष्यग्रहसंधानौ चित्रस्थाविव रेजताम् ॥१०॥
भुवनाद्वैतधन्विस्वकीर्तिकोलाहलैरिव ।
आक्रम्यते स दिक्चक्रं शिञ्जिीशिञ्जितैस्तयोः ।। ७११ ॥
विभाव्य रणसंरम्भ मा स्म मूर्च्छन्निमाः स्त्रियः ।
इतीव तच्छरव्रातैः परितस्तरिरै दिशः ॥ ७१२ ।।
कुर्वन्तः प्रतिपक्षेण कृतस्पर्द्धि गुणं क्षणात् ।
प्रथन्ते स मिथः स्पर्द्धागाथका इव तच्छराः ॥ ७१३ ॥
अवदानेषु तन्मूर्ध्नि विमुक्ताः स्वर्वधूणैः ।
अन्योऽन्यस्य स्रजः काण्डमण्डपेन न सैहिरे ॥ ७१४ ॥
तावुभावप्यशोभेतां शोणिताभ्यक्तविग्रहौ ।
स्फुटानुरागवीरश्रीकटाक्षश्छुरिता इव ॥ ७१५ ॥
भूयिष्ठभूचरारावदुःसहपसरास्ततः ।
तूर्णमौर्णविषुः कर्णमार्गणश्रेणयोऽम्बरम् ॥ ७१६ ॥
न रथ्या न रथो नापि सारथिनं च केतनः ।
न देहमपि पार्थस्य ददृशे तत्तिरोहितम् ॥ ७१७॥
राधेयस्याथ तां बाणधोरणी धूसरीमिव ।
शराः करा इवोष्णांशोमुष्णन्ति स्म किरीटिनः ।। ७१८॥
फाल्गुने वल्गति खैरं पत्रिपत्रौषशालिनि ।
बभूव च्छिदुरच्छायः कामं कर्णमहीरुहः ॥ ७१९ ।।
काव्यमाला।
मन्दीभूतेऽथ कर्णस्य शरशैशिरमारुते ।
बाणदक्षिणवातेन(च) स्फूर्जत्यधिकमार्जुने ।। ७२० ॥
कौरवाः परितः कुन्दा इवासुमनसोऽभवन् ।
विकाशं चागमन्नुच्चैश्चम्पका इव पाण्डवाः ॥ ७२१ ॥(युग्मम्)
अन्धीभूष्णुरथो जिष्णुमार्गणैरङ्गभूपतिः ।
अत्रस्तु(सु)रस्त्रमाहेयं महीयांसमजूहवत् ॥ ७२२ ॥
प्यधीयन्स डिद्दण्डमण्डिताब्दविडम्बिभिः ।
विषज्या वचनालास्यैर्दन्दशूकैर्दिशस्ततः ॥ ७२३ ॥
बभालच्छलात्सप्तसप्तिसौप्तिकहेतवे ।
संभूयेवागताः सर्वशरीतिमिरोर्मयः ॥ ७२४ ॥ (युग्मम्)
भुजङ्गजलदैः सद्यः पीते तपनतेजसि ।
तत्फणामणयो ज्योतिरिङ्गणा इव रेजिरे ॥ ७२५ ॥
सर्पसंतमसे तस्मिन्द्यावाभूमिपिधायिनि ।
सुभद्राभरास्येन्दुः शुशुभेऽभिनवोदयः ॥ ७२६ ॥
काद्रवेयरुपद्रोतुमनोभिरभितोऽर्जुनम् ।
संभ्रमादमि खैरं साक्षादापद्धटैरिव ।। ७२७ ।।
तान्मुरारातिरालोक्य त्रैलोक्यैकभयंकरान् ।
गाण्डीवधन्विनो बन्धशङ्कातङ्काकुलोऽभवत् ॥ ७२८ ।।
अथाहेयास्त्रसंहारहेतवे तायदैवतम् ।
कार्मुके सायकं सद्यः संदधे च धनंजयः ।। ७२९ ॥
जग्मुश्च क्वापि निर्नाम ते भुजङ्गमपुंगवाः ।
दुर्नीतिहतवृत्तीनामसाधूनामिबोदयाः ॥ ७३०॥
राधेयस्य ततश्चेतः प्रविष्ट इव विष्टपम् ।
उज्झामास तमस्तोमः पाण्डवांश्च भयोदयः ॥ ७३१ ।।
साक्षादिव जये तस्मिन्नस्त्रे विलयमीयुषि ।
घटोत्कचवधादाप्तवत्यां शक्तौ च रिक्तताम् ॥ ७३२ ॥
५७१
निश्चिकायात्मनः कायव्ययं कर्णः कपिध्वजात् ।
राज्यभङ्गं कुरूणां च पाण्डवानां च संपदम् ।। ७३३ ॥
अथ सर्वाभिसारेण शराणामनणूर्जितः ।।
मृत्युमेवोररीकृत्य स योद्धमुपचक्रमे ।। ७३४ ॥
एकाश्रयमसंदेहजयलक्ष्मीनिरीक्षितः।
बभूव भीमः समरस्ततः कर्णकिरीटिनोः ॥ ७३५ ।।
व्योम्नि वैमानिकैदिक्षु दिग्गजैहुवि भूधरैः ।
उच्छलत्तच्छरव्रातभीत्या दूरेण दुद्रुवे म् ॥६६॥
कल्पान्तचलितोदन्वन्नीरनिर्घोषभीषणः ।
भयसंभ्रान्तयोरासीद्वाहिन्योस्तुमुली महान् ॥ ७३७ ॥
बाहीकैः कचिदास्फाल्य कोलाहलपलायितैः ।
बभञ्जिरे रथाः साकं रथिकानां मनोरथैः ॥ ७३८ ॥
नीचैर्मार्गदुशाखाभिः पर्यस्तकुथकतनाः ।
इभाः प्रणेशुझम्पामिनश्यदाधोरणा रणात् ।। ७३९ ॥
कर्णफाल्गुनयोरश्वान्पुनर्मद्रेशकेशवौ ।
धारयांचक्रतुः सम्यक्सारथ्यकलया बलात् ॥ ७४० ॥
सर्वस्मिन्नप्यनीकेऽथ विद्रुते वीरकुञ्जरौ ।
रेजतुस्तोरणाशक्तावटव्यामिव कुञ्जरौ ॥ ७४१ ॥
अथैवं रणसंरम्भे कर्णस्याचक्रनामितः ।
मङ्क्षू धर्म इवानीतौ निर्ममज रथः क्षितौ ।। ७४२ ॥
कलाकल्पेन शल्येन प्रेरिता अपि वाजिनः ।
नेशतेस्म तमुद्धर्तुं विवेकमिव दुर्धियः ॥ ७४३ ॥
श्यामलिग्नाधिवक्रेन्दु वैलक्ष्येणाधिमानसम् ।
मन्दिम्ना चाघिदोर्दण्डं कर्णस्याक्रियतास्पदम् ।। ७४४ ॥
सोऽथ खयमवीतारिरुद्दिधीर्षुर्वरूथिनम् ।
उच्चैरुत्साहमारोहत्तदानीमर्जुनः पुनः ॥ ७१५॥
काव्यमाला।
ततः पल्लवितप्राणं बाणधोरणिवर्षिणम् ।
कर्णोऽभ्यवत्त बीभत्सुमीषदैन्यकिरा गिरा ।। ७४६ ॥
क्षत्रियक्षि मक्षत्रमिदमर्जुन मा कृथाः ।
न खल्वयुध्यमानेषु प्रहारः सत्यशालिनाम् ॥ ७४७ ॥
क्षात्र धर्ममिदं वीर यदि त्वमपि लुम्पसि ।
तदानीमपरित्राणः कुत्रायमवतिष्ठताम् ॥ ७४८ ॥
तन्मुहर्तं पतीक्षस्व मा मुचः सुतरां शरान् ।
उद्धरामिमममहं यावदिमं रथम् ॥ ७४९ ॥
तमेवं कृपणालापमलपन्मद्रभूपतिः ।
राधेय न भवान्सूतकुलं ह्रियमलम्भयत् ॥ ७५० ॥
क्षत्रियः क इव प्राणसंदेहेऽपि महीयसि ।
वचस्त्वमिव शत्रूणां पुरो दीनमुदीरयेत् ।। ७५१ ॥
दुर्घीदुर्योधनो नूनं येन भीरुशिरोमणौ ।
कृता गोहायुदेशीये सिंहसंभावना त्वयि ॥ ७५२ ॥
न कौरव्यः स ते मित्रं मन्ये मानकमन्दिरम् ।
वदस्येवं गिरं दीनां यत्पुरः परिपन्थिनः ।। ७५३ ।।
इति शल्यगिरा शल्यतुल्यया गलितौजसम् ।
स्मितधौताधरोद्देशः केशवः कर्णमब्रवीत् ॥ ७५४ ॥
राधेय धर्मसर्वखं त्वां विना बत वेत्ति कः ।
शङ्के स्मृतिरहस्यानि स्फायन्ते त्वयि संप्रति ॥ ७५५ ॥
अभिमन्युवधे किंतु विस्मृतान्येव तानि ते ।
सर्वैः संभूय युष्माभिर्यदेकः स तदा हतः ॥ ७५६ ॥
यदि वात्मविपाच्चैर्द्धर्मतत्त्वविदः खलाः ।
परापदि तु धर्मस्य विसृजन्ति जलाञ्जलिम् ॥ ७५७ ॥
सोत्प्रासमित्युपालभ्य राधेयं गरुडध्वजः ।
तद्गिरा मन्थरीभूतभुजमर्जुनमभ्यधात् ।। ७५८ ।।
५७३
अर्जुनार्जुन किं नाम नाराचान्न विमुञ्चसि ।
कृपा कौतस्कुतीयं ते द्विषत्यसिन्सुतद्रुहि ।। ७५९ ॥
भूयो हि रथमारूढः सोऽयमत्यन्तदुर्जनः ।
जीवते केसरी केन कन्दरान्तरसंचरः ।। ७६० ॥
न चाक्षत्रमिदं किंचित्तव धर्मव्यतिक्रमः।
विरोधी बलवानन्ध्र हन्तव्यो हि जयैषिभिः ॥ ७६१ ॥
इति विष्णुगिरा जिष्णुः पुनरप्यातधन्वनः ।
क्षिप्रमेव क्षुरप्रेण राधेयस्याहरच्छिरम् । ६२ ।।
उन्मीलत्कुण्डलज्योतिर्जटालं तत्समुच्छलत् ।
बभौ चम्पापतेस्तेजः पिण्डीभूतमिवान्तरम् ।। ७६३ ॥
शिरोऽदीयत मित्राय बन्धुभ्यश्च धरा मया ।
इति कर्णकबन्धेन प्रीत्येव ननृते तदा ।। ७६४ ॥
उदेति स्माभिकौन्तेयबलमानन्दचन्द्रमाः ।
मीलति स च तत्कालं कौरवाम्भोजकाननम् ॥ ७६५ ॥
पिण्डितैः पाण्डवानीकहर्षकोलाहलोमिभिः ।
निपीयन्ते स्म कौरव्यसैनिकाक्रन्दकन्दलाः ॥ ७६६ ॥
वियत्युत्पतितं वीक्ष्य तच्चम्पाधिपतेः शिरः ।
राहुत्रस्त इवास्ताद्रिकाननेऽविशदंशुमान् ।। ७६७ ॥
कर्णस्य शिरसः कर्णकुण्डले भुवि पेतुषः ।
आदत्त मारुतिबिम्बे भाखतो भूगते इव ॥ ७६८ ।।
पूष्णि चास्तं गते कर्णे नितरामन्धकारिताः।
कौरवाः शिबिरं जग्मुर्मन्दमन्दपदक्रमम् ।। ७६९ ।।
पाण्डवाः पुनरत्यन्तमुद्दयोतिवदनेन्दवः ।
स्कन्धावारं ययुः खैरं संचारचतुराशयः ॥ ७७० ॥
कुण्डलाभ्यां तथैताभ्यामभ्यर्च्य चरणद्वयीम् ।
ते राधेयवधीताः प्रणेमुस्तत्र मातरम् ॥ ७७१ ।।
ते निःसंदेहमात्मीये प्रत्यभिज्ञाय कुण्डले ।
अकस्मान्मुहुरुष्णोष्णाः सा ववर्षाश्रुविप्रुषः ।। ७७२ ।।
तामवादीदतारिः कष्टमानन्दपर्वणि ।
मातः केयमकोरडेऽपि शोकसंकुलता तव ।। ७७३ ॥
नन्वद्य फाल्गुनागस्त्यग्रस्ते कर्णमहार्णवे।
जयद्वीपमभूदेवि त्वत्सुतैरीषदासदम् ॥ ७७४ ॥
तत्त्वयाकसिरिभिः किं कष्टाभिर्वाष्पवृष्टिभिः ।
मुखाम्भोजशश्रीरास्माकीयं विलुप्यते ॥ ७७५ ॥
अथोवाच सुतान्कुन्ती मन्युना गद्गगदाक्षरम् ।
वत्साः किं नाम वोऽधाहं मन्दभाग्या निवेदये ॥ ७७६ ॥
कर्णो हि पाण्डदेवस्य तेजसामाद्यकन्दलः।
सोदरो भवतां बन्धुः सिन्धुरौर्जित्यवारिणः ॥ ७७७ ॥
किंतु हेतोः कुतोऽप्याशु जातमात्रोऽप्यसौ मया ।
कुण्डलाभ्यां किलैताभ्यां सनाथीकृत्य तत्यजे ॥ ७७८ ॥
हेतुर्मातः स को नाम सुतं येनैनमत्यजः ।
इति विस्मरचेलोभिः पाण्डुजन्मभिरीरिते || ७७९ ॥
स्त्रीस्वभावभुवा कुन्त्यां ह्रिया तूष्णीकताजुषि ।
वृत्तान्तमखिलं कर्णे कथयामास केशवः ॥ ७८० ॥ (युग्मम्)
बन्धूच्छेदस्मरत्खेदाः पाण्डवाः पुनरभ्यधुः।
आः कृष्ण न त्वमप्येवमियत्कालमचीकथः ॥ ७८१ ।।
कारिताः किं वयं हन्त भ्रातृहत्यामिमां त्वया ।
क्व नाम पातकस्यास्य विशुद्धिर्भविताय नः ॥ ७८२ ॥
इत्यातहृदयान्बन्धुहत्यया पाण्डुनन्दनान् ।
सभ्रूभङ्गमभाषिष्ट विस्पष्टं विष्टरश्रवाः ॥ ७८३ ॥
वृथा ताम्यथ किं नाम कार्येऽमुण्मिन्नकल्मषे ।
जिघांसन्तं जिघांसीयादिति धर्मो हि दोष्मताम् ॥ ७८४ ॥
किं च यातेन दूत्याय तदानीं हास्तिने मया ।
किंचिदावेद्य वृत्तान्तमेनं कर्णोऽभ्यधीयत ॥ ७८५ ॥
ततः कर्ण तवेदानी युक्ता सोदर्यसंगतिः ।
सेवितुं न तु युज्यन्ते कुरवस्तद्विरोशिनः ॥ ७८६ ॥
सोऽप्यूचे तं हरे नाहं मोक्तुमर्हामि कौरवम् ।
कर्णः कर्ण इति ख्यातिं येन नीतोऽसि सर्वतः ॥ ७८७ ।।
पुरुषेषु न रेखापि साधुभिस्तस्य दीयले।
यः स्निग्धमदवीयस्यां मित्रमापदि मुङ्गम् मा ७८८ ॥
पश्य मित्रं मरीचीनामुपरागे विमर्थताम् ।
गीयते खलु विद्वद्भिः पुंस्त्वमेव न केवलम् ।। ७८९ ।।
कौरव्यस्य ततः कार्ये त्याज्याः खलु मयासवः ।
किं पुनः फाल्गुनादन्यं हनिष्यामि न बन्धुषु ॥ ७९० ॥
इति वैरायमाणं तं विनिश्चित्यार्जुने मया ।
वक्तुमिष्टोऽपि युष्मभ्यं नोदन्तोऽयमकथ्यत ।। ७९१ ।।
ज्ञातेऽस्मिन्नर्जुनो बन्धुस्नेहविक्लवतां गतः ।
यदि कर्णेन हन्येत तद्भवेत्किं हि मङ्गलम् ।। ७९२ ।।
इत्याकर्ण्य गिरं शापिाणेर्बाष्पायितेक्षणाः ।
पाण्डवाश्चक्रिरे सवै राधेयस्यौदेहिकम् ॥ ७९३ ॥
यावत्तिष्ठन्ति ते [सर्वे] स्तोकशोकभरास्तदा ।
तावत्प्रौढप्रभाजालक्षालितक्षणदामलान् ॥ ७९४ ॥
आतपत्रायितस्फारस्फटामण्डलमण्डितान् ।
कांश्चिदालोकांचकुर्दिव्यमूर्तिधरान्पुरः॥ ७९५ ॥ (युग्मम्)
पञ्चाङ्गचुम्बितक्षोणितलैरानम्य तैस्ततः ।
विज्ञापितस्तयःसूनुः कुक्ष्मलीकृतपाणिभिः ॥ ७९६ ॥
देव दिव्ये पुरा तस्मिन्पन्नगेन्द्रसरोवरे ।
विप्रियं यैर्वितेने वस्ते वयं पवनाशनाः ॥ ७९७ ॥
काव्यमाला।
तदा सहायकं यावत्कर्णयुद्धे किरीटिनः ।
रुषा वारितवान्द्वारमस्साकमुरगप्रभुः ॥ ७९८ ॥
तदद्य कृतास्माभिः साहाय्यं सितवाजिनः ।
मज्जद्भिः क्षिप्तैः चक्रद्वयं कर्णवरूथिनः ।। ७९९ ।।
हत्त्वा च सपरीवारं कौरवेन्द्रमसंशयम् ।
यूयं भविष्यथ प्रातः पारीणाः प्रधनाम्बुधेः ॥ ८०० ॥
तदादिश ययैदं वो जयोदन्तसुधारसम् ।
उपायन शय पश्यामः पन्नगेश्वरम् ॥ ८०१॥
धर्मजोऽपि यचित्यं रचितखागतक्रियः ।
भीमाद्यैरादरादृष्टानोमाय विससर्ज तान् ।। ८०२ ।।
इतश्च कौरवः कर्ण कर्णधारं रणार्णवे ।
शोचशिबिरमागत्य पल्यङ्केऽवाङ्मुखोऽपतत् ।। ८०३ ।।
विलीन इव मूर्छाल इव व्यसुरिवाथ सः ।
न ददर्श न शुश्राव न विवेद च किंचन ॥ ८०४ ॥
तस्मिञ्शोकनिपीतेऽभूत्कामं शोकमयी चमूः ।
तमःकवलिते ह्यर्के किं मही न तमोमयी ।। ८०५ ॥
मुमूर्छ क्षणमुच्छासविकलो मुकुलेक्षणः ।
सोरस्ताडं क्षणं मुक्तकण्ठमुच्चैः रुरोद च ॥ ८०६ ॥
नामग्राहं च हा कर्ण कर्णेति व्यलपत्क्षणम् ।
क्षणं तस्थौ च तूष्णीकस्तदा दुर्योधनः शुचा ॥ ८०७ ।।
(युग्मम् ।
इत्थं नवनवोत्थास्तुशोकोर्मिविवशीकृतम् ।
वेगादागत्य साक्षेपां द्रौणिर्वाणीं तमब्रवीत् ॥ ८०८ ॥
महाराज स निर्व्याजशौण्डीरिमगुणः क्व ते ।
क्व ते सत्त्वं च तद्वीर वज्रविस्फूर्तिजित्वरम् ।। ८०९ ॥
सोऽवधीरितधात्रीन्द्रगरिमा गरिमा क्व ते ।
क्व ते गाम्भीर्यमम्भोधिगर्वसर्वंकषं च तत् ।। ८१० ।।
यदेवमबलेव त्वमुच्चकैराचितः शुचा ।
मुहुर्मुर्च्छस्यतिक्रन्दस्यत्यन्तं परिदेवसे ॥ ११ ॥
त्वादृशानपि शोकोऽयमाक्रमिष्यति चेद्बलात् ।
चलयिष्यति शैलेन्द्र बालस्तन्मलयानिलः ॥ ८१२ ॥
महानथ सहायो मे कर्णोऽभूदिति शोचसि ।
तव त्रैलोक्यमल्लस्य तदप्येतत्रपाकरम् ॥ ८१३ ॥
यच्चापकर्षणे वाम सहायीकुरुते करम्या
तेनापि त्रपते कामं शूराणां दक्षिणः ८१४ ॥
अद्यापि त्वयि संग्रामसीमानमधिताथुषि।
रवौ दिवमिव ध्वान्ताः पाण्डपया न दुर्जयाः ॥ ८१५ ॥
आस्तां तावद्धवान् शल्योऽप्यतुल्यभुजवैभवः ।
खण्डने पाण्डुपुत्राणां जन्यमूर्द्धन्यलंतमाम् ॥ ८१६ ॥
प्रक्षाल्य परितः शोकातङ्कपङ्कमिमं ततः।
राजन्मनेन्द्रमेवैनं सेनान्यं कर्तुमर्हसि ॥ १७ ॥
इति द्रौणेगिरा सद्यो रुचेव रविसारथेः।
मुमोच स शुचं किंचिज्जीवलोक इव क्षपाम् ॥ ८१८॥
तं च सेनान्यमातेने मद्रचन्द्र जयेच्छया ।
आशा हि दूरं दूर्वेव विलूनापि प्ररोहति ।। ८१९ ॥
कृतवर्मकृपद्रौणिसौबलादिबलान्वितः ।
अग्रे कृत्वा प्रगे शल्यं कौरवो रणमागमत् ॥ ८२० ॥
उन्मूल्य शल्यमुल्लाघमाधातुं जयमात्मनः ।
क्षेत्रक्षोणिमुपागच्छद्धर्मजोऽपि महाभुजः॥ ८२१ ।।
त्रुटसुभटकण्ठास्थिष्ठात्कारमुरजध्वनिः ।
कबन्धताण्डवोच्चण्डस्ततोऽभूत्संगरोत्सवः ॥ ८२२ ॥
प्राणोपदंशमापीय रिपूणां शोणितासवम् ।
क्षीबा इव लुठन्ति स्म क्षितौ तत्र पतत्रिणः ॥ ८२३ ॥
गत्वरैरसुभिः क्रीतं कल्पस्थास्तु मया यशः । इति प्रीत्येव कस्यापि कबन्धोऽनृत्यदद्भुतम् ॥ ८२४ ॥ उज्जृम्भमाणपुंनागसंतानरसपायिनः । उल्लसत्पक्षसूत्रधराः खेलन्ति स्म शिलीमुखाः ।। ८२५ ॥ नूतनातपसंपृक्तनिहराम्बुविडम्बिभिः । दुर्वारै रुधिरोद्दारैः केऽपि भान्ति स भूभृतः ॥ ८२६ ॥ निरस्तनिखिलरातिकुलोऽथ नकुलो रणे । तत्कालं शेचक्रे वैरिनागाननेकशः ॥ ८२७ ॥ विशन्तो हृदयं सद्यो नकुलस्य शिलीमुखाः । विद्विषां मुखपद्मानि सुकुलीचक्रिरे द्रुतम् ॥ ८२८ ॥ नकुलस्य शराः कामं सेहिरे न विरोधिभिः। सारङ्गवैरिणः पाणिजन्मान इव कुञ्जरैः ॥ ८२९ ॥ तीव्रपातै रिपुत्रातैर्नाकुलैराकुलीकृताम् । चमूमालोक्य मद्रेशः क्रोधावेशादधावत ॥ ८३० ॥ अत्युद्धरैः शरैस्तस्य तरङ्गैरिव नीरधेः । निम्नगेव चमूश्चक्रे पाण्डवीया पराङ्मुखी ॥ ८३१ ॥ क्षुन्दति क्षत्रियव्यूहं ततस्तस्मिन्निरङ्कुशे । भ्रकुटीमङ्गभीमास्यो हरिरूचे तपःसुतम् ॥ ८३२ ॥ युधिष्ठिर समीचीनमुच्यसे त्वं युधिष्ठिरः । यदेवं रिपुणा सैन्यं हन्यमानमुपेक्षसे ।। ८३३ ।। पुंसः स्थमा हि सौस्थित्ये गुणत्वमवलम्बते । प्रत्यर्थिन्युत्थिते किं तु गुणश्चापाय चापलम् ।। ८३४ ॥ सिन्धुरेन्द्राः परे यूथं यूथपस्येव पश्यतः । पिंषन्ति यविषः सैन्यं नन्वियं ते त्रपा परा ।। ८३५ ॥ ऋष्टास्मि ते सुतं शल्योदरादिति गिरं निजाम् । एवं तिष्ठन्सुदेष्णाने कथं सत्यां करिष्यसि ॥ ८३६ ॥ . पाण्डवचरितम् । ५७९ वघोत्सुकोऽपि बीभत्सुस्त्वत्संगरमनुस्मरन् । क्षुन्दानेऽपि चमू शल्ये बाणश्रेणीं न मुञ्चति ॥ ८३७ ॥ झगित्युत्सृजत स्थैर्यमौर्जित्यमुररीकुरु । " लम्भय प्रसमं शल्यमेनं कीनाशदाम्साम् ॥ ८३८ ॥ इत्यच्युतवचष्टङ्कोल्लिखितात्मा तपःसुतः। प्रतिज्ञां मद्रभूभर्तुरामध्याह्राद्वधे व्यधात् ।। ८३९ ।। उत्कल्लोलं ततः शल्यं धर्मभूर्भुजवैभक्षा। नर्मदायाः परीवाहं कार्तवीर्य इवारुधतम् ।।८४०॥ उच्छलहाणनिर्माणगीर्वाणनयनस्तनः। अभूत्कृतजगड्डिम्बडम्बरः समरेस्तयोः ॥ ८४१॥ . विश्वसंहारिमिः कालीकटाक्षैरिव तत्क्षणात् । व्यानशे निशितैर्व्योम तत्कालं च कदम्बकैः ॥ ८४२ ॥ स्तृणोति स्म क्षणं बाणैर्लाघवोल्लाघमुक्तिभिः । सरथ्यं सरथं धर्मनन्दनं मद्रभूपतिः ॥ १३ ॥ मुमूर्च्छाथ क्रमाच्छिन्दशल्यवाणमयं तमः । प्रगेतन इवोद्दयोतो युधिष्ठिरशरोत्करः ॥ ८४४ ॥ शल्यत्राणकृते दूराद्धावन्तोऽन्यधराधवाः । भाग्यैरिव विपत्पूगाः फाल्गुनाद्यैर्ममन्थिरे ॥ ८४५ ॥ मध्यंदिनदिनाधीशः पश्यस्तत्समरोत्सवम् । लक्ष्यते स तथा व्योनि मन्दमन्दमिवोच्चलन् ॥ ८४६ ॥ युध्यमानं ततो यत्नाद्दतं बाणैरजेयताम् । निहन्ति स तपःसूनुः शक्तया शल्यममोघया ॥ ८४७ ॥ व्यालदन्तावलेनेव क्रोधादन्धंभविष्णुना । मरुद्भुवाप्यभिद्यन्त भूयांसो युधि कौरवाः ।। ८४८ ॥ उद्यत्पार्थप्रतापाख्यबालार्केणेव शोणिताः । प्रावर्तन्ताभितः कुम्भिद्वयस्य रुधिरापगाः ।। ८४९ ।। ५८० काव्यमाला। क्वचित्करैः क्वचित्पादैः क्वचिदङ्गैः क्वचिन्मुखैः । आकीर्णाङ्का विधेः कर्मशालेव रणभूरभूत् ।। ८५० ॥ शङ्के तस्यां विशन् रौद्यां सोऽप्यभैषीत्तदान्तकः । श्वसन्ति स्म चिरं केचिद्यदरातिहता अपि ॥ ८५१ ।। शस्त्राधातोच्छलन्मूर्च्छानभिषिच्याभितोऽम्बुभिः । भूयोऽपि प्रगुणीकुर्वन्कांश्चित्समरकेलये ॥ ८५२ ।। पाययंश्च. पयः कांश्चिच्छुष्कतान्पिपासया । इक्षुद्रा भस्त्यक्ततापान्कांश्चिच्च सूत्रयन् ॥ ८५३ ॥ . निर्भर्त्स्यभिमुखीकुर्वन्कांश्चिद्भीत्या पराङ्मुखान् । तत्र बभ्राम निभाः सर्वतः सुभटीजनः ।। ८५४ ॥ (त्रिमिविशेषकम् अथाशेषैर्नृपैः सार्धं सबलैः सौबलादिभिः । उत्तस्थे मांसलस्थामा कौरवाणामधीश्वरः ।। ८५५ ।। पाण्डवीयाः क्षणं प्रौढकटका अपि भूभृतः । संहारमस्तिस्येव तस्य वेगं न सेहिरे ॥ ८५६ ॥ आसन्नान्तस्तदा सोऽभूत्पाण्डवैरपि दुःसहः । तापो ह्यपरनैदाधः सोढुं कैर्नाम शक्यते ॥ ८५७ ।। तन्वन्नकालकल्पान्तभ्रान्तिं त्रिजगदङ्गिनाम् । संगरोऽभून्महाघोरः सैन्ययोरुभयोस्ततः ॥ ८५८ ॥ शकुनिः कुरुभूभर्तुः कूटनाटकसूत्रभृत् । सहदवमथारौत्सीन्महेभः कलभं यथा ॥ ८५९ ।। द्युतीशद्युतिसंक्रान्त्या तापितानि च वह्निना । माद्रेयमभितो रौद्रान्स ववर्ष शिलीमुखान् ॥ ८६० ॥ एघोभिरिव तैरतैः सायकैः खैरपातिभिः । दिदीपे सहदेवस्य नितरामूर्जितानलः ॥ ८६१ ॥ माद्रेयस्तस्य नाराचैः काण्डश्रेणीरखण्डयत् । अम्भोधर इवाम्भोधिज्वाला दवहविर्भुजः ।। ८६२ ॥ . पाण्डवचरितम् । ५८१ समं दोस्तम्भसंरम्भैः साकं कपटपाटवैः । क्षयमीयुः क्षणाद्वाणा गान्धाराणामधीशितुः ।। ८६३ ॥ दीव्यन्तं समरद्यूते ततः प्राणैः पणीकृतैः । माद्रेयोऽक्षैरिव क्षिप्रं क्षुरप्रैर्जयति समत्तम् ॥ ८६४ ॥ क्षुण्णेऽथ शकुनौ साक्षाच्चेतसीव कुरुप्रभुः । उच्छ्रसन्नपि भस्त्रेव चैतन्यविकलोऽभवत् ॥ ८६५ ।। वीक्ष्यानीकमयात्मीयमेयिवद्विशरारुत्थर। गान्धारेयो गतस्थामा जगामाकुलताम् ॥ ८६६ ॥ अथ सैन्यरथोद्भूतैः सोऽन्धकारपोपमः। तिरोहितवपुः पांशुपूरैः स्वैरमुगासरत् ॥ ८६७ ।। न नाम शुशुभे शेषद्वित्रशौण्डीरमौक्तिकम् । तदा मौक्तिकदामेव तदनीकमनायकम् ।। ८६८।। कृपश्च कृतवर्मा च द्रोणभूश्च त्रयोऽप्यमी । धार्तराष्ट्रमपश्यन्तः कोका इव दिवाकरम् ॥ ८६९ ॥ बिभ्रतः कान्दिशीकत्वं विच्छायवदनश्रियः। कामं गवेषयामासुर्विषण्णास्तमितस्ततः ॥ ८७० ॥ (युग्मम्) भ्राम्यन्तो ददृशुस्तेऽथ गान्धारेयपदावलीम् । सरो व्याससरो नाम ययुस्तदनुसारतः ॥ ८७१ ॥ अम्भः संस्तभ्य संविष्टं तत्र निश्चित्य कौरवम् । भर्तृभक्त्या क्षणं तस्थुस्तस्य ते सरसस्तटे ॥ ८७२ ॥ अथावलोक्य धूलीमिस्तैः कदम्बितमम्बरम् । कौरवानुपदी पार्थबलराशिरशङ्क्यत ॥ ८७३ ॥ दृष्ट्वा नात्र स्थितं पार्था ज्ञासिषुर्मा स्म कौरवम् । इत्यालोच्य तिरोभूवन्कापि ते तरुगहरे ॥ ८७४ ॥ तस्मिन्सरसि विज्ञाय बनेचरगिरा ततः । प्रविष्टं कौरवाधीशमन्वगुः पाण्डुसूनवः ।। ८७५ ॥ ५८२ काव्यमाला। तदेकाक्षौहिणीशेषबलसंभारभासुराः । तिष्ठन्ति स्म सुताः पाण्डोश्चिरमावृत्य तत्सरः ॥ ८७६ ॥ तन्नीरस्य एतस्तीरमधिष्ठाय युधिष्ठिरः । स्पष्टमामृष्टमर्माणं वाणीमिति समाददे ।। ८७७ ॥ दुर्योधन मुधा वीरं त्वां स्म मन्यावहे वयम् । मृगेन्द्रमतिरस्माकं फेरवे स्फुटमस्फुरत् ॥ ८७८ ॥ निष्कलङ्के ××ङ्कोऽभूस्त्वमेवामत्कुलेऽखिले । । त्वयैव क××तात धृतराष्ट्रमहः कृतम् ॥ ८७९ ॥ घातयित्वा समित्येवं सुहृत्संबन्धिबान्धवान् । यदिदानी निजप्राणत्राणायाम्भसि मज्जसि ॥ ८८०॥ मग्नस्यापि जले किंतु जीवितव्यं न ते क्वचित् । मुहूर्तोऽपि गमी नैतत्सरः शोषयतां हि नः ॥ ८८१ ॥ क्वाद्य ते स भुजादर्पस्तृणीकृतजगत्रयः । येनावमत्य नः सर्वास्त्वं महीं भोक्तुमैहथाः ।। ८८२ ।। यद्येतावदनात्मज्ञ त्वमासीम्रत्युकातरः । तत्संधिसून्पुरा किं न गोत्रवृद्धानमानयः ।। ८८३ ।। संधिमादधतं किं च पञ्चग्राम्यापि शार्ङ्गिणम् । निराकृत्य तदा किं त्वमात्मनीनमसूत्रयः ॥ ८८४ ॥ तत्तेऽद्य स्फुटमायात एव मृत्युर्यथा तथा । जीवितं ह्यतिदुर्लम्भमाप्तवाक्यविलचिनाम् ॥ ८८५ ॥ अत्यन्तानुचितां क्षत्रव्रतस्य च कुलस्य च । कृष्णाकेशाम्बराकृष्टिं तदा कारयतस्तव ॥ ८८६ ॥ बहीयो यदभूदंहस्तस्यास्माभिर्बलादपि । अद्य प्राणप्रहारेण प्रायश्चित्तं विधास्यते ॥ ८८७ ॥ (युग्मम् तन्निर्गत्याम्भसो भूत्वा शौण्डीरश्चेद्विपद्यसे । तदात्मभुजयोलज्जा कुलस्य च विलुम्पसि ॥ ८८८ ॥ पाण्डवचरितम् । ५४३ स्यसि न चेत्तर्हि संहितः सव्यसाचिना । दाग्नेयबाणोऽसौ शोषयिष्यत्यदः सरः ॥ ८८९ ॥ को निखिलैर्नास्मद्योभिर्योद्धुमीशिगे। न रोचते तुभ्यं तेन युद्धं विधीरसाम् ।। ८९०॥ स्मिन्नप्यहो तस्मिलितेऽधिप्रधनं त्वया । क्षा एव वयं सर्वे भुञ्जीथाः पृथिवीमिमाम् ॥ ८९१ ॥ वेति श्रवणक्रोडविषवृष्टिसहोदराम् ।।१. रतीं तपसः सूनोरमर्षकथिताशयः । ५२ ॥ पायुद्धं विनिीय समं पवनजन्मगा। स्वो निरगानीरादभ्रादिव विपाकरः ।। ८९३ ॥ (युग्मम्) परिसर मत्तमातङ्गेन्द्रमिवारिकाः । ग्डवेयास्तमावृत्य रणक्षेत्रमुपानयन् ॥ ८९४ ॥ मकौरव्ययोरतत्र चरणायुधयोरिव । मजाद्या दधुर्यो कामयोः पारिषद्यताम् ॥ ८९५ ॥ द्रनीलामलं व्योम व्याप्त गीर्वाणखेचरैः । ति स्म भूमिलल्लोकप्रतिबिम्बैरिवाक्षितम् ॥ ८९६॥ मातुरीयसैन्यस्य यादवीयबलस्य च । |न्दिदृक्षारसाक्षिप्ताः संगच्छन्ते स्म सैनिकाः ।। ८९७ ॥ दायुद्धरहस्यैकभाष्यकारभुजोर्जितः। लभद्रोऽपि तत्रागाद्विलोकनकुतूहली ॥ ८९८ ॥ गराङ्गणे लोकैः परितः परिवेष्टितौ । ङ्ककाराविवास्थातां गान्धारेयवृकोदरौ ॥ ८९९ ॥ ऽपि प्राणाधिको धार्तराष्ट्रो न तु वृकोदरः । चिच्च बलवान्भीमो न नाम धृतराष्ट्रभूः ॥ ९.०० ॥ मन्ये तु मांसलान्यासी मारुतिर्न कुरूद्धहः । प्रपरे पुनरभ्यासी कौरवो नैव पावनिः ॥ ९०१॥ ब्दोऽन्त्रापराधार्थः. ५८४ काव्यमाला। केचित्तु मन्महे मान्यं मानिनं कौरवं विना । इयत्यपि गते यस्य सर्वान्वा हन्मि विद्विषः ॥ ९०२ ॥ मृत्युना स×× संग्रामे केलिलीलाः करोमि वा। रिपुभ्यो न पुनर्दीनं वचो वच्मीति गीःक्रमः ॥ ९०३ ।। अन्ये तु घिग्धियं धिक्क मानितां धिक्क मत्सरम् । यदुपज्ञमसौ जज्ञे कौरवस्य कुलक्षयः ।। ९०४ ॥ इत्येतान्बहतो जल्पाञ्जल्पयन्तः परस्परम् । योद्धुं कोडके तस्तस्थुः सुरखेचरमानवाः ॥ ९०५ ॥ (षड्मिः कुलकम्) कौरव्यमारुती वेगाद्दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमामात्मानं परितो गदाम् ॥ ९०६ ॥ सानुमन्ताविवोत्क्षिप्तौ कल्पान्ते मण्डलानिलैः। गदाधिपं दधानौ तौ चेरतुश्चित्रमण्डलम् ॥ ९०७ ।। राजति स्म तयो रङ्गं शौर्यरोमाञ्चकोरकैः । अन्तज्वलितकोपामिनिर्यद्धूमलवैरिव ॥ ९०८॥ कदाचित्तौ विनिर्मुक्तक्ष्वेडारावौ प्रसस्रतुः । पादमाकृष्य च खैरं कदाचिदपसस्त्रतुः ।। ९०९ ।। भुजशौण्डीरिमोद्रेकाद्धावमानोऽतिदुःसहम् । अत्याजयत्कदाप्यन्यः खां महीमितरं बलात् ॥ ९१० ॥ त्रिजगत्कौतुकास्थानं स्थानमाविश्य तौ ततः । प्रहारोदस्तहस्तायावत्यासन्नीबभूवतुः ॥ ९११ ॥ प्रक्षिप्य पुरतः पादमेकस्मिन्नभिहन्तरि । कृष्टाङ्घ्रिमङ्गनाशेन प्रहारमपरोऽत्यजत् ।। ९१२ ॥ कदाचिच्चेलतुः प्रेवाक्षरावभ्यासपाटवात् । तावन्योऽन्यगदाघातं गदयैव ररक्षतुः ॥ ९१३ ॥ तदीयगदयोर्नादैरन्योन्यास्फालनोद्भवैः । शङ्कन्ते स जगत्कोशस्फोटमाकालिकं जनाः ॥ ९१४ ॥ पाण्डवचरितम् । तयोरित्थमतिक्रोधादुद्धतं युध्यमानयोः । जयश्रीः सुचिरं तस्थावात्तया वरमालया ॥ ९१५ ॥ कौरवोऽथ चिराद्दृष्टिं वञ्चयित्वा कथंचन । निबिड ताडयामास मौलिदेशे मरुत्सुतम् ९१६ ॥ तत्प्रहारव्यथाभारनिर्भरभ्रमितेक्षणः । मारुतिः क्षोणिमद्राक्षीद्भ्रमदद्रिवनद्रुमाम् ॥ ९१७ ।। सत्त्वोत्कर्षादात्मानं संस्थाप्य स कथंचन | क्रोधप्रगुणितप्राणः प्रजह्रे हृदि कौरवम् ॥ ८॥ तेन दुःखासिकानामनुभूय सुयोधनः। निहन्ति स्म पुनर्मूर्ध्नि कोपाटोपावृकोदरम् ॥ ९१९ ।। तत्पीडाभिरभूदन्धंभविष्णुनयनद्वयः । निकामं निःसहीभूतसर्वाङ्ग पवनाङ्गजः ॥ ९२० ॥ तथाभूतं तमालोक्य मलीमसमुखद्युतिम् । ससंश्रममभाषिष्ट किरीटी कैटभद्विषम् ॥ ९२१ ॥ हन्त गोविन्द गोविन्द किमस्साकमुपस्थितम् । उत्तीर्य पाथसां नाथमिदं गोष्पदमज्जनम् ॥ ९२२ ॥ जिते भीष्मे जिते द्रोणे सूदिते सूतनन्दने । शल्ये निर्मूलिते शल्यराजादिषु हतेषु च ॥ ९२३ ॥ पश्यतामेव नः सोऽयं सर्वेषामपि जीवितम् । धृष्टेन धार्तराष्ट्रेण मारुतिर्यनिहन्यते ॥ ९२४ ॥ (युग्मम्) इत्यर्जुनोक्तमाकर्ण्य कंसविध्वंसनोऽवदत् । पार्थ भीमेन कौरव्यः सत्यमेवाऽस्ति दुर्जयः ।। ९२५ ॥ अयं हि खुरलीरङ्गे कुर्वाणो गदया श्रमम् । नित्यं लोहमयं भीमं भस्मसादकरोत्पुरा ॥ ९२६ ।। तदेतस्य पुरो बैरिकुले कालानलन्नपि । शङ्केन खलु बहीयान्मीमोऽपि भुजसंपदा ॥ ९२७॥ ५८६ काव्यमाला। किंतु चेत्प्रहरत्येनमूरुदेशे वृकोदरः। तदानीं नातिदुर्लम्भं जयं संभावयामि वः ॥ ९२८॥ भारतीमित्युपश्रुत्य फाल्गुनो वनमालिनः । कौरव्यो× पहाराय मारुति समकेतयत् ॥ ९२९ ।। तं संकेतं विदामास कोविदः कौरवाग्रणीः । रणसंरम्भसंभ्राम्यदम्बको न बकान्तकः ॥ ९३०॥ ××मग्रणीरूरुघातं वञ्चयितुं ततः । मन×शुलति स्मोर्ध्व मण्डूक इव भूतलात् ॥ ९३१ ॥ पूर्वाङ्ग इव निर्मुक्तः प्रहारस्तु बकारिणा । तस्यामाभाङ्क्षीदुभावूरू न धीर्दैवाबलीयसी ।। ९३२ ॥ उत्फालः शैलशृङ्गान्तात्कण्ठीरव इवावनौ । भग्नोरुः क्रोधधुमायमानो दुर्योधनोऽपतत् ॥ ९३३ ॥- असावथ व्यथापूरपूरितोऽपि क्रुधा मुहुः । फणीन्द्रवत्फटाघातान्गदाघातानमुञ्चत ॥ ९३४ ॥ तदवस्थेऽप्यनिर्वाणरणारम्भे च कौरवे । भीमे च जयिनि प्रीताः पुष्पाणि ववृषुः सुराः ॥ ९३५ ॥ कौरव्यग्रामणीः पीडानिमीलितविलोचनः । क्षेपं क्षेपं गदां शून्यं क्रमान्निःसहतामगात् ।। ९३६ ॥ अथाभ्येत्य मुहुर्रमः पविसब्रह्मचारिणा । पादेन दलयांचशे कोटीरं कुरुभूपतेः ।। ९३७ ।। बलभद्रस्तदालोक्य पदा मुकुटपेषणम् । रोपोन्मेषारुणीभूतसर्वाङ्गद्युतिरभ्यधात् ॥ ९३८ ॥ घिग्धिम्बतेदमक्षत्रं न म्लेच्छेष्वपि वर्तते । रिपोरपि किरीटो यत्तुषः पिण्यते पदा ।। ९३९ ।। कदाचिदपि कस्यापि नैवान्यायमहं सहे । मादृग्विधा हि सर्वेषामनाचारे चिकित्सकाः ॥९४०॥ पाण्डवचरितम्। > ममैतन्मुसलं कोपादन्यायस्यास्य यत्फलम् । पञ्चानां पाण्डपुत्राणां तत्सद्योऽदर्शयिष्यत ।। ९४१ ॥ नाभविष्यदिदं हन्त यदि ज्ञातेयमन्तरा । तथापि मुखमीक्षिष्ये नाहमेषामतः परम् । ९४२ ॥ इति संकर्षणो रोषकलुषः परुषाक्षरम् । उदीर्य निजमावासं त्वरितं त्वरितं ययौ ।। ९४३ ॥ रौहिणेयानुवृत्त्येव कर्मसाक्ष्यपि तत्क्षणात् । रोषावेशवशात्तानः क्वापि द्वीपान्तरेऽगमत १४ ॥ तथैव पतिते काम वेदनाविमनीकृते. कोपादुज्झति कौरव्ये निश्वासान्नासिकंधमान् ॥ ९४५ ॥ मुरारातिरथाकृष्य साकूतः पाण्डुनन्दनान् । ज्यायांसं प्रातरं मान्यमनुनेतुमचालयत् ।। ९४६ ॥ दक्षौ शिविररक्षायै धृष्टद्युम्नशिखण्डिनौ । आदिश्य सह कृष्णेन पाण्डवेयाः प्रतस्थिरे ।। ९४७ ॥ आयोधनाध्वजवालैः पाञ्चालैः समलंकृतम् । आदाय सैन्यमावासाज्जग्मतुर्दुपदात्मजौ ।। ९४८ ।। ततो दिङ्मुखकस्तूरीपत्रभङ्गय इवोदगुः । कौरवेश्वरनिश्वासधूमसान्द्रास्तमश्छटाः ।। ९१९ ।। सहलगुणितध्वान्ता मूर्छाभिः कौरवेशितुः । साकं तैस्तैर्मनोदुःखैः प्रससार तमखिनी ॥ ९५० ॥ अथाभ्येत्य तथासंस्थमूचिरे मन्युगद्गदम् । कृतवर्मकृपद्रोणसूनवः कुरुपुङ्गवम् ।। ९५१ ।। महाराज त्वमेवासि मानिनामधिदैवतम् । ईदृशेऽपि स्थिते येन दैन्यं चक्रे न वैरिषु ॥ ९५२ ॥ वयं तु कर्मचाण्डालाः कृतघ्नकधुरंधराः । शत्रुभिः पश्यतां येषां लम्भितोऽसि दशामिमाम् ॥ ९५३ ।। काव्यमाला। किं त्विदानीमधोऽस्माभिः स्थितैर्यग्रोधभूरुहः । वनेऽस्मिन्महती दृष्टा युक्तिः प्रत्यर्थिमन्थने ॥ ९५४ ॥ तत्र हि क्षणदादक्षचक्षुषाऽभ्येत्य तत्क्षणात् । काकानीकपुलकेन सर्वं सुप्तमहन्यत ॥ ९५५ ।। तद्दृष्ट्वा तुष्टचेतोभिरित्यस्माभिरचिन्त्यत । यदेकोऽप्यखिलान्हन्ति कालमालम्ब्य शात्रवान् ॥ ९५६ ॥ ××भेरपि तन्नूनमिदानीं निशि पाण्डवाः । रणोण×तथा स्वैरस्वपना नातिदुर्जयाः ॥ ९५७ ॥ इत्यालोच्य वचं रात्रिसंगरे कृतसंगराः । भवदादेशमादातुमिहागच्छाम संप्रति ॥ ९५८ ।। जीवतस्ते बलाच्छित्त्वा पाण्डुपुत्रशिरांसि चेत् । दर्शयेमहि तत्किचिदानृण्यं त्वयि नो भवेत् ॥ ९५९ ॥ इत्येतैर्वचनैस्तेषां पीयूषरसवर्षिभिः । विस्मृत्य वेदनावेगमाकृष्याश्लिष्यति स तान् ॥ ९६० ॥ वक्ति स्म च महावीरा जल्पतेदं पुनः पुनः । तच्छिरांसि द्विषां छित्त्वा दर्शयिष्यामहे तव ।। ९६१ ।। न तत्किमपि युष्मासु यन्न संभाव्यते खलु । किंचिन्नास्त्येव यच्चिन्तारतस्यापि दवीयसि ॥ ९६२ ॥ तज्जवाद्गच्छत छित्त्वा मौलीन्दर्शयत द्विषाम् । मदीयैर्न खलु प्राणैः स्थातुमीशिष्यते चिरम् ॥ ९६३ ॥ अश्वत्थामन्गुरोस्तस्य तनयोऽसि त्वमौरसः । मानसोऽहं पुनस्तेन महज्ज्ञातेयमावयोः ॥ ९६४ ॥ तद्विधृत्य मयि प्रीतिमाविकृत्याप्यनुग्रहम् । मूर्ध्नः पाण्डुमुवां कृत्तान्यदि दर्शयसि क्षणात् ॥ ९६५ ॥ प्रस्थितस्य तदेदानी वर्तनी पारलौकिकीम् । ममानन्दमयं दत्तं पाथेयं भवता भवेत् ।। ९६६ ॥ (युग्मम्) > पाण्डवचरितम् । अजेयोऽसि त्वमेकोऽपि शात्रवाणां शतैरपि । कृतवर्मकृपाचार्यसंगतस्तु किमुच्यते ॥ ९६७ ।। इत्यादि द्रौणिमाभाष्य कृतवर्मकृपान्वितम् ।। वधाय पाण्डुपुत्राणां प्राहिणोद्धृतराष्ट्रभूः ।।९६८ ॥ ते त्रयोऽपि ततोऽनेकमटश्रेणिविसंकटम् । अह्नाय पाण्डवेयानां स्कन्धावारमुपागमन् ॥ ९६९ ।। रे कौन्तेयचमूसैन्याः सत्वरं कुरुतायुधम् । क्रुद्धो युष्मासु नन्वश्वत्थामनामा यमोऽधुना ।। ९७० ॥ इति द्रौणिगिरं श्रुत्वा स्फूर्जथुस्फूर्ति×पहम् । चापारोपनिनादं च त्रयाणामपि दोभृताम् ॥ ९७१ ॥ द्रवन्निद्रासुखं काममुच्छलतुमुलारवम् । क्षुभ्यति स क्षणात्सवै शिबिरं पाण्डुजन्मनाम् ।। ९७२ ॥ त्रयाणामपि निःशेषं तेषां विशिखपङ्क्तिभिः । कल्पान्ताशनिकल्पाभिः पाण्डवानीकमानशे ९७३ ॥ कोदण्डमधिमौर्वीकं कुर्वाणौ रभसात्ततः । धृष्टद्युम्नः शिखण्डी च धावतः स्म महाभुजौ ॥ ९७४ ॥ ततस्ताभ्यां भृशं दुष्टाहाभ्यामिव सर्वतः । क्रियते स्म कृपादीनां बाणवृष्टेरवग्रहः ।। ९७५॥ पराक्रममयीं कांचिदिष्टिमिष्ट्वा भटाहुतिम् । तौ क्षणालम्भितौ शान्तिमश्वत्थामादिमिस्ततः ॥ ९७६ ॥ मूर्द्धानौ तैर्निकृन्तद्भिधृष्टद्युम्नशिखण्डिनोः । वैरिनिर्यातनं काममकारि द्रोणभीष्मयोः ।। ९७७॥ तयोनिहतयो?षरागयोरिव तैः क्षणात् । कर्मानीकमिवानेशत्यार्थीयमखिलं बलम् ॥ ९७८ ।। पञ्चानां पाण्डवेयानां द्वितीया इव मूर्तयः । पाञ्चालीकुक्षिकासारपुण्डरीकास्ततो जवात् ।। ९७९ ॥ काव्यमाला। विशिखा इव पञ्चेषोर्जगद्भिरपि दुर्जयाः । क्रुद्धाः पञ्चापि पाञ्चाला भजन्ते स्माभ्यमित्रताम् ॥ ९८० ॥ (युग्मम्) पाण्डवेयद्रुपद्रात्रौ द्रौणिप्रभृतयोऽपि ते । धावन्ति स्माधिकं क्रोधगरिष्ठभुजसौष्ठवाः ॥ ९८१ ॥ अथाभूदुभयेषामप्यमीषामितरेतरम् । विम× पत्रिभिः प्राणप्रयाणप्रवणो रणः ॥ ९८२ ॥ प्रतिप× साध्या, सम्यग्मन्त्राङ्गैरिव पञ्चभिः । कार्ष्णेयैर्न्यक्क्रियन्ते स्म द्रौणिमुख्यास्त्रयोऽपि ते ॥ ९८३ ॥ तैरथोजागरूकाभिलज्जाभिरतितर्जितैः । सारसर्वाभिसारेण प्रहर्तुमुपचक्रमे ॥ ९८४ ॥ पाञ्चालविशिखान्बाणश्रेणिद्रौणेरशोषयत् । नैदाघस्य रवैरुस्रमण्डलीव जलाशयान् ॥ ९८५ ।। पञ्चताशालिनीं शश्वद्विभ्रतामभिधामपि । काणेयानां ततश्चक्रे पञ्चतैव तदाशुगैः॥ ९८६ ॥ तच्छिरांसि क्षणाच्छित्त्वा पाण्डवेयधियैव तैः । अश्वत्थामादिभिः प्रीतैर्निन्यिरे कौरवान्तिकम् ।। ९८७ ।। वेदनातिशयान्मूर्छन्मू मुकुलितेक्षणः तत्र तैर्ददृशे श्वासमात्रशेषः सुयोधनः ॥ ९८८ ॥ सरःसलिलसेकेन प्रत्याहृत्याथ चेतनाम् । सानन्दस्य पुरस्तस्य मुञ्चन्ति स शिरांसि ते ॥ ९८९ ।। क्षणाच्चारणिकाष्ठानि ते निर्मथ्य पृथूर्जिताः । रचयांचक्रुरुयोतं घोतिताखिलभूतलम् ॥ ९९० ।। अभ्यधुश्च धराधीश छिन्नान्पञ्चाप्यमून्पुरः । पाण्डवानां क्षणं मौलीनालोक्य भव निर्वृतः ॥ ९९१॥ इत्येतया गिरा तेषां मनागुन्मथितव्यथः । पूर्वाङ्गत्यक्तभूमिस्तान्सम्यग्मौलीच्यलोकयत् ॥ ९९२ ॥ पाण्डवचरितम् ।. ५९१ तानुद्वीक्ष्य स वैलक्ष्यश्यामीकृतमुखद्युतिः । दीर्घं निश्वस्य भूयोऽपि पपात सहसा भुवि ।। ९९३ ॥ जल्पति स्म च धिग्मूखी कोऽयं युप्मत्पराक्रमः पाञ्चालाः खलु युष्माभिर्जनिरेऽमी स्तनधयाः ॥ ९९४ ॥ सन्ति दुष्टास्तु ते स्पष्टमखण्डा एव पाण्डवाः । क्व वा भाग्यानि मे तानि यैः पश्येयं हतानमून् ॥ ९९५ ।। इति मन्दं वदन्नेवातुच्छमूर्छामिराकुलः । क्रौर्यत्रस्तैरिव प्राणैस्त्यज्यते स सुयोधनः। ९६ ॥ (त्रिभिर्विशेषकम्) ते च किंकार्यतामूढबुद्धयो बद्धभातयः । परित्यज्य यथासंस्थमेव कौरवपुङ्गवम् ॥ ९९७ ॥ अश्वत्थामादयः काममन्योऽन्यस्यापि लज्जिताः । विषण्णमनसो जग्मुः क्वापि कापि पृथक्पृथक् ।।९९८॥(युग्मम्) समस्तमथ वृत्तान्तमेनं विज्ञाय कोविदः । उपेत्याख्यत्सदारस्य धृतराष्ट्रस्य संजयः ।। ९९९ ।। तन्निशम्य श्रुतिक्रोडपविपातविडम्बनम् । गान्धारी धृतराष्ट्रश्च सहसैव मुमूर्च्छतुः ॥ १०००॥ शोकामिदहमानास्थित्रटत्कार इवोच्चकैः । तत्परीवारलोकानामाक्रन्दध्वनिरुद्ययौ ।। १००१ ॥ तौ मरुद्भिनिशाशीतैश्चिरादासाध चेतनाम् । एवं परिदिदेवाते बद्धबाष्पाम्बुपलवलौ ॥ १००२ ।। हा वत्स धीरधौरेय हा मानकनिकेतन ।। हा गुणोर्वीरुहाराम हा यशःक्षीरनीरचे ।। १००३ ।। हा कौरवकुलोत्तंस हा गुरुष्वेकवत्सल । हा निःसामान्यसौजन्य हा दुराक्रमविक्रम ॥ १००४ ॥ हा कृपाणपयःपूरप्लावितारातिमण्डल । हा नताखिलभूपालमौलिमालाश्चितक्रम ॥ १००५॥ ५९२ काव्यमाला। हा दुर्योधन कुत्रावां विहाय गतवानसि । किं नामाभूद्विरोधिभ्यस्तदपीदममङ्गलम् ॥ १००६ ॥ बभूष पुरतो यस्य वासवाऽपि कृपास्पदम् । दैवादहह तस्यापि का तवेयं दशाभवत् ॥ १००७ ॥ भवन्तं हरता वीर मृत्युनाथ दुरात्मना । आकृष्टा यष्टिरेवेयमन्धयोरावयोः करात् ॥ १००८ ॥ वीर-योतेऽद्य विश्वानामेकचन्द्रमसि त्वयि । को×नातु निराधाराननुजीवितकौरवान् ।। १००९ ॥ त्वां विना नगदप्येतदद्य शून्यं बभूव नौ । शोकान्धयोर्ध्रुवयं शाश्वती भवित्ता तमी ।। १०१०॥ इत्थं विलपतोस्तार क्रन्दतोबहुमूर्च्छतोः । निघ्नं निप्रशतोर्वक्षः क्षमापृष्ठे लुठतोर्मुहुः ॥ १०११ ॥.. हालाहलयं वह्निमयं मृत्युमयं जगत् । तदाभूत्सुतशोकेन गान्धारीधृतराष्ट्रयोः ॥१०१२।। (युग्मम् इतश्च पाण्डवाः क्रुद्धं प्रसाध शितिवाससम् । तावदुद्वेपथुर्मीत्या वेगादागत्य सात्यकिः। पाश्चालादिवधोदन्तमादितस्तमचीकथत् ॥ १०१४ ।। तूर्णमाकर्ण्य तं कर्णक्रोडक्रकचकर्कशम् । शोचतः पाण्डवान्काम मुरारातिरवोचत ॥ १.१५॥ वीराः किमिव युष्माकमप्यदः स्फुरितं शुचम् । काञ्चनस्याप्यसौ किंचिन्मन्ये मालिन्यसंभवः ॥ १०१६ ॥ ज्ञातसंसारतत्त्वाश्चेद्यूयमप्यास्पदं शुचः । भविष्यत ततो नूनमादित्योऽपि तमापदम् ॥ १०१४ संभाव्य द्रौणिमुख्यानामिदमप्यतिसौप्तिकम् । स्वानीकमानयं युष्मान्बलानुनयहेतवे ।। १०१८॥ १. 'खानीकं प्रति संचेलुः सुप्रसन्नमुखश्रियः' इति भवेदिति गद्यपाण्डवचरिता- ज्ज्ञायते. ................... पाण्डवचरितम् । ५९३ पितृस्वामिवधक्रोधादयं हि द्रोणनन्दनः । श्रान्तसुप्तान्ध्रुवं हन्याधुष्मानेव चमूस्थितान् ॥ १०१९ ॥ तदेतावत्समस्तोऽयमारम्भो विफलीभवेत् । पुत्रास्तु सत्सु युष्मासु नातिदुर्लम्भसंभवाः ॥ १०२०॥ तद्विमुच्य शुचं वेगात्प्रतिष्ठध्वं च प्रति । सान्त्वयामो यथा कृष्णां पुत्रभ्रातृवधार्दिताम् ॥ १०२१ ॥ इत्यच्युतगिरा शोकं शिथिलीकृत्य पाण्डवाः । स्थानस्थानोद्यदाक्रान्दं निजं शिबिरमागमन् ॥ १०२२ ॥ तत्र भूलुठनव्यग्रामग्रतो ललितालकाम् । क्रन्दन्तीं तारतारं ते ददृशुर्द्धपदात्मजाम् ॥ १०२३ ॥ हा वत्सा हा महावीरा हा जनन्येकचेतसः । क्व नाम यूयं याताः स्थ मन्दभाग्यां विमुच्य माम् ॥१०२४॥ इत्याद्यनेकधाबद्धपरिदेवनविक्लवाम् । सान्त्वयामास कंसारिरिति द्रुपदनन्दिनीम् ॥ १०२५॥ कल्याणि वीरपत्नीनां न खल्वेष विधिः कचित् । शोकेन परिभूयन्ते ह्यल्पीयस्यः पुरंध्रयः ॥ १०२६ ॥ प्रनष्टरात्मजैराजौ लजन्ते वीरयोषितः । मोदन्ते तु श्रितैर्मृत्युमूर्वीभूतैर्विजित्य वा ॥ १०२७ ॥ बान्धवौ तव तौ धन्यौ धन्यास्ते च तनूद्भवाः । कुलैकतिलकैः प्राणान्यैस्त्यजद्भिर्निजात्रणे ॥ १०२८ ॥ दीयते म चिरं तुभ्यं न वैधव्यमखण्डितम् । चक्रे च कीर्तिरात्मीया लोकालोकावलोकिनी॥१०२९॥(युग्मम्) रक्षिता अपि हि प्राणा यास्यन्त्येव कदाप्यमी । ननु कसिंश्चिदप्यर्थे यान्ति चेत्तत्फलं महत् ॥ १०३० ॥ . बान्धवा अपि हन्यन्तां म्रियन्तां तनया अपि । नन्दन्ति दयितानां तु कुशलेन पतिव्रताः ॥ १०३१ ॥ काव्यमाला। तन्मुञ्च शुचमात्मानं संस्थापय विसंस्थुलम् । द्रुपदस्य तनूजासि श्रीपाण्डोश्च वधूरसि ॥ १०३२ ॥ इत्याद्यैर्मुरजिद्वाक्यैः पाण्डवेयानुमोदितैः । मुञ्चति स्म शनैः शोकश्यामिकां द्रुपदात्मजा ॥ १०३२ ।। अथ प्रभातकल्पायां क्षपायां शौरिपाण्डवाः । धृतराष्ट्रं सपलीकमपशोकयितुं ययुः ॥ १०३४ ॥ तत्राभ्येत्य भृशं मनौ शोकनाम्नि महार्णवे । गान्धारीं धृतराष्ट्रं च नमस्यन्ति स्म पाण्डवाः ॥ १०३५ ।। भक्तिप्रहृतरं तेषु नमस्कुर्वत्सु रोषणौ । पुनः पीनोच्छलच्छोकौ तौ पराञ्चौ बभूवतुः ॥ १०३६ ॥ पाण्डवण्वथ तत्पादतले ललितमौलिषु । वाग्मिनामग्रणीरेवं गदति स्म गदाग्रजः ॥ १०३७ ।। राजन्नमी न किं पाण्डुसूनवस्तव सूनवः । न कचिद्भक्तिरप्येषां पाण्डुतस्त्वयि हीयते ॥ १०३८ ॥ पूज्या हृदि पृथातोऽपि गान्धारी धारयन्त्यमी । कुरबोऽपि तपासूनोर्मीमादिभ्योऽपि वल्लभाः ॥ १०३९ ।। यत्तु दूरमनाख्येयमभूदेतदमङ्गलम् । तत्र मन्ये दुरात्मायं विधिरेवापराध्यति ॥ १०४० ॥ पञ्चग्राम्याप्यमी पाण्डुसुताः संघित्सवस्तदा । कौरवेण निरस्ता यदेवदौरात्म्यमेव तत् ॥ १०४१ ॥ यन्निराचक्रिरे तेन गिरो युष्मादृशामपि । हेतुस्तत्रापि जागर्ति केवलं भवितव्यता ॥ १०४२ ॥ किं च बन्धुभिरप्यातां पाण्डवेया यथा तथा । त्यजेयुर्यदि धात्रीं तल्लज्जयेयुर्न ते कुलम् ॥ १०४३ ॥ कुर्वता पुनरन्यायमयौष्माककुलोचितम् । यदि जानासि तत्कामं कौरवेणासि लजितः ॥ १०४४ ॥ । पाण्डवचरितम् । ५९५ सुता अपि सतां द्वेष्याः शत्रुवत्कलितानयाः । न्यायिनस्तु परेऽप्युच्चैवल्लभा एव पुत्रवत् ॥ १०४५ ॥ अमी तु पाण्डवाः स्फीतनयाश्च तनयांश्च ते । तदेतेषु विशेषेण प्रसत्तिं गन्तुमर्हसि ॥ १०४६ ॥ क्रमावनतमूर्द्धानो गान्धायो त्वयि चान्वहम् । भाक्तं चैते करिष्यन्ति कोरवेभ्योऽधिकां ध्रुवम् ॥ १०४७ ॥ तत्प्रसन्नं मनः कृत्वा विस्मृत्य च रुषं मनाक । उभावपि युवां दत्तं पृष्ठेऽमीषां करं मुदा ॥ १०४८॥ सर्वथाप्यस्य विश्वस्य कलय त्वमनित्यताम् । । पीडयेत्पुत्रशोकोऽपि कं हि नाम विवेकिनम् ॥ १०४९॥ . इति मन्दीकृतामर्षो गिरा दामोदरीयया । तौ पृष्ठे पाण्डवेयानां कृच्छ्रेण ददतुः करम् ॥ १०५०॥ दैवस्यैवापराधोऽयं न वो नास्मतनूरुहाम् । इत्युत्थाप्य क्रमानमानमूनालिङ्गति(तः) म तौ ॥ १०५१ ॥ व्याजहाराथ गान्धरी वत्सा महालकाः स्थ चेत् । तन्मां संग्रामसीमानमिदानी नयत द्रुतम् ॥ १०५२ ।। यथा विप्रोषितासूनां सर्वेषामात्मजन्मनाम् ।। करोमि मन्दभाग्याहमन्त्यमाननदर्शनम् ॥ १०५३ ॥ ततस्तिग्मद्युतौ पूर्वशैलशृङ्गान्तरङ्गिणि । समवस्थाप्य तत्रैव धृतराष्ट्रं कथंचन ।। १०५४ ॥ पाण्डवेयाः स्वयं भक्त्या दत्तहस्तावलम्बनाम् । उदश्रुनयनां निन्युर्गान्धारी समराजिरम् ।। १०५५ ॥ देवरीभिः समं सर्वराजन्यानां च यौवतैः । श्वश्रूमन्वचलद्भानुमती दुर्योधनप्रिया ॥ १०५६ ।। तामनेकमहावीरकरम्बनिकराङ्किताम् । वीक्ष्य युद्धक्षितिं ,तासां हृदयानि विदुद्रुवुः ॥ १०५७ ।। काव्यमाला। तासां युगपदाक्रन्दप्रतिध्वनिभिरुद्धतैः । क्रन्दन्त्य इव भान्ति स दिशस्तच्छोकविक्लवाः ॥ १०५८ ॥ गदापहारभन्नोरं(१) परिच्छदनिवेदितम् । गान्धारी सुषया सार्धं कौरवेश्वरमभ्यगात् ॥ १०५९ ।। शोणितोक्षितसर्वाङ्गानन्या अपि मृगीदृशः। उपलक्ष्योपलक्ष्य खान्वल्लभानभिशिश्रियुः ।। १०६०॥ पृथक्पृथक्परिभ्रष्टानस्राविलविलोचना । शरीरावयवान्पत्युः कापि कृच्छादमीलयत् ॥ १०६१ ॥ वक्षःपीठेऽतिसंश्लेषसक्तैः स्वस्तनकुङ्कुमैः । काप्युपालक्षयत्पत्युः कबन्धं न पुनः शिरः ॥ १०६२ ॥ अन्त्यचुम्बनसंक्रान्तात्कस्तूरीतिलकान्निजान्(त) । प्रत्यभ्यजानात्कान्तस्य काप्यास्यं न पुनर्वपुः ।। १०६३ ॥ काप्यन्तचुम्बनव्याजादभिज्ञानं प्रियानने । निजौष्ठयावकैः कृतं नापश्यद्रुधिरैस्तदा ॥१०६४ ॥ स्वकान्तवदने मौग्ध्यादन्यस्याने नियोजिते । चिरं भर्तृविवादोऽभूत्कस्याश्चित्तस्य कान्तया ।। १०६५॥ कापि सर्वाङ्गसंसक्त रक्तैरव्यक्ततां गतम् । स्वप्राणेशभ्रमादन्यमप्यालिङ्गत्पुनः पुनः ॥ १०६६ ।। मानात्काप्यन्तिमाश्लेषे निराकृत्य प्रियं पुरा । मृतं तु सखजे खागः शोचन्ती तत्पुनस्तमाम् ॥ १०६७ ॥ भर्तुरादाय मूर्द्धानं करे कायगवेषिणी । कापि क्षेत्रक्षितिं सी काली साक्षादिवाभ्रमत् ॥ १०६८॥. सापत्यार्ता पुरा पत्युः पञ्चतामप्यचिन्तयत् । तदानीं तु मृते तस्मिन्नशोचत्काचिदुच्चकैः ॥ १०६९ ॥ कान्तमङ्गे गतप्राणं चिकीर्षन्त्यो निजे निजे । तदानीमप्यभूदुच्चैः सपत्न्योः कलहो महान् ॥ १०७० ॥ 3 पाण्डवचरितम् । प्राप्य पत्युर्मुखं काचिच्चुम्बति स्म पुनः पुनः । अपरा वपुरासाद्य परिरेमे मुहुर्मुहुः ॥ १०७१ ॥ अन्यासक्तं पतिं काचित्प्रागप्राप्तोपगृहना । तदानीं तु गतस्पन्दं स्वच्छन्दं परिषखजे ॥ १०७२ ।। अङ्गमारोप्य गान्धारी ततो दुर्योधनं सुतम् । चक्रन्द तारपूत्कारं सदैन्यमिति भाषिणी ॥ १०७३ ॥ हा वत्स हा महोत्साह हा शौण्डीरशिरोमणे । हा वीररसकासार हा कुलाम्बरभास्कर ॥ १०७४ ॥ मदेकहृदयो भूत्वा पूर्वमुर्वीपुरंदर । असंस्तुत इवेदानीं नेक्षसे किं दृशापि माम् ॥ १०७५ ॥ पूर्वमाज्ञाप्य भूपालान्तत्तत्कृत्येष्वनारतम् । कामं किमपि तूष्णीको वाचंयम इवाधुना ।। १०७६ ॥ क्षित्यवेक्षणमाकान्याङिद्रां न कदाप्यगाः। किमेकहेलयेदानीं दीर्घनिद्रा निषेवसे ॥ १०७७ ।। वत्सलस्यैव ते वत्स कोपः क इव मातरि । क्रन्दन्त्यामपि येनोच्चै!त्तरं मयि दीयते ॥ १०७८ ॥ विलपन्त्यामिति खैरं गान्धार्या भानुमत्यपि । प्रियाद्री शिरसि न्यस्य रुदन्तीत्यवदन्मुहुः॥ १०७९ ॥ हा नाथ हा रिपून्माथ हा मानकनिकेतन । हा सौभाग्यामृताम्भोधे हा रूपग्लपितस्मर ॥ १०८०॥ हा कल्पपादपौदार्य हा सुधामयवाङ्मय । हा विश्वकमलादित्य हा नेत्रतुहिनद्युते ।। १०८१ ।। मांसलेऽपि व्यलीके त्वं नासंभाषं मयि व्यधाः । निळलीकामपीदानी मां न सभाषसे कथम् ॥१०८२ ॥ मदीयं यदि वा किंचिद्व्यलीकमपि मन्यसे । तदाविष्कुरु येन त्वां सद्यः प्रत्याययाम्यहम् ॥ १०८३ ॥ ५९८ काव्यमाला। चेत्प्रसन्नमना एव वर्तसे यदि वा मयि । तन्निजैर्मां निषिञ्चस्व विलोकनसुधारसैः ॥ १०८४ ॥ मां विहाय पुरा नाथ नैव लीलावनेऽप्यगाः । किमद्य परलोकाय प्रस्थितोऽसि मया विना ॥ १०८५ ॥ स्वामिन्विश्वस्य विश्वस्य नित्यमास्थाय नाथताम् । प्रयातास्म्यहमप्यद्य त्वां विना नन्वनाथताम् ॥ १०८६ ॥ ममाभूत्त्वद्विमुक्तायाः पूषाप्येष तमोमयः । जाताश्चैते दवप्रायाः स्वामिन्प्राभातिकानिलाः ।। १०८७ ॥ पतत्रिण इव ध्वस्ते कुलायजगतीरहे । किं विपन्ने त्वयीदानीं श्रयीयुरनुजीविनः ॥ १०८८।। भानुमत्यामिति स्फार क्रन्दन्त्यां करुणैः स्वरैः । दुःशल्याप्यथ गान्धारीधृतराष्ट्रतनूद्भवा ॥ १०८९ ।। दुर्योधनखसा प्राणप्रियं समरशायिनम् । आसाद्य सिन्धुभूपालं रुदती पर्यदेवत ।। १०९० ॥ (युग्म हाभिराम गुणग्राममरालकुलमानस । हा सिन्धुवनितानेत्रकैरवाकरचन्द्रमः ।।.१०९१ ।। न नामास्ति ममानृण्यं प्राणेश प्रणयेऽपि ते। महन्धोर्यत्पुनः प्राणान्खानदास्तत्र किं ब्रुवे ॥ १०९२ ॥ हा ममास्तमिते तुल्यं पितृश्वशुरयोः कुले । मण्डले दर्शयामिन्या सूर्याचन्द्रमसोरिव ॥ १०९३ ॥ यै ज्ञायि पुरा काचित्कथापि परिपन्थिनाम् । त्वां विना ते महावीर कि भविष्यन्ति सिन्धवः ॥१०९४ मित्रकृत्यमयप्राणे स्वामिन्नस्तं गते त्वयि । स्वच्छन्दमद्य मोदन्तां त्वन्मित्राणामरातयः ।। १०९५ ।। इतोप्याप्यकरं पत्युरङ्गुलीयोपलक्षितम् । इति भूरिश्रवःपल्यस्तारं परिदिदेविरे ॥ १०९६.॥ पाण्डवचरितम् । ५९९ सैषः नः स्तनकार्कश्यसुहजघनबान्धवः । नाभीदुर्ललितो नीवीमोक्षकलिकरः करः ॥ १०९७ ॥ सैष ज्याकर्षणाक्लाम्यदङ्गुलीवलयोज्वलः । कृष्टदुष्टारिवामाक्षीशिर केशोत्करः करः ॥ १०९८॥ सैष नम्रारिभूपालपृष्ठविश्रामनैष्ठिकः । समस्तार्थिचमूदत्तहिरण्यनिकरः करः ॥ १०९९ ।। एकच्छत्रामिमां धात्री यस्य खैरं वितन्वतः । कुर्वन्ति स शराः पूर्व वंशच्छेदं महीभृताम् ॥ ११० ॥ हा नाथ मथितानेकवीरकिर्मारिते रणे । सोऽपि त्वमधुना पाणिमात्रगानो विलोक्यसे ॥ ११०१॥ (युग्मम्) त्वामद्य हरता वीर वेधसा मन्दमेघसा । शृङ्गारश्च विलासश्च रतिश्च हियते स नः ।। ११०२ ।। इत्याद्यन्या अपि प्राप्य प्राणनाथं निजं निजम् । विलापतुमुलाः कामं क्रन्दतीर्मगचक्षुपः ॥ ११०३ ॥ संसारभङ्गुरीभावभावितैरमृतोपमैः । तैस्तैः संबोधयांचवे वचोभिस्तपसः सुतः ॥११०४॥ (युग्मम्) अथादेशादजातारेभूभुजां प्लवगध्वजः । आग्नेयास्त्रेण सर्वेषामग्निसंस्कारमादधे ।। ११०५ ॥ स्कन्धावार ततोऽभ्येत्य भ्रातॄणामौर्वदेहिकम् । सहैव धृतराष्ट्रेण पाण्डवेया वितेनिरे ॥ १९०६ ॥ ताभिस्ताभिः क्रियाभिश्च शोकमाक्षिप्य तत्क्षणात् । वितीर्णविनयादेशं सहायीकृत्य सात्यकिम् ॥ ११०७ ॥ धृतराष्ट्र समं ताभिः समस्ताभिः पुरधिभिः । प्रेषयामास नगरं धर्मभूनागसाह्वयम् ॥ ११०८ ॥ (युग्मम्) अन्वेषणीयाः खयमेव तावत्प्रजाः प्रतीक्षैः प्रयतैरजनम् । यावज्जरासन्धवधं विधाय हरेर्निदेशादहमभ्युपैमि ॥ ११०९॥ काव्यमाला। विज्ञप्तिमेवं चरणप्रणामपूर्व जयोदन्तपुरःसरं च । प्रयास्यता सात्यकिना तदानीं तपःसुतः कारयति स्म पाण्डोः१११ इत्थं क्रोधाद्विधाय प्रधनभुवि रिपुत्रातकल्पान्तमन्तः प्रीतिं तां तां वहन्तः पुनरवनिपरीभोगलाभप्रसूताम् । तुष्टिं पुष्टामरिष्टद्विषति रचयितुं मागधक्षोणिभर्तुः संहारेणाथ तस्थुः किसलयितमहस्ताण्डवाः पाण्डवेयाः ॥११११ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये कौरवयुद्ध- वर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः । दुर्योधनवधक्रुद्धमगधेशनिदेशतः । दूतः समेत्य वाक्पूतः कंसारातिमथाभ्यधात् ॥ १॥ समाप्य कौरवान्दृप्यः कृष्ण मा स्म मनागपि । त्रिखण्डाखण्डलो यावद्विजयी मगधेश्वरः ॥ २ ॥ प्रियं जामातरं कसं सुहृदं च सुयोधनम् । अत्युत्सुकोऽयमाक्रष्टुं द्वावप्येतौ तवोदरात् ।। ३ ।। किंतु त्वां व्याहरत्येषा पिच्छिला शोणितोर्मिभिः । अनेकाक्षौहिणीरुण्डैर्भूरियं स्थपुटापि च ॥४॥ ततस्त्यक्त्वा कुरुक्षेत्रं संपरायक्षमक्षमे । सनपल्याह्वये ग्रामे संग्रामस्त्वावयोरयम् ॥ ५॥ विस्फुरच्छपरीनेत्रा तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नाप्रसन्नाम्बुरियमेव सरखती ॥ ६॥ इत्युक्त्वा विरते दूते सावज्ञं केशवोऽब्रवीत् । बुभुक्षितानामसाकमामन्त्रणमिदं वचः ॥ ७ ॥ जज्ञे नाद्यापि महाहोः सौहित्य कसकौरवैः । विधास्यति जरासन्धः पुनस्तदधुना ध्रुवम् ॥ ८॥ तत्रैते वयमायाता एव सोऽप्येतु सत्वरम् । एवमाख्याय तं दूतं विससर्ज जनार्दनः ॥ ९॥ दूतोऽभ्येत्य जरासन्धं धराधीशं व्यजिज्ञपत् । सर्वो देव तवादेशः केशवाय निवेदितः ॥ १० ॥ ततोऽप्यधत्त भूपालः किंचित्सोमक पृच्छ्यसे । ब्रूहि गोपः स किंरूपः किंबलः किंनयोऽपि वा ॥ ११ ॥ वक्त प्रचक्रमे सोऽथ यथादृष्टं निगद्यते । विध्यान्मयि देवश्चेन्नाप्रसादस्पृशो दृशः ।। १२ ।।' वपुष्मदिव शोण्डीर्यमुत्साहो देहवानिव । संगताङ्ग इवानङ्गः स गोपो देवरूपतः ॥ १३ ॥ तद्दर्शनादरीणां च नारीणां च पदे पदे । आत्मविस्मारकः कोऽपि वेपथुः प्रथतेतमाम् ॥ १४ ॥ न देवस्य समः कश्चित्सेनया चतुरगया । किंतु सूराः सगोत्राश्च सर्वेऽत्यल्पेऽपि तहले ॥ १५ ॥ योऽस्य बन्धुः कनिष्ठोऽस्ति समुद्रविजयात्मजः । अरिष्टनेमिभगवान्सोऽरिष्टं द्विष्टभूभुजाम् ॥ १६ ॥ किं ब्रूमो विक्रमं तस्य स्खकीये लीलयैव यः । दोर्दण्डशिखरे धात्रीं छत्रीकर्तुमपि क्षमः ॥ १७ ॥ यस्तु ज्यायांस्तयोर्बन्धुर्बलदेव इति श्रुतः । अपूर्वः पूर्वनष्टानां वैरिणां शरणं रणे ॥ १८॥ ततो वैरिवरूथिन्यामेतेऽतिरथयस्त्रयः । तदीयतनुजन्मानः कोटिशस्तु महारथाः ॥ १९ ॥ कृतज्ञास्तनयाः पाण्डोरुड्डामरतरौजसः । प्राणैरपि प्रियं क समीहन्तेऽधुना हरेः ॥ २०॥ तारकैरिव नः सैन्यैः सूर्याचन्द्रमसाविव । तेजखिनौ सहिष्येते कथं भीमार्जुनौ युधि ॥२१॥ उत्पातपवनेनेव रणे कीचकवैरिणा । क्षिप्ताः पांशुचयक्षेपं प्रेक्षिताः कैर्न कौरवाः ॥ २२ ॥ '७६ ६०२. काव्यमाला। आस्माकीनध्वजिन्यां तु त्वमेकोऽतिरथिः परम् । येऽप्यन्ये सन्ति राजन्यास्तेऽपि नैव निजास्तव ॥ २३ ॥ सहोदयव्ययाः पत्रपुष्पप्रायास्तरोनिजाः । भृङ्गास्तु बहिरायाताः खलोभेनेव सेवकाः॥२४॥ विष्णोः षाड्गुण्यनैपुण्यं देवो वेद खयं पुरा । पलायामास यत्कंसं हत्वा जामातरं तव ॥ २५॥ तदा हि वाहिनीसिन्धोर्देवस्याभिमुखोऽभवत् । विष्णुर्निर्नाम निर्मज्जन्केन रक्ष्येत संयुगे ॥ २६ ॥ त्वां विज्ञाय बलीयांसमात्मानमवलं पुनः । विष्णुरात्मपरित्राणं पलायनममन्यत ।। २७ ।। पारावारोपकण्ठे च नव्या द्वारवती पुरीम् । प्राप्य देवकृतां दैवमज्ञासीदानुकूलिकम् ॥ २८॥ इदानीं तु समासाद्य कोटिशः सुभटान् सुतान् । बान्धवं नेमिनाथं च सोऽप्यागात्सायुगीनताम् ॥ २९ ॥ तदस्याधिक्यमसत्तो बलेन च नयेन च । भरतार्धशुभोदर्कस्तस्मान्नायमुपक्रमः ॥ ३० ॥ खामिन्नस्मा रारम्भाद्विमृश्याशु विरम्यताम् । माभूदभूतपूर्वस्ते चिरादाजी पराजयः ॥ ३१॥ निशम्य सोमकस्यैनां गिरं गीतारिविक्रमाम् । अभ्यधान्मगधाधीशः क्रोधारुणविलोचनः ॥ ३२ ॥ आः सोमक त्वमप्येवं जिह्वां नालोच्य जल्पसि । भरतार्धपतिः काहं क च गोपोऽब्धिकच्छपः ॥ ३३ ॥ किं लज्जितोऽसि नोत्कर्षान्मृगेन्द्रान्मृगधूर्तकम् । अयमुन्मूल्य गोपालं कुर्वे निष्कण्टका महीम् ॥ ३४ ॥ इत्याक्षिप्य तमुत्तालः कालः प्रत्यवनीभुजाम् । आदिदेश विशामीशः प्रयाणाय पताकिनीम् ॥ ३५ ॥ ६०३ पाण्डवचरितम् । अथानीतद्विषद्दैन्यात्सैन्यान्मगधभूपतेः । एत्याप्तचेतसश्चाराः शशंसुः कसविद्विषम् ।। ३६ ॥ देव दर्पात्तवारातिः स्फीतबाहुबलैबेलैः । सनपल्लीसमीपस्थामुपतस्थे सरस्वतीम् ।। ३७ ।। किंतु धातुर्विपर्यास इव तस्यावसीयते । प्रतीपः सांप्रतं येन मान्यानप्यवमन्यते ।। ३८॥ हितमप्यहितं मित्रमप्यमित्रस्तव द्विषः । भागधेयविपर्यासात्संप्रति प्रतिभासते ॥ ३९ ॥ सनपल्यां ततो गत्वा देव गृह्णातु कार्मुकम् । मगधानामधीशोऽयं यातु जामातुरन्तिकम् ॥ ४० ॥ तदाकर्ण्य मुकुन्दोऽपि कुन्दोज्वलमुखाम्बुजः । प्रतिष्ठते स देवक्या कृतप्रस्थानमङ्गलः ॥ ४१॥ जरासन्धेन योद्धव्यमिदानी कृष्णवैरिणा। इति प्रस्मरोत्साहाः प्रचेलुः पाण्डुसूनवः ।। ४२ ॥ औदासीन्यादसंपूर्णकौतुकाः कौरवाहवे । पुरो बभूवुरौत्सुक्यात्कुमारा मुरविद्विषः ॥ ४३ ॥ उपाजगाम संग्राममहोत्सवसमुत्सुका । सनपल्लीवनान्तेषु जनार्दनपताकिनी ॥ १४ ॥ आकर्ण्य मगधेशेन चक्रव्यूह प्रकल्पितम् । निबिडं गरुडव्यूहं कारयामास केशवः ॥ ४५ ॥ ये पुरा वसुदेवेन वैताब्ये संचरिष्णुना । सहस्ररुपकाराणां मित्रतामुपनिन्यिरे ॥ ४६॥ तेऽथ साहाय्यमाधातुमाहवक्षमबाहवः । समुद्रविजयं भूपमुपाजग्मुर्नभश्चराः ॥ १७ ॥ (युग्मम्) ते प्रणम्य सुखासीना यदुराजं व्यजिज्ञपन् । सन्ति विद्याधराः केचिद्देव त्वदरिपाक्षिकाः ॥ १८ ॥ ६०४ काव्यमाला। संप्रत्यप्रतिमल्लास्ते समस्तध्वजिनीयुताः । जरासन्धमुपस्थातुं निजस्थानात्प्रतस्थिरे ॥ ४९॥ दन्तावलघटाभीष्मैर्भविता मगधेश्वरः । मिलितैस्तैस्तमःस्तोमस्तोयदैरिव दुर्जयः ॥ ५० ॥ तद्देव वसुदेवस्तान्प्रेष्यतां रोद्धमुद्धतान् । पक्षच्छेदो विपक्षस्य नीतरुपनिषत्परा ॥ ५१ ।। धृत्वा विज्ञापनामेनां हृदि यादववासवः । वैताढ्ये विक्रमेणाढ्यं प्रैषीदानकदुन्दुभिम् ।। ५२ ॥ सुतौ प्रद्युम्नसाम्बौ च समस्तांस्तांश्च खेचरान् । प्रस्थितेन समं तेन जयाय विससर्ज सः ॥ ५३ ।। या नितान्तमरातीनामायुधौघविधातिनी । मेरोर्जन्ममहे बाहौ बद्धपूर्वा सुपर्वभिः ॥ ५४ ॥ . सा भुजे वसुदेवस्य प्रस्थितस्य महौषधी । अबध्यत खहरतेन हृष्टेनारिष्टनेमिना ।। ५५॥ (युग्मम्) याते विजययात्रायां वेगादानकदुन्दुभौ । महेन्द्रसारथिनेमिमेत्य मातलिरब्रवीत् ।। ५६ ।। स्वामिन्नूचेऽहमाहूय मघोना जातु मातले । बान्धबार्थेऽस्ति युद्धार्थी नेमिभविंशतीर्थकृत् ॥ ५७ ॥ दिव्यशस्त्रौघसंपूर्ण भन्मवैरिमनोरथम् । रथं सवज्रसंनाहं गृहीत्वा त्वं ब्रज द्रुतम् ॥ ५८ ॥ तदारोहत्विमं खामी गुणमाणिक्यरोहणः । इति विज्ञापनां तस्य कृतार्थीकृतवान्प्रभुः ॥ ५९॥ सभुजास्फोटसुभटौ गर्जदूर्जस्विकुञ्जरौ । उलुतौ योद्धमन्योन्यं व्यूहौ तावथ चेलतुः ।। ६० ॥ पीवरा यहेषाभिरूर्जिता गजगर्जितैः । नभो बधिरांचक्रुश्चमूविश्वासनिखनाः ॥ ११ ॥ पाण्डवचरितम् । ६०५ रणत्तूर्यनिनादेन द्विगुणोत्साहसंपदाम् । शूराणां वज्रसंनाहसंधयः शतधा ययुः ॥ ६२ ॥ पाञ्चजन्यो मुकुन्देन देवदत्तः किरीटिना । कीर्तिवैतालिकौ शङ्खौ दध्माते मधुरध्वनी ॥ ६३ ॥ उभयन्यूहवर्तिन्योरन्योन्य स्पर्धमानयोः । संग्रामोग्रपताकिन्योः प्रावर्तत भयंकरः ॥ ६४ ।। सर्वतः परिवीतार्कव्यूहयोरुभयोरपि । शरैः प्रसूमरैर्विश्वमेकच्छन्नमजायत ।। ६५ ।। मगधेश्वरशौण्डीरैर्गोविन्दस्याग्रसैनिकाः । ऊर्जस्विभिरभज्यन्त गजैः प्रतिगजा इव ॥ ६६ ॥ ते पलाय्य स्फुरल्लज्जाः केशवं शरणं ययुः । तान्सोऽप्याश्वासयामास त्रिपताकेन पाणिना ।। ६७॥ अथोच्चै रोहिणीसूनुर्निजगाद गदाग्रजम् । इतरैरेष दुर्भेदश्चक्रव्यूहश्चिरादपि ।। ६८ ॥ ततो दक्षिणतो नेमिर्वामतः कपिकेतनः । मुखे पुनरनाधृष्टिमिन्दन्त्वेनं महौजसः ॥ ६९ ॥ एवमुक्तेन कृष्णेन न्ययुज्यन्त त्रयोऽपि ते । प्रावर्तन्त तथा कर्तुमेतेऽपि तपनद्युतः ॥ ७० ॥ अरसन्धिषु नाभौ च सबै निर्जित्य राजकम् । चक्रव्यूहं द्विधा चक्रुः समं तेऽरिमनोरथैः ।। ७१ ॥ तेषामनुपदं तत्र सैन्यानि विविशुः क्षणात् । पृष्ठतो यूथनाथानां यूथानीव वनान्तरे ॥ ७२ ॥ ऊर्जखलमुजौर्जित्यस्तैर्मागधमहीपतेः । बलं विलोडयांचक्रे गरिव महासरः ।। ७३ ॥ समं नेमिजिनेन्द्रेण गजेन्द्रेणेव कुक्कुरः । कुरङ्ग इव सिंहेन रुक्मी योद्धुमढौकत ॥ ७४ ।। काव्यमाला। विक्रमोपक्रमस्तस्य जिने विफलतां ययौ । खद्योतस्येव मार्तण्डमण्डले द्युतिडम्बरः ॥ ७५ ॥ गुरुः कोदण्डटंकारः सलीलं नेमिनिर्मितः। रुक्मिणः कर्णमभ्येत्य पलायनमुपादिशत् ॥ ७६ ॥ अपरेऽपि परोलक्षाः क्षोणिपाला बलोद्धताः। सममेवोदतिष्ठन्त जिनं योधयितुं मदात् ॥ ७७ ॥ अविधित्सुर्वधं तेषां देवः कारुण्यसागरः । दिव्यमापूरयामास शङ्ख विख्यातविक्रमः ॥ ७८ ॥ तेन शङ्खनिनादेन कर्णजाहोपगृहिना । द्विषां पाणितलात्पेतुरायुधान्यखिलान्यपि ।। ७९ ॥ ते समुच्चितशौण्डीर्यव्यापाराः पुरतः प्रभोः । निनिमेषशस्तस्थुरालेख्यलिखिता इव ।। ८० ॥ हिरण्यनाभमुख्यानां पेष्टुं विद्विष्टभूभुजाम् । अनाधृष्टिरधाविष्ट करिणामिव केसरी ॥ ८१ ॥ तदा युयुधिरे तेऽपि सर्वे सर्वात्मना तथा । भाले रामानुजस्यापि खेदः प्रादुरभूद्यथा ॥ ८२ ।। अश्वीयसंकटे तस्मिन्मिहिरोऽपि महाहवे । शरप्रहारभीत्येव पांशुवर्मावृतोऽभवत् ।। ८३ ।। छिन्नप्रोच्छलितैर्दूर चामीकरमयैर्ध्वजैः । अजायत तदानीं द्यौरुल्काभिरिव संकुला ।। ८४ ॥ रुधिरासवसौहित्यमार्गणाः पार्थमार्गणाः । कृपणे रिपुभिर्नष्टैर्न नीता कृतकृत्यताम् ॥ ८५ ॥ पार्थस्य खुरलीमात्रमभवत्कौरवाहवः । बाह्वोरिष्टमपूरिष्ट जरासन्धरणः पुनः ॥ ८६ ॥ संधानाकृष्टिविच्छेदविषये तस्य लाघवम् । दृष्ट्वा सुमनसो व्योनि सत्यं सुमनसोऽभवन् ।। ८७ ॥ ६०७ पाण्डवचरितम् । असह्यस्तावदेकोऽपि रिपुभिः कपिकेतनः । पौरुषोष्मलदोर्दण्डः किं पुनर्बन्धुभिर्युतः ॥ ८८ ॥ गदया ताडयामास भीमः प्रत्यर्थिपार्थिवान् । पक्षोन्निद्रबलानिन्द्रः पविना पर्वतानिव ॥ ८९ ॥ अथोत्थितं (ते) रणव्योमद्युमणौ धर्मनन्दने । परैर्वान्तायितं कैश्चिकैश्चित्तारागणायितम् ॥ ९० ।। जरासन्धस्य राजन्याञ्जन्ये हिंसन्नहीनिव । प्रशस्यदर्शनश्चक्रे नकुल खकुलोचितम् ॥ ११ ॥ दिदेव सहदेवोऽपि संग्रामफलके तदा । रुन्धन् शारानिवारातीन्वश्यैरक्षैरिवेषुभिः ।। ९२ ।। इत्थं पाण्डुसुतैश्चण्डभुजदण्डपराक्रमैः । लम्भिताः शत्रवः केचिदाशु कीनाशदासताम् ॥ ९३ ॥ केचिच्च निशितैर्बाणैर्गमिता दक्षिणेमताम् । अवनीशयनीयेषु शोणितामे॒षु शायिताः ॥ ९४ ॥ शेषास्तु मुषितोत्साहाः प्रापिताः प्राणसंशयम् । हिरण्यनामं शरणं सेनान्यं समुपाययुः ॥ ९५ ॥
- तानवस्थाप्य दुर्वारशौण्डीर्यः स्थैर्यमन्दरः।
सोऽथ यादवयादांसि ममर्द समराम्बुधौ ।। ९६ ॥ यदुसेनापरिवृद्वैः सोढः प्रौढबलैरपि । न तस्य समरारम्भः सिंहस्येव मताजैः ।। ९७ ॥ केचिन्नेमिजिनाधीशं केऽप्यनाधृष्टिमञ्जसा । हिरण्यनाभतो भीताः शरणाय -रणाद्ययुः ॥ ९८॥ यादवेन्द्रच वीक्ष्य प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य धीरं भीमोऽभ्यधाद्वचः ।। ९९॥ जरासन्धचमूनाथ किं मनासि वृथा बलम् । मामेहि येन दोर्दण्डकण्डूमपनयामि ते ॥ १० ॥ काव्यमाला। इत्याहूतः स भीमेन मैनाक इव वेगतः । प्राविशत्पक्षरक्षार्थी वेगात्संगरसंगरम् ॥ १०१ ॥ प्रावर्तत तयोः पूर्वं महाबाहोः शराशरि । निष्ठितायुधयोरासीन्मुष्टीमुष्टि ततः परम् ।। १०२ ॥ जरासन्धस्य सेनान्यं भीमस्तामनयद्दशास् । लम्भितौ हरिरामाभ्यां यां प्राकाणूरमौष्टिकौ ॥ १०३ ॥ पुरा दुःशासनेनापि नह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्णनाभो मुष्टीः सहेत ताः ॥ १०४ ।। मागधक्ष्मापतेस्तस्मिन्पतिते पृतनापतौ । अनीककानन दग्धं यादवैस्तद्दवैरिव ॥ १०५ ॥ यादवध्वजिनीशानां खदोर्दर्पस्पृशामपि । पौरुषोत्कर्षसानन्दाः पेतु मे दृशस्तदा ॥ १०६ ॥ किमस्ति कचिदन्योऽपि कोऽपि भीमोपमो भटः । इति चालोकितुं भानुः प्रापवीपान्तरं तदा ॥ १०७ ॥ विहाय समरारम्भमुभयोरप्यनीकयोः । स्वाम्यादेशेन भूपालाः प्रदोषे शिबिरं ययुः ॥ १०८ ॥ एकच्छत्रं मुदामासीत्स्कन्धावारे मुरद्विषः । जरासन्धस्य तु शुचामहो विलसितं विधेः ॥ १०९ ॥ अनाधृष्टिसमाख्यातबाहुपौरुषसंपदः । प्रीतेनाभिसभं राज्ञा समालिङ्गयन्त पाण्डवाः ॥ ११०॥ हते हिरण्यनाभेऽथ प्रनश्यद्धैर्यवैभवः । शुशोच मगधाधीशः सहायाः खल दुर्लभाः ॥ १११ ।। ततः प्रातः पुनः प्राप्तधीरिमा मगधेश्वरः। शिशुपालमहीपालं सेनानीत्वेऽभ्यषिञ्चत ॥ ११२ ॥ स्वयमन्यात्तसंनाहः संयुगोत्साहदुःसहः । उदूढशस्त्रमारूढः स्यन्दनं साम्परायिकम् ॥ ११३ ॥ पाण्डवचरितम् । अद्य स्यादजरासन्धमकृष्णं वा महीतलम् । इत्थं संधानुसंधानग्रहिलीकृतमानसः ॥ ११ ॥ कीनाशावाससंवासप्रतिभूमिः पदे पदे । यमदूतैरिवोल्लुण्ठैर्दुनिमित्तैरुरीकृतः ॥ ११५ ॥ क्व रे कृष्णः क्व रे कृष्ण इत्युच्चैाहरन्मुहुः । उद्धतो मगधस्वामी वेगात्संयुगमाययौ ।। ११६ ॥ (चतुर्भिः कलापकम् ) विरचय्य पुनश्चक्रव्यूहमव्याहतोर्जितः । बभज यादवोद्यानं मदान्धश्चेदिपद्विपः ॥ ११७ ॥ ततो यादवसेनानीर्मद्श्चेदिपतेश्चमूम् । विदधद्धनुराकृष्टिमनाधृष्टिरधावत ॥ ११८ ॥ नृपा दशसहस्राणि ये चेदिपसमीपगाः । रुरोध ताननाधृष्टिः कुञ्जरानिव केसरी ॥ ११९ ॥ तद्वधव्यप्रमालोक्य यदुराजचमूपतिम् । उत्तालः शिशुपालस्तु तत्रागाद्यत्र केशवः ।। १२० ॥ अभ्यधाच्च तमित्युच्चैः कृष्ण निष्णोऽसि संयुगे। तत्किंचिदायुषं धत्व यचे त्राणाय जायते ॥ १२१ ॥ हसन्नुवाच गोविन्दो माद्री माता तवेहशी। दुःसहा अपि सोढामि कामं वाग्विषविषुषः ।। १२२ ॥ अपराधशतेनापि न क्रोधं देवि ते सुते । कर्तास्मीति मया यस्मात्प्रतिपन्नं पितृवसुः ॥ १२३ ॥ पर शतापराधं त्वामिदानीं तु समापयन् । मनागपि भविष्यामि नोपालभ्यः पितृस्वसुः ॥ १२ ॥ इति कृष्णे वदत्येवं निस्त्रपश्चेदिपस्तदा । विततार शरैरेव प्रत्युत्तरमनुत्तरैः ।। १२५ ॥ काव्यमाला। तस्य बाणावलीं छित्त्वा विश(स)च्छेदं जनार्दनः । चिच्छेद धनुषो जीवां जीवातुमिव तेजसाम् ।। १२६ ।। उपादाय परं चापमसौ यावदयुध्यत । तावत्कृष्णोऽस्य राज्यश्रीनिकेतं केतुमच्छिदत् ।। १२७ ।। ममन्थ सारथिं रथ्यात्रथं चैतस्य केशवः । बलिना स्पर्धमानस्य न्यकारो हि पदे पदे ॥ १२८ ॥ असिखेटकहस्तेन भूयस्तेनोत्थितं रणे । कंसविध्वंसनोऽप्येनं नन्दकेनाभ्यपद्यत ॥ १२९॥ अभूत्कुतूहलोत्थास्नुदिविषत्परिषत्तयोः । परस्परहढाघातभमप्रहरणो रणः ॥ १३० ॥ हरिं जघान निःशङ्कमानसो दमघोषजः । तं पुनर्जातसंबन्धबद्धापेक्षमधोक्षजः ॥ १३१ ।। तमथारिष्टमथनो निष्पिष्टमुकुटं व्यधात् । आचकाङ्क्ष शिरश्छेत्तुं तस्य चेदिपतेः पुनः ॥ १३२ ॥ शिरच्छेद्योऽयमित्यात्तनिश्चयश्चैद्यमच्युतः। खड्जदूतमुखाच्चके कंसस्य परिचारकम् ।। १३३ ।। शिशुपालवधालोककल्लोलितरुषा ततः । अगस्ती(स्त्या)यितुमारेमे युद्धाब्धौ प्रतिविष्णुना ॥ १३४ ॥ संनद्धः संमुखीभूय भूयः क्षितिपसंकुलाम् । दृष्ट्वा यदुचमूं सोऽथ दूतं पप्रच्छ सोमकम् ।। १३५ ॥ दूत्येन गतवानेतानुर्वीशान्दृष्टपूर्यसि । नामप्राहम तन्मे सर्वानाख्यातुमर्हसि ॥ १३६ ॥ अथाख्यत्सोमकः खामिन्सैन्यनाभो नृपः पुरः । समुद्रविजयः वर्णवर्णाश्वोऽयं हरिध्वजः ।। १३७ ।। अस्य सूनुर्जगन्मान्यो निःसीमभुजविक्रमः । अयं तु शुकवर्णाश्वोऽरिष्टनेमिषध्वजः ॥ १३८ ॥ पाण्डवचरितम् । सेनाग्रे धवलैरश्वैः कृष्णोऽयं गरुडध्वजः । नवीन इव जीमूतो बलाकाभिरलंकृतः ॥ १३९ ॥ अस्य दक्षिणपक्षस्थोऽरिष्टवर्णैस्तुरङ्गमैः । रामस्तालध्वजः सोऽयं हिमवानिव जङ्गमः ॥१०॥ नीलाश्वेन रथेनैष पाण्डुसूनुयुधिष्ठिरः । धनंजयः पुनरयं रथेन श्वेतबाजिना ॥ १४१॥ नीलोत्पलदलामाश्वरथस्त्वेष वृकोदरः। कृष्णाश्वेन रथेनायमनाधष्टिर्गजध्वजः ॥ १४२ ॥ अयं च शबलैरश्वैरक्रूरः कदलीध्वजः । महानेमिकुमारोऽयं कुमुदाभैस्तुरङ्गमैः ॥ १४३ ॥ उग्रसेनः पुनरयं शुकतुण्डप्रभैहयैः । एष तित्तिरकल्माषैः सात्यकिस्तु तुरङ्गमैः ॥ १४४ ॥ जराकुमार कनकपृष्ठाश्वोऽयं मृगध्वजः । मेरुः कपिलरक्ताश्वः शिशुमारध्वजस्त्वसौ ॥ १४५॥ काम्बोजैर्वाजिभिश्चायं सिंहला लक्ष्णरोमसूः । पद्माभैर्वाजिमिश्चैव राजा पद्मरथः पुरः ॥ १४६ ॥ पञ्चपुण्ड्रैर्हयैरेष कुम्भकेतुर्विदूरथः। पाराप(व)तसमाश्वोऽयं सारण: पुष्करध्वजः ॥ १४७ ।। बहवो यदवोऽन्येपि नानारश्रयध्वजाः । सन्त्येते न तु शक्यन्ते सर्वेऽप्याख्यातुमाख्यया ॥ १४८ ॥ तदाकर्ण्य जरासन्धः प्रवृद्धोत्साहसाहसः। मन्यमानस्तृणायैतानमृगाद्यादवी चमूम् ॥ १४९॥ बभार भारतेर्धेशक्लेशितं यादवं बलम् । मत्तमातङ्गनिर्लननलिनीवनविभ्रमम् ॥ १५० ॥ - हतस्तम्बेरमस्तोममस्तंनीततुरङ्गमम् । भग्नस्यन्दनसंदोहदुरासदपदक्रमम् ।। १५१ ॥ ६१२ काव्यमाला। प्रहारप्रोषितप्राणसुभटस्थपुटक्षिति । नेव्यनिर्यदसृक्कुल्यासिक्तमागधसंमदम् ॥ १५२ ॥ पराजयनितान्तार्तकुशार्तवसुधाधिपम् । मानमर्दनसंपन्नसमरावेशकेशवम् ॥ १५३ ॥ नृत्यत्कबन्धनिध्यानतच्यानत्रिदशाजनम् । अरिष्टनेमिरैक्षिष्ट स्वसैन्यं सान्द्रया दृशा ॥ १५४ ॥ (चतुर्भिः कलापकम्) व्याजहार कुमारं तं प्राञ्जलिर्मातलिस्ततः । पश्य देव त्वमेवासि संयुगेऽस्मिन्न गंजितः ॥ १५५ ॥ इदं निर्मथितं नाथ सैन्यं ते परिपन्थिना । तदेवं देव किं युक्तं निजं पक्षमुपेक्षितुम् ॥ १५६ ॥ भवेद्यद्यपि सावर्च कर्मेद निर्ममस्य ते । रथं तथापि वृत्रारेः किंचिदेनं कृतार्थय ॥ १५७ ॥ इति मातलिविज्ञप्तः कुमारोऽप्यकुतोभयः । आखण्डलकराकल्पमधिज्यं धन्व निर्ममे ॥ १५८ ॥ कृत्तिद्वषदहंकारटंकारस्तस्य धन्वनः । व्यानशे रोदसी कालमहिषध्वनिभीषणः ।। १५९ ॥ शङ्ख चापूरयन्नेमिर्दिक्कुक्षिभरिनिखनम् । यच्छन्मूर्छालतां सोऽभूदैत्यानामपि दुःसहः ।। १६० ।। लक्षं विपक्षक्षितिपा योद्धारस्तत्र येऽभवन् । स्तम्भितास्तेऽभितस्तेन ध्वनिना धन्वशङ्खयोः ॥ १६१ ।। अथाह मातलिनेमि विस्मितः समितस्तदा । लीलयैव त्वया देव जिग्ये वैरिचमूरियम् ॥ १६२ ॥ एनं पुनर्जरासन्धं मदान्धं स्वभुजौजसा । यादवक्षोदनिक्षोभक्षमोऽपि किमुपेक्षसे ।। १६३ ।। ततो विभेद वाड्मुद्रां समुद्रविजयाङ्गजः । असौ राजन्यरोधोऽपि नोचितः सूत मादृशाम् ।। १६४ ॥ पाण्डवचरितम् । किंतु बन्धूपरोधेन नीतोऽस्मि रणधुर्यताम् । किं नामैता न बाधन्ते दुर्धरा मोहवीचयः ॥ १६५ ॥ किं चायं शाश्वतो भावः सदा सर्वत्र निश्चितः । संयुगे यन्निहन्तव्या विष्णुभिः प्रतिविष्णवः ।। १६६ ।। अचिरेणैव सोऽप्यर्थो भविता पश्यतस्तव । इति नेमिर्ब्रूवन्नेवं स्वां संस्थापितवांश्चमूम् ॥ १६७ ॥ ततस्तथेरयांचक्रे शक्रसारथिना रथः । यथा शरिवरूथिन्यां पुरः सर्वैरवैक्ष्यत ॥ १६८॥ अथालोक्य जरासन्धो यवनादिसुतक्षयम् । विकटभ्रूकुटीबन्धः कैटभारातिमभ्यगात् ॥ १६९॥ दृप्तैरेकोनसप्तत्या जरासन्धसुतैरथ । पितुरग्रेसरैर्भूत्वा रुध्यते स जनार्दनः ॥ १७० ॥ शोणदृष्टिपुटैरष्टाविंशत्या तु हलायुधः । संग्रामयितुमारेभे सरभः सिंहकैरिव ॥ १७१ ॥ सावहेलमुदस्तेन हलेन मुसलेन च । अमून्मशकनिष्पेषं निष्पिपेषाप्रजो हरेः ॥ १७२ ॥ तद्वधोच्छलितक्रोधप्रबोधो मगधेश्वरः । निर्दयो गदया रामं ताडयामास वक्षसि ॥ १७३ ।। तत्प्रहारव्यथादौस्थ्यादसृक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि हाहारावं च वाहिनी ॥ १७४ ॥ प्रजिहीर्षुं पुना रामे निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात्स्खलयामास फाल्गुनः ॥ १७५ ॥ अर्जुनस्य शितैर्बाणैर्बाधितो मागधस्तदा । तदेकोपज्ञमज्ञासीत्कौरवारामसंक्षयम् ॥ १७६ ॥ गदाप्रहारबैधुर्यं पश्यत्रामस्य केशवः । सर्वांस्तानन्तयांचक्रे तनूजान्मगधेशितुः ॥ १७७ ॥ ६१४ काव्यमाला। तन्निशुम्भनसंभूतप्रभूताक्षेपदुःसहम् । माधवं मगधाधीशः समेत्य सविधेऽभ्यधात् ।। १७८ ॥ रे गोपाल ध्रुवं कालः कृतक्रोधोदयोऽधुना। आकर्षति जरासन्धः कंसमुख्यास्तवोदरात् ॥ १७९ ॥ समादत्स्व किमप्यस्त्रमात्मत्राणैककारणम् । अनायुधमसंनाहं नाहमाहन्मि जातुचित् ।। १८० ॥ दृष्टभर्तृवधा दृष्ट्वा वधं तद्वधकस्य ते । सुता जीवयशा मेस्तु प्रतिज्ञापारदृश्वरी ॥ १८१ ॥ विब्रुवन्तमिति क्रोधाद्विरोधिनमनेकधा । मनागप्यकृतक्षोभस्तं जगाद जनार्दनः ।। १८२ ।। राजन्यदात्थ तत्तथ्यं सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किंतु ज्वलद्वहिप्रवेशनात् ॥ १८३ ॥ इति तं व्याहरन्नेव प्रेरितः शकुनैः शुभैः । हरिः सरभसोऽभ्येत्य प्रतिजग्राह मार्गणैः ॥ १८४ ॥ जरासन्धो धनुर्दण्डादथ प्रसृमरैः शरैः । भयं यदूनां विदधे पिदधे चार्कमण्डलम् ॥ १८५ ॥ चित्रांस्तान्पत्रिणः शनोमूर्तानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्खण्डयामास केशवः ।। १८६ ।। रामरावणसंग्रामदृश्वनां खर्निवासिनाम् । अजायत तयोर्युद्धे ताडगेव रसः पुनः ॥ १८७ ॥ शस्त्रं यद्यजरासन्धो मोक्तुमैक्षदधोक्षजे । मार्गणैस्तत्तदप्राप्तमोक्षं चिच्छेद स क्षणात् ॥ १८८ ।। अपूर्वसंयुगालोककौतुकाकुलमानसैः। खेचरै, रचयांचक्रे कलः कलकलो दिवि ॥ १८९ ॥ मुरारेः प्रतिपक्षास्त्रैरस्त्राणि मगधेशितुः । विधीयन्ते स्म बन्ध्यानि ध्वान्तानीव रवेः करैः ।। १९० ॥ . पाण्डवचरितम् । ६१५ केतुच्छेदशरच्छेदजीवच्छेदैर्विलक्ष्यताम् । नीतः पीतद्विषच्चक्र चक्रं सरसार मागधः ॥ १९१ ।। देवताधिष्ठितं तस्य क्रोधारुणदृशस्तदा । कराम्भोजमलंचक्रे तदप्यागत्य वेगतः ॥ १९२ ॥ रे गोप न भवस्येष इति जल्पन्मुहुर्मुहुः । चक्रं चिक्षेप साक्षेपमसोढुं मगधाधिपः ।। १९३ ॥ तच्च स्वच्छन्दमागच्छत्समुद्रविजयादिभिः । यादवैर्ददृशे व्योम्नि हाहारवपुरःसरम् ॥ १९४॥ इतस्ततः परिप्रेमुः संभ्रमेण नभश्चराः । स्वर्गौकसोऽपि तन्मार्गाद्विमानान्यपनिन्यिरे ॥ १९५॥ तदस्त्रैस्ताडयामास चक्रमर्धपथे हरिः। मुहुर्मुसलसीराभ्यां सीरपाणिश्च निश्चलः ॥ १९६ ।। रुष्टोऽत्यन्तमनाधृष्टिः परिषेण जघान तम् । शः समस्तैर्निस्तन्द्रः समुद्रविजयः पुनः ॥ १९७ ।। शक्तिं च तत्प्रहाणाय प्राहिणोद्धर्मनन्दनः । गदा पुनर्जगजैत्रीमादरेण वृकोदरः ॥ १९८ ॥ रुरोध कौरवजयोर्जखलैरर्जुनः शरैः । कुन्तेनारिकृतान्तेन प्रयत्नान्नकुलः पुनः ॥ १९९ ॥ संरोद्धं सहदेवोऽस्वैस्तच्चक्रमुपचक्रमे । सर्वात्मनापि विक्रान्तं पञ्चभिस्तत्र पाण्डवैः ।। २००॥ अन्येऽपि यादवाः सर्वे विविधैरायुधैर्निजैः । युगपत्तदपाचक्रुश्चक्रमुद्दामविक्रमाः ॥ २०१॥ केनापि(प्यस्खलितं भूरि स्फुलिङ्गोद्गारि तत्तदा। मार्तण्डमण्डलनिभं नभस्यायाति वेगतः ॥ २०२ ।। ततो मनसि मन्वाना जातं विश्वमकेशवम् । यादवाः समजायन्त सबाष्पश्यामलाननाः ॥ २०३ ।। 1 काव्यमाला। जरासन्धपताकिन्यां किंचित्सानन्दचेतसि । अहो किमद्य भावीति सोत्प्रेक्षे प्रेक्षके जने ॥ २० ॥ समुद्रविजयादीनां दीनान्तःकरणस्पृशाम् । पश्यतामेव तुम्बेन जवादाहत्य वक्षसि ॥ २०५॥ उपसर्गेऽपि तादृक्षे निःशोभमनसो हरेः । अन्तेवासी च पादान्तं तच्चक्रं समशिश्रियत् ॥ २०६॥ (त्रिमिर्विशेष सानन्दे यादवानीके प्रत्यनीके विषादिनि । हेलयैव हरिः किंचिन्नीचैर्भूय तदाददे ॥२०७ ।। दम्भोलिनेव जम्मारिः प्रभामण्डलशालिना । पाणिप्रणयिना तेन केशवः शुशुभेतमाम् ॥ २०८॥ अम्भोजमिव तचक्रमुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी मगधाधिपमभ्यधात् ॥ २०९॥ भो भूपालशिरोरत्न न यत्नः संयुगाय ते । सांप्रतं साप्रतं येन दैवं नैवानुकूलिकम् ॥ २१० ।। आत्मीयमप्यनात्मीयं शस्त्रं स्यात्कथमन्यथा। तद्गच्छ मागधान्खेच्छं विलसस्व(त्वं) ममाज्ञया ॥ २११ ॥ नष्ट न किंचिदद्यापि मेदिनीश विमृश्यताम् । श्रुतं किं न त्वया जीवन्नरो भद्राणि पश्यति ॥ २१२ ॥ इत्युक्तः सोऽपि साटोपं कैटभारिमभाषत । अरे गोपाल वाचाल सुतरामसि संप्रति ॥ २१३ ॥ संप्राप्तनामुना मन्ये लोहखण्डेन माद्यसि । अमेयः सारमेयस्य गर्वोऽस्थिशकलादपि ॥ २१४ ॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास व्योमेवाब्देस्तपात्यये ।। २१५ ॥ स्वचक्रेणैव नेतव्याः प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि नान्यथेति विचिन्तयन् ॥ २१६ ॥ पाण्डवचरितम् । ६१७ शिर्षच्छेद्यस्य तस्याशु शिरश्चिच्छेद केशवः । प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥ २१७ ॥ तेन ज्वालाजटालेन सकिरीटं सकुण्डलम् । एत्य प्रसभमम्भोजच्छेदं चिच्छेद तच्छिरः ॥ २१८ ॥ निर्व्यूंढस्वामिकार्यत्वादाढ्यंभावुकतेजसा । चक्रेण तेनालंचक्रे पुनरेव हरेः करः ॥ २१९ ।। जगच्चेतश्चमत्कारिकंसारिबलदृश्वनाम् । आनन्दनिर्यदश्रूणां प्रसस्नुः खर्गिणां गिरः ।। २२० ॥ नवमो नवमस्फूर्तिर्विस्फुरत्कीर्तिसौरभः । स एष द्विषदुच्छेदच्छेकोऽजनि जनार्दनः ॥ २२१ ॥ कंसध्वंसः पुरीन्यासो जरासंधवधोऽप्ययम् । जन्मतोऽपि किमेतस्य चरित्रं यन्न चित्रकृत् ।। २२२ ।। इत्यन्योन्यकृतालापास्त्रिविष्टपसदस्तदा । गोविन्दे निजमानन्दं विवत्रुः पुष्पवर्षतः ॥ २२३ ।। भूर्भुवःस्वस्त्रयीलोके शंसद्भिः केशवोदयम् । ते मुदा दुन्दुभिध्वानैः शब्दाद्वैतं वितेनिरे ।। २२४ ।। अथ लक्षमपि क्षोणेरधिपाश्चावरोधतः । अरिष्टनेमिना मुक्ताः सिंहेन हरिणा इव ॥ २२५॥ ते तदोत्सादितोत्साहमुच्छन्नास्त्रपरिग्रहम् । आत्मानं वीक्ष्य दधिरे त्रपामलिनमानसम् ॥ २२६ ।। जरासन्धवधं ज्ञात्वा नृपाः प्राजलयस्तदा । विज्ञा विज्ञापयामासुः समुद्रविजयात्मजम् ।। २२७ ।। बैकुण्ठे कुण्ठशौण्डीर्या मा भूवन् रिपवः कथम् । विपक्षकक्षदावाग्मिर्यस्य त्वमसि बान्धवः ॥ २२८ ।। राजन्यमृत्यौ जन्येऽस्मिन्न जीविष्याम किं वयम् । कृपया त्रिजगत्रातरेवमत्रास्यथा न चेत् ॥ २२९ ।। ६१८ काव्यमाला। किंतु श्रीभ्रमरीकुन्दान्मुकुन्दात्त्रातुमर्हसि । अन्यथा कुपिते तस्मिन्नस्माकं क्व नु जीवितम् ।। २३०॥ तथेत्येषां प्रतिश्रुत्य प्रार्थनां पृथिवीभुजाम् । उपतस्थे समेतस्तैर्नेमिः कंसनिषूदनम् ।। २३१ ।। संमुखं प्रसरन्तीव श्लिष्यन्तीव मुहुस्तदा । संभाष्यन्त इवान्योन्यमेतयोमिलिता दृशः ।। २३२ ।। स्थातां राकामृगाङ्कौ चेत्संमुखीनावुभौ दिवि । तदा तदास्ययोनूनमुपमासंभवो भवेत् ॥ २३३ ॥ उभौ तापिच्छगुच्छाभौ श्रीवत्साङ्कावुभावपि । तावन्योन्यं कृताश्लेषौ सत्यमेकत्वमापतुः ॥ २३४ ॥ प्रावर्तत ततः स्वैरमवार्यभुजवीर्ययोः । संग्रामसंकथास्तास्तास्तयोः शात्रवजैत्रयोः ॥ २३५ ।। आसाद्यावसरं तेषां लक्षस्यापि क्षमाभृताम् । नेमिः प्रसाद्य गोविन्दं पृष्ठे हस्तमदापयत् ॥ २३६ ॥ अत्रान्तरे महामात्या जरासन्धतनूद्भवम् । सहदेवं नये निष्णाः कृष्णस्याङ्के निचिक्षिपुः ।। २३७ ॥ माधवस्तं विधत्ते स्म मगधेषु पुनर्नुपम् । प्रणिपाताबसानो हि कोपो विपुलचेतसाम् ॥ २३८ ॥ तेन तेनोग्रसंग्रामकर्मणा दक्षिणेमणाम् । सुभटानामनाधृष्टिश्चक्रे व्रणचिकित्सितम् ॥ २३९ ॥ संपराये परासूनां समुद्रविजयाज्ञया । स करोति स्म संस्कारमामेयास्त्रेण कालवित् ।। २४० ।। विसृज्य सहदेवाद्यान्पार्थिवानथ केशवः । कुलवृद्धाभिरारब्धशिवं शिबिरमभ्यगात् ॥ २४१ ।। समुद्रविजयः पुत्रैः पौत्रैश्च परिवारितः । अनुयातः पथि प्राप कामप्यनुपमां श्रियम् ।। २४२।। < पाण्डवचरितम् । अमन्यत गरीयोभिर्लघीयोभिश्च यादवैः । प्रभुत्वोत्कर्षविश्रान्तिबलकेशवनेमिषु ॥ २४३ ॥ यथास्वं मातरस्तेषां मङ्गलानि वितेनिरे । द्विषज्जयोऽवदानं हि क्षत्रियाणामनुत्तरम् ।। २४४ ॥ ययौ नेमिमनुज्ञाप्य मुदितो मातलिर्दिवम् । आख्यच्च तच्चरित्राणि शक्राय पुलकं वहन् ॥ २४५ ॥ आस्थानीमास्थितेऽन्येयुः समुद्रविजये नृपे । उच्चैस्तूर्यरवं सर्वे शुश्रुवुर्दिवि यादवाः ॥ २४६ ।। परोलक्षाणि चाद्राक्षुरुत्पक्षमाणः क्षणेन ते । स्थगितार्कविमानानि विमानानि नभोऽङ्गणे ॥ २४७॥ समं प्रद्युम्नसाम्बाभ्यामथोत्तीय विमानतः । वसुदेवः प्रणौति स समुद्रविजयक्रमौ ॥ २४८ ॥ बलदेवादयः सर्वे वसुदेवमनंसिषुः । वृद्धान्प्रद्युम्नसाम्बौच ववन्दाते यथाक्रमम् ।। २४९ ॥ यथास्थानं यथानाम प्रद्युम्नेन निवेदिताः । समुद्रविजयं नत्वा प्रणेमुः खेचरा हरिम् ।। २५० ॥ व्यजिज्ञपंश्च ते पित्रा शौर्यरूपादिभिर्गुणैः । जिग्ये जगत्रयं येन पुरस्तात्तस्य के वयम् ॥ २५१ ॥ तवाज्ञा स्रग्विणो मूर्ध्नि विद्धि नस्तदतः परम् । नवमो(8)हि हृषीकेशस्तन्नः शाधि यदृच्छया ॥ २५२॥ इत्युदित्वा नवादित्यप्रभं ते कैटभविषम् । अपास्तकौस्तुभमदै रत्नपुञ्जैरपूजयन् ॥ २५३ ॥ सोऽपि संमानयांचके वचसा क्रिययापि तान् । उदात्तचेतसां क्वापि न यौचित्यव्यतिक्रमः ॥ २५४ ॥ संपरायप्रमीतानां स्ववीराणां नरायणः । क्रियामिज्ञः क्रियास्तास्ता विदधावौर्ध्वदेहिकीः ॥ २५५ ॥ । ६२० काव्यमाला + निवापं सहदेवोऽपि व्यधत्त विधिवत्पुनः । अन्येऽपि प्रेतकार्याणि स्वस्वसंबन्धिनां व्यधुः ॥ २५६ ॥ सापि जीवयशाः साक्षाद्वीक्ष्याखिलकुलक्षयम् । पितुः पत्युश्च युगपन्निर्लज्जादाज्जलाञ्जलिम् ॥ २५७ ॥ कूर्दित्वा यादवैस्तत्र खानन्दो यत्प्रदर्शितः। कृष्णोपज्ञं ततोऽन्वर्थमानन्दपुरमित्यभूत् ॥ २५८ ॥ भारतस्य हरिस्त्रीणि खण्डान्याखण्डलोपमः । प्रतस्थेऽथ वशीकर्तुं केशवानां क्रमो ह्ययम् ॥ २५९।। कांश्चिदुत्थापयन्कांश्चिदुत्खातप्रतिरोपितान् । कुर्वन्नुर्वीपतीनुर्वी साधयामास माधवः ॥ २६० ॥ हरिः प्राप प्रदेशं तं वसुधासाधनकमात् । शिला कोटिशिलानाम यत्रास्ति गिरिसोदरा ।। २६१॥ उच्चत्वविस्तरायामैर्विदुर्यामेकयोजनाम् । यया च वासुदेवस्य बलं बाह्रोः परीक्ष्यते ॥ २६२ ।। (युग्मम् पश्यतां सर्वभूपानां भूतलाच्चतुरङ्गुलीम् । मुकुन्दः कन्दुकोत्क्षेपमुच्चिक्षेप क्षणेन ताम् ॥ २६३ ॥ ततो जयजयध्वानपूर्व गीर्वाणखेचराः। प्रहृष्टाः सुमनोवृष्टिं कृष्णोपरि विचिक्षिपुः ॥ २६४ ॥ अखण्डितोदयं षडिर्मासैरासूच्य दिग्जयम् । अखिलैः सह भूपालैवलति स्म बलानुजः ॥ २६५॥ अथ क्रमेण वर्धिष्णुभरतधिमहर्षिभिः । सोऽविशद्वारकां द्वारद्वारप्रारब्धमङ्गलाम् ॥ २६६ ॥ ततो राज्याभिषेकाय विष्णोरुष्णांशुतेजसः । तीर्थानां मागधादीनां जलान्यानिन्यिरे सुरैः ॥ २६७ ॥ समुद्रविजयो राजा स्वयमानकदुन्दुभिः । बलभद्रस्तपासूनुभीमसेनार्जुनौ यमौ ॥ २६८ ॥ पाण्डवचरितम् । ६२१ अनाधृष्टिमुखाश्चान्ये कुमाराः स्वजना अपि । राजानोऽपि सहायातास्ते सहस्राणि षोडश ॥२६९ ॥ अर्धभारतवास्तव्यास्त्रिविष्टपसदस्तथा । । सर्वे व्योमचरास्ते च वसुदेववशंवदाः ॥ २७०॥ हिरण्मयै रत्नमयैस्तथाम्भःपूरितोदरैः । कलशैर्मुखविन्यस्तोदारमन्दारपल्लवैः ॥ २७१ ॥ आनन्दाश्रुसमारब्धवारिधाराद्विरुक्तयः । वैकुण्ठमुच्चपीठस्थमभ्यषिञ्चन्नमी क्रमात् ॥ २७२ ॥ (पञ्चभिः कुलकम्) मातरोऽस्य शिवादेवी रोहिणीदेवकीमुखाः । सुवासिन्यश्च कुन्त्याद्या मङ्गलानि मुहुर्जगुः ॥ २७३ ॥ हयाः कैश्चिद्गजाः कैश्चित्कैश्चिन्माणिक्यराशयः । कन्याः कैश्चित्तदा भूपैरुपदीचक्रिरे हरेः ॥ २७४ ॥ कृतप्रतिपुरं तस्मिन्नभिषेकमहोत्सवे । सत्कृत्य व्यसृजद्विष्णुनृपान्भूचरखेचरान् ॥ २७५ ।। युधिष्ठिरप्रतिष्ठार्थ नृपैः कतिपयैर्वृतः । अन्येयुः सोऽचलत्साश्वहस्तिको हस्तिनापुरम् ॥ २७६ ।। रामो नेमिरनाधृष्टिः पाण्डवेयानुरोधतः । प्रद्युम्नाद्याः कुमारश्च सह तेन प्रतस्थिरे ॥ २७७ ॥ मैत्री मञ्जरयद्भिश्च मित्रश्चित्राङ्गदादिभिः । चेले व्योमचरैः कैश्चित्तदा सार्क किरीटिना ॥ २७८॥ कुन्त्या सह शिवादेवी रोहिणी देवकी तथा । सौजन्यमनुरुन्धत्यश्चेलुः सनेहचेतसः ॥ २७९ ॥ यास्यामः कथमानृण्यं विष्णोर्वयमहो इति । संकथाः पाण्डवेयानां पथि पप्रथिरे मिथः ॥ २८० ।। प्रागेत्य केशवादेशात्पुत्रोत्कण्ठाक्रशीयसः । पाण्डवागमनं पाण्डोरावेद्यत नभश्चरैः ।। २८१ ।। ६२२ काव्यमाला। प्रत्युद्ययौ तदाकर्ण्य सपौरः पाण्डुरात्मजान् । तेषामालोक्य च स्फीति पुपोष पुलकोत्करम् ॥ २८२ ॥ उपेयुषी समं पत्या सुतानुद्वीक्ष्य तत्क्षणात् । माद्री हर्षाश्रुवर्षेण प्रावृष नूतना व्यधात् ।। २८३ ॥ विहाय वाहनान्याशु विकासिवदनाम्बुजाः । व्यक्तानन्दमवन्दन्त पितरौ पाण्डवा अपि ॥ २८४ ॥ उन्निद्रप्रणया माद्री गाढाश्लेषपुरःसरम् । पद्मोत्फुल्लदृशः कुन्त्याः पाणिभ्यामग्रहीत्क्रमौ ॥ २८५ ॥ सरोमाचा च पाञ्चाली पञ्चाङ्गीचुम्बितावनिः । क्रमात्पाण्डोश्च मायाश्च प्रणेमे चरणाम्बुजम् ।। २८६ ॥ अन्यैरपि यथौचित्यप्रणीते प्रणतिक्रमे । पीयूषमयमानन्दमयं तेषामभूज्जगत् ॥ २८७ ॥ आमुक्तमौक्तिकोचूलाः स्वर्विमानजितस्ततः । जगत्या इव रोमाञ्चा मञ्चा निर्ममिरे पुरे ॥ २८८ ॥ प्रतिवेश्म व्यरच्यन्त चेलोत्क्षेपपुरःसरम् । साक्षादिव मुदो मुक्ताः खस्तिकास्तोरणानि च ॥ २८९ ॥ प्रतिरथ्यमदीयन्त पिष्टातकपरागिणः । मूर्ता इव मनोरङ्गा विकटाः कुङ्कुमच्छटाः ॥ २९० ॥ असून्यत भ्रमभृङ्गीसंगीतसुभगोदयः । कुसुमप्रकरो जानुदनो घण्टापथक्षितौ ॥ २९१ ॥ संबन्धोरप्यजातारेः प्रवेशाय प्रसाधनम् ।। पाण्डुः प्रमोदनीरन्ध्रः सैरंध्रीमिरकारयत् ॥ २९२ ।। यशःसंभारसौरभ्यसुरभेधर्मजन्मनः । चन्दनाद्यङ्गरागोऽङ्गे पुपोष पुनरुक्तताम् ॥ २९३ ॥ सदैवापरदुष्प्रापगुणालंकारधारिणः । तस्याभूवन्नलंकाराः पित्रोर्नेत्रोत्सवः परम् ।। २९४ ।। पाण्डवचरितम् । ६२३ गाङ्गोर्मिनिर्मले तस्य वसानस्याच्छवाससी । लवणोत्तारणं चक्रे रोमाङ्करपृथुः पृथा ॥ २९५॥ सोऽथ तत्कालमुन्मीलदानमैरावणोपमम् । महेन्द्र इव गर्जन्तमारोहज्जयकुञ्जरम् ।। २९६ ॥ तेन साकं पुरः पाण्डुः पार्श्वतः केशवादयः । भीमाया बान्धवाः पृष्ठे गजारूढाः प्रतस्थिरे ॥ २९७॥ श्वेतच्छत्रापदेशेन सेव्यमानो नृपश्रिया । चारुवाराङ्गनावर्गैः सलीलोद्ध(दू)तचामरः ॥ २९८ ॥ चिरायोपचितोत्कण्ठाः श्लिष्यन्निव वदन्निव । दृशा पीयूषवर्षिण्यानुगृहन्नभितः प्रजाः ॥ २९९ ॥ उद्गच्छदुच्चरोमाञ्चमञ्चलोत्तारणोत्तरम् । प्रजानां लाजनिक्षेपं प्रतिगृह्णन्समन्ततः ॥ ३०० ॥ प्रमोदोत्फुल्लनेत्राणां नागराणां पदे पदे । अनुरागगिरस्तास्ताः शृण्वन्नाशी:पुरस्सराः ।। ३०१ ॥ परित्यक्तान्यकृत्याभिः प्रेकडोलत्प्रीतिवीचिभिः । गवाक्षपहिताक्षीमिर्मंगाक्षीभिर्निरीक्षितः ॥ ३०२ ॥ चत्वरे चत्वरे सोऽथ मञ्चे मच्चे गृहे गृहे । गृह्णन्माङ्गलिकान्युच्चैः प्राविशन्नागसाह्वयम् ॥ ३०३ ॥ (षडिः कुलकम्) तस्याध्यासितसौघस्य दधिदूर्वाक्षतादिभिः । प्रसुतोल्लोलकल्लोलं कुन्ती मङ्गलमादधे ॥ ३०४ ॥ श्रिया नूतनया राजनाजसिंहासने पुनः । स तदा स्थापयांचके पाण्डुना विष्णुनापि वा ॥ ३०५ ॥ उपदायामुपेतानामिभानां हितैर्मुहुः । तदा मङ्गलतूर्याणां निनादो मेदुरीकृतः ॥ ३०६ ॥ कुडमस्थासके रत्नकल्पैश्चाश्वीयसंकटे । उपदा वाजिनस्तस्याजिरे व्यानजिरे तदा ॥ ३०७ ॥ ६२४ काव्यमाला। महीपालकिरीटोऽसौ किरीटं कैटभारिणा । पारावारार्पितै रत्नैः पर्युप्तं पर्यधाप्यत ।। ३०८ ।। अजातारेस्ततो जाते क्षितिपानामुपायने । अतिप्रीतिपराः पौरा मङ्गलानि वितेनिरे ॥ ३०९ ॥ उपेत्योपेत्य वृन्देन पौरपण्याङ्गनागणः । संगीतं सूत्रयामास तू(तौर्यत्रिकविचक्षणः ॥ ३१०॥ जाते खामिन्यजातारौ प्रजाः पूर्णोपयाचिताः। पुरमुज्जागरं चक्रुर्देवेभ्यस्तूर्यजागरैः ।। ३११ ।। वीक्ष्य धर्मात्मजो गाढं नागराननुरागिणः। अश्लाघत पृथा तादृक्पुत्रप्रसविनीं हरिः ॥ ३१२ ॥ व्यधत्त धर्मसूनित्यं कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशीं भक्तिं गान्धारीधृतराष्ट्रयोः ॥ ३१३ ॥ पञ्चमूर्तिकमात्मानं स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्ष बन्धून्सर्वाधिकारिणः ॥ ३१४ ॥ आपृच्छयमानमन्येधुर्गमनाय जनार्दनम् । सभायामञ्जलि बद्धा धर्मजन्मा व्यजिज्ञपत् ॥ ३१५ ॥ दामोदर तवैवेदमनुभावविजृम्भितम् । भूयोऽभवन्यदेता मे हस्तिनापुरसंपदः ॥ ३१६ ॥ स्मरस्येतद्विराटेपु गूढवासकदर्थितान् । आदराद्वारकां नीत्वा तथास्मान्सत्करिष्यसि ।। ३१७ ॥ किं चास्मिंश्चण्डशौण्डीरे कि जयेयं रणाजिरे । सुमेधाः सहयुद्धा चेन्न त्वमेकमना भवेः ॥ ३१८ ॥ राज्यलक्ष्मीस्तवैवेयमिमे प्राणास्तथैव च । किमन्यदस्ति येन त्वां विष्णो सत्कुर्महे वयम् ॥ ३१९ ।' तथापि पृथुचित्तेन निनिमित्तोपकारिणा । पदातिलबसंख्यायामयं चिन्त्यो जनस्त्वया ।। ३२० ॥ पाण्डवचरितम् । ६२५ इति विज्ञेन विज्ञाप्य विष्णवे पाण्डुजन्मना । वर्णरत्नगजाश्वादिसर्वस्वमुपदीकृतम् ॥ ३२१ ।। त्वयेदानीं ममैवेदं सर्वं वस्तु समर्पितम् । निर्बन्धं तदलंकृत्वा विजयथाश्चिरं भुवि ॥ ३२२॥ इति संबोध्य कौन्तेयं तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठावती द्वारवतीं प्रति ।। ३२३ ॥ (युग्मम्) धर्मजस्तमनुव्रज्य पुरं कृच्छ्रान्यवर्तत । पृथासूनुकथानिष्णः कृष्णोऽपि वपुरी ययौ ॥ ३२४ ॥ समभ्यर्च्य यथौचित्यं तेऽपि चित्राङ्गदादयः । प्रीतैः पाण्डुसुतैः सर्वे विसृज्यन्ते स खेचराः ॥ ३२५॥ कौन्तेयोऽथ पुरे सर्वव्यसनानि न्यवारयत् । एकस्याप्यपराधे हि ज्ञातिरुच्छिद्यते ध्रुवम् ॥ ३२६ ॥ अमारि पटहैश्चापि धर्ममुन्निद्रमादधे । कृपा हि सर्वजीवेषु पर धर्मस्य जीवितम् ॥ ३२७॥ स भोजनाय दीनानामनादीनवमानसः । नानाभोज्यविचित्राणि सत्रागाराण्यकारयत् ।। ३२८॥ यात्रां स सूत्रयामास समस्तजिनवेश्मसु । सर्वद्वारमुदारा हि यतन्ते सुकृतार्जने ॥ ३२९ ।। तत्रस्थ एव नाशिक्ये स श्रीचन्द्रप्रभप्रभोः। अचीकरत्सदाचारपूतः पूजामहोत्सवम् ॥ ३३० ॥ इति सुचरितस्तैः स्तैः सिक्त्वा सुधा इव बान्धवैः परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । स च निरुपमानन्दस्यन्दि क्षणात्सुषुवेतमा- मखिलनृपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ।। ३३१ ॥ - मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जरासंधवध- वर्णनो नाम चतुर्दशः सर्गः ॥ १४ ॥ ६२६ काव्यमाला। पञ्चदशः सर्गः । दीक्षाप्रपन्नमन्येद्युरुद्यद्भक्ति पितामहम् । नन्तुं यियासुरादिक्षत्स पौरान्बान्धवान्नृपः ॥१॥ ते तदैव समारूढाः प्रौढेपु तुरगादिषु । कृप्ताकल्पा नृपद्वारमभ्युपेत्यावतस्थिरे ॥२॥ अगण्यदेवमण्यादिवरेण्यावर्तवाजिनम् । वाजिनं पञ्चकल्याणमारुरोह महीपतिः ॥ ३ ॥ मुनिर्यत्रास्ति गाङ्गेयः प्रतस्थे तत्र पार्थिवः । ऋक्षेशमिव ऋक्षाणां गणो लोकस्तमन्वगात् ॥ ४ ॥ मुनिवन्दारुगीर्वाणविमानैः स्थगिते रवौ। राजन्यानां पथि व्यथैर्जातमातपवारणैः ॥ ५ ॥ सपौरस्तं भुवो भर्ता देशमादेशवान्क्रमात् । भीष्मालंकृतशैलान्ते खसैन्यं संन्यवेशयत् ॥ ६ ॥ ततश्चरणचारेण गच्छन्नरपतिः पुरः । शयानं शरशय्यायामात्मध्यानपरायणम् ॥ ७ ॥ गीतार्थे मुनिभिर्लानपरिचर्याविचक्षणैः । संवाह्यमानं सर्वाङ्गं करैः कमलकोमलैः ॥ ८॥ आचार्यभद्रगुप्तेन दीयमानानुशासनम् । दहतो देहिनो भेदनिश्चयैकाग्रचेतसम् ॥ ९॥ देहदक्षिणभागस्थं भवभडैकमुद्गरम् । धारयन्तं मनोहारि रजोहरणमन्तिके ॥ १० ॥ अहंपूर्विकयोपेतैरमरैरथ खेचरैः । बद्धमानाधिकश्रद्धराबद्धपरिमण्डलम् ॥ ११ ॥ नराणां खेचराणां च स्त्रीभिः स्वर्वासिनामपि । प्रारब्धरासकोत्तालतालवाचालसंनिधिम् ॥ १२ ॥ आनन्दमनं नासाग्रन्यस्तनिश्चललोचनम् । गाङ्गेयमुनिमद्राक्षीचारित्रमिव मूर्तिमत् ॥ १३ ॥ (सप्तभिः कुलकम् । पाण्डवचरितम् । ६२७ पितामहं तथा प्रेक्ष्य पाण्डवानां दृशस्तदा । आसन्नानन्दशोकाभ्यां शीतलोप्णजलाविलाः ॥ ११ ॥ किरीटं पादुके छत्रं कृपाणं चमराणि च । दूरादुर्वीपतिर्मुञ्चन्पञ्चधाभिगमं व्यधात् ॥१५॥ अष्टमीन्दुनिभे कुर्वललाटे करकुदालम् । ययौ नैपेधिकीपूर्वमुशिलदवग्रहम् ॥ १६ ॥ तत्र कृत्वोत्तरासङ्गं निःसझेकशिरोमणेः । स त्रिः प्रदक्षिणीकृत्य पादयोरपतन्मुनेः ॥ १७ ॥ प्रत्येकं तस्य वात्सल्यं सरन्तरतत्तदद्भुतम् । नप्तारोऽन्येऽपि चत्वारश्चरणी मूर्द्धनि न्यधुः ॥ १८ ॥ तेऽजस्रमश्रुधाराभिः क्रमावतपयन्मुनेः । भेजिरे विरजीभावं भक्तिप्रहाः स्वयं पुनः॥ १९ ॥ धर्मलाभमयीस्तेपामागिपोऽदान्मुनिः शनैः । तेऽप्युपेत्य प्रमोदेन न्यपीदतन्मुखाग्रतः ।।२०।। मुनिराकृष्य नासाग्रात्तेपु चिक्षेप चक्षुपी। महान्तो हि परार्थाय स्वार्थेषु शिथिलादराः ॥ २१ ॥ आजन्मचापसंपर्ककर्कशं मुनिपुंगवः । पाणिं व्यापारयामास तेषां पृष्ठे पुनः पुनः ॥ २२ ॥ सुधासब्रह्मचारिण्या गाङ्गायनिमुनेदृशा । सिक्तस्त्यक्तमनस्तापः पार्थिवरतं व्यजिज्ञपत् ।। २३ ।। प्रभो प्रभूतसंभूतपापपझेन पङ्किलः । निर्मलोऽस्तु ममात्मायं त्वदुपास्तिसुधाम्बुधौ ॥२४॥ विवेकाख्यं निधिं तात तृष्णामुष्णान्ममाखिलम् । राज्याय वान्धवध्वंसमकाएं कथमन्यथा ॥ २५ ॥ ज्ञातिसंज्ञपनोपज्ञकल्मपैकमलीमसाः । व्याकोशकोशहस्त्यश्ववन्धुरा अपि धिक् श्रियः ॥ २६ ॥ ६२८ काव्यमाला। इन्दुकुन्दद्युतिं कीर्ति धर्मं च द्वयमप्यदः । दुःखाकृत्योदयन्ते याः संपदस्ता न संपदः ॥ २७ ॥ अहह ज्येष्ठयोः पित्रोर्गान्धारीधृतराष्ट्रयोः । अदायि यन्मया दुःखं तत्तु वाचामगोचरम् ॥ २८ ॥ तत्पथप्रस्थितस्तातः सांप्रत पारलौकिके । प्रसीदान्त्योपदेशेन केनाप्यथ गृहाण माम् ॥ २९ ॥ येनामि नरककोडवासप्रतिभुवोऽधुना। मुच्येयं बान्धवध्वंसनिदानात्खलु पाप्मनः ॥ ३० !! पुराप्यदाथि यो मह्यं राजधर्मोचितस्त्वया । उपदेशः स हृद्यस्ति वास्तव्योऽद्यापि तद्यथा ॥ ३१ ॥ सर्वैर्नृपगुणैर्युक्ताः सुवृत्ताः प्राज्यवंशजाः । भूमेर्भूषणतां यान्ति हारा इव नरेश्वराः ॥ ३२ ॥ पार्थिवानामलंकारः प्रजानामेव पालनम् । किरीटकटकोष्णीषैर्भूष्यन्ते केवलं नटाः ॥ ३३ ॥ विशेषज्ञः कृतज्ञश्च गुरौ देवे च भक्तिमान् । अप्रतार्यश्च धूर्तानां भुवं भुङ्क्तेऽब्धिमेखलाम् ॥ ३४ ॥ सेवागुरौ तदादिष्टे ग्रहः पुरुषसंग्रहः । शौर्यं धर्मश्च पञ्चामी राज्यलक्ष्मीलताम्बुदाः ॥ ३५ ॥ आपन्नस्यार्तिहरणं शरणागतरक्षणम् । तथ्यं प्रजानुरागश्च श्रीतरीनां गरा अमी॥ ३६ ॥ दानेन क्षमया शत्त्या गणं राजानुपालयेत् । गणकोपः क्षयो राज्ञां विजयो गणसंग्रहः ।। ३७ ॥ शपन्ते कृपणाक्रन्दच्छद्मना क्षितिपं श्रियः । आददीत ततो लोकपीडयार्थं न पार्थिवः ॥ ३८ ॥ आशां न विफलां कुर्यान्नृपः कल्पद्रुमोऽर्थिनाम् । आशापाशसमं नास्ति हृदयाकर्षणं नृणाम् ॥ ३९ ॥ पाण्डवचरितम् । ६२९ भोगान्न च न च त्यागान्न चाधेर्न च रोगतः । प्रजासंतापशापात्तु क्षीयन्ते क्षितिपश्रियः ॥ १० ॥ क्ष्माभुजां क्षिप्यते लक्ष्मीर्धूतैर्मधुरवादिभिः । अतिप्रवर्धितैर्भृत्यैर्वल्लभैश्च निरङ्कुशैः ॥ ११ ॥ समग्रविषयग्रामसर्वस्वखादलालसैः। इन्द्रियैरिव कायस्यैः कायस्थैः क्षपिता नृपाः ॥ ४२ ॥ चण्डदण्डमगोप्तारं क्षितिपं नेच्छति क्षितिः । निष्कलं कलहक्रूरं लुब्धं पतिमिवाङ्गनाः ॥ १३ ॥ प्रागित्युपादिशः सम्यग्यथा मे हृदयंगमम् । अधुनापि प्रभो पथ्यं तथोपदिश किंचन ॥ ४ ॥ इति विज्ञापनां राज्ञो निशम्य मुनिपुंगवः । दृशौ व्यापारयस्तसिन्सानन्दे मन्दमभ्यधात् ॥ १५ ॥ पुरा राज्योचितं तेऽर्थे पुरुषार्थमचीकथम् । पुष्टोऽर्थः पार्थिवानां हि सर्वोपक्रमसिद्धये ॥ १६ ॥ ऋषीणां त्विदमाख्यातुं राजन्नञ्चति नौचितीम् । ततो धर्मं च मोक्षं च समाचक्षे तवाधुना ॥ ४७ ।। दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । चतुर्णामपि वर्णानां जायते यः शिंवकरः ॥ १८ ॥ स्वर्गापवर्गयोर्वीजं तत्र दानं भवेत्रिधा । गृहस्थैरपि मार्गस्थैर्भवाब्धिर्येन तीर्यते ।। ४९ ॥ प्राणिनां प्रीणनं मृत्योर्मीतानामभयेन यत् । कर्मनिर्मूलनं सर्वज्येष्ठं दानं तदादिमम् ॥ ५०॥ जन्तु धिनोति नोदात्तैर्दत्ता रत्नावलिस्तथा । सर्वतोऽप्यभयं तुभ्यमिति वर्णावलिर्यथा ॥ ५१ ॥ आगमादिसमीचीनग्रन्थतत्त्वार्थसिद्धिपु । कुर्वतां साधुसाहाय्यं ज्ञानदानमुदाहृतम् ॥ ५२॥ ६३० काव्यमाला। धन्यैर्ज्ञानप्रदीपेन निस्तुषज्योतिषाधिकम् । अन्तरङ्गं तमस्काण्डमशेषमपि खण्ड्यते ॥ ५३ ॥ वस्तुना येन दत्तेन साधोः सिध्यति संयमः । तृतीयं तदुपष्टम्भदानमाम्नातमर्हता ॥ ५४॥ प्रीत्युदञ्चितरोमाञ्चः कर्मक्षयकृते क्षमी । वस्तुकल्पं सुपात्राय ददीत विगतस्पृहः ॥ ५५ ॥ काले दानं सुपात्रेभ्यः सद्गुरूणां समागमः । भवाब्धौ बोधिलाभश्च भाग्यलभ्यमिदं त्रयम् ॥ ५६ ॥ चित्तं वित्तं च पात्रं च त्रयमेकत्र संगतम् । दुर्लभ लभ्यते येन जन्म तस्य फलेग्रहि ।। ५७ ।। लक्ष्मीः सौभाग्यमारोग्यमाज्ञैश्चर्यं गुणोन्नतिः । आदेयता च कौन्तेय दानकल्पद्रुपल्लवाः ॥ ५८ ॥ देशतः सर्वतो वापि विरतिः शीलमुच्यते । यतः संसारपारीणाः स्त्रियोऽप्यासन्ननेकशः ॥ ५९ ॥ दानमातन्यते पापपीवरैरपि पामरैः । न तु पालयितुं शीलं शक्यते येन केनचित् ॥ ६० ।। बाह्यमुक्तं तपः षोढा पोढा चाभ्यन्तरं बुधैः । कर्ममर्मच्छिदा कर्मच्छेकमेकं यदुच्यते ॥ ६१ ।। इहापि स्यान्महीयस्यै तपोऽभीष्टार्थसिद्धये । स्वयमेव त्वया दृष्टो दृष्टान्तोऽत्र जयद्रथः ।। ६२ ।। द्रौपदीहरणे ह्येष तदा प्राध्य पराभवम् । दुष्टः कष्टं तपस्तेपे युष्मद्वधविधित्सया ॥ ६३ ॥ तुष्टाव तपसा तेन काचिदभ्येत्य देवता। वरं वत्स वृणीष्वेति निजगाद जयद्रथम् ॥ ६४ ॥ सोऽथ मे दुस्तपस्यास्य यद्यस्ति तपसः फलम् । ततो बन्धाय पाण्डूनां स्यामित्येतामयाचत ।। ६५ ।। पाण्डवचरितम् । साप्यवोचदवाच्यैव वाचोयुक्तिरियं त्वया । संविधातुं वधं वत्स नैषामाखण्डलोऽप्यलम् ॥ ६६ ॥ आयुश्चरमदेहानामेषां हि निरुपक्रमम् । यदेते व्रतमादाय तीर्थ सेत्स्यन्ति नेमिनः ।। ६७ ॥ तदेतेषां वधे मा स्म कृथा मिथ्यामनोरथान् । केवलं दुष्करस्यैतद्भावि ते तपसः फलम् ॥ ६८ ॥ यद्भवन्पाण्डवानेतान्कुरुब्यूहे विविक्षतः । दिनमेकं रणच्छेको लीलया स्वलयिष्यति ॥ ६९ ॥ इति तस्मै समाख्याय देवता सा तिरोदधे । कृतं युप्मासु तेनापि यत्किंचिद्वेसि तत्खयम् ॥ ७० ॥ तदेतत्तव कौन्तेय तपोमाहात्म्यमीरितम् । भावोऽधुना सर्वधर्मधुर्यस्तुर्यो निशम्यताम् ॥ ७१ ॥ सर्वदैवातिदुर्लम्भो भावः सिद्धरसोपमः । दानादयोऽपि जायन्ते येन कल्याणमूर्तयः ।। ७२ ।। एतस्मादेव कौन्तेय सञ्चारित्रपचेलिमान् । मोक्षोऽपि कर्मनिर्मोक्षलक्षणरतत्क्षणाद्भवेत् ।। ७३ ।। चारित्रावाप्तिसंपन्नतत्त्वज्ञानेन ते मया । नववृत्तमावेतौ धर्ममोक्षावुदाहृतौ ॥ ७४ ॥ एतौ विधिवन्नित्यमुपासीथास्त्वमप्यमूः । निर्ममजारम्भपाप्मनो येन मुच्यसे ॥ ७५ ॥ इति नानत्यगर्जिवन्मदेशनाम् । तत्याज सर्वमाकरजातं राजामता १५ ॥ मुहुर्लुलोठ भूपीठे वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साथ नेमिवियोगिनी ।। २८३ ।। इत्थं विसंस्थुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वतीं चेष्टाः सख्यस्तामेवमभ्यधुः ॥२८४ ॥ सखि प्रक्षीणदाक्षिण्ये नीरसेऽस्मिन्नलौकिके। 4 नवे que in काव्यमाला। सस्तम्भं सहरोमाञ्चं सखेदं सहवेपथु । नव्यनव्योल्लसद्भावं विभरामास सा वपुः ।। २०८ ॥ क्षणादथ वितीर्णौष्ठवैवर्ण्याः क्लमितस्रजः । प्रसरन्ति स्म निश्वासा राजीमत्या मुखाम्बुजात् ॥ २०९ ॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः। श्यामीभवन्मुखाः सख्यः पप्रच्छुस्तां समुत्सुकाः ॥ २१०॥ हहा सखि किमेतत्ते दुर्निमित्तमुपस्थितम् । निषसाद विषादोऽयं यदानन्दपदे तव ।। २११ ।। सा जल्पति स्म सख्यः किं निर्भाग्य कथयामि वः। स्पन्दते दक्षिणं चक्षूरूरुः स्फुरति दक्षिणः ॥ २१२ ।। सख्योऽवोचविचस्ते धिक्सखि शान्तममङ्गलम् । सर्वतोऽपि करिष्यन्ति कुशलं कुलदेवताः ॥ २१३ ॥ मुश्चान्यदमिषिञ्च स्वं स्खभर्तुर्दर्शनामृतैः । संतापस्य तवास्य स्तादिदमेव महौषधम् ॥ २१४ ॥ इति प्रह्विकृता यावत्सखीभिः सा विलोक्यते । लोकारब्धस्तवस्ताबद्वरो दृङ्मार्गमभ्यगात् ।। २१५ ॥...' सूक्ष्मवादरमसा प्राणातिपातमाजन्मकृतं निन्दाम्यहं त्रिधा हास्यलोभभयक्रोधैः पीडाकारि परस्य यत् ।। अजल्पिषं मृषा किंचित्तत्सर्वं व्युत्सृजाम्या ६२ ।। अल्पमल्पेतरं वा या प्रकीयं मया, दुष्टः कष्टं तपस्तेपे युष्मद्वधविधिस्सया ॥ ६३ ॥ तुष्टाव तपसा तेन काचिदभ्येत्य देवता वरं वत्स वृणीष्वेति निजगाद जयद्रथम् ॥ ६४ ॥ सोऽथ मे दुस्तपस्यास्य यद्यस्ति तपसः फलम् । ततो बन्धाय पाण्डूनां स्वामित्येतामयाचत ॥ ६५॥ PAN पाण्डवचरितम् । मन्ये दातुं दुःखमिदं व्य वरं नेमिं कृताई भोगसंमुखी ।। कृताहं २७ प्रागप्येतन्मया ज्ञातं नायं मे भविता वरः। आरोहति कटुस्तुम्बी किमु कल्पमहीरुहस् ॥ २७४/ आत्मैकशरणं स्वामिन्ममाहत्यात्यजः कथम् । जहाति जातु नाङ्कथं शशमप्यादृतं शशी ॥ २७५ भूर्भुवः स्वस्त्रयेऽप्येकस्त्वमाशाकल्पपादपः । मां तु प्रत्यन्यथाकारं कथंकारमभूः प्रभो ॥२७६ अरण्यमालतीपुण्यत्पुष्पसब्रह्मचारिभिः । नाथ त्वया विमुक्तायाः किमेमिर्मम भूषणैः ॥ २७४ स्वामिन्मनोहरेणापि हारेण किमनेन मे। कन्दर्पकलहे येन कण्ठे पाशायितं न ते ।। २७८ इमे रत्नमये स्वामिन्कुण्डले मे बिडम्बना । न ये रहसि सोल्लुण्ठे लुलिते त्वत्कपोलयोः ॥२७९ एषा संप्रति दुःखाय मे खला मेखला खलु । नैव या रहसि स्पृष्टा पाणिना प्रणयात्वया ॥ २८० ।। एतौ बहुद्युती बाह्वोर्मम रत्नाङ्गदौ गदौ । निर्ममज्जतुराश्लेषे न यौ ते कण्ठकन्दले ॥ २८१ ॥ इति नेमिं प्रति प्रेम्णा व्याहरन्ती मुहुर्मुहुः । तत्याज सर्वमाकल्पजातं राजीमती तदा ॥ २८२ ।। मुहुर्लुलोठ भूपीठे वक्षोऽभीक्ष्णमताडयत् । चक्रन्द पुनरुक्तं च साथ नेमिवियोगिनी ॥ २८३ ॥ इत्थं विसंस्थुलास्तास्ताः प्राणेशविरहोचिताः । सर्वतः कुर्वती चेष्टाः सख्यस्तामेवमभ्यधुः ।। २८४ ॥ सखि प्रक्षीणदाक्षिण्ये नीरसेऽस्मिन्नलौकिके । प्रदत्तदेहसंदेहः स्नेहः कोऽयं वरे तव ॥ २८५ ॥ ६६० काव्यमाला। ततो विश्वप्रभुर्घातं निर्मातुं घातिकर्भणाम् । विजहार महीहारः पुरीग्रामाकुलामिलाम् ॥ ३१२ ॥ द्वारवत्यामथायाताः पाण्डवाः सह शार्ङ्गिणा । गतं नाज्ञासिषुः कालमानन्दैकवशंवदाः ।। ३१३ ॥ विहृत्य नेमिनाथोऽपि चतुष्पञ्चाशतं दिनान्(?) । उपाजगाम तत्रैव सहस्रांमवणे पुनः॥३१४ ॥ तत्राष्टमतपःस्थस्य वेतसद्रुतले प्रभोः । आश्विने दर्शपूर्वाह्ने चित्रास्वजनि केवलम् ॥ ३१५ ॥ सद्यः सुरेश्वरास्तस्मिन्नुपेत्यासनकम्पतः । चक्रुः समवसरणं वप्रैस्त्रिभिरलंकृतम् ॥ ३१६ ।। प्राग्द्वारेण प्रविश्याथ विंशधन्वशतोच्छ्रयम् । तत्र प्रदक्षिणीकृत्य विधिवच्चैत्यपादपम् ॥ ३१७॥ तीर्थंकरः सोऽथ नमस्तीर्थायेत्युक्तिपूर्वकम् । प्राचि सिंहासने प्राचीसंमुखः समुपाविशत् ॥ ३१८ ॥ (युग्मम्) त्रिषु सिंहासनेष्वन्येष्वन्यत्रापि दिशां त्रये । अमरा व्यन्तरास्ते तु प्रतिरूपाणि चक्रिरे ॥ ३१९ ।। ततश्चतुर्विधा देवा देव्यश्च स्वाभिसमुखाः । उपाविशन्यथाभूमि कुङ्मलीकृतपाणयः॥ ३२०॥ तदा रैवतकोद्यानपालकाश्चक्रपाणये । प्रभोर्ज्ञानोत्सवोदन्तं वेगादेत्य न्यवेदयन् ॥ ३२१ ॥ कोटीर्द्वादश रूप्यस्य सार्धास्तेभ्यो ददौ हरिः । उपवाह्येभमारुह्य भत्त्युत्तालश्चचाल च ॥ ३२२ ॥ समं पित्रा पितृव्यैश्च मातृभ्रातृसुतैस्तथा । पृथक्स्तम्बेरमारूढैरन्वितः पाण्डवैरपि ॥ ३२३ ॥ समग्रेणावरोधेन पौरलोकैश्च संयुतः । द्वारवत्याः पतिः प्राप ज्ञानोत्सवमुवं विभोः ॥ ३२४ ।। पाण्डवचरितम् । ६६१ वन्दारुः प्रभुपादाब्जं राजीमत्यपि तां महीम् । श्रद्धालुर्मालतीगन्धं भृङ्गीवागात्समुत्सुका ॥ ३२५ ।। गजादुत्तीर्य साम्राज्यलक्षणानि विमुच्य च । प्रविवेशोत्तरद्वारां हरिः प्रभुसभां मुदा ॥ ३२६ ॥ स त्रिः प्रदक्षिणापूर्वं नम्रो नाथमवन्दत । अनुशक्रं न्यषीदच्च यथास्थानं परेऽपि च ॥ ३२७ ॥ अथोद्धर्तुमना जन्तून्भवकूपोदरात्प्रभुः। देशनां रज्जुदेशीयामाततान कृपार्णवः ॥ ३२८ ॥ आयुर्वायुचलाम्भोजपत्रमित्राम्बुसोदरम् । शैलशैवलिनीवेगगर्वसर्वकषाः श्रियः ।। ३२९ ।। यौवनं सर्वसत्त्वानां धृतसंध्याभ्रविभ्रमम् । वितीर्णदुस्तरक्लेशोपगमाः प्रियसंगमाः ॥ ३३० ॥ वपुर्वपुष्मतां प्रायो विपदेकनिकेतनम् । पुत्रमित्रकलत्राद्याः प्रदत्तविविधाधयः ॥ ३३१ ॥ संसारस्तदसौ सारवस्तुशून्यो न संशयः। सारं तु ज्ञानसम्यक्त्वचारित्राण्येव केवलम् ॥ ३३२ ॥ जीवाजीवादितत्त्वानां सम्यग्ज्ञानाद्विचक्षणः । हित्वा हेयमुपादेयमुपादाय विमुच्यते ॥ ३३३ ॥ सुलभाः प्राणिनां प्रायस्त्रिदशाधिपसंपदः । शेवधिः सिद्धिसौख्यानां सम्यक्त्वं त्वतिदुर्लभम् ॥३३४॥ भूयिष्ठे कर्मणि क्षीणे कैश्चिच्चारित्रमाप्यते । सुखैकहेतोर्यस्याग्रे चिन्तारत्नं न किंचन ॥ ३३५॥ भवदावानलज्वालानिर्वापणनवाम्बुदः । विवेकिनो मनःकेकिमुदे स्यात्सर्वसंयमः ॥ ३३६ ॥ निशम्य देशनामेनामेनोघ्नी स्वामिनो मुखात् । उत्थाय प्रार्थयांचक्रे वरदत्तनृपो व्रतम् ॥ ३३७ ।। काव्यमाला। अथ तं दीक्षयामास करुणाम्भोनिधिः प्रभुः । अनुप्रबजितास्तं च द्वे सहस्रे नरेश्वराः ॥ ३३८ ॥ वरदत्तादिकास्तेषु महोत्सवपुरःसरम् । अस्थापयत्प्रभुः प्राज्ञानेकादश गणेश्वरान् ॥ ३३९ ॥ जिनेन्द्रत्रिपदीं श्रुत्वा ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा द्वादशाङ्गान्यसूत्रयन् ॥ ३४०॥ भूरिकन्यान्वितां राजपुत्रीं प्रव्राज्य यक्षिणीम् । व्यघत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ।। ३४१ ।। स्वाम्येकदत्तनयनां ब्रतबद्धमनोरथाम् । वीक्ष्य राजीमतीं दक्षः प्रभुः पप्रच्छ केशवः ।। ३४२ ॥ प्रभो प्रीतिरतिस्फीता कस्य जागर्ति न त्वयि । राजीमत्यास्तु काप्येषा किंतु वाङ्मनसातिगा ॥ ३४३ ॥ आत्मन्यनन्यसामान्यं राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम व्याजहार जिनेश्वरः ।। ३४४॥ तस्याः प्रमुर्ददद्दीक्षामकरोत्प्रेम निष्क्रयम् । महात्मखनुरागोऽपि भवत्येव शुभायतिः ॥ ३४५ ॥ दशार्हैरुग्रसेनाद्यैर्नरेशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च श्राद्धधर्मोऽभ्यपद्यत ।। ३४६ ॥ रोहिणीदेवकीमामारुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः प्रभोः पार्श्वे प्रपेदिरे ॥ ३४७ ।। एवं सभायामाद्यायां सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां प्रतिरोधक्षमो दिशाम् ॥ ३४८ ॥ नत्वा नाथं जगामाथ दिवं दिविषदां पतिः। हरिश्च पाण्डवैः सार्घं सबन्धुं द्वारकां पुरीम् ॥ ३४९ ॥ प्रावृषं शरदं चापि व्यतीत्य भगवानपि । भव्याब्जखण्डमार्तण्डो विजहार वसुंधराम् ।। ३५० ।। पाण्डवचरितम् । 4 अथ कथमपि तेऽपि प्रीतिमापुच्छ्य कृष्णं त्रिभुवनगुरुवाचां सौरभं भावयन्तः । त्वरिततरमवापुश्चारुक्लृप्तोपचारां मुदितमुदितपौराः स्वां पुरीं पाण्डवेयाः ॥ ३५१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिवि- वाहोपक्रमवतकेवलज्ञानवर्णनो नाम षोडशः सर्गः॥ १६ ॥ सप्तदशः सर्गः हस्तिनापुरसाम्राज्यसरोजवनखेलिनः । दिनानि चिन्युर्भूयांसि राजहंसाः पृथासुताः ॥ १ ॥ सम्यगाराधितन्यायचिन्तारत्नोपनीतयोः। नैवार्थकामयोरर्थे प्रयत्नस्तैर्व्यधीयत ॥२॥ धर्मेषु बहुधा कल्पपादपादिव जित्वरे । ते स्मरन्तः प्रभोर्वाचमयतन्त निरन्तरम् ॥ ३ ॥ तथा नित्यं नयाम्भोमिस्तेऽसिञ्चन्धर्मशाखिनम् । यथैतदभवत्सर्वं सच्छायमवनीतलम् ॥ ४॥ ते तैस्तैर्विधिमिर्धर्मशालिक्षेत्रमवर्धयन् । कामार्थाभ्यां पुनस्तस्मिन्नन्तस्तामरसायितम् ॥ ५॥ अन्वहं च विचिन्वन्तो नव्या नव्याः प्रभावनाः । सर्वतोऽथार्हतं धर्ममेकच्छत्रमसूत्रयन् ॥ ६॥ समीहांचक्रिरे ते च जगदानन्दिनः प्रभोः। नेमेरागमनं प्रीताः पयोदस्येव केकिनः ॥ ७॥ विज्ञाय तन्मनोवृत्तिमन्येऽद्युर्भगवानपि । क्रमेण विहरन्सर्वामुर्वींं तत्पुरमागमत् ॥ ४॥ बाह्योद्यानभुवं वायुकुमाराः प्रीतचेतसः। तदानीमात्मना सार्धमसृजन्नेकयोजनम् ॥ ९ ॥ पुण्यानि पुण्यबीजानि वक्तुकामा इवात्मनि । तां मुदा सिषिचुर्मेधकुमारा गन्धवारिमिः ॥१०॥ ६६४ काव्यमाला। क्षिपन्तः कर्मणा बन्धमात्मनो व्यन्तरामराः। बबन्धुरखिलं रत्नशिलाभिस्तन्महीतलम् ॥ ११ ॥ तसिंश्चतुर्दिशं रत्नद्युतिविद्योतिताम्बराम् । ते चतुस्तोरणीं चक्रुर्ध्वजच्छत्रैरलंकृताम् ॥ १२ ॥ प्रांशुज्योतिःशिखाकीर्णं कपिशीर्षककैतवात् । तस्मिन्नभ्यन्तरे रत्नवप्रं वैमानिका व्यधुः ॥ १३ ॥ मध्यमं मधुरं नानामाणिक्यकपिशीर्षकैः। . प्राकारं ज्योतिषामाशास्तन्वते स हिरण्मयम् ॥ १४ ॥ पिण्डिताभिरिव ज्योत्स्नावीचिभिः परिनिर्मितम् । कालधौतं बहि:शालं वितेनुर्भुवनाधिपाः ॥ १५॥ माणिक्यशालभञ्जीभिर्भूषिताभिः समन्ततः । चत्वारि गोपुराण्यासन्प्रतिप्राकारमुच्चकैः ॥ १६ ॥ बहिर्वप्रचतुर्द्वाराः पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या विचक्रुर्व्यन्तरामराः ॥ १७ ॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छेदं वितेनुस्ते विश्रामाय जिनेशितुः ॥१८॥ मध्ये माणिक्यवप्रं ते चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्नपीठे प्राङ्मुखमादधुः ॥ १९ ॥ त एव स्वामिनो विश्वत्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनुरातपत्रत्रयीं सिताम् ॥२०॥ समण्डलमिवायातं रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते धर्मचक्रमधिद्युति ।। २१ ।। जगदद्वैततां नेतुराख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य पुरो धर्मध्वजं व्यधुः ।। २२ ॥ देशनोर्व्यां ततस्तस्यामधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म जानुदघ्नीं दिवौकसः ॥ २३ ॥ पाण्डवचरितम् । ६६५ पदानि नवसु न्यस्यन्सुवर्णजलजन्मसु । एत्याप्रदक्षिणीकृत्य चैत्रधात्रीरुहं च तम् ॥ २४ ॥ तीर्थाय नम इत्युच्चैरुच्चार्य भुवनप्रभुः । तस्मिन्सिंहासने दिव्ये श्रीमान्नेभिरुपाविशत् ॥ २५॥ (युग्मम्) मार्तण्डमण्डलज्योतिस्तिरस्कारोद्यतद्युति । अनुमौलि क्षणादाविरासीद्भामण्डलं विभोः ॥ २६ ॥ अन्तर्नगरमभ्येत्य झगित्युद्यानपालकः । प्रभोरागमनं धर्मसूनवेऽथ व्यजिज्ञपत् ॥ २७ ॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः । द्वादशार्धयुता लक्षाः कलधौतस्य दत्तवान् ॥२८॥ गजस्थैरथ भीमाद्यैर्वान्धवैः परिवारितः। सेवामिलितसामन्तबलजातेरलंकृतः ॥ २९॥ सैन्धवोद्धूतधूलीमिर्ध्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्दूरैर्दत्तसंध्याभ्रविभ्रमः ॥ ३० ॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नाथं तत्कालमचलन्नृपः ॥३१॥ त्रिभिर्विशेषकम् । आनकामन्त्रितैः पौरलोकैरालोकितो मुदा । स्वामिनो देशनावेश्म मेदिनीपतिरासदत् ॥ ३२ ॥ चामरादीनि संत्यज्य राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥ ३३ ॥ सुरासुरनरव्रातचातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं भुवनं देशनाभृतैः ॥ ३४ ॥ भवधर्मर्तुसंतापनिर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः स्वामिनं मुदितं पुरः ।। ३५ ॥ त्रिश्च प्रदक्षिणीकृत्य प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे स्तोतुमेवं महीपतिः ॥ ३६॥ ८४ ६६६ काव्यमाला। जय दुस्तरसंसारप्रान्तरप्रान्तपादप । जयान्तरतमःस्तोमनिस्तक्षणनभोमणे ॥ ३७ ।। समस्तत्रिजगत्संपत्संपादनपटीयसी। नृणां त्वच्चरणाम्भोजभक्तिः कल्पलतायते ॥ ३८॥ त्वत्पादपादपच्छायां क्लान्तिच्छिदमुपेयुषाम् । आधिव्याधिमवस्तापः प्रलयं याति जन्मिनाम् ॥ ३९ ॥ भवदावानलज्वालाप्रतप्तस्य मम प्रभो। भवन्मूर्तिः सुधावर्तिर्दिष्ट्या दृष्टिपथं गता ॥ १०॥ त्वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । संभोगः संपदां सद्यः स्वादुः प्रादुर्भवेत्ततः ॥ ११ ॥ त्वत्पदाम्भोरुहद्वन्द्वसेवाहेवाकशालिनीम् । जगन्नाथ मनोवृत्तिं नित्यमीहे निजामहम् ॥ १२ ॥ वन्मूर्तिर्यदि जागर्ति रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ प्रार्थये किमतः परम् ॥ ४३ ॥ कार्यं मे प्रभुभिर्लब्धे त्वयि नेतरि नेतरैः । कल्पाङ्घ्रिपं परित्यज्य कः करीरं समाश्रयेत् ॥ ४४ ॥ तव क्रमरजोराजिर्येषां भालमभूषयत् । नरेन्द्राहीन्द्रदेवेन्द्रश्रियस्तेषां वशंवदाः ॥ ४५ ॥ एवं नाम निरीहत्वमुरीचक्रे त्वया विभो । यद्धा पराञ्चितं चेतः शिवानुत्सरणेऽपि ते ॥ १६ ॥ युक्तं यन्नाभवत्किंचित्समुद्रविजयोऽपि ते । गाम्भीर्यमुन्नतत्वं च यस्य विश्वातिवर्तिनी ॥ १७ ॥ खामिन् राजीमतीत्यागाज्ज्ञात्वापि स्त्रीपराङ्मुखम् । यत्त्वां काङ्क्षति मोक्षश्रीस्तत्ते सौभाग्यसौरभम् ॥ १८ ॥ यद्वाहं तव को नाम सामस्त्येन गुणस्तुतौ । विश्वातिक्रान्त एवासि ब्रवीमि किमतः परम् ॥ १९॥ पाण्डवचरितम् । ६६७ भवारण्यभ्रमिक्लान्तविश्वविश्रामपादपाः । सन्तु मे भवतः पादाः कल्याणफलदायिनः ।। ५० ॥ इत्यभिष्टुत्य साष्टाङ्गमानन्दाश्रुकणान्किरन् । श्रीमन्नेमिजिनाधीशं नमति स युधिष्ठिरः ।। ५१ ।। कदम्बमुकुलस्थूलरोमाञ्चकलितस्ततः । पितृबन्धुजनैः सार्धं सोऽनुशक्रमुपाविशत् ॥ ५२ ॥ अहो किमप्यपारेयं संसाराच्या महाटवी । अनन्तेनापि कालेन लङ्घन्ते यां न जन्तवः ।। ५३ ।। अथ संसारसंतापनवकादम्बिनीं विभुः । आरेभे त्रिजगहत्तशर्मणां धर्मदेशनाम् ॥ ५४ ॥ पूर्णायामपसिद्धान्तक्षारनीरैरनेकशः। एक एव सुधाकूपस्तस्वामस्ति यदागमः ॥ ५५ ॥ कथंचन कणेहत्य तसिन्पिबति यः पयः । स एव यदि नामास्याः पारे शिवपुरं ब्रजेत् ॥ ५६ ॥ स तु सम्यक्त्वसंज्ञस्य गिरेरतिदवीयसः । वर्तते कापि दुष्पापे गहरे वासनाहये ॥ ५७ ॥ प्रमादालस्यमान्द्यादिवल्लिव्यूहतिरोहितः । वीक्ष्यते न महाकूपो भन्दभाग्यैः कदाप्यसौ ॥ ५८ ॥ केचिदाप्तोपदेशेन प्राप्य तं पुण्यशालिनः । तदीयरसमाकण्ठं खादयन्ति सुधोपमम् ॥ ५९ ॥ तन्निर्गतेन सद्याननाम्ना सरलवर्त्मना । कालेनाल्पीयसा मुक्तिपुरीमासादयन्ति ते ॥ ६॥ किं चाज्ञानादिवृत्तान्तं तत्राटव्यां विसंकटम् । अतिनेदीय एवाति मिथ्यात्वाख्यं महासरः ।। ६१ ॥ ककुप्कूलंकषैस्तैस्तैरज्ञानसलिलोर्मिभिः । ह्रियन्ते सर्वदा तेन केषां नाम न दृष्टयः ।। ६२ ।। ६६८ काव्यमाला। तत्पर्यन्तेषु सच्छायं विषयद्रुमकाननम् । अशेषजगदाकर्षि तत्किमप्यस्ति दुस्तपम् ।। ६३ ॥ मूढबुद्धिर्यदासाद्य सर्वेन्द्रियमनोरमम् । मुक्तिपू:पंथपान्थोऽपि न पुरो गन्तुमीहते ॥ ६४ ॥ विकखरतरं तत्र कामिनीनलिनीवनम् । यत्पुनर्वर्तते तस्य किं नाम ब्रूमहे वयम् ॥ ६५ ॥ ये तु कामादयस्तत्र खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव कस्य नाम न मानसम् ॥ ६६ ॥ ततोऽस्मिन्सरसि स्नात्वा निपीय च भृशं पयः । मूढास्ताविषयाख्यान्ये श्रयन्ते तीरभूरुहः ॥ ६७ ॥ तेष्वसाध्यतमः सर्वमात्रिकैर्निरवग्रहः । प्रेमनामा महाभूतस्तानाविशति तत्क्षणात् ।। ६८॥ तेनाविष्टास्ततस्तेऽमी विमुञ्चन्ति त्रपाङ्कुशम् । विद्विषन्ति हितेभ्योऽपि गुरूनायवमन्वते ॥ ६९ ॥ असंबद्धानि जल्पन्ति दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ ७० ॥ भ्राम्यतां च सदा तेन कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्क प्रहरन्ति च ॥ ७१ ॥ रागकेसरिणा द्वेषकरिणा च पदे पदे। कदर्थ्यन्ते तदा किंचिद्यथा वाचामगोचरम् ॥ ७२ ।। एवमस्यां महाटव्यां संचरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव यां लभन्ते न तेऽङ्गिनः ॥ ७३ ॥ ततः संत्यज्य दूरेण तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिबत हे जनाः ॥ ७४ ।। येन गच्छत निर्बाधसौख्यसंभारभासुरम् । शश्वदुज्जागरज्योतिर्मयीं शिवपुरीं जवात् ॥ ७५ ॥ 1 पाण्डवचरितम्। ६६९ इत्याकर्ण्य सुधासिन्धुं भगवद्देशनागिरम् ।। प्रत्यबुध्यन्त के नाम न प्रत्यासन्नमुक्तयः ॥ ७६.॥ स्त्रियो बभूवुर्याः काश्चित्समरे मृतभर्तृकाः । 'ताः सर्वाः प्रभुपादान्ते व्रतमाददिरे भुदा ॥ ७७ ॥ गान्धारीधृतराष्ट्रौ तु स्वामिवारग्ब्रह्मभावितौ ।। . ससम्यकामगृह्णीतां श्रावकद्वादशवतीम् ॥७८ ॥ अन्येऽपि देशविरति केचिज्जगृहिरे क्षणात् । ... केचिच्च सर्वविरतिं स्वामिनश्चरणान्तिके ॥ ७९ ॥ व्यस्राक्षीद्देशनास्थानीं समयेऽथ जगत्पतिः । शक्रधर्मसुताद्याश्च खं खं स्थानं ययुर्जनाः ।। ८० ॥ जगदम्भोजखण्डैकचण्डरश्मिस्ततो विभुः। व्यहार्षीदन्यतो हर्षात्वर्गिवगैरनुद्रुतः॥ ८१॥ . प्रमोर्वचनपीयूषरसनिर्यासवर्षिणः । आनन्दैकमयान्निन्युर्वासरान्पाण्डुसूनवः॥ ८२ ।। संपदामादिकन्दं च धर्मं नित्यमसूत्रयत् । तस्यापि बीजभूतं च न्यायमश्रान्तमाश्रयत् ॥ ८३ ॥ ते धर्मार्थाविरोधेन मिथः प्रणयिचेतसा । पाञ्चालसुतया सार्घं काममप्यकृतार्थयन् ॥ ८४ ॥ अन्येद्युर्जगदालोककौतुकी नारदो मुनिः। द्रौपदीमन्दिरेऽभ्यागादकस्मात्पवनाध्वना ।। ८५॥ तया चाविरतस्यास्य न चक्रे काचिदर्हणा । तेनास्यामयमत्यन्तममर्षादित्यचिन्तयत् ॥ ८६ ॥ क्षेप्तव्येयं मयावश्यं गम्भीरे दुःखसागरे । चिन्तयित्वेति पक्षीव तरक्षणादुत्पपात सः ॥ ८७ ॥ प्रासादवलभौ सार्धमन्यदा धर्मसनुना। सुखनिद्रायितां कश्चिज्जहार द्रुपदात्मजाम् ॥ ८८॥ ६७० काव्यमाला। प्रातरालोक्य पल्यङ्कं पाञ्चालीशून्यमात्मनः । संभ्रान्तो भूपतिः साकं सर्वैरप्यनुजन्मभिः ॥ ८९ ॥ आप्तैर्गवेषयामास वल्लभां तामितस्ततः। न पुनः क्वचिदद्राक्षुर्भूतले तेऽखिलेऽपि ताम् ॥ ९०॥ ततस्तत्कालमुन्मीलदुःखसंभारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म कुन्तीं कंसद्विषोऽन्तिकम् ॥ ११ ॥ गत्वा च द्वारकां कुन्त्या तत्रोदन्ते निवेदिते । कंचित्कालं हरिस्तस्थौ किंकर्तव्यविमूढधीः॥ ९२ ॥ नारदोऽन्येद्युरायातः सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत्पाञ्चालतनुजन्मनः॥ ९३ ।। द्वीपेऽस्ति धातकीखण्डेऽपरकङ्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति वासपद्म इव श्रियः ॥ ९४ ॥ तदीयसदने सौरे पाञ्चालीसदृशाकृतिम् । मृगाक्षीं कांचिदद्राक्षमित्याख्यायोत्पपात सः ॥ ९५॥ नूनं कर्मेदमस्यैव सापि द्रुपदभूर्ध्रुवम् । इति निश्चित्य कंसारिः पितृष्वस्त्रे न्यवदेयत् ॥ ९६ ॥ संदिदेश तथा पाण्डसूनुभ्यश्च यथा जवात् । युष्माभिरभ्युपेतव्यं तीरे प्राग्लवणोदधेः ॥ ९७ ॥ इत्युदीर्य विसृष्टेयं विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् (8) ॥ ९८॥ तेऽथ प्रियावियोगार्ताः पौरस्त्योदधिरोधसि । प्राग्गृहीतनिवासेन संगच्छन्ते म शौरिणा ॥ ९९ ॥ अथ सुस्थितमाराद्धमधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षीदरिष्टारातिरष्टमम् ॥ १०॥ ततोऽभ्येत्याभ्यधाद्विष्णुं सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे मां किं कुर्वाणमथादिश ॥ १०१॥ पाण्डवचरितम् । ६७१ व्याजहार हरिर्भद्र केनचिद्रौपदीकृता । 'तदीया धातकीखण्डे किंवदन्तीव विद्यते ॥ १०२॥ तत्तथा किंचिदाधेहि सा प्रत्याह्रियते यथा । इत्याकर्ण्य हरेर्वाचमुवाच लवणाधिपः ॥ १०३ ॥ सानीकमहितं हत्वा क्षिप्त्वा च मकराकरे । तां देव धातकीखण्डादुपानीय तवार्पये ॥ १० ॥ मम खप्रेष्यदेशस्य यद्यादेशं प्रयच्छसि । स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ॥ १०५॥ (युग्मम्) ततोऽब्रवीन्मुरारातिः सर्वं त्वय्युपपद्यते । किं त्वेवं विहितं कार्यमस्माकमयशस्करम् ॥ १०६॥ ततो नः सरितां नाथमतिक्रम्य यथा रथाः। यान्ति षट्घातकीखण्डे तथा त्वं कर्तुमर्हसि ॥ १०७ ॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरेरुचेरुलवणार्णवम् ॥ १०८॥ ततस्ते धातकीखण्डे मरकङ्कापुरीं ययुः। बाह्योद्याने च सर्वतुकेलिवेश्मन्यवातरन् ।। १०९ ॥ तत्र कोपभरात्तत्तदनुशिष्य मुरारिणा । दारुकः प्रेषयांचओ पद्मनाभनृपान्तिकम् ॥ ११०॥ तस्यास्थानस्थितस्यैत्य दारुको दारुणाकृतिः । पादपीठपदाक्रम्य ददौ कुन्तेन पत्रकम् ॥ १११ ॥ अवादीच्च मदाचान्तखान्तभूपालपांसनः । ब्रूते त्वां मुरजिज्जम्बूद्वीपस्य भरतार्धभुक् ॥ ११२ ॥ रे त्वया पाण्डवेयानां महन्धूनां प्रियां पुरा । द्रौपदीं हरता किं न चिन्तितं मे भुजोर्जितम् ॥ ११३ ॥ तत्तवाद्य ध्रुवं दैवमभवत्प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति कोऽपि तत्संमुखीभव ॥ ११ ॥ ६०२: काव्यमाला। अहं तु त्वत्पुरीबाह्यकानने सह पाण्डवैः । । षड्भिरेव रथैरेत्य स्थितोऽस्मि रणकेलये . ॥ ११५ ॥ दारुकस्येति गां श्रुत्वा पाटयित्वा जवेन तत् । पद्मः सम प्रकोपस्य दूरं चिक्षेप पत्रकम् ।। ११६ ॥ ऊचे च रे मुकुन्दोऽसौ जम्बूद्वीपे भयंकरः। इह तूर्जखिनः कीदृग् ज्ञानी कोऽपि पुरा- मम ॥ ११७ ॥ तद्भजायात एवाहमेषोऽनुपदमेव ते । 'सज्जीकुरु समीकाय तं जवात्सह पाण्डवैः ॥ ११८ ॥ परं यदि रणे नैतान्सर्वानप्येकहेलया। ग्रासीकुर्वे तदा दूत पद्मनाभोऽसि न ध्रुवम् ॥ ११९ ॥ इत्यस्य गिरमागत्य दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि सपार्थः समवर्मयत् ॥ १२० ॥ पद्मनाभोऽथ ककुभः पूरयन्पृतनोर्मिभिः । नगर्या निरगायोद्धकामः केशवपाण्डवैः ॥ १२१ ॥ पाण्डवान्पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन युध्येऽहं वा विरोधिना ॥ १२२ ।। अथोचुः पाण्डवाः कोऽयमसिन्नपि तवोद्यमः। वडवाहव्यवाहस्य कः संरम्भो हि पल्वले ॥१२३॥ तविष्णो वयमेवैनं योधयिष्यामहे बलात् । अयं वा भवितेदानीं वयं वा जयभाजनम् ॥ १२४ ॥ इत्युदीर्य सुताः पाण्डोरभ्यमित्रीणतां दधुः । तथैवास्थान्मुरारिस्तु संगरालोककौतुकी ॥ १२५ ॥ पद्मनाभपताकिन्या साकं कुन्तीतनूरुहाम् । अथाभूद्भुवनाभोगडामरः समरश्चिरम् ।। १२६ ॥ ततः पराञ्चिते किंचिदनीके पाण्डुजन्ममिः । भूपतिः स्वयमुत्तस्थे भूरिस्थामा महाभटैः ॥ १२७॥ > पाण्डवचरितम् । पाण्डवेयास्ततस्तेन तथा बाणैर्बभञ्जिरे । यथा समरमुत्सृज्य मुरारिं शरणं ययुः ॥ १२८ ॥ व्याहरंश्च हरे नैनं विजेतुं वयमीश्महे । त्वमेव नूनमेतस्मै स्थास्यसे समराङ्गणे ॥ १२९॥ ऊचेऽथ सस्मितः शौरिर्द्विषा यूयं जितास्तदा । यदायं वा वयं वाथ जेतारोऽयेत्यवोचत ॥ १३०॥ इदानीं तु विलोकध्वं मदीयं रणकौतुकम् । जेष्याम्येनं रणे जेष्ये नानेन कथमप्यहम् ॥ १३१ ।। इत्युदित्वा मुरारातिरुच्चण्डैर्ध्वनिडम्बरैः । क्षोभितानेकराजन्यं पाञ्चजन्यमपूरयत् ॥ १३२ ।। बलत्रिभागः पद्मस्य तदीयध्वनिनानशत् । पञ्चाहेनासितेनेन्दोर्बिम्बाभोगनिभागवत् ॥ १३३ ॥ शार्ङी शार्ङ्गमथारोप्य कोपादास्फालयद्दृढम् । तन्नादेनापि तत्सैन्यत्रिभागस्तद्वदत्रुटत् ॥ १३४ ॥ प्रणश्याथ पुरीं पद्मः शेषसैन्यावृतोऽविशत् । दृढलोहार्गलाः सर्वाः प्रतोलीश्वाप्यधापयत् ।। १३५॥ उत्तीर्याथ रथाद्विष्णुर्कोमान्तर्व्यापि भैरवम् । व्यात्ताननं हसद्दष्टुं नारसिंह वपुर्व्यधात् ॥ १३६ ॥ अथोन्मर्यादयन्नद्रीन्कम्पयन्काश्यपीमपि । चालयनचलान्विष्णुर्वितेने पादर्दुरान् ॥ १३७ ।। प्राकाराग्राणि तैः पेतुर्दुद्रुवुर्गोपुराणि च । ध्वंसन्ते स च वेश्मानि सस्रंसे चाद्रिमण्डली ॥ १३८ ।। निम्नेषु केऽप्यलीयन्त निपेतुः केऽपि मूर्च्छिताः । आलिलिङ्गुस्तरून्केऽपि जनाः केऽप्यप्सु चाविशन् ॥ १३९॥ क्षम्यतामिदमागो मे देवि दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीयान्मां रक्षास्मादधोक्षजात् ॥ १४० ॥ काव्यमाला- इत्याधुदीरयन्दीनं भिया तरलतारकः । पद्मनाभोऽथ पाञ्चालीपादपङ्केरुहेऽपतत् ॥ १४१ ॥ (युग्मम् ) साप्यूचे चेद्वधूवेषमाधायाने विधाय माम् । शार्ङ्गिणं शरणं यासि तदा जीवसि नान्यथा ॥ १४२ ॥ तयेत्युक्तस्तथा चक्रे पद्मनाभो भयातुरः । प्राणत्राणाय नीचा हि नास्ति तद्यन्न कुर्वते ॥ १४३ ।। नृसिंहवपुरुत्सृज्य प्रसन्नस्तं जनार्दनः । मा भैषीरिति संभाष्य पप्रच्छ प्राक्तनीं कथाम् ॥ १४४ ॥ पद्मनाभोऽब्रवीद्देव नारदो मुनिपुंगवः । सहसैव कदाचिन्मामागादन्तःपुरःस्थितम् ॥ १४५ ॥ तथाभ्यर्च्य यथौचित्यमप्रच्छि स मुनिर्मया। यदीदृश्यः कचिदृष्टाः स्त्रियो मत्प्रेयसीसमाः ॥ १४६ ॥ मामथोचे स किं कूपमण्डूक इव भाषसे । पाञ्चाल्याः पुरतो राजन्कीदृश्यस्तव वल्लभाः ॥ १४७ ॥ भूयोऽपि विस्मयस्मेरमानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन्केयं यत्त्वयैवं प्रशस्यते ॥ १४८ ॥ 'अथाह स मुनिर्जम्बूद्वीपभारतभूषणम् । हस्तिनापुरमप्यस्ति पुरं स्वर्गपुरोपमम् ॥ १४९ ।। पाण्डवाश्चण्डदोर्दण्डास्तद्धिन्वन्ति यशोधनाः । आदिकन्दो मुकुन्दोऽभूद्यत्साम्राज्यमहीरुहः ॥ १५०॥ गञ्जा हिरण्यगर्भस्य रूपलावण्यसंपदाम् । पाञ्चाली नाम पञ्चानां तेषामेकैव वल्लभा ॥ १५१ ॥ व्याहृत्येति क्षणादन्तरिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकारैरहमुज्जागरस्मरः ॥ १५२ ।। पूर्वसंगतिकं मित्रं देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास कृष्णाहरणहेतवे ।। १५३ ।। (युग्मम्) पाण्डवचरितम् । ६७५ सोऽब्रवीदथ पाञ्चाली सतीसीमन्तमौक्तिकम् । कथंचिदीहते नान्यं वचः कुर्वे तथापि ते ।। १५४ ।। इत्युक्त्वा मेऽनुरोधेन मन्दिरोपरिशायिनीम् । दत्त्वा प्रखापिनीं विद्या द्रौपदीं सोऽहरत्सुरः॥ १५५॥ तेनानीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म संभ्रमं चामजत्परम् ॥ १५६ ॥ ततोऽहं तां तथाभूतामभ्यधां मा न (नु)सुन्दरि । किंचित्कार्षीर्मनःक्षोभं किं करोमि पुरस्तव ॥ १५८ ॥ द्वीपेऽसिन्धातकीखण्डे जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यख वल्लभम् ॥ १५८ ॥ ततः किंचिद्विचिन्त्येयमूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः करिष्ये ते वचस्तदा ॥ १५९ ॥ सागरान्तरितो जम्बूद्वीपतः क इहैष्यति । इत्यालोच्य मयाप्यस्या वचस्तदुररीकृतम् ॥ १६० ॥ भवन्तो भवनातीतमहिमैकास्पदं पुनः। व्यतीतार्णवमप्येन(त्यू)ष्ठतोऽस्याः समागमन् ॥ १६१॥ इत्याख्याय कथां कृष्णविसृष्टः सोऽविशत्पुरीम् । कृष्णोऽपि च बले कृष्णां कृत्वा कौन्तेयसात्ततः ॥ १२ ॥ तदा च तत्र चम्पायामारामे पूर्णभद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ॥ १६३ ॥ रणारम्भभवं कृष्णपाञ्चजन्यस्य निखनम् । श्रुत्वापृच्छत्सभासीनस्तं हरिः कपिलाभिधः ॥ १६४ ॥ भगवन्भुवनाभोगभिदारम्भमयंकरः । मत्समानस्य कस्यैष शङ्खनादो विजृम्भितः ॥ १६५ ।। तीर्थकृत्कपिलेनेति पृष्टे विस्पष्टविस्मयम् । पद्मनाभमहीपालकथां सर्वामचीकथत् ॥ १६६ ॥ ६७६ काव्यमाला। अत्रायातस्य कृष्णस्य स्वगतं कर्तुमिच्छति । मनो मे कपिलेनेति प्रोक्ते भूयो विभुर्जगौ ॥ १६७ ।। कदापि न भवत्येतद्भविष्यति बभूव वा। संगच्छेते जिनौ चक्रभृतौ शौरी च यन्मिथः ॥ १६८॥ वीक्षिण्यसे तथाप्यस्य त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं सोऽनुकृष्णमधावत ॥ १६९ ॥ आससाद क्षणादेवं लवणोदन्वतस्तटम् । अपश्यच्च स कृष्णस्य स्यन्दनप्रतिपद्धतिम् ॥ १७ ॥ पञ्चवर्णरुचीन्संध्यारागैरिव विनिर्मितान् । मध्येजलधि चैक्षिष्ट तदीयरथकेतनान् ॥ १७१ ॥ ततो मदीयमादाय स्वागतं गन्तुमर्हसि । इति व्यकाक्षरं दध्मौ कपिलो बारिजं निजम् ॥ १७२ ॥ खागतं लब्धमस्माभिः प्रणयेनामुना तव । इति विस्पष्टवर्णं स्वं शङ्खं कृष्णोऽप्यपूरयत् ।। १७३ ।। तन्निनादमुपश्रुत्य कपिलोऽथ न्यवर्तत । जगामामरकङ्कां च दत्तातङ्कां मुरारिणा ॥ १७४ ।। कुर्वाणेनैनमन्यायं प्रतापस्य मम त्वया । चक्रे म्लानिरियं दुष्ट तिष्ठ मा तत्पुरो मम ॥ १७५ ॥ इत्युक्त्वा पद्मभूपालं कोपेन निरवासयत् । कपिलः स्थापयामास तत्पदे च तदात्मजम् ॥ १७६ ॥ गच्छन्नन्तःसमुद्रं च रथोत्सङ्गे निषेदुषीम् । प्रेयसीमिति सप्रेम व्याजहार युधिष्ठिरः॥ १७७ ॥ प्रणीतप्रार्थने देवि तसिन्भूपालपांसने । किं विचिन्त्य तदा मासोऽवधित्वेन त्वयार्थितः ॥ १७८ ॥ साभ्यधादेव चेन्मासमध्ये नैष्यन्ति मत्प्रियाः । तदानशनमादाय मरिष्यामीत्यचिन्तयम् ॥ १७९ ॥ पाण्डवचरितम् । ६७७ कृष्णोऽथाभ्यागमत्पारेपारावारं यथागतम् । वल्लभालाभकल्लोलिचेतोभिः सह पाण्डवैः ॥ १८० ॥ सुस्थितं लवणाधीशं यावदामन्त्रये क्षणम् । तावन्मन्दाकिनीं यूयमेतामुत्तरताग्रतः ॥ १८१ ॥ इत्यादेशेन कंसारेर्नावमासाद्य कांचन । उत्तरुः पाण्डवा गङ्गां पृथुं द्वाषष्टियोजिनीम् ॥१८२ ॥ (युग्मम्) बलानुजन्मनो बाहुबलं वीक्षिष्यतेऽधुना । इत्यालोच्य न ते नावं प्राहिण्वन्वनमालिने ॥ १८३ ॥ ततः सुस्थितमापृच्छय न्यस्य वामे मुजे रथम् । दोष्णानेन हरिर्गङ्गां तरीतुमुपचक्रमे ।। १८४ ।। कृच्छ्राद्गच्छन्प्रवाहान्तः श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेयास्तीर्णेयं यैः सुरापगा ॥ १८५॥ अथास्मिन्नतिखिन्नेऽन्तर्विचक्रे देवतास्थलम् । मुहूर्तं तत्र विश्रम्य पारेगङ्गं ययौ हरिः ।। १८६ ॥ तत्रापृच्छन्सुतान्पाण्डोः केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णास्तेऽपि नावेत्यचीकथन् ॥ १८७॥ किं नौर्न प्रेषिता मह्यमित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दोःसारमित्याख्यान्ति स पाण्डवाः ॥ १८८ ॥ ततः कोपारुणीभूतचक्षुर्दामोदरोऽभ्यधात् । कंसकेशिजरासन्धचाणूरादिवधे पुरा ॥ १८९॥ संप्रत्येव जये पद्मनाभस्य च महीभुजः । नेक्षितं मम दोःसारं ददृक्षध्वेऽधुनैव यत् ॥ १९॥ इत्युदीर्य मुरारातिर्लोहदण्डेन कोपतः । स्यन्दनान्पाण्डवेयानां लोष्टचूरमचूरयत् ।। १९१ ॥ (त्रिभिर्विशेषकम्) जगाद च यदि क्षोणीं मदीयामधिवत्स्यथ । सपुत्रबान्धवानीका तदानीं न भविष्यथ ॥ १९२ ॥ ६७८ काव्यमाला। सक्रोधमभिधायेति कंसारिर्द्वारकां ययौ । श्यामीभूतमुखाम्भोजाः पाण्डवा अपि हास्तिनम् ॥ १९३ ॥ ते तत्राभ्येत्य ता वार्तां मातापित्रोर्न्यवेदयन् । सुखदुःखैकविश्रामः पितरौ हि तनूरुहाम् ॥ १९४ ॥ अथ पाण्डर्विमृश्यान्तेऽनुरोधविधिवत्स(त)या । द्वारकायां पुरि प्रैषीत्कुन्तीं कंसान्तकान्तिकम् ॥ १९५ ॥ ततः कुन्ती गजारूढा द्वारकोद्यानमीयुषी । प्रभोः समवसरणे वीक्ष्य पञ्चां तदाविशत् ॥ १९६ ॥ नत्वा नाथं निषेदुष्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः प्रभो मद्धाम्नि साधवः ।। १९७ ।। अन्योऽन्यमतिसारूप्यादभेदभ्रमकारिणः । मम प्रीतिकराः के ते कथं च सदृशा हरेः ॥ १९८ ॥(युग्मम् आख्याति स्म ततः खामी पुरे भद्रेऽस्ति भद्रिले । सुलसानलसा धर्मे नागस्य श्रेष्ठिनः प्रिया ॥ १९९ ।। तस्यै प्रददिरे भक्तितोषिणा नैगमैषिणा। कृष्णाग्रजाः षडप्येते पुत्रास्त्वत्कुक्षिकौस्तुभाः ॥२०॥ तस्या मृतान्यपत्यानि तस्यार्प्यन्त पुनस्तव । गत्वा तत्र मयाप्येते दीक्षिता मोक्षगामिनः ।। २०१ ।। अतोऽमी सहशा विष्णोस्त्वदृशोरमृताञ्जनम् । आनन्दकन्दलीहेतुरीदृशं ह्यौरसं महः ॥ २०२ ॥ श्रुत्वेति देवकी स्नेहलहरीप्रसुतस्तनी । ववन्दे सह कृष्णाद्यैस्तान्प्रीतिपुलकाङ्कितैः ॥ २०३ ॥ स्वामिनाथ विसृष्टायां देशनायां जनार्दनः । कुन्तीं पितृखसारं खां मुदितः स्वगृहेऽनयत् ॥ २०४ ॥ परेद्यवि समं कुन्त्या पुनरासेदिवान्सदः । स्वां लक्ष्मीं वीक्ष्य तादृक्षामन्वयुक्त प्रभुं हरिः ।। २०५॥ ६७९ पाण्डवचरितम् । अस्याः स्फीतश्रियः पुर्याः क्षयो भावी किमन्यतः । ममापि मृत्युरन्यस्मात्किं स्वामिन्निति कथ्यताम् ॥ २०६॥ आमिति प्रभुणा प्रोक्ते करमादिति जगौ हरिः। अथाचख्यौ जिनः पुर्या मुनींपायनात्क्षयः ॥२०७॥ अस्माज्जराकुमाराच्च स्निग्धाद्वन्धोर्वचस्तव । यदुवंशक्षये विद्धि मद्यमाद्यं हि कारणम् ॥ २०८॥ इत्याकर्ण्य विभोर्वाचमाचान्तहृदयो मिया । सर्वपर्षज्जनो जज्ञे वैमनस्यमलीमसः ॥ २०९ ॥ धिगेनं यदसौ पात्रं भावी बन्धुवधैनसाम् । इत्येककालमालोकि तदालोकैरात्मजः ॥ २१० ॥ भ्रातुर्घाताय मा भूवमित्यसौ धन्व सेषुधि । विभ्रद्ययावरण्यानीं द्वारकां च हरिः पुनः॥ २११ ।। तत्रैव यादवलेहात्परिव्राज्य व्रती वसन् । द्वीपायनोऽपि शुश्राव जनेभ्यस्तद्वचः प्रभोः ।। २१२ ॥ ततः षष्ठतपः कुर्वन्ब्रह्मचारी शुचिः शमी। पूर्वाहपातकाद्भीतः कान्तारं सोऽप्यशिश्रियत् ॥ २१३ ॥ पुरीदाहकुलोच्छेदनिदानमथ केशवः । नवीनं सीधुसंधानं प्रत्यषेघज्जनप्रियः ॥ २१४ ॥ प्राक्तनं तु कदम्बाद्रेः कदम्बाह्वे वने हरिः । कादम्बरीगुहाभ्यर्णे मद्यमत्याजयज्जनैः ॥ २१५ ॥ भूरिभूमीरुहाकीर्णे तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त शिलाकुण्डानि शुण्डया ॥ २१६ ॥ तदानीं चाभ्यधाइन्धुः सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां जिघृक्षामि जिनान्तिके ॥.२१७ ॥ बलोऽप्यूचे सहायं त्वां विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन विदधे तु तवेप्सितम् ॥ २१८॥ काव्यमाला। यदि देव प्रदत्तापत्प्रौढिव्यामूढमानसम् । दिवं यातः कदाप्येत्य खेहान्मां बोधयिष्यसि ॥ २१९ ॥ तथेत्युक्त्वा व्यधात्वार्थ सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र ययौ च स्वामिना समम् ॥ २२०॥ चिरादवसरं प्राप्य कुन्ती कृष्णमथावदत् । पाण्डवाः क्वासतां वत्स त्वया निर्विषयीकृताः ॥ २२१ ॥ तवैवेयमशेषापि भरतार्धवसुंधरा । तत्प्रसीद स्वबन्धूनां किमपि स्थानमादिश ॥ २२२ ॥ केशवोऽप्यनवीन्नव्यां दक्षिणाम्भोधिरोघसि । निर्माय पाण्डुमथुरां तत्र तिष्ठन्तु पाण्डवाः ॥ २२३ ।। अथैत्य हास्तिनं कुन्ती सुतानां-तदचीकथत् । आगत्य पाण्ड्डविषये तत्तथा तेऽपि चक्रिरे ॥ २२४ ॥ अभिमन्यूत्तरापुत्रं सुभद्रापौत्रमच्युतः । हस्तिनापुरभूपालं परीक्षितमतिष्ठिपत् ॥ २२५ ॥ अथ तां द्वारकावार्तां परावर्तयतां हृदि । पार्थानां पाण्डुमथुराराज्येष्वासीन्न निर्वृतिः ॥ २२६ ॥ ध्यायन्तः सर्ववस्तूनां ते केवलमनित्यताम् । दीनोद्धारदयादीनि धर्मकर्माणि चक्रिरे ॥ २२७ ।। पाण्डः कुन्ती च संसारमसारं दधतौ हृदि । तदा सस्मरतुः कामं भगवन्तौ(न्तं) व्रतार्थिनौ ।। २२८ ॥ नाथोऽपि समवासार्षीत्तत्रैत्य ज्ञाततन्मनाः । भगवांश्च विवस्वांश्च परोपकृतिकर्मठौ ॥ २२९ ।। धर्मजन्माथ सोत्कण्ठं मातापितृपुरःसरः । गत्वानमज्जगन्नाथमाहितोन्माथमापदाम् ॥ २३० ॥ प्रभोः सुधामुचं श्रुत्वा वाचं संविग्नमानसौ । प्रणम्य पाण्डः कुन्ती च परित्रज्यामयाचताम् ॥ २३१ ।। पाण्डवचरितम् । ६८१ सदैव समयज्ञानामात्मजानामनुज्ञया । तयोरिष्टमपूरिष्ट समीपेऽरिष्टनेमिनः ॥ २३२ ॥ तावथासादितखामिप्रसादमुदिताशयौ । व्रताचारमधीयानौ समं तेन विजह्रतुः ॥ २३३ ॥ प्रभोः पित्रोश्च विरहे पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे धर्मे तु सुमनायितम् ॥ २३४ ॥ . निर्माय तत्र तैश्चैत्यं स्वाम्युक्तं वा व्यनोद्यत । मातापित्रोर्वियोगस्तु क्लमयामास तन्मनः ॥ २३५ ।। कृष्णा विज्ञा विशेषेण शुश्रूषामास तांस्तदा । प्रीतिपानं कलत्रं हि सर्वक्लेशापहं नृणाम् ॥ २३६ ॥ ते पञ्चेषुजिगीषायां विस्फुरत्पौरुषा अपि । ततस्तदेकविषयान्विषयाननुमेनिरे ॥ २३७ ॥ पर्यायेणाथ भुञ्जाना सह तैर्दयितैः सुखम् । गर्भं बभार पाञ्चाली निधानमिव मेदिनी ॥ २३८ ॥ अन्यतेजस्विमाहात्म्यग्रासोज्जागरतेजसम् । प्रातः प्राचीव मार्तण्डं सा क्रमात्सुषुवे सुतम् ॥ २३९ ।। जगदानन्दने तस्मिन्नन्दने धर्मनन्दनः। जाते दानं ददौ किंचिच्छोधयामास चारकान् ॥ २४०॥ नामास्य पाण्डवैः पाण्डुसेन इत्युज्वलौजसः । दीनानाथजनोद्धारपुरःसरमसूत्र्यत ॥ २४१ ॥ पाण्डुसेनोऽथ सेनानीरिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामग्र्यो जग्राह सकलाः कलाः ॥ २४२॥ जगच्चेतश्चमत्कारिगुणगृह्यैः स पाण्डवैः । अद्भुतप्राभवप्राज्ये यौवराज्ये न्ययुज्यत ॥ २४३ ॥ सर्वतः कुर्वतां तेषां तां तामर्हत्प्रभावनाम् । कल्याणोदर्कराज्यानां ययौ कालः कियानपि ॥ २४ ॥ ६६ ६८२ काव्यमाला। मषीश्याममुखो जातु कराग्रेपात्तकौस्तुभः । युधिष्ठिरं जरासूनुरुपतस्थे सदःस्थितम् ॥ २४५ ॥ कृतसमानमासीनं वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं संभ्रमं विधत्तं पप्रच्छ तपासुतः ।। २४६ ॥ एतदत्याहितं किं तु भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनी चाचं स्मरन्नस्मि भियातुरः ॥ २४७॥ सत्यैव स्वामिनो वाणीत्युक्तेऽनेन विषादवान् । पुनः कुन्तीसुतोऽवादीद्यथावृत्तं तदादिश ॥ २१८ ॥ सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याघवृत्तिश्चिरं स्थित्वा जातु बाणं मृगेऽक्षिपम् ॥ २४९ ॥ अथादित्सुः शरं गच्छन्नहमन्तरितो द्रुमैः । अहो कोऽयमनागस्कं सुखसुप्तमनालपत् ॥ २५० ॥ बाणेनाजितले बाढं निघृणो निजघान माम् । मया तु जातु नाज्ञातनामगोत्रो हतः परः ॥ २५१ ॥ वेगादेष तदाख्यातु नामगोत्रे निजे मम । येनाहमपि नाराचं तं प्रति प्रतिसंदधे ॥ २५२ ॥ श्रुत्वेति कस्यचिद्वाचं धीरोदात्तां महात्मनः । नैणोऽयमिति निश्चिन्वन्खेदमासादयं परम् ॥ २५३ ॥ (चतुर्भिः कलापकम् दशमस्य दशाहस्य सूनुरानकदुन्दुभः । नाम्ना जराकुमारोऽस्मि जरादेव्यास्तनूद्भवः ॥ २५४ ॥ निर्मानुषे वसाम्यत्र बने केनापि हेतुना। कोऽसि त्वं पुनरित्युच्चैर्दूरस्थितमवादिषम् ।। २५५ ॥ ततः सोऽवददेहि ज्यायोमातरह हरिः । स एवास्ति प्रयलस्ते विफलः सकलोऽभवत् ॥ २५६ ॥ तं दृष्ट्वा वाणिजेनेव दत्तं शुल्कमिदं त्वया । इति शृण्वन्वच्चस्तस्य समीपं प्राप साकुलः ॥ २५७ ।। पाण्डवचरितम् । कृष्णमालोक्य चामूर्च्छमपृच्छं चाप्तचेतनः । कथमेतदभूद्धा ते तदा द्वैपायने वनम् (ने) ।। २५८ ॥ अचीकथत्ततः कृष्णः प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये षण्मासाः प्रययुः सुखम् ॥ २५९ ॥ आयाते मासि वैशाखे कदम्बवनपालकः । सभायामायतिप्रेक्षी मामुपेत्य व्यजिज्ञपत् ॥ २६॥ तत्र त्यक्तं तदा देव द्रुमपुष्पाधिवासितम् । उपागतेन सुखादु मद्यं तत्पीतपूर्विणा ॥ २६१ ।। केनापि सुहृदा साम्बः प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्तैZहंस्तद्वनमाययौ ॥ २६२ ।। ते तत्रापानमाबध्य तां सुरां खैरमापपुः । क्षणेन क्षीवतां प्राप्य विलुश्च यदृच्छया ॥ २६३ ।। तत्रैकान्ते तपस्यन्तमन्तकं पापकर्मणाम् । द्वैपायनपरिव्राज ते निध्याय दधुः क्रुधम् ॥ २६ ॥ हन्यतामधुना चायं दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम दग्धुमीशिष्यते पुरीम् ॥ २६५ ॥ इति साम्बगिरा लेष्टुचपेटायष्टिमुष्टिमिः । हत्वा हत्वा मृतप्रायं तं व्यधुर्भवदात्मजाः ॥२६६॥ मृतोऽयमिति मूर्छालं तं त्यक्त्वा गृहमाययुः । मूर्छाविरामे सामर्षे तं च वीक्ष्येहमागमम् ।। २६७ ॥ इत्याख्याय स्थिते तस्मिन्ननर्थों मास्मभूदितः । इत्यागच्छं सरामोऽहं सान्त्वनाय मुनेर्वनम् ॥ २६८ ॥ कोपाटोपकडाराक्षमद्राक्षं तत्र तं मुनिम् । करौ च कुल्मलीकृत्य सप्रश्रयमवादिषम् ॥ २६९ ।। दुस्तपं ते तपः केदं मुने कोपः क चेदृशः । कथमेकत्र संवासस्तेजस्तिमिरयोरयम् ॥ २७०।। ६८४ काव्यमाला। मुहुः सिक्तं शमाम्भोभिः फलितं मुक्तिसंपदा । तपोबीजमखण्डं ते क्रोधवह्निर्दहत्ययम् ॥ २७१॥ अज्ञानैर्मद्यपानाद्यैर्डिम्भरूपैर्महामुने अपराद्धमिदं यत्ते तदद्य क्षन्तुमर्हसि ॥ २७२ ॥ अथावादीन्मुनिर्विष्णो पर्याप्तं तव सान्त्वनैः । अधुनैव क्रुधा येन निदानं विदधे मया ॥ २७३ ॥ द्वारकाया यदूनां च क्षयाय स्यामतो हरे । सर्वस्य प्रलयो भावी लोकस्यास्य युवां विना ।। २७४ ॥ पुनः प्रसादनायास्य साभिलाषं विलोक्य माम् । न्यषेधल्लाङ्गली विष्णो कृतमेतस्य सान्त्वनैः ।। २७५ ॥ वक्राङ्घ्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । हीनाङ्गविषमाक्षाश्च शान्ति यान्ति न जातुचित् ॥ २७६॥ ततः प्रेङ्खन्मनःखेदे मयि हर्म्यमुपेयुषि । द्वैपायननिदानार्थः सर्वोऽपि पुरि पप्रथे ॥२७७ ॥ स्वभावतो ममादेशादुपदेशादपि प्रभोः । बभूव धर्मकर्मैकसज्जो द्वारवतीजनः ॥ २७८ ॥ तदा कृपालुः कालज्ञः समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च प्रद्युम्नादीनदीक्षयत् ॥ २७९ ।। रुक्मिणीप्रमुखाः खामी मदीया महिषीरपि । प्राब्राजयदनेक च द्वारकालोकमाकुलम् ॥ २८०॥ वत्सरे द्वादशेऽवश्यंभाविनं द्वारकाक्षयम् । पृष्टः पुनर्ममादिश्य विजहे प्रभुरन्यतः ॥ २८१ ॥ शश्वच्चतुर्थषष्ठादितपोनिष्ठैकचेतसः । जनस्यैकादशाब्दानि निर्विघ्नं व्यतिचक्रमुः ॥ २८२ ॥ ततश्च द्वादशे वर्षे व्यतीयुषि कियत्यपि । जितोऽस्मत्तपसा नष्टो द्वैपायनमुनिर्ध्रुबम् ॥ २८३ ॥ पाण्डवचरितम् । एवं निश्चित्य पूर्लोकः प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादरे दुर्लङ्ह्या भवितव्यता ॥ २८४ ॥(युग्मस्) अथोत्पातमहीकम्पनिर्घातोल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः कृशानुश्च विवखतः ॥ २८५ ॥ ननृतुश्चित्ररूपाणि जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः सूर्याचन्द्रमसोरभूत् ।। २८६ ॥ अकल्याणफलाः स्वप्ना जनैर्ददृशिरे निशि । अनशन्कापि रत्नानि चक्रादीनि ममापि च ॥ २८७ ।। ततः संवर्तको वातः प्रावर्तत समन्ततः । स निचिक्षेप पर्यन्तदूरादुन्मूल्य पादपान् ॥ २८८ ।। अन्तर्धा सप्ततिः षष्टिर्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयानष्टा अप्युपानीय केनचित् ॥ २८९ ॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां द्वारकायामदीपयत् ॥ २९० ।। अहं शोकान्धकारेण धूमस्तोमेन चाम्बरम् । युगपत्परितः प्राप्तव्यासेन व्यानशेतमाम् ॥ २९१ ॥ अभ्रंलिहाभिार्ज्वालाभिर्धूमोऽथ निरघूयत । मम शोकान्धकारस्तु कामं वृद्धिमनीयत ॥ २९२ ।। अथाहं वसुदेवं च देवकी चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सहसारिणा ॥ २९३ ॥ नाश्वैर्न वृषभैः किंचिद्रथं ऋष्टुमशक्यत । आवां युगार्पितस्कन्धौ ततोऽभूव धुरंधरौ ॥ २९४ ॥ अभञ्जि द्वतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथंचिदावाभ्यां निन्ये तदपि गोपुरम् ॥ २९५ ॥ अथ क्षणाददीयेतां कपाटौ तत्र केनचित् । रामेणाहिप्रहारेण व्यघट्येतां च बेगतः ॥ २९६ ॥ काव्यमाला। महीमग्नो रथः किंचिदस्मत्कृष्टोऽपि नाचलत् । . क्लीबः पित्रोरपि त्राणे व्यषीदं पौरुषे ततः ॥ २९७ ॥ विषादिनं तदानीं मां देवः कश्चिदिवि स्थितः । उच्चैरुवाच भोः कृष्ण कृतं तव परिश्रमैः ॥ २९८ ॥ . यस्मादस्मि स एवाहं द्वीपायनवरः सुरः । उत्पन्नोऽग्निकुमारेषु स्मृत्वा वैरं करोम्यदः ॥ २९९ ॥ किंत्वेकादशवर्षाणि परमोत्कर्षचञ्चना । जनानामप्रमादेन नावकाशो ममाभवत् ।। ३०० ।। तदहो दहनेनैव मन्निदानभुवामुना । असावानेप्यते मृत्यु मातापितॄजनस्तव ॥ ३९१ ॥ यदभावि न तद्भावि भावि चेन्न तदन्यथा । तद्गच्छत पुराख्यातं मास्म विस्मरतं मम ।। ३०२ ॥ इति श्रुत्वापि तद्वाचमाकर्षन्तौ रथं पुनः । भृशमावामभाषन्त पितरः स्नेहकातराः ।। ३०३ ॥ वत्सौ वात्सल्यमस्मासु खोचितं चक्रथुर्युवाम् । अवश्यं भाविनो भावाः किंतु स्युर्महतामपि ॥ ३०४ ।। ततोऽस्तु वां शिवः पन्था विजयेथां चिरं युवाम् । अस्माभिः पुनरत्रैव नेमिः शरणमाश्रितः ॥ ३०५ ॥ यहूद्धं मनसास्माभिर्वचसा यच भाषितम् । कृतं यच्चापि कायेन तन्मे मिथ्यास्तु दुप्कृतम् ॥ ३०६ ॥ क्षमयामोऽखिलान्सर्वान्सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वेषु भूतेषु वैरमस्ति न केनचित् ।। ३०७ ॥ अशनादिकमाहारं प्रत्याख्यामश्चतुर्विधम् । अहंदादींश्च पञ्चापि स्मरामः परमेष्ठिनः ॥ ३०८ ॥ वयं कस्यापि नेदानीमसदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेदमात्मानमनुशास्महे ॥ ३०९ ॥ पाण्डवचरितम् । ६८७ इत्याहारपरीहारतत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ व्रजावः स्म कथंचन ॥ ३१० ॥ तदैव देवापसदस्तानधाक्षीत्क्षणेन सः। तेऽपि त्रिदिवमासेदुर्ध्रुवं तद्यानढौकिताः ।। ३११ ॥ जरासन्धवधाख्यानसदुपाध्याय पश्यति । नाथे त्वय्यप्यसह्मेन दाहं दह्यामहेऽमिना ।। ३१२ ॥ इत्थमुत्थास्नुभिर्दीनैः प्रलापैः पुरवासिनाम् । दीर्णकर्णः सरामोऽहं जीर्णाराममुपागमम् ॥ ३१३ ॥ (युग्मम्) भवन्तीं भस्मसाद्वीक्ष्य द्वारकां रङ्कवत्पुरः। तत्र स्थितं विषण्णात्मा संकर्षणमवादिषम् ॥ ३१ ॥ आर्य पुर्याः क्व सा लक्ष्मीः क्व च दाहो महानयम् । क शौण्डीर्यमवार्यं तत्कचेयं क्लीबता मम ।। ३१५॥ आर्य किंकार्यतामूढः प्रौढापत्पतितस्ततः । किं करोमि क्व गच्छामि राजचक्रे विरोधिनि ।। ३१६ ॥ सीरपाणिरथामाणीत्कृष्ण मा खेदमाकृथाः। प्रभुव्याख्यातश्रौषीः किं न संसारनाटकम् ॥ ३१७ ॥ अत्र कर्मपरीणामः सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि नानानेपथ्यधारिणः ॥ ३१८॥ स खलूच्छृङ्खलोत्साहः स्वमतार्पितभूमिकः । हर्षशोकादिभिर्भावैरिवार्तेर्नर्तयत्यमून् ॥ ३१९ ॥ भवनाट्ये ततोऽनेन सूत्रधारेण सूत्रिता । संस्था सर्वापि पात्राणां तद्विष्णो मा म खिद्यथाः ॥ ३२०॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना। ते स्मरन्त्युपकारं नो नापकारं तु जातुचित् ।। ३२१ ॥ अपकारेऽपि सौजन्यं सुजनो न विमुञ्चति । जहाति दह्यमानोऽपि धनसारो न सौरभम् ॥ ३२२ ॥ ६८८ काव्यमाला। ततः प्रचलितावावां पाण्डवानां पुरीं प्रति । हस्तिकल्पपुरोद्यानमागमाव श्रमार्दितौ ॥ ३२३ ॥ क्षुत्क्षामं वीक्ष्य मां रामो भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः प्रस्थितोऽभिदधे मया ॥ ३२४ ।। अच्छदन्ताभिधानोऽत्र धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् ॥ ३२५ ॥ अनार्योऽयं किमप्यार्य चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडामापतेयमहं यथा ॥ ३२६ ॥ तत्प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे क्ष्वेडा कर्णमूलमुपागमत् ।। ३२७ ॥ ततः क्रोधकरालोऽहमत्युत्तालमधाविषम् । पिहितां च पदाहत्य प्रतोलीमुद्घाटयम् ॥ ३२८ ॥ भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालानस्तम्भपाणिं च सीरिणम् ।। ३२९ ॥ पुरीपरिघमादाय धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥ ३३० ॥ ततः परिघमालोक्य प्रणतो मृत्युकातरः । बद्धाञ्जलिरजल्पन्मां स सुयोधनबान्धवः ॥ ३३१॥ किमाक्रम्य कुरङ्गाणां दुःस्थावस्थोऽपि केसरी। देव स्वसेवकस्यास्य तदागः क्षम्यतामिदम् ॥ ३३२ ॥ तं मुक्त्वाथ प्रसादेन पुनस्तद्वनमागमम् । नानामनोहराहारपाणिना सीरिणा समम् ॥ ३३३ ॥ रामस्तत्र मयाप्रच्छि लब्धं भोज्यमिदं कथम् । आयातोऽसि कथं चास्य दृक्पथे परिपन्थिनः ।। ३३४ ॥ रामेणाख्यायि गोविन्द कन्दुकाद्भोज्यमद्भुतम् । सुवर्णकटकक्रीतमानयन्तमिदं पथि ॥ ३३५॥ पाण्डवचरितम् । ६८९ कथंचिद् ज्ञातवृत्तान्तः कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मामच्छदन्तो न्यधादपि ॥३३६॥ (युग्मम्) कुत्राहो रोहिणीसूनो यासि पाण्डवबान्धव । गृहाणायुधमाधेहि पुनरायोधने मनः ॥ ३३७ ।। विमुच्य भोज्यपात्राणि ततः क्ष्वेडायितोद्धतः । स्तम्भेन दलयन्बैरिबलं दृष्टस्त्वयाप्यहम् ॥ ३३८ ।। अथावा विहिताहारौ ततः प्रचलितौ कमात् । उपागावदुरापाम्बु कौशाम्बं नाम काननम् ॥ ३३९ ।। पुंनागपादपस्यास्य छायामायातवानहम् । तृपादितः पयःपानं श्रान्तो राममयाचिपम् ॥ ३४०॥ सोपद्रवे वनेऽमुग्मिकृष्ण मा भूः प्रमद्वरः । आगतो द्रुतमेपोऽहमिति व्याहृत्य मां मुहुः ॥ ३४१॥ विनियुज्य च साहाय्ये ममेह वनदेवताः । इतो जगाम रामोऽथ निर्विलम्बमवेक्षितुम् ।। ३४२ ॥(युग्मम्) अहं तु प्रावृतक्षौमेणाङ्घ्रिमारोप्य जानुनि । अस्वपं श्रमसुप्रापनिद्रोऽत्रैव तरोस्तले ॥ ३४३ ॥ नतो विद्धोऽस्मि कस्माच्चिद्रमात्पादतले त्वया । इयं तव जरासूनो कथिता मूलतः कथा ॥ ३४४ ॥ श्रुत्वा विष्णुमुस्वादेवं द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखाद्दैवोपालम्भपूर्वकम् ॥ ३४५ ॥ रे दुर्विधेय वैधेय विधे विविधकौतुकाम् । एवंविधां विधायैतामधाक्षीरधुना कथम् ।। ३४६ ।। दग्धौ हन्त हुताशेन हा मातापितरौ मम । मामकीनाः क्व ते नाम वन्धवः स्नेहबन्धुराः ॥ ३४७॥ जितवासवसाम्राज्यं राज्यं हारि हरेः क्व तत् । क चास्येत्थमवस्थानं तले सिकतिले तरोः ॥ ३४८॥ काव्यमाला। हा तत्राप्यस्य कुत्रेदं मया बाणेन ताडनम् । धिङ् मां हन्त सुखासुप्तभ्रातृहत्यामलीममम् ॥ ३४९ ॥ शोचन्तमिति मामूचे वात्सल्यादुत्सुको हरिः। अलमेभिर्विलापैस्ते भव कार्यकरोऽधुना ॥ ३५० ।। इत ऊर्ध्वं मुहूर्तेन मृत्युर्भावी मम ध्रुवम् । तदिदानीं स्मरिष्यामि श्रीनेमिपदपङ्कजम् ॥ ३५१ ॥ तत्त्वं कौस्तुभमादाय जवेन ब्रज पाण्डवान् । अन्यथा मन्थितावश्यमायातस्त्वां बलो बली ॥ ३५२ ॥ कियन्तमपि पन्थानं यायाः पश्चान्मुखैः पदैः । यथा संकर्षणो रोषान्न स्यादनुपदी तब ॥ ३५३ ॥ मर्माविधमथोद्धृत्य हरेरङ्घ्रितलाच्छरम् । कौस्तुभं च करे कृत्वा धर्मजन्मन्निहागमम् ॥ ३५४ ।। इत्याकये जरासूनोर्मुखाद्द्वारवतीकथाम् । प्रापुः परमसौजन्याः शुचं पञ्चापि पाण्डवाः ।। ३५५ ॥ चित्तवृत्तिकृतावासं सम्यग्दर्शनमन्त्रिणा । यदि श्रावकधर्माभ्यामात्मजाभ्यां च राजितम् ॥ ३५६ ॥ चारित्रराजमासन्नासीनसंतोषसेवकम् । हत्वा शोकं विवेकोऽथ पाण्डवानामदर्शयत् ॥ ३५७ ॥ तत्र वीक्षितमात्रेऽपि तेऽन्वभूवन्परं सुखम् । विदांचक्रुश्च परमं तमेवात्मोपकारिणम् ।। ३५८ ।। अकालं सत्कृतास्तेषामत्यन्तमपकारिणः । प्रत्येकं प्रत्यभाषन्त मोहराजादयस्तदा ।। ३५९ ॥ निर्वेदाख्यः सखाभ्येत्य सद्बोधसहितस्ततः । मोहादीनां पृथक्पार्थान्दोषजातमजिज्ञपत् ॥ ३६० ॥ अथ ते पाण्डुजन्मानश्चेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं मोहो नः प्रत्यभादयम् ॥ ३६१ ॥ पाण्डवचरितम् । ६९१ एतस्य ज्येष्ठपुत्रेण रागकेसरिणा श्रियः । असारा अपि नः साररूपत्वेन प्रदर्शिताः ॥ ३६२ ॥ नाम्ना द्वेषगजेन्द्रेण सुतेनास्य कनीयसा । बन्धुप्वपि वधारम्भमकार्यं कारिता वयम् ॥ ३६३ ॥ अन्योऽप्येतस्य संतानस्तामवाप सुखश्रियम् । सर्वदाभवदस्माकं कपायविषयादिकः ॥ ३६४ ॥ तस्मादेनं तिरस्कृत्य कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं साक्षीकृत्य जगत्प्रभुम् ।। ३६५ ॥ किंतु न ज्ञायते देशो यं पुनीतेऽधुना प्रभुः । यद्वा जनान्मुमुक्षून्नः स्वयं सोऽनुग्रहीष्यति ॥ ३६६ ॥ साघीयोऽध्यवसायसंततिमयीमारूढवन्तो दृढं निश्रेणि स्पृहणीयवोधपटिमस्पष्टीभवदृष्टयः । तैस्तैरुत्कलिकाशतैः कवचितं चेतो वहन्तस्तदा पन्थानं किल पाण्डवा जिनपतेरालोकयांचक्रिरे ॥ ३६७ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीप्रत्याहरणद्वारकादाहकृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥१४॥ अष्टादशः सर्गः। अथ नेमिजिनादेशाद्देशनाक्षीरसागरः। धर्मघोषमुनिः पाण्डुमथुरोद्यानमाययौ ॥१॥ समागमं मुनेस्तस्य विदित्वोद्यानपालकात् । सहानुजैरजातारिर्मुदितो वन्दितुं ययौ ॥२॥ अथाध्यासीनमुन्मीलदानन्दाशूदविन्दुभिः । सुरासुरनराधीशमण्डलैर्मण्डितं सदः ॥ ३ ॥ निविष्टममरैः सृष्टे विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्ममयीमन्यं प्रजापतिम् ॥ ४ ॥ ६९२ काव्यमाला। पञ्चशत्या महामात्यमुनीनां परिवारितम् । धर्मं साक्षादिवोदग्रैस्तपोदानादिभिर्वृतम् ॥ ५॥ रूपस्य तपसोऽप्येकमाश्रयं श्रेयसां निधिम् । अद्राक्षीत्प्रीतिफुल्लाक्षस्तं मुनिं मेदिनीपतिः ॥ ६॥ (चतुर्भिः कलापकम्) भक्तिनिर्भरमानम्य तं ततो मुनिपुङ्गवम् । जराङ्गजन्मना सार्धं न्यविक्षत पतिः क्षितेः ॥ ७ ॥ मुनीन्द्रः सोऽथ पीयूषस्यन्दसोदरया गिरा । वैराग्यैकमयीं धर्मदेशनामुपचक्रमे ॥ ८ ॥ हा धिक्साक्षादसारत्वं संसारस्य विदन्नपि । मद्यान्मद्यपवत्तस्मान्नायं निर्विद्यते जनः ॥ ९ ॥ सुखाद्वैतमयाः कामं येऽप्यनुत्तरनाकिनः । तेषामपि यतो हन्त पर्यन्तविरसाः श्रियः ॥ १० ॥ कर्मस्तोमभुजिष्याणां मनुष्याणां तु का कथा । येषामायुः श्रियः सौख्यं योषिद्भ्रुभङ्गभङ्गुरम् ॥ ११ ॥ संपद्भिदोविलासैश्च येऽप्यहंकारिणोऽधिकम् । तेऽपि ह्यन्यस्य दृश्यन्ते भ्रूलतायत्तवृत्तयः ॥ १२ ॥ येऽपि दोर्विक्रमाकान्तभूचक्राश्चक्रवर्तिनः । जातुचित्तेऽपि वीक्ष्यन्ते हन्त दीनां दशां गताः ॥ १३ ॥ दुःखैकान्तमयं संपत्तारतम्यमयं च तत् । धीराः संत्यज्य संसारमुत्तिष्ठन्ते विमुक्तयः ॥ १४ ॥ इति संवेगिनीं वाचमुच्चार्य विरते मुनौ। पाणिकुङ्मलमामील्य जगाद जगतीपतिः ॥ १५ ॥ भवानेव प्रभो वेद कामं संसारमीदृशम् । गिरः प्रक्रमते वक्तुमीदृशीर्नह्यनीदृशः ॥ १६ ॥ निश्चित्यानुभवैस्तैस्तैर्भवस्थानभिरामताम् । अस्माभिरपि वैराग्यात्प्रविजिषुमानसैः ॥ १७ ॥ पाण्डवचरितम् । श्रीनेमिस्वामिनो ध्यातश्चिरादागमनोत्सवः । नूनं तेनापि विज्ञाय प्रेषितोऽसीह नः कृते ॥ १८ ॥ (युग्मम्) तद्भवानपि नः साक्षात्तस्य मूर्तिर्जगत्पते । संसारसागरादस्मादुद्धरास्मांततः प्रभो ॥ १९ ॥ किंत्वर्थोऽतीन्द्रियज्ञानशेवधीनां भवादृशाम् । न कोऽपि क्षेत्रकालाभ्यां दवीयानप्यगोचरः ॥२०॥ तद्वनेऽभूद्यथा मृत्युः शयालोर्वनमालिनः । जराङ्गजन्मनानेन तथा नः कथिताः स्वयम् ॥ २१ ॥ तत्कृते जलमाहर्तुं गतो भूतो हली तदा। तत्कथां श्रोतुमिच्छामः खामिन्नाख्यातुमर्हसि ॥ २२ ॥ अथेत्यव्याहतज्ञानो व्याजहार मुनीश्वरः । बलः सलिलमादाय केशवान्तिकमाययौ ॥ २३ ॥ जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वरम् । स्फीतमस्तीदमानीतमम्भः सुरभि शीतलम् ॥ २४ ॥ तत्प्रक्षाल्य क्षणादास्यं कणेहत्य निपीय च । दूरकान्तारसंचारभूतिः श्रान्तिर्विनीयताम् ॥ २५ ॥ अव्याहरति कसारौ सीरभृत्पुनरब्रवीत् । किमु रुष्टोऽस्वरिष्टारे कालक्षेपान्मनागपि ॥ २६ ॥ एष तेऽसांप्रतं रोषः सांप्रतं तु प्रसीद मे । देशे दवीयसि प्राप्तिर्वारिणोऽत्रापराध्यति ॥ २७ ॥ तथाप्यस्मिन्नजल्पाके सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः शेतां नामैष तन्मनाक् ॥ २८ ॥ इत्यालोच्य स्थितः कृष्णं परितः कृष्णमक्षिकाः । भ्रमन्तीर्वीक्ष्यि संभ्रान्तः सोऽपि निन्येऽवगुण्ठनम् ॥ २९॥ ततोऽपश्यदपेतासु कंसविध्वंसनं हली। शोणितैश्चोल्वणं भल्लित्रणं चरणपल्लवे ॥ ३०॥ काव्यमाला। कोपाटोपात्ततः सिंहनादमुच्चैश्चकार सः । येनारण्यमृगास्त्रेसुः कम्पते स्म च काश्यपी ॥ ३१ ॥ जगाद च मदाध्मातः पातकी ननु कोऽस्ति भोः । निद्राणमतुलप्राणं योऽवधीन्मम बान्धवम् ॥ ३२ ॥ सुप्तमत्तप्रमत्तेषु बालस्त्रीमुनिगोष्वपि । क्रूरकर्मैकचाण्डालोऽप्यभिज्ञः प्रहरेत कः ॥ ३३ ॥ दोर्दोऽप्यस्ति चेत्कश्चित्तत्स्वमाविःकरोतु सः। भुजोष्मज्वरिणां बाहुः सर्वेषामेष भेषजम् ॥ ३४ ॥ इत्याद्यनेकशः कोपाद्गिमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य मूर्छितः क्ष्मातलेऽपतत् ॥ ३५ ॥ क्षणाच्चैतन्यमासाद्य शीतैः कान्तारमारुतैः । रोदयञ्श्वापदान्काममाक्रन्दैर्विललाप सः ॥ ३६ ।। हा विश्वेष्वेकशौण्डीर हा रिपुष्वेकरोषण । हा गुणिष्वेकधौरेय मा गुरुष्वेकवत्सल || ३७ ॥ हा कंसध्वंस घोरांस हा कालानलनीरद । हा निःसन्धजरासन्ध हा रणक्रूरविक्रम ॥ ३८॥ हा लक्ष्मीकेलिपल्यङ्क हा निःशङ्कशिरोमणे । हा यश:कैरवाराम हा रामनयनोत्सव ॥ ३९ ॥ शस्त्राघातैर्द्विषां तैस्तैः श्रमोऽप्यासीन ते पुरा । संप्रत्यङ्घ्रिव्रणादसान्मृत्युः श्रद्धीयतां कथम् ॥ ४०॥ तदुत्तिष्ठ द्रुतं भानुरारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयोऽप्यग्रतो गन्तुमीश्वहे ॥ ११ ॥ चरणव्रणपीडाभिर्न चेच्चलितुमीशिषे । तदारोह मम स्कन्धं बन्धो किमसि मोहितः ॥ ४२ ॥ किमिति क्रन्दतोऽप्येवं वितरस्युत्तरं न मे । इमे हि श्रवसी पातुमुत्सके ते वचोऽमृतम् ॥ १३ ॥ पाण्डवचरितम् । ६९५ रोषं मयि पुराकार्षीः सागस्यपि न जातुचित् । इदानीं तु विनाप्यागः केयं ते दीर्घरोपिता ॥ १४ ॥ हा दैव यद्ययं नेतुं चिन्तितोऽभूद्दशामिमाम् । तत्त्वया किं कृतो विश्वमौलिलालितशासनः ॥ १५॥ यद्वा ज्ञातं नितान्तं यं विडम्बयितुमीहसे । तस्य कन्दलयस्येवमतीव महतीः श्रियः ॥ ४६ ॥ एतैर्वा किमुपालम्भैर्भ्रातर्यावः पुरः क्वचित् । दैवाय प्रभविष्यावस्तत्रामुष्मै दुरात्मने ॥ १७ ॥ निद्रासुखासिकालो वा गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः सच्छायेऽत्रैव कानने ॥४८॥ इत्यादि प्रलपन्नुच्चावचेन वचसा मुहुः । सीरभृत्तं दिनं तां च यामिनीमत्यवायत् ॥ १९ ॥ प्रगे च वचनैस्तैस्तैरनुतिष्ठन्तमच्युतम् । जीवद्बुध्या निजस्कन्धमध्यारोप्य वलोऽचलत् ॥ ५० ॥ स्कन्धन्यस्तहरिर्बन्धुस्नेहव्यामोहितो हली । भ्राम्यति स्म सरिच्छैलकाननानि दिवानिशम् ॥ ५१ ॥ पुष्पैर्वन्यद्रुमाणां च नित्यमानर्च शार्ङ्गिणम् । एवं रामोऽतिचक्राम पण्मासान्पर्यटन् बने ।। ५२ ॥ प्राप प्रावृडथाशान्तान्नीलयन्ती बलाहकैः । नूतनैरङ्कुरोद्गारैर्मेदिनीमण्डलं पुनः ॥ ५३ ॥ अथ भावमयं शैलादुत्तीर्णं हेलया हली। स्यन्दनं कंचिदद्राक्षीत्समभूभागभङ्गुरम् ॥ ५४ ॥ संजयः सँजजल्पेऽथ सारथिः सीरपाणिना। रथेऽस्मिन्कणशो भग्ने कस्ते मूढ मुधा श्रमः ॥ ५५ ॥ सारथिस्तमथोवाच संगरेषु सहस्रशः॥ निर्व्युढोऽप्यधुना पादप्रहारेणापि यो मृतः ॥ ५६ ॥ काव्यमाला । सोऽयं चेद्विश्वजीवातू जीविता तव बान्धवः । खण्डशस्तद्गतोऽप्येष प्रगुणीभविता रथः ।। ५७ ॥ क्व मे बन्धुर्मृतोऽस्तीति कामं सासूयमानसः । तं मुहुः कुटिलं पश्यन्नचालील्लाङ्गली पुरः॥ ५८ ॥ रोपयन्तं निरूप्याथ शिलायां नलिनीं क्वचित् । सारम्भमभ्यधात्कंचिदुचैः शब्दं हसन्हली ॥ ५९ ॥ व्यामूढात्मन्किमेतस्मिन्नत्यन्तकठिनेऽश्मनि । सहसैरपि यत्नानां प्ररोहति सरोजिनी ॥ ६०॥ सोऽप्यवादीत्तवायं चेत्प्राणिष्यति सहोदरः । पाषाणे तत्स्वरेऽप्यस्मिन्प्ररोक्ष्यत्यरविन्दिनी ॥ ६१ ॥ इत्येतस्यापि भारत्यामवज्ञाविवशाशयः । व्यक्तोत्पासस्सितस्मेरश्चचाल मुसली पुरः ॥ ६२ ॥ ततो दावाग्निनिर्दग्धं सिश्चन्तमवनीरुहम् । कंचिदारामिकं रामः पश्यति स्म व्रजन्पुरः ॥ ६३ ॥ तं चाभ्यधाद्धिगेतां ते हन्त दुर्व्यवसायिताम् । मुञ्चन्ति जातुचिद्दग्धभूरुहोऽपि किमङ्कुरान् ॥ ६ ॥ स जगाद यदि स्कन्धशवो वार्तयिता त्वया । शादलीभविता भूयस्तदायमपि पादपः ॥ ६५ ॥ तामश्रुत्वेव तद्वाचमुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु क्षिपन्तं कंचिदैक्षत ॥ ६६ ॥ तमप्यभिदधे गावः कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् ।। ६७ ॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेष संस्थितः । चरितारस्तदा गावोऽप्यमूर्दूर्वाङ्करानिमान् ॥ ६८ ॥ रामोऽथाचिन्तयत्सत्यं किं मृतोऽयं ममानुजः । वदन्ति यदमी सर्वेऽप्येकरूपमिदं वचः ॥ ६९॥ पाण्डवचरितम् । यावदित्याप्तचैतन्यः किंचिच्चलति लाङ्गली। तावदुद्योतिताशान्तः कश्चिदस्थात् पुरः सरः ॥ ७० ॥ सोऽब्रवीत्सीरिणं सोऽहं सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य देवभूयमुपागमम् ।। ७१ ।। स्मरस्येतत्परित्रज्याकाले मामर्थयिष्यसे । यन्मामभ्युद्धरेर्जातु पतन्तं व्यसनार्णवे ।। ७२ ॥ तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थुलम् । प्रबोधयितुमभ्यागां तां तवाभ्यर्थनां स्मरन् ।। ७३ ॥ श्रीनेमिना पुरा मृत्युर्मुरारातेर्जरामुतात् । यदूचे तत्तथैवाभूदन्यथा नार्हतां गिरः ।। ७४ ॥ एतान्यश्मरथादीनि वैकृतानि कियन्त्यपि । भ्रातमोहव्यपोहाय दर्शितानि मयैव ते ।। ७५ ॥ विमुच्य तमिमं मोहं संदोहं दुःखसंपदाम् । आत्मनीनं महत्किचित्कर्म निर्मीयतां त्वया ।। ७६ ।। बन्धवः खल्ववाप्यन्ते जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैककेतवो भवहेतवः ॥ ७७ ।। जीवाः सर्वे हहा बन्धुसंहतिहमोहिताः । दुःखप्लोषक्षमे कर्मण्युत्सहन्ते न जातुचित् ।। ७८ ॥ बन्धुस्नेहोऽन्तरम्भोधिरेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्रामधाम तद्विधुनीहि तम् ॥ ७९ ॥ इति सिद्धार्थदेवोक्तां गिरमाकर्ण्य लाङ्गली । जल्पति स त्वया बन्धो साधु साध्वस्मि बोधितः ।। ८० ॥ किं तु मे कथय भ्रातर्भ्रातुरस्य मुरद्विषः। मृत्युनात्यन्तदुःखार्तः प्रवर्ते क्वात्मनो हिते ।। ८१ ॥ देवोऽभ्यधान्ननु भ्रातस्त्रिलोकीकल्पपादपः । अस्त्येव भगवान्नेमिर्दुःखार्तानामरुतुदः ॥ ८२ ॥ ६९८... काव्यमाला। श्रेयःपीयूषवर्षैकपावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्यामुद्यच्छस्व सुखश्रियम् ॥ ८३ ॥ तथेति प्रतिपदानस्तद्गिरं सीरभृत्ततः। तत्समेतो मुरारातेरग्निकर्मादि निर्ममे ॥ ८४ ॥ ततोऽसौ यावदत्यन्तं संयमोत्सुकमानसम् । लाङ्गली तावदद्राक्षीविद्याधरमृषिं पुरः॥ ८५॥ प्रत्युद्गम्य प्रणम्याथ रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्षबद्धोत्कर्षं महामुनिम् ॥ ८६ ॥ मुनिरप्यंभ्यधाद्भद्र विश्वभद्रकरः प्रभुः । श्रीमन्नेमिर्द्रुतं ज्ञातत्वन्मनाः प्रजिधाय माम् ॥ ८७ ॥ तत्कुरुष्व मनोऽभीष्टं पुष्टये पुण्यसंपदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव ॥ ८ ॥ इत्युत्साहायमानीतो नभश्चरमुनेगिरा। प्रपेदे सर्वसावद्यविरति सीरभृत्क्षणात् ।। ८९ ॥ जवाद्यतिरहस्यानां जज्ञे विज्ञश्च तत्क्षणात् । भूयान्न खलु संस्कारो जात्यरत्नैरपेक्ष्यते ॥ ९०॥ सांप्रतं च तपःकर्म कुर्वन्षष्ठाष्टमादिकम् । तुल्यान्तःकरणाकारो लोष्टेऽप्यष्टापदेऽपि वा ॥ ९१ ॥ शमाद्वैतसुधाकुण्डस्नानशौण्डमनाः सदा । तानप्यतिहि मन्वानो नाकिनः क्लेशपाकिनः ॥ १२ ॥ वैरङ्गिकः शरीरेऽपि जीवितव्येऽप्यरागवान् । अरिष्वपि निरातङ्को निःशङ्को विपिनेष्वपि ॥ ९३ ।। धर्मामृतमयैः शान्तैस्तैस्तैर्वचनवीचिभिः । तत्र तत्र जनांस्तांस्तानुपकुर्वन्नखर्वधीः ।। ९४ ॥ अरण्यनगरग्रामकर्बटेषु समीरवत् । स्वैरमप्रतिबद्धात्मा विहरस्येककुण्डलः ॥ ९५॥ (पञ्चभिः कुलकर) पाण्डवचरितम् । अध्यक्ष तत्सपर्याभिरश्रान्तं कृतार्थमन्यमानसः । सिद्धार्थदेवश्छायेव तस्याभ्यर्णचरोऽभवत् ॥ ९६ ॥ एकतो भगवान्नेमिरन्यतश्च स धीरधीः । मेदिनीमुपकुर्वाते सूर्याचन्द्रमसाविव ।। ९७ ॥ तत्तयोर्बन्धवो मार्गमाश्रित्याशु तदाश्रितम् । निरीहमनसो यूयमप्येवं कर्तुमर्हथ ॥ ९८ ॥ एकैव सन्मणीनां हि लोकालंकारणं गतिः । ध्वान्तध्वंसादृते कृत्यं प्रदीपानां च नापरम् ।। ९९ ॥ द्विषः क्षिप्ताः कृतं राज्यं भुक्तमप्रतिमं सुखम् । किंचिद्वस्तन्न संसारे यदद्याप्यवशिष्यते ॥ १० ॥ केवलं तत्सुखाद्वैतं मुक्तेर्भोक्तव्यमस्ति वः । तद्दातरि व्रते तस्मात्कालक्षेपो नहि क्षमः ।। १०१ ।। इत्युच्चैर्विहितोत्साहा धर्मघोषगुरोर्गिरा । संसारं झगिति त्यक्तुमैषिषुः पाण्डुसूनवः ॥ १०२ ॥ ते ततःसहसोत्थाय तमानम्य मुनीश्वरम् । उत्तरङ्गितसंवेगाः प्राविशन्नगरीं पुनः ॥ १०३ ।। ते मुहूर्ते शुभे कृष्णप्रीतेरानृण्यमिच्छवः । चक्रुर्जराङ्गजन्मानं स्वराज्यस्याधिदैवतम् ॥ १०४ ।। ते रुद्धान्यवरोद्धव्यैः कारागाराण्यशोधयन् । आत्मानं पुनराकीर्ण दुष्कर्मपरमाणुभिः ॥ १०५ ॥ दीनानां ते हिरण्याद्यैर्दौर्गत्यमुदमूलयन् । आत्मनस्तु बृहन्मूलं संसारविषशाखिनम् ॥ १०६ ॥ जीर्णभ्रष्टानि ते विश्वे चैत्यान्युद्दधुरर्हताम् । गम्भीरात्पुनरात्मानं दुर्गत्याख्यान्धकूपतः ॥ १०७ ॥ अमेयानि वमन्ति स्म सप्तक्षेत्र्यां धनानि ते । मुक्तिर्येषामशेषाणामेकमेवाभवत्फलम् ।। १०८॥ ७०० काव्यमाला किमन्यत्ते तथावर्षन्सर्वतः कनकोत्करैः। लुम्पन्ति स्म यथा नामाप्युत्तमर्णाधमर्णयोः ॥ १०९ ॥ कुञ्जरेन्द्रानथारूढाः सुरसिन्धुरबान्धवान् । तदात्वोचितमाणिक्यमौक्तिकाकल्पशालिनः ॥ ११०॥ उद्भूतचामरैः साक्षादप्सरोनिकरैरिव । वृताः शृङ्गारसंभारसारैराङ्गनागणैः ॥ १११ ।। सपोरैः सपरीवारैः सामन्तामात्यमत्रिभिः । अन्वीयमाना ससुरैरिव सामानिकामरैः ॥ ११२ ॥ लोकपाला इवाध्यक्षाः पञ्चाप्युद्दामदीप्तयः । कराग्रप्रेङ्खितै रत्नैः प्रीणयन्तोऽर्थिमण्डलम् ॥ ११३ ॥ तन्मार्गानुगमप्रौढतृष्णया कृष्णयान्विताः । ऊरीकर्तुं परिव्रज्या प्रचेलुः पाण्डुसूनवः ।। ११४ ॥ (पञ्चभिः कुलकम्) स नेत्राश्रुकणान् लाजकणान्पौरमृगीदृशाम् । पाण्डवेयाः प्रतीच्छन्तो बाह्योद्यानमुपाययुः॥ ११५॥ तत्रोत्तीर्यगजेन्द्रेभ्यो राजचिन्हान्यपास्य ते । सपत्नीकाः प्रभु धर्मघोषाख्यमुपतस्थिरे ॥ ११६ ॥ विज्ञा व्यज्ञापयन्नैनं ते निपत्य पदाम्बुजे । शिरो नः पावय खामिन्दीक्षादानात्खपाणिना ॥ ११७ ॥ भूत्वा भगवतो नेमेस्ततः सप्रतिहस्तकः । दक्षिणो दीक्षयामास मुनिः सप्रेयसीनमून् ॥ ११८ ॥ तदङ्गेषु तदा हर्षान्निर्गच्छत्पुलकच्छलात् । । दृश्यन्ते स्म प्रणश्यन्ति कल्माषाणीव सर्वतः ॥ ११९ ॥ तेषां भावारघट्टोऽन्तर्वहति स तदा तथा । सिक्ताः पुण्यद्रुमाः कामं यथानन्दाश्रुकुल्यया ॥ १२० ॥ द्रोपद्यात्तव्रता तेषां पञ्चानामनुगा बभौ । महावतानां मूर्तानामिव मूर्तिमती क्रिया ।। १२१॥ पाण्डवचरितम् । तान्प्रणम्य ततः सर्वः पौरामात्यादिकोजनः । मन्दं मन्दं 'प्रयाति स्म श्रेयःसंभारनिर्भरः ॥ १२२ ॥ तेऽप्यभ्यासे गुरोस्तं तमभ्यस्यन्तः क्रियाक्रमम् ।। निरीहाः स्वशरीरेऽपि व्यहरन्नन्यतोऽन्यतः ॥ १२३ ॥ अथोन्मीलन्मनोभावपरिचारकलालिताः। नित्यं प्रथमपीयूषपानपीयूषशालिनः ॥ १२४ ॥ वाचमिन्द्रियखिङ्गानामशृण्वन्तो मनागपि । त्यजन्तो दूरतः काममालस्यादीनसूयकान् ।। १२५ ॥ आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाझ्यान्ते समभूवन्नधीतिनः ॥ १२६ ॥ (त्रिभिर्विशेषकम् ) इत्याप्तश्रुतसंस्कारा दधुर्गीतार्थताममी । रसेऽथ संस्कृता लोहधातवो हेमतामिव ॥ १२७ ॥ याज्ञसेन्यप्युपासीना प्रवर्तिन्याः पदाम्बुजम् । तपोज्ञानविवेकानां परां कोटिमशिश्रियत् ।। १२८ ॥ ततः कदाप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग्विहरन्ति स्म हरन्तो विश्वकल्मषम् ॥ १२९ ॥ तप्यन्ते स तपस्तेऽभिग्रहोदग्रं पृथक्पृथक् । येन स्वं पवितुं शङ्के साप्यैच्छन्मुक्तिकामिनी ॥ १३० ।। संभाव्य सुभटं शत्रुजित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः श्रीमान्धर्मः किमप्यभूत् ॥ १३१ ॥ धर्मसूतेः सदा शान्तिहिमानीमहिमोदयः। जगत्यपि महामोहग्रीष्मारम्भं वृथाकरोत् ।। १३२ ॥ धावन्तो विद्विषः स्वान्तःपुरमादातुमन्तरा । के नामज्जंस्तपःसूनोः प्रशान्तिपरिखाम्भसि ।। १३३ ॥ भीमस्याभूद्यथा सत्त्वं दुर्लङ्घमरिभिः पुरा । संप्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ।। १३४ ।। काव्यमाला। यथा यथारिषड्वर्गनिमहेऽभूदरंतुदः । तथा तथा दधौ चित्रं भीमः कायमभीषणम् ॥ १३५ ॥ भीमोऽन्तर्विद्विषः क्षान्तिगदयादलयत्तथा । यथा नामापि नाश्रीषीदेष तेषां पुनः क्वचित् ॥ १३६ ॥ अर्जुनस्य मुनेजर्जीयात्तपो गाण्डीवताण्डवम् । येन जैनगवीवर्गः सूत्रितो निरुपद्वः ॥ १३७ ॥ विधाय समताराधावेधं प्रशमपत्रिणा । पार्थः पाणौ करोति परमानन्दसंपदम् ॥ १३८ ॥ ध्यानवैश्वानरः पार्थमुनेरजनि कोऽप्यसौ । यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ॥ १३९ ॥ नकुलस्य तपोऽम्भोधेनिर्गतं यच्छमामृतम् । श्रीयन्ते स्म सुरास्तेन तत्किं नामात्र कौतुकम् ॥ १४० ॥ मन्ये मुनिषु सर्वेषु सहदेवोऽधिदैवतम् । तपस्तरणिना यस्य ज्ञानेन्दुरुपजीवितः ॥ १४१ ॥ जीयते स्म पुरा पाण्डुसूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीषेऽष्टाचत्वारिंशं तु कर्मणाम् ॥ १४२ ॥ ततो भीममुनि ममित्यभिग्रहमग्रहीत् । कुन्ताप्रदत्तमेवोच्छमादास्ये नान्यथा पुनः ॥ १४३ ।। तस्य पुण्यात्मनः सोऽपि मासैः षड्भिरपूर्यत । न किंचिदतिदुर्लभं सत्त्वनिर्णिक्तचेतसाम् ॥ १४ ॥ प्रतिस्थानं प्रतिग्रामं प्रत्यध्व प्रतिकाननम् । जनं धर्ममयैस्तैस्तैर्वचोभिरुपकुर्वताम् ॥ १४५ ॥ एवं तेषां तपस्तत्तन्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं नयतां कर्मसंहतिम् ॥ १४६ ॥ स्वदेहेऽपि निरीहाणामविरामविहारिणाम् । हायनान्यतिभूयांसि व्यतीयुः पाण्डुजन्मनाम् ॥ १४७ ।। (त्रिभिर्विशेषकम् ) पाण्डवचरितम् । अथ नित्यविहारेण विहरन्तोऽवनीतले । कदाचिदपि ते जग्मुम्तुङ्गीं शैलान्तिकक्षितिम् ॥ १४८ ॥ धर्मघोषगुरुं तस्य शैलस्योपत्यकाबने । ते जनादागतं श्रुत्वा वन्दितुं मुदिता ययुः ।। १४९ ।। अद्राक्षुश्च गुरुं द्राक्षापाकपेशलया गिरा। दिशन्तं विशदं धर्म तिर्यस्पर्त्यदिवौकसाम् ॥ १५० ॥ दूरादालोक्य तान्सोऽपि गुरुः प्रीतितरद्गितः । प्रत्युद्याति सम विसेरः संभ्रमादुप्रिनाशनः ॥ १५१ ॥ आनन्दाश्रुकणाकीर्णपक्ष्माणो रोमहर्षिणः । ते पदाम्भोरुहक्षिप्तमालयस्तं ववन्दिरे ॥ १५२ ॥ तानुत्थाप्य करे धृत्वा प्रीतिगद्गदया गिरा। विकस्वरकपोलाक्षः पप्रच्छ स्वागतं गुरुः ॥ १५३ ॥ पुनरासनमासीने गुरौ तेऽभ्यर्णभृतले । वन्दिताः परिषद्देवनृतिर्यग्भिरुपाविशन् ॥ १५४ ॥ पुण्यार्जनकृते सर्वसदस्यानां विशेषतः । तत्तपःप्रौटिमुद्दिश्य वितेने देशनां विभुः ।। १५५ ॥ देशनान्तेऽखिलश्रेयःसंभारात्मंभरिर्जनः । प्रणम्य तं विभु तांश्च ययौ स्थानं निजं निजम् ॥ १५६ ॥ विस्मेरमनसोऽत्यन्तमथैते गुरुमभ्यधुः । करिष्यन्ते पराः सर्वाः वार्ताः पश्चादपि प्रभो ।। १५७ ।। कथ्यतां तावदेतन्नो यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते शमसंवेगशालिनः ।। १५८ ॥ तद्यौष्माकागमस्यैवानुभावोऽयं किमद्भुतः । किं चात्र किंचिदप्यस्य जृम्भते कारणान्तरम् ।। १५९ ॥ ततोऽभाषिष्ट भगवान्पुरग्रामादिषु क्रमात् । विहरन्नप्यगात्पूर्वं शैलेऽस्मिन्मुशली मुनिः ॥ १६० ॥ काव्यमाला। उपास्यमानः सिद्धार्थदेवेनाद्भुतभक्तिना। मासक्षपणमातेने सानुन्यस्य स धीरधीः ॥ १६१॥ पर्यन्ते तपसोऽमुष्य स पाराणकहेतवे । पुरे कस्मिंश्चिदासन्ने विवेश वशितेन्द्रियः ।। १६२ ।। विशन्स्वरूपलावण्यपुण्यमूर्तिः कयाप्यसौ । कूपकण्ठस्थाया दृष्टः समीपस्थार्पितार्भया ।। १६३ ।। रूपाक्षिप्ता गले बद्धा रज्जु कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे तं बालं वलितानना ॥ १६४ ।। तद्विलोक्य मुनिर्वेगादागत्य प्रतिबोध्य ताम् । निन्दव्यामोहिनीरूपसंपदं स्वां न्यवर्तत ॥ १६५ ॥ जग्राहाभिग्रहं चेति वने काष्ठादिहारिभिः । दत्तेनान्नादिनावश्यं पारयिष्यामि नान्यथा ॥ १६६ ॥ ततः प्रभृति तेनैव विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं सोऽथ तत्रैव-कानने ॥ १६७ ॥ तमनैदयुगीनाङ्गाभोगमुद्दामतेजसम् । .. ते विलोक्य तपस्यन्तं तृणकाष्ठादिहारिणः ॥ १.६८ ॥ गत्वा खखनरेन्द्रेभ्यः शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चित्तपस्यति पुमानिति ।। १६९ ।। (युग्मम् भीतान्तःकरणास्तेऽपि भूभुजस्तुच्छचेतसः । खतुल्यकलिताशेषजगतोऽन्तरचिन्तयन् ॥ १७०॥ नूनमन्यूनमाहात्म्यतपःपल्लवितोर्जितः । कोऽप्यसावस्मदीयानि राज्यान्याच्छेतुमिच्छति ।। १७१॥ तत्संप्रत्येव तं हन्म इत्यालोच्य महीभुजः । सर्वे सर्वाभिसारेण तं अगित्यभ्यषेणयन् ॥ १७२ ॥ ततः पादातिकाश्चीयरथ्यहास्तिकशालिनः । अभ्येत्यास्मिन्वने यावत्ते रामं परितः स्थिताः ॥ १७३ ।। पाण्डवचरितम् । ७०५ तावत्सिद्धार्थदेवेन नित्यं रामोपसेविना । सिंहाः फालक्रियोत्ताला विकीर्यन्ते स्म कोटिशः ॥ १७ ॥ तैश्च वित्रासिताशेषसैनिकास्तेऽवनीभुजः । तत्क्षणक्षुमितखान्ता न्यवर्तन्त प्रणम्य तम् ॥ १७५ ॥ तदा प्रभृति निःसीमशमैकनिरतेरपि । रामस्य भुवने नाम नृसिंह इव पप्रथे ॥ १७६ ॥ पश्यतोऽथ शमं तस्य शीतांशुपरिभाविनम् । लक्षयन्तोऽपरिक्षामां भूतग्रामे दयार्द्रताम् ॥ १७७ ॥ विन्दानाः समपिण्याकहिरण्यां च निरीहताम् । शृण्वानाश्च गिरं धर्ममयीममृतजित्वरीम् ॥ १७८ ॥ क्रूरा अप्युज्झितक्रौर्याः शमैकमयचेतसः । सर्वेऽप्यन वने वन्याः प्रत्यबुध्यन्त जन्तवः ॥ १७९ ॥ (त्रिभिर्विशेषकम्) सम्यक्तं जगृहुः केचित्ते देशविरतिं परे । अन्ये च भद्रकीभूय पापकर्माणि तत्यजुः ॥ १८०॥ चक्रिरेऽनशनं केचित्कायोत्सर्गं व्यधुः परे । शिष्या इवान्ये रामर्षेरासन्नासन्नसेविनः ॥ १८१ ॥ कश्चित्तु प्राग्भवप्रीतिभावाज्जातिस्मरो मृगः। कल्याणभक्तिरश्रान्तमुपासामास तं मुनिम् ।। १८२।। भ्रान्त्वा भ्रान्त्वा च सोऽजस्रं सार्थमावासितं बने । गृहीतान्नांश्च काष्ठादिहारकानगवेषयत् ॥ १८३ ॥ यदा नैक्षिष्ट तान् क्वापि तदैवागत्य सत्वरम् । संकेतैः प्रणिपाताद्यैः स रामर्षिमजिज्ञपत् ॥ १८ ॥ पारयित्वा ततो ध्यानं रामस्तस्यानुरोधतः । तद्दर्शितपथो भैक्ष्यं सार्थादिभ्योऽग्रहीत्तदा ॥ १८५॥ हार्म्याद्यर्माणि साराणि काष्ठान्याहर्तुमन्यदा । रथकारास्तदाभ्येयुर्भूयांसः काननोदरम् ।। १८६॥ ८९ काव्यमाला। । भ्राम्यन्नेणः स तान्वीक्ष्य मांसक्षपणपारणम् । विधातुमनसो राममुनयेऽज्ञापय द्रुतम् ॥ १८७ ॥ तेनाग्रगामिना सोऽपि निराकाङ्क्षमना मुनिः। ईर्ष्याचतुरचक्षुस्तानुत्ससर्प वनच्छिदः ॥ १८८ ॥ छेदं छेदं वनं सारान् तेऽपि मध्यंदिने तदा । नानारसवतीपाकाः समगच्छन्त मुक्तये ॥ १८९ ॥ धर्मं साक्षादिवायान्तं दूरादालोक्य तं मुनिम् । सानन्दो रथकाराणामग्रणीरित्यचिन्तयत् ॥ १९० ।। धवादिशाखिनामेव स्थानेऽस्मिन्विपिने कथम् । कल्पद्रवोऽपि दृश्यन्ते भाग्यं नस्तदहो महत् ॥ १९१ ॥ ऐहिकश्रीफलाः कामं तेऽपि कल्पद्रवोऽथवा । एते तु मुनयः स्वर्गापवर्गकमलाफलाः ।। १९२ ॥ तदद्य खलु धन्योऽस्मि तुल्यमद्यैव जन्म मे । जातं सफलमद्यैव वनागमनमप्यदः ॥ १९३ ॥ इत्यादि चिन्तयन्नन्तरुन्मीलत्पुलकाङ्कुरः। अभ्युच्छ्राय स भून्यस्तमौलिस्तं मुनिमानमत् ॥ १९४ ॥ प्रासुकैरेषणीयैश्च तैस्तैरानन्दितेन्द्रियैः । पीनप्रीतिः सपानान्नैरुपतस्थे बलं मुनिम् ॥ १९५ ॥ तन्मनोवृत्तिमालोक्य श्रद्धातिशयबन्धुराम् । रौहिणेयमुनिश्चित्ते चिन्तयामासिवानिति ॥ १९६ ॥ अहो महात्मनोऽमुण्य भावः कोऽप्येष निस्तुषः । एवमानन्दवैक्लव्यमिदानीं यद्दधात्यसौ ॥ १९७ ॥ तनोति कृतिनां भाग्यं भावस्तात्कालिकोऽपि यत् । मूलादुन्मूल्यते तेषां तेनैव भवभूरुहः ॥ १९८ ॥ तन्महात्मायमारूढस्तसिन्भावेऽथ संप्रति । यस्मिन्करप्रदेयानि मन्ये मुक्तिसुखान्यपि ॥ १९ ॥ पाण्डवचरितम् । ततोऽङ्गाधारमात्रीयप्रान्ताहारेच्छुरप्यहम् । न भावस्खलनं किंचित्करिष्येऽस्य विवेकिनः ॥ २० ॥ ततो राममुनिर्भैक्ष्यमादातुमुपचक्रमे । दातुं च रथकृद्वर्गग्रामणीर्मुदिताशयः ॥ २०१॥ तावुभावपि संवीक्ष्य दातृपात्रशिरोमणी । सकुरङ्गोऽपि संवेगभावनामित्यभावयत् ।। २०२ ॥ अहो धन्योऽयमेवाद्य ग्रामणीर्विपिनच्छिदाम् । यस्य प्रादुरभूत्पुण्यप्राग्भारोऽयमचिन्तितः ।। २०३ ।। मुनिभ्यो दत्तमीदृग्भ्योऽन्यदापि शिवसंपदे । किं पुनस्तद्यदेतसिन्मासक्षपणपारणे ॥ २० ॥ अहं तु न तपः किंचित्कर्तुमल्पमपि क्षमः । छिद्यन्ते कर्मणां मर्मग्रन्थयो येन तत्क्षणात् ।। २०५॥ न चैतादृग्विधं किंचिद्दानं दातुमपीश्वरः। हा हतोऽहमिदं जन्म धिङ्मे तिर्यक्त्वपांसुरम् ।। २०६॥ इत्यमीषां पर कोटिमीयुषां भावसंपदः। उपरिष्टात्पपातार्द्धच्छिन्नो वात्याहतस्तरुः ॥ २०७॥ तन्निपाताभिघातेन ते त्रयोऽपि गतासवः । कल्पे ब्रह्माभिधेऽभूवन्नमरास्तुल्यसंपदः ॥२०८॥ तिर्यङ्गरामरानित्थं प्रतिस्थान प्रबोधयन् । बभार व्रतपर्यायं सीरभूद्वत्सरान् शतम् ॥ २०९॥ तत्प्रभृत्यनुभावेन मुनर्लाङ्गललक्ष्मणः । इदं शान्ताखिलक्रूरश्वापदं समभूदनम् ॥ २१० ।। इत्याकर्ण्य कथां तस्य धर्मघोषमुनेर्मुखात् । विषादकलुषात्मानः पाण्डवेया बभाषिरे ।। २.११.॥ ईदृगद्वैतचारित्रपवित्रात्मा बलो मुनिः। हा विगस्माभिरत्यन्तं भाग्यवन्ध्यैर्न वन्दितः ॥ २१२ ॥ काव्यमाला। श्रोत्रपात्रीकृता यस्य वार्तापीयमनुत्तरा । निषिञ्चत्यन्तरात्मानमश्रान्तममृतैरिव ॥ २१३ ॥ विश्वभद्रंकरः स स्याद्यदि साक्षादवेक्षितः। श्रेयःसंवलितानन्दमयं नस्तज्जगद्भवेत् ॥ २१॥ (युग्मम्) तन्नैवाभूदभाग्यैर्नस्तावत्संप्रति तु प्रभोः । श्रीनेमिखामिपादारविन्दं वन्दामहे यदि ॥ २१५॥ तद्भवत्येव नः सर्वपाप्मभ्यः सलिलाञ्जलिः । बिभर्ति कृतकृत्यत्वं व्रतग्रहणमप्यदः ॥ २१६ ॥ (युग्मम्) किंतु त्रिजगदम्भोजस्मेरणधुमणिः प्रभुः। क्वाधुना विहरत्येवं विद्मः किमपि नो वयम् ॥ २१७ ॥ इत्युक्ते सूनुभिः पाण्डोर्धर्मघोषमुनीश्वरः । जनालोकमहेनाह्ना साक्षात्कृतजगज्जगौ ॥ २१८॥ आर्यानार्येषु देशेषु मध्यदेशादिषु मात् । विहृत्य हीमदाद्येषु भूघरेष्वप्यनेकशः॥ २१९ ॥ मार्तण्ड इव राजीवखण्डान्निशि निमीलितान् । मोहव्यामोहितांस्तांस्तान्प्राणिनः प्रतिबोध्य च ॥ २२० ॥ ज्ञात्वा नेदीयसीमात्मनिर्वृतिं भुवनप्रभुः । गिरिं रैवतकं नाम नन्वलंकुरुतेऽधुना ॥ २२१ ।। (त्रिभिर्विशेषकम्) इत्यस्य गिरमाकर्ण्य विक्लवोत्सुकचेतसः। स्वामिसंगमसोत्कण्ठा जजल्पुः पाण्डसूनवः ॥ २२२ ॥ ननु त्वरितमद्यैव तर्हि प्रस्थीयतां प्रभो। दर्श्यतां नः पुरोभूय पादास्तस्य जगत्पतेः ॥ २२३ ॥ मा स्म निर्भाग्यधौरेयाः पुरस्तादेव तं विभुम् । निर्वाणपदवी प्राप्त..."वन्दिष्यामहे वयम् ॥ २२४ ॥ पुरस्कृत्येति तं वेगान्मुनिं रैवतकं प्रति । श्रीमन्नेमिजिनं नन्तुं पाण्डवेयाः प्रतस्थिरे ।। २२५ ॥ पाण्डवचरितम् । ७०९ अविश्रान्तं व्रजन्तस्ते दर्शनोस्कण्ठिताः प्रभोः। हस्तिकल्प पुरं जग्मुर्मासक्षपणपारणे ॥ २२६ ॥ नगरेऽस्मिन्विशन्तस्ते धर्मघोषमुनीश्वरम् । व्यज्ञापयन्निति प्रीत्या निपत्याङ्घ्रिसरोरुहे ।। २२७ ॥ प्रभो रैवतकोऽमुष्मात्पुराद्वादशयोजनी । प्रगतनप्रयाणेन तत्र प्रायो गमिष्यते ॥ २२८ ।। तद्दृष्टे विटपाधीशे पारणाविधिरस्तु नः । इत्यभिग्रहमातेनुस्ते तरङ्गितसंमदाः ॥ २२९ ॥ प्रविश्याथ पुरे तस्मिन्नुज्जयन्तगिरेर्यथा । जनानागच्छतो वीक्ष्य श्यामीभूतास्यपङ्कजान् ॥ २३०॥ क्षणं यावदमी तस्थुः किंचिचकितचेतसः । चारणः श्रमणः कश्चित्तावदागाद्विहायसा ॥ २३१ ।। परिम्लानमुखो धर्मघोषाय विहितानतिः । प्रणम्य पाण्डवैः पृष्टः स व्याचष्टेति शिष्टधीः ॥ २३२ ॥ सनकर्मारिरासन्नं ज्ञात्वा निर्वाणमात्मनः । भगवान्समधासार्षीदेत्य रैवतकाचले ॥ २३३ ॥ रूप्यकाञ्चनमाणिक्यमयं वप्रत्रयाङ्कितम् । नानामणिप्रभाजालं केलिमिर्लप्तगोपुरम् ॥ २३४ ॥ सर्वतो रत्नभित्त्यन्तःसंक्रान्तप्रतिमाच्छलात् । एकाशोकमपि व्याप्तमशोकविपिनैरिव ॥ २३५ ।। आनन्दानामुपादानं निदानं पुण्यसंपदाम् । सुरा विरचयांचक्रुर्देशनागारमन्तिमम् ।। २३६ ॥ (त्रिभिर्विशेषकम्) विकुर्वन्ति स गीर्वाणाः ककुप्सु चतसृष्वपि । तस्यान्त रिमाणिक्यमासुरां चतुरासनीम् ।। २३७ ।। ततोऽस्मिन्नुल्लसद्धर्मध्वजमञ्जरिताङ्गणे । राकाहिमकराकार""जैत्रत्रयोल्बणे ॥ २३८ ॥ काव्यमाला। यथास्थानं समासीनसुरासुरनरेश्वरे । सिंहासनमलंकृत्य कृत्यवित्पूर्वदिङ्मुखम् ॥ २३९॥ मोक्षं प्रति प्रतिष्ठासुर्विश्वानुग्रहकाम्यया । चिरं चकार भगवानन्तिमां धर्मदेशनाम् ॥ २४०॥ प्रतिबुद्धास्तया केचिद्रतमाददिरे क्षणात् । श्रावकत्वं परे भेजुरन्ये भद्रकतां पुनः ॥ २४१ ।। ततः परीतः साधूनां षट्त्रिंशैः पञ्चभिः शतैः । पादपोपगम चक्रे मासिकानशनं विभुः ॥ २४२॥ . ततः शुचिसिताष्टम्यां चित्रायां चित्रिताशयैः संगतः परितः शक्रप्रमुखैस्त्रिजगज्जनैः ॥ २४३ ॥ साधुभिः सहितः शुद्धशैलेशीध्यानबन्धुरः। आशु लम्भितवान्सर्वं कर्मजातं निरंशताम् ॥ २४४ ॥ साग्रमब्दसहस्रायुर्जगदेकदिवाकरः । निर्व्यायाधसुखं स्वामी निर्वाणपदवीं ययौ ।। २४५ ॥ ततः कुमाराः प्रद्युम्नसाम्बाद्याः सत्त्वशालिनः । रथनेम्यादयः खामिभ्रातरश्च तरस्विनः ।।.२४६ ।। कृष्णस्याष्टौ महिष्यश्च तथैव मुनयोऽपरे । साध्व्यश्च राजीमत्याद्या भूयस्यः शिवमासदन् ।।.२४७ ॥ प्रभोर्माता शिवादेवी समुद्रविजयः पिता । सहैव सर्वैर्दाशाहदेवभूयमुपाययुः ॥ २४८ ॥ (युग्मम्) कुबेरः शिबिकां शक्रशासनाव्द्याकरोत्क्षणात् । हरिर्विधिवदभ्यर्च्य न्यधात्तस्यां वपुः प्रभोः ॥ २४९ ॥ गोशीर्षचन्दनाद्यैश्च काष्ठै रत्नशिलातले । वितेनुर्दिशि नैर्ऋत्यां त्रिविष्टपसदश्चिताम् ।। २५० ।। उत्पाद्य शिविकां तत्र नीत्वा तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं वासवोऽकारयत्सुरैः ॥ २५१ ॥ पाण्डवचरितम् । ७११ निर्वापिते चिताग्नौ च मेधेः क्षीरोदवारिभिः । देवैर्भूपैर्जनैश्चान्यैरस्थ्यादि जगृहे प्रभोः ॥ २५२ ॥ तस्मिंश्च वह्निसंस्कारपूतरत्नशिलातले । सूत्रमासूत्रयामास श्रीनेमिजिनमन्दिरम् ॥ २५३ ॥ आनम्यानम्य तत्रस्थां स्वामिनः प्रतिमां ततः । साश्रुः सुरनरेशादिः स्वं स्वं स्थानं ययौ जनः ।। २५४ ॥ विद्याधरमुनेर्वाचमित्युपश्रुत्य दुःश्रवाम् । दशां दुःखमयीं कांचित्पाण्डवेयाः प्रपेदिरे ॥ २५५ ॥ जल्पन्ति स्म च भाग्यं नः सर्वथा प्रातिलोमिकम् । यन्न सीरसृता नापि स्वामिना संगमोऽभवत् ॥ २५६ ॥ त एव जगति स्तुत्यास्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव तज्जन्मैव फलेग्रहि ॥ २५७ ॥ येषां दीक्षोत्सवः स्वामिपाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स स्वामिवागमृतं च ये ॥ २५८ ॥ (युग्मम्) धन्येष्वपि हि धन्यास्ते ते च श्वाध्यतमाः सताम् । खामिनैव समं येषां निर्वाणमहिमाप्यभूत् ॥ २५९ ॥ इयतापि कृतार्थत्वं यद्रतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत तत्स्यात्तस्यापि मञ्जरी ॥२६०॥ प्रमोर्वागमृतैश्चेन्न सिच्येतायं तपस्तरुः । ततो वामनसातीतं किमप्येष फलं ध्रुवम् ॥ २६१ ॥ किं पुनर्भाग्यशून्यानां फलन्ति न मनोरथाः। न जातु स्याद्दरिद्रस्य कल्पद्रुमसमागमः ॥२६२ ।। तत्तावजगृहेऽस्माभिर्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्याम दृष्टे स्वामिनि नान्यथा ॥ २६३ ।। ७१२ काव्यमाला। तत्तमेव पुरस्कृत्य प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽसिन्कुर्महे निजमीप्सितम् ॥ २६४ ॥ अत्र हि क्षीणनिःशेषकर्मसंततयः पुरा । मुनयः पुण्डरीकाद्याः कोटिशः प्रययुः शिवम् ।। २६५॥ तदयं सर्वतीर्थेषु महत्तीर्थं गिरीश्वरः । अस्माकमप्यभीष्टार्थसिद्धये भविताधुना ॥ २६६ ॥ इत्यालोच्य तमद्रीन्द्रमारोहन्पाण्डवाः क्षणात् । दुःसाध्येऽपि न साध्येऽर्थे मन्दायन्ते महाशयाः ॥ २६७ ।। गिरेः शिरसि ते तस्य विधायाराधनाविधिम् । धर्मघोषगुरोः पार्श्वे चक्रिरेऽनशनक्रियाम् ।। २६८ ।। अथेक्षमाणा भृशमात्मतुल्यान् जगत्यशेषानपि देहभाजः । साम्यामृताम्भोनिधिमज्जनैकप्रशान्तमन्तःकरणं वहन्तः ॥ २६९ ॥ मतिं सितध्यानसमाधिबन्धप्रबन्धमैत्रीमधुरां दधानाः । निश्रेणिकल्पां शिवमन्दिरस्य श्रेणिं श्रयन्तः क्षपकाभिधानाम् ॥२७॥ सर्वक्रियाकौशलशालिचेतसां निर्यास्यमाणा गुरुणैव तेन ते । आसादयामासुरसादितौजसः क्रमात्रिलोकीकृतकेलिकेवलम् ॥ २७१ ॥ धर्मं विशुद्धमुपदिश्य ततः सदैव मर्त्यासुरे सदसि योगजुषो मुहूर्तम् । पाण्डोः सुताः क्षणमयोगिगुणास्पदे ते विश्रम्य मुक्तिपदमक्षयसौख्यमीयुः ॥ २७२ ।। तत्पदागमनकाम्यविक्रमा निर्मलानशनकर्मपाविनी । नन्दिनी द्रुपदभूभुजोऽपि सा ब्रह्मलोकमतुलश्रियं ययौ ॥ २७३ ।। हुताशे संस्कार त्रिदशतरुदारुप्रणयिमि- स्तदङ्गानां तत्तद्विधिमधुरमाधाय विबुधाः । जगत्काम्ये तस्मिन्गिरिशिरसि निर्वाणमहिमा- महं चक्रुर्नृत्यत्सुरयुवतिसंगीतकमयम् ॥ २७ ॥ पाण्डवचरितम् । इत्येतत्किल पाण्डवेयचरितं पर्याप्तमेतस्य तु व्रुमः किं महिमानमन्वहमपि व्यातन्महेऽस्मै नमः । यस्यैककमलङ्घिहितान्यचरितारण्यापि विद्वदची "श्राम्यतीव पादपतपरासीमानमालम्विते ॥ २७५ ॥ एतस्य स्तुतये कुतूहलतया जिद्वान्तयोगासना- न्यध्यास्ते कविमण्डलस्य नियतं देवी गिरामीश्वरी । कुण्ठीयन्ति कनीयसापि कवितुं येऽन्ये प्रबन्धान्मुहुः तेऽप्यस्मिन् किमपि प्रगल्भवचसो वाचस्पतीयन्ति यत् ।।२७६|| एतस्मिन् व्यवहारकौगलमिह व्युत्पत्तयः प्रश्रय- प्रायेषु प्रसभं गुणेषु दधते वैदग्ध्यममाद्विरः । अस्मिन् संवननं प्रपञ्चपटिमा कतिरुदात्तकम- स्त्रैलोक्याभयदानपीनमहिमा धर्मोऽप्यमुस्मिन् परः ।। २७७ ॥ एकस्यापि महात्मनोऽस्ति चरितं यस्मिंस्तदप्यास्पदं कल्याणस्य न कस्य यत्पुनरलंचक्रुस्त एतेऽद्धताः । श्रीनेमिर्मुशली हरिप्रतिहरी पाण्डोः सुताः कौरवा भीष्मः कर्णकृपादयश्च वहवस्तस्यास्य किं ब्रूमहे ॥ २७८ ॥ किंत्वस्मिन्नियमस्ति दोपकणिका वक्ता यदस्मादृशः सन्तः सच्चरितामृतैकरसिकारतस्यामनास्थापराः । सौरभ्यस्पृहयावतंसपदवी पङ्केरुहं लम्भयन् पङ्कोत्पत्तिकलङ्कमस्य मतिमान् को नाम मीमांसते ॥ २७९ ॥ पष्ठाङ्गोपनिपत्रिपप्टिचरिताद्यालोक्य कौतूहला- देव तत्कन्दलयाचकार चरितं पाण्डोः सुतानामहम् । तत्राज्ञानतमस्तिरस्कृतिवशादुत्सूत्रमुत्सूत्रयं यस्किंचित्किल मय्यनुग्रहधिया शोध्यं तदेतद्बुधैः ॥ २८ ॥ १. 'मासूत्रयं भवेत्. काव्यमाला। यावत्संसारतापव्यतिकरभिदुरा वाग् जिनानां मुनीन्द्र- प्रज्ञाकान्तावगाढा विधुरयति सुधादीर्घिकादर्पमुद्राम् । तावन्निर्निद्रकार्तस्वरकमलकलां पुष्पदश्रान्तमस्यां विश्वं विद्वद्विरेफार्पितमहिममहाकाव्यमेतद्धिनोतु ॥ २८१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरित महाकाव्ये बलदेवस्वर्गगमन श्रीनेमिनाथपाण्डवनिर्वाणवर्णनो नामाष्टादशः सर्गः ॥ समाप्तश्चायं ग्रन्थः।