पाण्डुरङ्गाष्टकम् (मूलसहितम्)

पाण्डुरङ्गाष्टकम् (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥ श्री ॥

॥ पाण्डुरङ्गाष्टकम् ॥


महायोगपीठे तटे भीमरथ्या
 वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।
समागत्य तिष्ठन्तमानन्दकन्दं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १ ॥

तडिद्वाससं नीलमेघावभासं
 रमामन्दिरं सुन्दरं चित्प्रकाशम् ।
वरं त्विष्टकायां समन्यस्तपादं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २ ॥

प्रमाणं भवाब्धेरिदं मामकानां
 नितम्बः कराभ्यां धृतो येन तस्मात् ।
विधातुर्वसत्यै धृतो नाभिकोशः
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३ ॥

स्फुरत्कौस्तुभालंकृतं कण्ठदेशे
 श्रिया जुष्टकेयूरकं श्रीनिवासम् ।
शिवं शन्तमीड्यं वरं लोकपालं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४ ॥

शरच्चन्द्रबिम्बाननं चारुहासं
 लसत्कुण्डलाक्रान्तगण्डस्थलान्तम् ।
जपारागबिम्बाधरं कञ्जनेत्रं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ५ ॥

किरीटोज्ज्वलत्सर्वदिक्प्रान्तभागं
 सुरैरर्चितं दिव्यरत्नैरनर्घैः ।
त्रिभङ्गाकृतिं बर्हमाल्यावतंसं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ६ ॥

विभुं वेणुनादं चरन्तं दुरन्तं
 स्वयं लीलया गोपवेषं दधानम् ।
गवां वृन्दकानन्ददं चारुहासं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७ ॥

अजं रुक्मिणीप्राणसंजीवनं तं
 परं धाम कैवल्यमेकं तुरीयम् ।
प्रसन्नं प्रपन्नार्तिहं देवदेवं
 परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८ ॥

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये
 पठन्त्येकचित्तेन भक्त्या च नित्यम् ।
भवाम्भोनिधिं तेऽपि तीर्त्वान्तकाले
 हरेरालयं शाश्वतं प्राप्नुवन्ति ॥ ९ ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रामच्छंकरभगवतः कृतौ
पाण्डुरङ्गाष्टकं सम्पूर्णम् ॥