पाण्डुलोहितकवस्तु
[[लेखकः :|]]


पाण्डुलोहितकवस्तु

 ०.१ (२८८ १ = ग्ब्म् ८८९) ॥ वस्तूद्दानम्* ॥
पाण्डुलोहितकानां वस्तू पुद्गलानां तथैव च श्
अथ पारिवासिकानां पोषधस्थापनेन च श्
शयनासनमधिकरणं संघभेदश्च पश्चिमम्* ॥

 ०.२ ॥ पण्डुलोहित<क>वस्तूद्दानम्* ॥
पाण्डुलोहितानां तर्जनीयं श्रेयकस्य च निगर्हणीयम्* <।>
अश्वकपुनर्वसुकानां प्रवासमुत्तरः प्रतिसंहरे ॥
अदर्शनाय<ं> छन्दस्<अस्> तथैवाप्रतिकरणा ।
अरिष्टपापीकादृष्टि<र्> उदायिपंचकर्मक<ः> ॥ ॥

 १.१ बुद्धो भगवां श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे <।> तेन खलु समयेन श्रावस्त्यां पाण्डुलोहितका भिक्षवः प्रतिवसन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका<ः ।> ते संघेऽभीक्ष्णमधिकरणान्युत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादमापन्नः <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । कुरुत यूयं भिक्षवः पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विगृहीतानां विवादमापन्नानामाधिकरणिकानां तर्जनीयं कर्म इति । यो वा पुनरन्योऽप्येवंजातीयः ।

 १.२ पंचभिः कारणाइस्तर्जनीयं कर्म कृतमधर्मकर्म च तदविनयकर्म च संघश्च तेन सातिसारः । कतमैः पंचभिः <।> अचोदयित्वा कुर्वन्त्यस्मारयित्वा अवस्तुकमप्रतिज्ञया असंमुखीभूतस्य कुर्वन्ति ।

 १.२ पंचभिस्तु कारणैस्तर्जनीयं कर्म कृतं धर्मकर्म च तद्विनयकर्म च संघश्च तेन न सातिसारः <।> कतमैः पंचभिः <।> चोदयित्वा कुर्वन्ति स्मारयित्वा सवस्तुकं प्रतिज्ञया संमुखी<भूतस्य> कुर्वन्ति <।>

 १.३ एवं च पुनः कर्तव्यं <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* <।>

 १.४ शृणोतु भदन्ताः संघ<ः ।> इमे पाण्डुलोहितका भिक्षवः कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः <।> त एते अभीक्ष्णं संघे अधिकरणान्युत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादमापन्नः <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विग्रहकारकाणां विवादकारकाणामाधिकरणिकानां तर्जनीयं कर्म कुर्यादित्येषा ज्ञप्तिः ॥

 १.५ ततः कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> इमे पाण्डुलोहितका भिक्षवः कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः <।> त एते अभीक्ष्णं संघे अधिकरणान्युत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विहरति विगृहीतो विवादमापन्नः <।> तत्संघ<ः> पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विग्रहकारकाणां विवादकारकाणामाधिकरणिकानां तर्जनीयकर्म करोति <।> येषाम् (२८९ १ = ग्ब्म् ८९०) आयुष्मतां क्षमते पाण्डुलोहितकानां भिक्षूणां पूर्ववद्यावत्तर्जनीयं कर्म कर्तुं ते तूष्णीं न क्षमते भाषन्ताम् <।> इयं प्रथमा कर्मवाचना <।> एवं द्वितीया तृतीया कर्मवाचना कर्तव्या ॥ कृतं संघेन पाण्डुलोहितकानां भिक्षूणां पूर्ववद्यावत्तर्जनीयं कर्म <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ।

 १.६ तर्जनीयकर्मकृतस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयामि श् तर्जनीयकर्मकृतेन भिक्षुणा न प्रव्राजयितव्यं <।> नोपसंपादयितव्यं श्न निश्रयो देयः <।> न श्रमणोद्देश उपस्थापयितव्यः <।> न भिक्षुण्यववाद्<अय्>इतव्या <।> न भिक्षुण्यववादकः संमन्तव्यो <।> नापि पूर्वसंमतेन भिक्षुण्यववाद्<अय्>इतव्या <।> न भिक्षुश्चोदयितव्यः स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या स्थापयितव्यो <।> न पोषधो न प्रवारणा न ज्ञप्तिकर्म न ज्ञप्तिचतुर्थं कर्म <।> तर्जनीय<कर्म>कृतो भिक्षुर्यथा प्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते सातिसारो भवति ।

 १.७ <त> एवं तर्जनीयकर्मकृता उत्कचप्रकचाः संघे रोम पातयन्ति निःसरणं प्रवर्तयन्ति सामीचीमुपदर्शयन्त्यन्तःसीमायां स्थित्वा ओसारणां याचन्ते कलहकारकत्वाच्च प्रतिविरमाम इति कथयन्ति <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति श्भगवानाह । ओसारयत यूयं भिक्षवः पाण्डुलोहितकान् भिक्षून् कलहकारकांस्तर्जनीयकर्मकृतानिति श्यो वा पुनरन्योऽप्येवंजातीयः <।>

 १.८ पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृतो नोसारयितव्यः <।> कतमैः पंचभिः <।> नोत्कचप्रकच<ः> संघे रोम पातयति श्न निःसरणं प्रवर्तयति न सामीचीमुपदर्शयति नान्तःसीमायां स्थित्वा ओसारणां याचते श्तस्माच्च कलहकारकत्वाच्च न प्रतिविरमा<मीति वद>त्य्<।> एभिः पंचभिर्धर्मैः समन्वागतः पूर्ववत्* ।

 १.८ अपरैरपि पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृतो नोसारयितव्यः <।> कतमैः पंचभिः <।> राजकुलप्रतिसरणो भवति युक्तकुलप्रतिसरणस्तीर्थिकप्रतिसरणः पुद्गलप्रतिसरणो न संघप्रतिसरणः <।> एभिः पंचभिर्धर्मैः समन्वागतः पूर्ववत्* ।

 १.८ अपरैरपि पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृतो नोसारयितव्यः <।> कतमैः पंचभिः <।> आगारिकध्वजं धारयति तीर्थिकध्वजं धारयति तीर्थ्या<न्> सेवते <भजते> पर्युपास्ते अनध्याचारमाचरति भिक्षुशिक्षायां <न> शिक्षते <।> एभिः पंचभिर्धर्मैः समन्वागतः पूर्ववत्* <।>

 १.८ अपरैरपि पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृतो नोसारयितव्यः <।> कतमैः पंचभिः <।> भिक्षूनाक्रोशति रोषयति परिभाषते श्संघस्य च अलाभाय अवसादाय चेतयति <।> एभिः पंचभिर्धर्मैः पूर्ववत्* <।>

 १.९ पंचभिस्तु धर्मैः समन्वागतस्तर्जनीयकर्मकृत ओसारयितव्यः <।> कतमैः पंचभिर्धर्मैः <।> उत्कचप्रकचः संघे रोम पातयति निःसरणं प्रवर्तयति सामीचीमुपदर्शयत्यन्तःसीमाया<ं> स्थित्वा ओसारणा<ं> याचते । कलहकारकत्वाच्च प्रतिविरमामीति श्वदति शेभिः पंचभिर्धर्मैः समन्वागतस्(२८९ १ = ग्ब्म् ८९१) तर्जनीयकर्मकृत ओसारयितव्यः <।>

 १.९ <अपरैरपि पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृत ओसारयितव्यः ।> कतमैः पंचभिः <।> न राजकुलप्रतिसरणो भवति न युक्तकुलप्रतिसरणो न तीर्थिकप्रतिसरणः संघप्रतिसरणो न पुद्गलप्रतिसरणः <।> एभिः पंचभिर्धर्मैः समन्वागतः पूर्ववत्* ॥

 १.९ अपरैरपि पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृत ओसारयितव्यः <।> कतमैः पंचभिः <।> नागारिकध्वजं धारयति न तीर्थिकध्वजं धारयति न तीर्थ्यां सेवते न भजते न पर्युपास्ते अध्याचारमाचरति भिक्षुशिक्षायां शिक्षते शेभिः पंचभिर्धर्मैः पूर्ववत्* <।>

 १.९ अपरैरपि पंचभिर्धर्मैः समन्वागतस्तर्जनीयकर्मकृत ओसारयितव्यः <।> कतमैः पंचभिः <।> न भिक्षूनाक्रोशति न रोषयति न परिभाषते संघस्य लाभाय <अनवसादाय> चेतयते <। एभिः> पंचभिर्धर्मैः पूर्ववत्* <।>

 १.१० एवं च पुनरोसारयितव्यः <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते पाण्डुलोहितकैर्भिक्षुभिर्यथावृद्धिकया सामीचीं कृत्वा वृद्धान्ते उत्कुटुकेन स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद्वचनीयं <।>

 १.११ शृणोतु भदन्ताः संघ<ः ।> वयं पाण्डुलोहितका भिक्षवः कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः <।> ते वयमभीक्ष्णं संघे अधिकरणान्युत्पादयामो येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादमापन्नः <।> तेषामस्माकं पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विग्रहकारकाणां विवादकारकाणामाधिकरणिकानां संघेन तर्जनीयं कर्म कृतं <।> ते वयं तर्जनीयकर्मकृता उत्कचप्रकचा<ः> संघे रोम पातयामो निःसरणं प्रवर्तयामः सामीचीमुपदर्शयामः अन्तःसीमाया<ं> स्थित्वा ओसारणां याचामहे श्कलहकारकत्वाच्च प्रतिविरमामः ओसारयत्वस्माकं भदन्ताः संघ<ः> पाण्डुलोहितकान् भिक्षून् कलहकारकान् विवादकारकानाधिकरणिकांस्तर्जनीयकर्मकृताननुकंप<क>ः अनुकंपामुपादाय <।> एवं द्विरपि त्रिरपि ।

 १.१२ ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> इमे पाण्डुलोहितका भिक्षवः कलहकारका यावदाधिकरणिका<ः ।> त एते अभीक्ष्णं संघे अधिकरणान्युत्पादयन्ति श्येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादमापन्नः <।> तदेषां संघे<न> कलहकारक इति तर्जनीयकर्म कृतं <।> त एते तर्जनीयकर्मकृता उत्कचप्रकचाः संघे रोम पातयन्ति श्निःसरणं प्रवर्तयन्ति सामीचीमुपदर्शयन्त्यन्तःसीमायां स्थित्वा ओसारणां याचन्ते । कलहकारकत्वाच्च प्रतिविरमाम इति वदन्ति श्सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः पाण्डुलोहितकान् भिक्षूनोसारयति निःसरणं प्रवर्तयति <।> एषा ज्ञप्ति<ः ।>

 १.१३ ततः कर्म कर्तव्यम्* <।> शृणोतु भदन्ताः संघ<ः ।> इमे पाण्डुलोहितका भिक्षवः कलहकारका यावद्(२९० १ = ग्ब्म् ८९२) आधिकरणिकाः <।> त एते अभीक्ष्णं संघे अधिकरणान्युत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादमापन्नः <।> तदेषां संघेन कलहकारका इति तर्जनीयकर्म कृतं <।> त एते तर्जनीयकर्मकृता उत्कचप्रकचा<ः> संघे रोम पातयन्ति निःसरणं प्रवर्तयन्ति सामीचीमुपदर्शयन्ति अन्तःसीमायां स्थित्वा ओसारणां याचन्ते । कलहकारकत्वाच्च प्रतिविरमाम इति वद<न्>ति <।> तत्संघः पाण्डुलोहितकान् भिक्षून् कलहकारकांस्तर्जनीयकर्मकृतानोसारयति <।> येषामायुष्मतां क्षमते पाण्डुलोहितकान् भिक्षून् कलहकारकांस्तर्जनीयकर्मकृतानोसारयितुं ते तूष्णी<ं> न क्षमन्ते भाषन्तां <।> ओसारिता<ः> संघेन पाण्डुलोहितका भिक्षवः कलहकारकास्तर्जनीयकर्मकृताः <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ॥

 २.१ बुद्धो भगवां श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे श्तेन खलु समयेन श्रेयको भिक्षुरभीक्ष्णापत्तिकोऽभीक्ष्णं संघावशेषामापत्तिमापद्यते श्तस्य भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यमावर्हन्तश्च बहुकृत्या <भवन्ति> बहुकरणीया रिंचन्त्युद्देशं पाठं स्वाध्यायं योगं मनसिकारमध्यात्मं चेतःशमथम्* <।> एतत्प्रकरण<ं> भिक्षवो भगवत आरोचयन्ति <।> भगवानाह <।> कुरुत यूयं भिक्षवः श्रेयकस्य भिक्षोरभीक्ष्णापत्तिकस्य <नि>गर्हणीयं कर्म इति <।> यो वा पुनरन्योऽप्येवंजातीयः <।>

 २.२ पंचभिः कारणैर्निगर्हणीयं कर्म कृतमधर्मधर्म <च> तदविनयकर्म च संघश्च तेन सातिसारः <।> कतमैः पंचभिः <।> अचोदयित्वा कुर्वन्ति अस्मारयित्वा अवस्तुक<म्> अप्रतिज्ञया असंमुखीभूतस्य कुर्वन्ति श्

 २.२ पंचभिस्तु कारणैर्निगर्हणीयं कर्म कृतं धर्मकर्म च तद्विनयकर्म च संघश्च तेन न साति<सा>रः <।> कतमैः पंचभिः <।> चोदयित्वा स्मारयित्वा कुर्वन्ति सवस्तुकं प्रतिज्ञया संमुखीभूतस्य <।>

 २.३ एवं च पुनः कर्तव्यम्* <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।>

 २.४ शृणोतु भदन्ताः संघ<ः ।> अयं श्रेयको भिक्षुरभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषामापत्तिमापद्यते <।> तदस्य भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यमावर्हन्तश्च बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्युद्देशं पाठं स्वाध्यायं योगं मनसिकारमध्यात्मं चेतःशमथं <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्स<ं>घः श्रेयकस्य भिक्षोरभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म कुर्यादित्येषा ज्ञप्तिः <।>

 २.५ एवं च कर्म कर्तव्यम्* । शृणोतु भदन्ताः संघ<ः ।> अयं श्रेयको भिक्षुरभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषामापत्तिमापद्यते <।> तदस्य भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यमावर्हन्तश्च बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्युद्देशं पाठं स्वाध्यायं योगं मनसिकारमध्यात्मं चेतःशमथं <।> तत्संघः श्रेयकस्य भिक्षोरभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म करोति <।> येषामायुष्मतां क्षमते श्रेयकस्य (२९० १ = ग्ब्म् ८९३) भिक्षोरभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म कर्तुं ते तूष्णीं न क्षमते भाषन्ताम्* <।> इयं प्रथमा कर्मवाचना । एवं द्वितीया तृतीया कर्मवाचना कर्तव्या <।> कृतं संघेन श्रेयकस्य भिक्षोरभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥

 २.६ निगर्हणीयकर्मकृतस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयामि <।> निगर्हणीयकर्मकृतेन भिक्षुणा न प्रव्राजयितव्यं <।> नोपसंपादयितव्यं <।> न निश्रयो देयो <। न> श्रमणोद्देश उपस्थापयितव्यः पूर्ववद्यावत्तर्जनीयकर्मकृतस्य वक्तव्यं <।> निगर्हणीयकर्मकृतो भिक्षुर्यथा प्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते सातिसारो भवति ॥

 २.७ स एवं निगर्हणीयकर्मकृत उत्कचप्रकच<ः> संघे रोम पातयति पूर्ववद्यावत्* <अन्तः>सीमायां स्थित्वा ओसारणां याचते <।> अभीक्ष्णापत्तिकत्वाच्च प्रतिविरमामीति वदति <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <।> भगवानाह । ओसारयत यूयं भिक्षवः श्रेयकस्य भिक्षो<र्> निगर्हणीयकर्मकृत<स्य> इति यो वा पुनरन्योऽप्येवंजातीयः <।>

 २.८ पंचभिर्धर्मैः समन्वागतो निगर्हणीयकर्म कृतः ओसारयितव्यः <।> कतमैः पंचभिः <।> उत्कचप्रकच<ः> संघे रोम पातयति श्निःसरणं प्रवर्तयति सामीची<म्> उपदर्शयति अन्तःसीमायां स्थित्वा ओसारणां याचते शभीक्ष्णापत्तिकत्वाच्च प्रतिविरमामीति श्वदति श्

 २.९ एवं च पुनरोसारयितव्यः <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते श्रेयकेन भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद्वचनीयं <।>

 २.१० शृणोतु भदन्ताः संघः <।> अहं श्रेयको भिक्षुरभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषामापत्तिमापद्ये <।> तन्मे भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यावर्हणश्चेति । बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्युद्देशं पाठं स्वाध्यायं योगं मनसिकारमध्यात्मं चेतःशमथं <।> मम संघेन निगर्हणीयं कर्म कृतं <।> सोऽहं निगर्हणीयकर्मकृत उत्कचप्रकच<ः> संघे रोम पातयामि <।> निःसरणं प्रवर्तयामि <।> सामीचीमुपदर्शयामि शन्तःसीमायां स्थित्वा ओसारणां याचे <।> अभीक्ष्नापत्तिकत्वा<च्> च प्रतिविरमामि <।> ओसारयतु मां भदन्ताः संघः श्रेयकं भिक्षुमभिक्ष्णापत्तिकं निगर्हणीयकर्मकृतमनुकंपकोऽनुकंपामुपादाय <।> एवं द्विरपि त्रिरपि <।>

 २.११ ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* <।> शृणोतु भदन्ताः संघ<ः ।> अयं श्रेयको भिक्षुरभीक्ष्णापत्तिकः पूर्ववद्यावदध्यात्मं चेतःशमथं <।> तस्य संघेनाभीक्ष्णापत्तिक इति निगर्हणीयं कर्म कृतमोसारयेदित्येषा ज्ञप्तिः । एवं च कर्म कर्तव्यम्* <।> निगर्हणीयकर्मकृत उत्कचप्रकच<ः> संघे रोम पातयति पूर्ववद्यावदभीक्ष्णापत्तिकत्वाच्च प्रतिविरमामीति वदति श्सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः श्रेयकं भिक्षुमभीक्ष्णापत्तिकं निगर्हणीयकर्मकृतमोसारयेदित्येषा ज्ञप्ति<ः ।>

 २.१२ एवं च कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः> । अयं (२९१ १ = ग्ब्म् ८८९) भदन्त श्रेयको भिक्षुरभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषामापत्तिमापद्यते <।> ददतास्य भिक्षवः परिवासं भदन्त पूर्ववद्यावदध्यात्मं चेतःशमथं <।> तदस्य संघेनाभीक्ष्णापत्तिक इति निगर्हणीयं कर्म कृतं सोऽयं श्रेयको भिक्षुरभीक्ष्णापत्तिको निगर्हणीयकर्मकृत उत्कचप्रकच<ः> संघे रोम पातयति निःसरणं प्रवर्तयति श्सामीचीमुपदर्शयति अन्तःसीमाया<ं> स्थित्वा ओसारणा<ं> याचते अभीक्ष्णापत्तिकत्वा<च्> च प्रतिविरमामीति वदति <।> तत्संघः श्रेयकं भिक्षुमभीक्ष्णापत्तिकं निगर्हणीयकर्मकृत<म्> ओसारयति श्येषामायुष्मतां क्षमते श्रेयकं भिक्षुमभीक्ष्णापत्तिकं निगर्हणीयकर्मकृतमोसारयितुं ते तूष्णीं न क्षमते भाषन्तां <।> इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना कर्तव्या ॥ ओसारितः संघेन श्रेयको भिक्षुरभीक्ष्णापत्तिको निगर्हणीयकर्मकृतः <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ॥

 ३.१ बुद्धो भगवां श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे श्तेन खलु समयेन किटागिरीयकावश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः कुलदूषकौ पापधर्मसमुदाचारौ <।> ताविमान्येवंरूपाण्यश्रामणकानि कर्माणि कुरुत<ः> कारयत<ः ।> तद्यथा मातृग्रामेण सार्धं संचग्घत<ः> संक्रीडत<ः> संकिलिकिलायेते शौद्धत्यं द्रवं कायतान्त्यं कुरुतः अपीदानीमेकासने निषीदतः <।> एकपंक्त्यां भुंजाते <।> एकशिरावके विविधानि मद्यपानानि पिबतः <।> पुष्पाण्युच्चिनुतः उच्चायतः <।> माला ग्रथ्नीतः ग्रथ्नापयतः <।> अवतंसकान् बध्नीत<ः> बध्नयतः <।> नृत्यत<ः> नर्तयतः <।> गायत<ः> गाया<प>यतः <।> वादत<ः> वादापयतः । सुनृत्येषु सुगीतेषु सुवादितेषु लालाटिकामनुप्रयच्छत<ः ।> चीवरकानि संहृत्य धावतः द्रवतः प्रद्रवतः <।> ऊरुपरिवर्तमपि कुरुतः बाहुपरिवर्तमपि । रोहितावर्तमपि <।> जलशिक्यकयापि विध्यतः <।> जलयन्त्रकं जलभेरिकामपि वादयतः <।> हस्तिक्रौञ्चमपि क्रूञ्चतः अश्वहेषितमपि हेषत<ः ।> ऋषभगर्जितमपि गर्जतः <।> मुखदुन्दुभिकामपि वादयतः <।> मुखशङ्खं मुखभेरी<ं> मयूरविरुतमपि केकायेते <।> कोकिलविरुतमपि बिकूजतः <।> हस्तियुद्धमपि कुरुतः <।> अश्वयुद्धमृषभयुद्धं महिषयुद्धमजयुद्धं पिण्डकयुद्धं स्त्रीयुद्धं पुरुषयुद्धं कुमारकयुद्धं कुमारिकायुद्धं कुक्कुटयुद्धं वर्तकयुद्धं लावकयुद्धं कुरुतः कारयत<ः ।> इमानि चान्यानि चाश्रामणकानि कर्माणि कुरुत<ः> कारयतः <।> तयोस्तया ईर्यया चर्यया प्रतिपत्त्या किटागिरिमनागताश्च भिक्षवो नागच्च्गन्त्य्<।> आगताश्च नाभिरमन्ते त्यजन्ति किटागिरौ वासं <।> किटागिरिनिवासिनश्च ब्राह्मणगृहपतयो नात्तमनसो नाभिराद्धा<ः ।> नैवासिकानामपि चिरानुगतानां कृच्छ्रेण पिण्डकं दातव्यं कर्तव्यं मन्य्<अन्त्>ए । कः पुनर्वाद आगन्तुकानां <।>

 ३.२ यावदपरेण समयेनायुष्मानानन्दः काशीषु जनपदेषु चारिकां चरं किटागिरिमनुप्राप्तः <।> किटागिरौ विहरति (२९१ १ = ग्ब्म् ८९५) किटागिरीयके दावे <।> अथायुष्मानानन्दः पूर्वाह्णे निवास्य पात्रचीवरमादाय किटागिरिं पिण्डाय प्रविष्ट<ः> श्स यथा धौतेन पात्रेण किटागिरिं पिण्डाय प्रविष्टस्तथा धौतेनैव पात्रेण प्रतिनिष्क्रान्तोऽलब्ध्वा दानमलब्ध्<व्>आप्रत्याख्यानम्* अन्तत एकभिक्षामपि <।> अथायुष्मत आनन्दस्यैतदभवत्* <।> पूर्वे चायं किटागिरि ऋद्धश्चाभूत्<*> स्फीतश्च क्षेमश्च सुभिक्षश्चाकीर्णबहुजनमनुष्यश्च सुलभश्चारुपिण्डको याचनकेन <।> एतर्ह्यप्ययं किटागिरि ऋद्धश्च स्फीतश्च क्षेम<श्च> सुभिक्षश्चाकीर्णबहुजनमनुष्यश्च <।> अथ च पुनरह<ं> यथा धौतेनैव पात्रेण प्रविष्टस्तथा धौतेन पात्रेण प्रतिनिष्क्रान्तोऽलब्ध्वा दानमलब्ध्वा प्रत्याख्यानमन्तत एकभिक्षामपि <।> मा हैवात्र केनचिद्भगवतः श्रावकेन मूढेनाव्यक्तेनाकुशलेन क्लेशवशात्कुलस्त्री वा कुलकुमारी वा आभाषिता वा भविष्यत्यामृष्टा वा परिभाषिता <।

> ३.३ तेन खलु समयेन किटागिरीयकानां ब्राह्मणगृहपतीनां संस्थागारे पंचमात्राणि ब्राह्मणगृहपतिशतानि संनिषण्णानि संनिपतितानि केनचिदेव करणीयेन <।> अथायुष्मानानन्दो येन किटागिरीयकानां ब्राह्मणगृहपतीनां संस्थागारस्तेनोपसंक्रान्तः <।> उपसंक्रम्य किटागिरीयका<न्> ब्राह्मणगृहपतीनिदमवोचत्* <।> पूर्वे चायं भवन्त किटागिरि<ः> पूर्ववद्यावदलब्ध्वा एकभिक्षामपि <।> एवमुक्ताः किटागिरीयका ब्राह्मणगृहपतय इन्द्रियाण्युत्क्षिप्यावस्थिता<ः> श्

 ३.४ तेन खलु समयेनोदकप्लोतिक उपासकस्तस्यामेव परिषदि संनिषण्णोऽभूत्संनिपतितः <।> अथोदकप्लोतिक उपासिक आयुष्मन्तमानन्द<ं> बाहुं गृहीत्वा एकान्ते प्रक्रम्यायुष्मन्तमानन्दमिदमवोचत्* <।> यत्खलु भदन्तानन्द जानीया अस्मिन् किटागिरावश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः कुलदूषकौ पापधर्मसमुदाचारौ तौ मातृग्रामेण सार्धं संचग्घत<ः> पूर्ववद्यावद्<।>

 ३.५ आयुष्मन्नानन्द पूर्ववद्यावद्यथा संघावशेषे कुलदूषकशिक्षापदे अश्वकपुनर्वसुकयोर्भिक्ष्वोः प्रवासनीयं कर्म कुरु <।>

 ३.६ एवं च पुनः कर्तव्यं <।> अन्तर्मार्गे स्थित्वा चोदको भिक्षुः संमन्तव्यः <।> पंचभिर्धर्मैः समन्वागतश्चोदको भिक्षुः पूर्ववद्यावत्कर्म कुर्वन्ति <।>

 ३.७ शृणोतु भदन्ताः संघ<ः ।> इमावश्वकपुनर्वसुकौ भिक्षू कुलदूषकौ पापधर्मसमुदाचारौ <।> आभ्यां कुलानि दूषितानि दृश्यन्तेऽपि श्रूयन्तेऽपि प्रज्<ञ्>आयन्तेऽपि <।> पापकाश्चानयोः समुदाचारा दृश्यन्तेऽपि श्रूयन्तेऽपि प्रज्ञायन्तेऽपि <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः अश्वकपुनर्वसुकयो<र्> भिक्ष्वोः कुलदूषकयो<ः> पापधर्मसमुदाचारिणोः प्रवासनीयं कर्म कुर्यादित्येषा ज्ञप्तिः ॥ एवं च कर्म कर्तव्यं पूर्ववद्यावदेवं द्वितीया तृतीया कर्मवाचना कर्तव्या श् ॥ ॥

 ४.१ बुद्धो भगवां श्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारमे श्तेन खलु समयेन श्रावस्त्यामन्यतम श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगः <।> (२९२ १ = ग्ब्म् ८९६) तेन सदृशात्कुलात्कलत्रमानीतं <।> स तया सार्धं क्रीडति रमते परिचारयति <।> तस्य क्रीडतो र्<अममाण>स्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता <।> सा अष्टानां वा नवानां वा मासानामत्ययादुत्तरे नक्षत्रे प्रसूता <।> दारको जातः <।> तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्येकविंशतिदिवसां जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति <।> किं भवतु दारकस्य नामेति <।> तेषामेतदभवत्* <।> यस्मादयं दरक उत्तरे नक्षत्रे जात<स्> तस्माद्भवतु दारकस्य उत्तर इति नामेति श्तस्य उत्तर इति नामधेयं व्य्वस्थापितं <।> स उन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैराशुर्वर्ध्यते ह्रदस्थमिव पंकजं <।> स यदा महान् संवृत्तस्तदा लिप्यामुपन्यस्तः संख्यायां गणनायां मुद्रायामुद्धारे न्यासे नि<ः>क्षेपे लिप्याः पारं गतः <।> उग्धाटको वाचकः पण्डितः पटुप्रचारोऽष्टासु परीक्षासु कृतावी संवृत्तः <।> तद्यथा रत्नपरीक्षायां वस्त्रपरीक्षायां वस्त्रपरीक्षायां दारुपरीक्षायां हस्तिपरीक्षायामश्वपरीक्षायां स्त्रीपरीक्षायां पुरुषपरीक्षायां च कृतावी संवृत्तः <।> यावदस्य पिता कालगतः <।> उत्तरो गृहस्वामी संवृत्तः <।> तेनापणः प्रसारितः क्रीणाति विक्रीणीते <।> क्रयविक्रयेण जीविकां कल्पयति <।>

 ४.२ सोऽपरेण समयेन भगवतः सकाशमुपसंक्रान्त<ः ।> तस्य भगवद्दर्शनात्सद्धर्मश्रवणाच्च भगवच्छासने प्रसादो जातः <।> प्रसादजातश्च प्रव्रज्याभिलाषी संवृत्तः <।> स मातुः सकाशमुपसंक्रम्य कथयत्यंबानुजानीहि स्वाख्याते धर्मविनये प्रव्रजामीति <।> सा कथयति त्वं ममैकपुत्रो यावदहं जीवामि तावन्न प्रव्रजितव्यं <।> मृतायां मयि यथेष्टं करिष्यसीति श्स कथयत्यंब समयेनाहं न प्रव्रजामि यदि त्वं दिवसे दिवसे संघोद्दिष्टकान् भिक्षून् भाजयसीति । सा कथयति पुत्र एवं करोमीति श्स चोत्तरो यत्किंचिदुपार्जयति तत्सर्वं मात्रेऽनुप्रयच्छति शम्बानेन श्रमणब्राह्मणान् प्रतिपादयेति श्सास्य माता मत्सरी कुटुकुंचिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति प्रागेव श्रमणब्राह्मणान् प्रतिपादयिष्यति श्ये तु श्रमणब्राह्मणाः पिण्डार्थिनस्तं गृहं प्रविशन्ति तान् परिभाषते तर्जयति च <।> प्रेतोपन्ना इव यूयं नित्यं परगृहेभ्यो भिक्षामटतेति । तं च पुत्रं विप्रलंभयति अद्य मया इयन्तो भिक्षवो भोजिता इयतान् श्रमणब्राह्मणा<ना>ं भिक्षा दत्तेति श्सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूप<प>न्ना <।> उत्तरोऽपि मातृवियोगा<द्> दानानि दत्वा पुण्यानि कृत्वा स्वाख्याते धर्मविनये प्रव्रजितः <।>

 ४.३ सोऽपरेण समयेन म्रक्षषण्डायां व्यवस्थितः <।> तमागम्य म्रक्षषण्डानिवासी चित्रो गृहपति<र्> भगवच्छासने प्रसन्नः <।> सोऽतीव बुद्धधर्मसंघेषु कारान् करोति <।> म्रक्षषण्डा नाना<देश्>आभ्यागतानां भिक्षूणां प्रतिसरणं संवृत्तः <।> यावदपरेण समयेनायुष्मत (२९२ १ = ग्ब्म् ८९७) उत्तरस्यान्यतमस्मिन् कर्वटके किंचित्करणीयमुत्पन्नं <।> स तत्र गतः <।> आयुष्मांश्चोपसेनो वल्गन्तीपुत्रो पंचशतपरिवारो जनपदचारिकां चरं म्रक्षषण्डामनुप्राप्तः <।> अश्रौषीच्चित्रो गृहपतिर्यथा उपसेनो वल्गन्तीपुत्रः पंचशतपरिवारो जनपदचारिकां चरन्निहानुप्राप्त इति <।> श्रुत्वा च पुनर्येनायुष्मानुपसेनस्तेनोपसंक्रान्तः <।> उपसंक्रम्यायुष्मत उपसेनस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः <।> एकान्तनिषण्णं चित्रं गृहपतिमायुष्मानुपसेनो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयत्य्<।> अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम् <।> अथ चित्रो गृहपतिरुत्थायासनादेकांसमुत्तरासंगं कृत्वा येनायुष्मानुपसेनस्तेनांजलिं प्रणमय्यायुष्मन्तमुपसेनमिदमवोचत्* <।> अधिवासयतु मे आर्य उपसेनश्चान्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेत्य्<।> अधिवासयति आयुष्मानुपसेनश्चित्रस्य गृहपतेस्तूष्णींभावेन <।> अथ चित्रो गृहपतिरायुष्मत उपसेनस्य तूष्णींभावेनाधिवासनां विदित्वा शुचिप्रणीतं खादनीयभोजनीयं समुदानीय काल्यमेवोत्थायासनकानि प्रज्ञपयत्य्<।>

 ४.४ आयुष्मांश्चोत्तरस्तस्मात्कर्वटकादागतः <।> यावत्पश्यति न शयनासनप्रज्ञप्तिं नाप्याहारमुपान्वाहृतं <।> स आरामिकानामन्त्रयते <।> भवन्त किमल्पोत्सुकास्तिष्ठथ नासनप्रज्ञप्तिः क्रियते नाप्याहार उपान्वाह्रियते <।> किं भिक्षुसंघेन भक्तच्छेदः करणीय इति <।> ते कथयन्ति चित्रेण गृहपतिना भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः <।> किं ममागम्य <।> न त्वामागम्यऽपि तु आर्यमुपसेनं वल्गन्तीपुत्रं <।> पंचसतपरिवारो जनपदचारिकां चरन्निहानुप्राप्तः <।> स श्रुत्वा संजातामर्षः कथयति <।> अहं तस्य सर्वत्र पूर्वंगम<ः> श्कथमसौ मां प्रत्याख्यायायुष्मन्तमुपसेनं वल्गन्तीपुत्रं भिक्षुसंघमुपनिमन्त्रयति श्गच्छामि तावत्पश्यामीति । स येन चित्रो गृहपतिस्तेनोपसंक्रान्तो यावत्पश्यति चित्रं गृहपतिमासनप्रज्ञप्तिं क्रियमाणं <।> स भूयस्या मात्रया पर्यवस्थितः <।>

 ४.५ चित्रेण गृहपतिनाभिहितः <।> आर्य शोभना आसनप्रज्ञप्ति<ः> शोभनश्चाहार इति । चित्रो गृहपतिस्तिलपूपलिकावणिगासीद्<।> उत्तरः कथयति गृहपते शोभना आसनप्रज्ञप्तिः शोभनश्चाहार <।> किं तु तिलपूपलिका नास्ति <।> स कथयति <।> भदन्तोत्तर विज्ञातं <।> तेन ह्युपमां तावच्छृणु : उपमया च पुनरिहैके विज्ञपुरुषा भाषितस्यार्थमाजानन्ति श्भूतपूर्वं भदन्तोत्तर संबहुला जांबूद्वीपका वणिजः सामुद्रं यानपात्रं प्रतिपाद्य काकं कुक्कुटीं चादाय महासमुद्रमवतीर्णा धनहारकाः <।> यावदसौ कुक्कुटी कुक्कुटमलभमाना काकेन सार्धं संवासं गता : तयोः संवासाच्छावको जातः <।> स काककुक्कुटीकं वाश्यते न काको न कुक्कुटः <।> एवमेव त्वं मोक्षार्थी प्रव्रजितो मोक्षमार्गमलभमानो यद्वा तद्वा (२९३ १ = ग्ब्म् ८९८) प्रलपसीति । एवमुक्ते आयुष्मानुत्तरस्ताडककुंचिकां च तस्य पुरस्तादुत्सृज्य संप्रस्थितः <।>

 ४.६ तेनोक्त<ः ।> भदन्त उत्तर कुत्र गच्छसि <।> श्रावस्तीं <।> स्वचित्तं प्रतिलभस्व इहैव तिष्ठ मा गच्छ <।> स्थानमेतद्विद्यते यत्त्वया पुनरागत्याहमेव क्षमयितव्य इति । तस्य वचनमवचनीकृत्य समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तोऽनुपूर्वेण चारिकां चरं श्रावस्तीमनुप्राप्तः <।> स भिक्षुभिर्दृष्टः उक्तश्च <।> स्वागतं स्वागतमायुष्मन्नुत्तर प्रीता वयं त्वद्दर्<श्>अनेन नो त्वागमनेन <।> किं करणम्* श्त्वमागम्य चित्रो गृहपतिर्म्रक्षषण्डायां बुद्धधर्मसंघेषु कारान् करोति <।> आगन्तुकानां च गामिकानां च म्रक्षषण्डा प्रतिसरण<म्* ।> अस्त्येतदेवं <।> मया चित्रो गृहपतिरवस्फण्डितः <।> यथा कथं तेन यथावृत्तमारोचितं <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति श्भगवानाह श्कुरुत यूयं भिक्षवः उत्तरस्य भिक्षोर्गृहपति-र्-अवस्फण्डकस्य प्रतिसंहरणीयं कर्म इति <।> यो वा पुनरन्योऽपि एवंजातीयः <।>

 ४.७ पंचभिः कारणैः प्रतिसंहरणीयकर्मकृतमधर्मकर्म च <तदविनयकर्म च> भवति पूर्ववद्यावदसंमुखीभूतस्य कुर्वन्ति <।> एवं च पुनः कर्तव्यम्* <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।>

 ४.८ शृणोतु भदन्ताः संघ<ः ।> अनेनोत्तरेण भिक्षुणा चित्रो गृहपतिरवस्फण्डितः <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ उत्तरस्य भिक्षोर्गृहपति-र्-अवस्फण्डकस्य प्रतिसंहरणीयं कर्म कुर्यादित्येषा ज्ञप्ति<ः> श्

 ४.९ ततः कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अनेनोत्तरेण भिक्षुणा म्रक्षषण्डायां चित्रो गृहपतिरवस्फण्डितः <।> तत्संघ उत्तरस्य भिक्षोर्गृहपति-र्-अवस्फण्डकस्य प्रतिसंहरणीयं कर्म करोति <।> येषामायुष्मतां क्षमते उत्तरस्य भिक्षोर्गृहपति-र्-अवस्फण्डकस्य प्रतिसंहरणीयं कर्म कर्तुं ते तूष्णीं <।> न क्षमते भाषन्तां <।> इयं प्रथमा कर्मवाचना <।> एवं द्वितीया तृतीया कर्मवाचना कर्तव्या <।> कृतं संघेन उत्तरस्य भिक्षोर्गृहपति-र्-अवस्फण्डकस्य प्रतिसंहरणीयं कर्म <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥

 ४.१० प्रतिसंहरणीयकर्मकृतस्याहं भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञपयामि <।> प्रतिसंहरणीयकर्मकृतेन भिक्षुणा <न> प्रव्राजयितव्यं पूर्ववद्यावत्* <।> स एवं प्रतिसंहरणीयकर्मकृत उत्कचप्रकच<ः> संघे रोम पातयति <।> निःसरणं प्रवर्तयति <।> सामीचीमुपदर्शयति <।> अन्तःसीमायां च स्थित्वा ओसारणां याचते <।> गृहपति-र्-अवस्फण्डकत्वाच्च प्रतिविरमामीति वदति <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह शोसारयत यूयं भिक्षव उत्तरं भिक्षुं प्रतिसंहरणीयकर्मकृत<म्> इति <।> यो वा पुनर्<अन्यो>ऽपि एवंजातीयः <।>

 ४.११ पंचभिर्धर्मैः प्रतिसंहरणीयकर्मकृत ओसारयितव्यः <।> कतमैः पंचभिः <।> उत्कचप्रकच<ः> पूर्ववद्यावद्गृहपत्यवस्फण्डकत्वाच्च प्रतिविरमामीति वदति । (२९३ १ = ग्ब्म् ८९९) एवं च पुनरोसारयितव्यः <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं श्

 ४.१२ शृणोतु भदन्ताः संघः <।> अनेनोत्तरेण भिक्षुणा म्रक्षषण्डायां चित्रो गृहपतिरवस्फण्डितः <।> तदस्य संघेन गृहपतिरवस्फण्डक इति कृत्वा प्रतिसंहरणीयकर्म कृतं <।> सोऽयमुत्तरो भिक्षुः प्रतिसंहरणीयकर्मकृत उत्कचप्रकच<ः> पूर्ववद्यावद्गृहपत्यवस्फण्डकत्वाच्च प्रतिविरमामीति वदति <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः उत्तरं भिक्षुं प्रतिसंहरणीयकर्मकृतमोसारयेदित्येषा ज्ञप्तिः ॥ ततो वक्तव्यो गच्छ तं गृहपतिं क्षमय ओसारितो भविष्यसीति श्

 ४.१३ स भिक्षुभिरेवमभिहितो येन म्रक्षषण्डा तेन चारिकां प्रक्रान्तोऽनुपूर्वेण चारिकां चरं म्रक्षषण्डामनुप्राप्तः <।> ततो मार्गश्रमं प्रतिविनोद्य येन चित्रो गृहपतिस्तेनोपसंक्रान्त<ः> शुपसंक्रम्य दक्षिणं बाहुमभिप्रसार्य कथयति श्क्षमस्व मम गृहपते श्क्षान्तं भदन्तोत्तर श्यद्येवमिहैव प्रतिवस <।> गच्छामि तावद्येन ममापराध्हं तस्य निग्रहं करोमि <।> किं मयापराध्हं <।> न तव येन ममापराद्धं श्

 ४.१४ अथायुष्मानुत्तरो गंगातीरं गत्वा त्रिभिस्तालवृन्दैः कुटिकां कृत्वा वर्षा उपगतः <।> तेन शवशीर्षोपमं पात्रं धारितं <।> तस्य नातिदूरे मार्गस्तेन सततं गोपाङ्गना गच्छति श्स तासां पात्रं प्रसारयति श्तस्मिन् दधिं वा क्षीरं वा उदश्विं वानुप्रयच्छन्ति श्तत्परिभुज्य ध्यानसमाधिसमापत्तिसुखानि अभिनामयति श्

 ४.१५ यावदपरेण समयेन द्वे गोपाङ्गने गच्छतो माता दुहिता च श्दुहिता मातुः कथयत्यम्ब एष आर्यो मूक इति श्सा कथयति पुत्रि नैष मूकः नूनमनेन कस्यचिद्वाचा अपराद्धम्* तस्या एष निग्रहं करोतीति शम्ब किमेतदेवं भविष्यति श्पुत्रि स्वोऽहं तव प्रत्यक्षीकरिष्यामीति श्यावदपरस्मिन् दिवसे मथितघटं गृहीत्वा दुहितृसमेता तं प्रदेशमागता । आयुष्मता उत्तरेण पात्रं प्रसारितम्* <।> सा तस्य पात्रं मथितस्य पूरयितुमारब्धा शायुष्मानुत्तरः पात्रं चालयति <।> सा ददात्येव न संतिष्ठते <।> आयुष्मानुत्तरः कथयति अलं भगिनि श्किमनेन निरर्थकेन छोरितेन श्सन्त्यन्येऽस्मद्विधाः प्रतिग्राहका इति श्सा कथयति श्पुत्रि न त्वं मया पूर्वमुक्ता नायं मूको नूनमनेन कस्यचिद्वाचा अपराद्धम्* तस्या एव निग्रहं करोतीति श् । (२९४ १ = ग्ब्म् ९००) अवोचस्त्वमंब इति <।>

 ४.१६ तत्रायुष्मता उत्तरेण द्वाभ्यामन्तर्वर्षाभ्यामेका वाग्भाषिता <।> तृतीयेऽन्तर्वर्षे इदमेव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहन्य तम<ः>स्कन्धः प्रदालितः अ<र्>हं संवृत्तः पूर्ववद्यावत्पूज्यो मान्योऽभिवाद्यश्च संवृत्तः <।> आयुष्मानुत्तरोऽर्हत्वप्राप्तो विमुक्तिप्रीतिसुखसंवेदी तस्यां वेलायां गाथां भाषते ॥

त्रिभिर्मया तालवृन्दैर्गङ्गातीरे कुटी कृता ।
शवशीर्षोपमं पात्रं पांसुकूलं च चीवरम्* <॥>
द्वाभ्यामन्तर्वर्षाभ्यामेका वाग्भाषिता मया ।
तृतीयेऽन्तर्वर्षे तु तम<ः>स्कन्धः प्रदालितः <॥>
गङ्गातीरनिवासीऽत्र उत्तरः स्थविरो वशी <।>
विमुक्तचित्तो हि अर्हन्<न्> इमा गाथा अभाषत ॥ ॥

 ५.१ बुद्धो भगवां कौशाम्ब्यां विहरति घोषिलारामे <।> तेन खलु समयेनायुष्मां छन्द आपत्तिमापन्नो न पश्यति <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <।> भगवानाह । कुरुत यूयं भिक्षवः छन्दस्य भिक्षोरापत्तेरदर्शनायोत्क्षेपणीयं कर्म इति यो वा पुनरन्योऽप्येवंजातीयः <।>

 ५.२ पंचभिः कारणैरापत्तेरदर्शनादुत्क्षेपणीयं कर्म कृतमधर्मकर्म च तद<विनय>कर्म च संघश्च तेन सातिसारः । कतमैः पंचभिः <।> अचोदयित्वा कुर्वन्ति पूर्ववद्यावदेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।>

 ५.३ शृणोतु भदन्ताः संघ<ः ।> अयं छन्दो भिक्षुरापत्तिमापन्नो यथाधर्मं न प्रतिकरोति <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ<श्> छन्दस्य भिक्षोरापत्तेरदर्शनायोत्क्षेपणीयं कर्म कुर्यादित्येषा ज्ञप्तिः <।>

 ५.४ कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अयं छन्दो भिक्षुरापत्तिमापन्नो यथाधर्मं न प्रतिकरोति <।> तत्संघ<श्> छन्दस्य भिक्षोरापत्तेरदर्शनायोत्क्षेपणीयं कर्म करोति <।> येषामायुष्मतां <क्षमते> छन्दस्य भिक्षोरापत्तेर्<अ>दर्शनाय उत्क्षेपणीयं कर्म कर्तुं ते तूष्णी<ं> न क्षमते भाषन्ताम्* <।> इयं प्रथमा कर्मवाचना पूर्ववद्यावद्यथा पाण्डुलोहितकानां <।>

 ५.५ एतदेव निदानम्* <।> आयुष्मां छन्दो आपत्तिमापन्नो यथाधर्मं न प्रतिकरोति <।> स सब्रह्मचारिभिरर्थकामैः पूर्ववद्यथा विभंगे <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <।> भगवानाह । कुरुत यूयं भिक्षवः छन्दस्य भिक्षोरापत्तेरप्रतिकर्मायोत्क्षेपणीयं कर्म इति यो वा पुनरन्योऽप्येवंजातीयः <।>

 ५.६ पंचभिः कारणैरापत्तेरप्रतिकर्मायोत्क्षेपणीयं कर्म कृतमधर्मकर्म च तदविनयकर्म <च> संघश्च तेन सातिसारः <।> कतमैः पंचभिः <।> अचोदयित्वा कुर्वन्ति पूर्ववद्यावदेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* <।>

 ५.७ शृणोतु भदन्ताः संघ<ः ।> अयं छन्दो भिक्षुरापत्तिमापन्नो (२९४ १ = ग्ब्म् ९०१) यथाधर्मं न प्रतिकरोति <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो य<त्> संघ<श्> छन्दस्य भिक्षोरापत्तेरप्रतिकर्मायोत्क्षेपणीयं कर्म कुर्यादित्येषा ज्ञप्तिः <।>

 ५.८ कर्म कर्तव्यं <।> शृणोतु भदन्ता<ः> संघ<ः ।> अयं छन्दो भिक्षुरापत्तिमापन्नो यथाधर्मं न प्रतिकरोति <।> तत्संघ<श्> छन्दस्य भिक्षोरापत्तेरप्रतिकर्मायोत्क्षेपणीयं कर्म करोति <।> येषामायुष्मतां क्षमते छन्दस्य भिक्षोरापत्तेरप्रतिकर्मायोत्क्षेपणीयं कर्म कर्तुं ते तूष्णी<ं> न क्षमते भाष<न्>ताम्* <।> इयं प्रथमा कर्मवाचना पूर्ववद्यावत्पाण्डुलोहितकानाम्* ॥ ॥

 ६.१ बुद्धो भगवां च्छ्रावस्त्यां विहरति जेतवनेऽनाथपिण्डदस्यारामे <।> तेन खलु समयेन अरिष्टस्य भिक्षोरिदमेवंरूपं पापकं दृष्टिगतमुत्पन्नं <।> तथाहं भगवतो धर्मं देशितमाजानामि यथा येऽन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना नालमन्तरायायेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । कुरुत यूयं भिक्षव अरिष्टस्य भिक्षोरप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म इति यो वा पुनरन्योऽप्येवंजातीयः ।

 ६.२ पंचभिः कारणैरप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कृतमधर्मकर्म च तदविनयकर्म च संघश्च तेन सातिसा<र>ः <।> कतमैः पंचभिः <।> अचोदयित्वा कुर्वन्ति । पूर्ववद्यावदेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।>

 ६.३ शृणोतु भदन्ताः संघः <।> अस्यारिष्टस्य भिक्षोरिदमेवंरूपं पापकं दृष्टिगतमुत्पन्नं <।> तथाहं भगवतो धर्मं देशितमाजानामि यथा येऽन्तरायिका धर्मा उक्ता भगवता पूर्ववद्यावत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः अरिष्टस्य भिक्षोरप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कुर्यादित्येषा ज्ञप्तिः <।>

 ६.४ कर्म कर्तव्यं <।> शृणोतु भदन्ता<ः> संघ<ः ।> अस्यारिष्टस्य भिक्षोरिदमेवंरूपं पापकं दृष्टिगतमुत्पन्नं <।> तथाहं भगवतो धर्मं देशितमाजानामि पूर्ववद्यावत्संघ अरिष्टस्य भिक्षोरप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म करोति <।> येषामायुष्मतां क्षमते अरिष्टस्य भिक्षोरप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कर्तुं ते तूष्णी<ं> न क्षमते भाषन्ताम्* <।> इयं प्रथमा कर्मवाचना पूर्ववद्यावत्पाण्डुलोहितकानां <।>

 ६.५ स एषः अप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतमुत्कचप्रकचः संघे रोम पातयति पूर्ववद्यावत्* दृष्टिगतं प्रतिनि<ः>सृजामीति वदति <।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <।> भगवानाह । (२९५ १ = ग्ब्म् ९०२) ओसारयत यूयं भिक्षवः अरिष्टं भिक्षुमप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतमिति यो वा पुनरन्योऽप्येवंजातीयः <।>

 ६.६ पंचभिर्करणैरप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृत ओसारयितव्यः <।> कतमैः पंचभिः <।> उत्कचप्रकच<ः> संघे रोम पातयति पूर्ववद्यावदेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम् ।

 ६.७ शृणोतु भदन्ताः संघ<ः ।> अस्यारिष्टस्य भिक्षोरिदमेवंरूपं पापकं दृष्टिगतमुत्पन्नं <।> तथाहं भगवतो धर्मं देशितमाजानामि यथा येऽन्तरायिका धर्मा उक्ता भगवता ते प्रतिसेव्यमाना नालमन्तरायायेति <।> तदस्य संघेन <अ>पृष्ठरतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कृतं <।> सोऽयमरिष्टो भिक्षुरप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृत उत्कचप्रकच<ः> पूर्ववद्याव<द्> दृष्टिगतं प्रतिनि<ः>सृजामीति वदति <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ अरिष्टं भिक्षुमप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतमोसारयेदित्येषा ज्ञप्तिः <।>

 ६.८ एवं च कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अस्यारिष्टस्य भिक्षोरिदमेवंरूपं पापकं दृष्टिगतमुत्पन्नं पूर्ववद्यावत्तत्संघ अरिष्टं भिक्षुमप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतमोसारयति <।> येषामायुष्मतां क्षमते अरिष्टमप्रतिनि<ः>सृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतमोसारयितुं ते तूष्णी<ं> न क्षमते भाष<न्>ताम्* <।> इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना पूर्ववद्यावत्तूष्णीमेवमेतद्धारयामि ॥ ॥

 ७.१.१ बुद्धो भगवां च्छ्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे <।> तेन खलु समयेनायुष्मानुदायी संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> स एतत्प्रकरणं भिक्षूणामारोचयत्य्<।> अहमायुष्मन्त<ः> संघावशेषामापत्तिमापन्न<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> किं मया करणीयमित्य्<।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । ददत यूयं भिक्षव उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासमिति <।> यो वा पुनरन्योऽप्येवंजातीय<ः ।>

 ७.१.२ एवं च पुनर्दातव्या<ः ।> उदायिना भिक्षुणा शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य परिवासं याचितव्यम्* <।>

 ७.१.३ एवं च पुनर्याचितव्यं <।> शृणोतु भदन्तः (२९५ १ = ग्ब्म् ९०३) संघ<ः ।> अहमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिता<म्> अर्धमासप्रतिच्छन्ना<म् ।> सोऽहमुदायी भिक्षु<र्> अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासं याचे <।> ददातु मे भदन्ताः संघः ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासमनुकंपकोऽनुकंपामुपादाय <।>

 ७.१.४ ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> सोऽयमुदायी भिक्षुरस्याः
संघावशेषाया आपत्ते<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासं याचते <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीया<त्> संघो यत्संघ उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासं दद्यादित्येषा ज्ञप्तिः <।>

 ७.१.५ एवं च कर्म कर्तव्यम् । शृणोतु भदन्ताः संघ<ः ।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> सोऽयमुदायी भिक्षु<रस्याः> संघावशेषाया आपत्ते<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासं याचते <।> तत्संघ उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्ना<या> अर्धमासं परिवासं ददाति । येषामायुष्मतां क्षमते उदायिनो भिक्षोरस्याः संघावशेषा<या> आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासं दातुं ते तूष्णीं न क्षमते भाषन्ताम्* <।> इयं प्रथमा कर्मवाचना <।> एवं द्वितीया तृतीया कर्मवाचना कर्तव्या <।> दत्तः संघे<न> उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> क्षान्तमनुज्ञातं संघेन <यस्मात्> तूष्णीमेवमेतद्धारयामि ॥

 ७.२.१ स पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> स एतत्प्रकरणं भिक्षूणामारोचयति । आयुष्मन्त उदायी भिक्षु<ः> संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया (२९६ १ = ग्ब्म् ९०४) अर्धमासप्रतिच्छन्नायाः संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं <परिवासः ।> सोऽहं पारिवासिक एव संघावशेषामापत्तिमा<प>न्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> कि<ं> मया करणीयमित्य्<।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <।> भगवानाह । ददत यूयं भिक्षव उदायिनो भिक्षोरस्याः संघावशेषाया आपत्ते<र्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासमिति । यो वा पुनरन्योऽप्येवंजातीयः <।>

 ७.२.२ एवं च पुनर्दातव्यः <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद्वचनीयम्* <।>

 ७.२.३ शृणोतु भदन्ताः संघ<ः ।> अहमुदायी भिक्षुः संघावशेषामापत्तिमापन्न<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थिता<म्> अर्धमासप्रतिच्छन्ना<म् । तेन मया> उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽहं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> सोऽहमुदायी भिक्षुरस्याः संघावशेषाया आपत्ते<र्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघा<न्> मूलपरिवासं याचे <।> ददातु मे भदन्ताः संघः ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेरन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासमनुकंपकोऽनुकंपामुपादाय <।> एवं द्विरपि त्रिरपि ॥

 ७.२.४ ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्न<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषा<या> आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन अस्योदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> सोऽयमुदायी भिक्षुरस्याः संघावशेषाया (२९६ १ = ग्ब्म् ९०५) <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासं याचते <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेरन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासं दद्यादित्येषा ज्ञप्तिः <।>

 ७.२.५ कर्म कर्तव्यं <।> शृणोतु भदन्तः संघः <।> अयमुदायी भिक्षुः संघावशेषामापत्तिम् <आपन्नः> संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेनास्य उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया <अर्धमासप्रतिच्छन्नाया> अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> सोऽयमुदायी भिक्षुरस्याः संघावशेषाया <आपत्तेः> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासं याचते <।> तत्संघ उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः <अन्तरापत्तेः> पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासं ददाति । येषामायुष्मतां क्षमते उदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेः> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासं दातुं ते तूष्णीं न क्षमते भाषन्ताम्* <।> इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना वक्तव्या ॥ दत्त<ः> संघेन उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ॥

 ७.३.१ स मूलपारिवासिक एव संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> स एतत्प्रकरणं भिक्षूणामारोचयति <।> अहमस्म्यायुष्मन्त उदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममो<दा>य्<इ>नो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थितायाः <अर्धमासप्रतिच्छन्नाया> अर्धमासं परिवासः <।> सोऽहं पारिवासिक एव संघावशेषामापत्तिमापन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया (२९७ १ = ग्ब्म् ९०६) उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेः> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेः> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽहं मूलपारिवासिक एव संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> किं मया करणीयमित्य्<।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । ददत यूयं भिक्षव उदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षमिति । यो वा पुनरन्योऽप्येवंजातीयः <।>

 ७.३.२ एवं च पुनर्दातव्यः <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद्वचनीयम्* <।>

 ७.३.३ शृणोतु भदन्ताः संघ<ः ।> अहमुदायी भिक्षुः संघावशेषामापत्तिमापन्न<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽहं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः <अन्तरापत्तेः> पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया<ः> संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽहं मूलपारिवासिक एव संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> सोऽहमस्याः संघावशेषाया प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षं याचे <।> ददातु भदन्ताः संघो ममोदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षमनुकंपक अनुकम्पामुपादाय <।> एवं द्विरपि त्रिरपि <।>

 ७.३.४ ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अयमुदायी (२९७ १ = ग्ब्म् ९०७) भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघादर्धमासं परिवासो याचितः <।> दत्तः संघेनास्योदायिनो भिक्षोरस्याः संघावशेषाया आपत्ते<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्ति<प्रतिरूपां> प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा <अस्याः> संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासो याचितः <।> दत्तोऽस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽयं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> सोऽयमस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षं याचते <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ उदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षं दद्यादित्येषा ज्ञप्तिः ॥

 ७.३.५ कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघः <।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेनास्य उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेनोदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेरन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासो याचितः <।> दत्तः संघेनास्य उदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्ना<या> मूलपरिवासः <।> सोऽयं मूलपारिवासिक एव सं संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्ति<मन्त>रापत्तिप्रतिरूपां प्रतिच्छन्नां <।> सोऽयमस्याः संघावशेषायाः प्रत्यन्तरापत्तेर्(२९८ १ = ग्ब्म् ९०८) अन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया<ः> संघान्मूलापकर्षं याचते <।> तत्संघ उदायिन्<ओ> भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षं ददाति <।> येषामायुष्मतां क्षमते उदायिनो भिक्षोरस्या<ः> संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षं दातुं ते तूष्णीं न क्षमते भाषन्तां <।> इयं प्रथमा कर्मवाचना <।> एवं द्वितीया तृतीया कर्मवाचना कर्तव्या श्दत्तः संघेन उदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्ष<ः ।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥ ॥

 ७.४.१ सोऽपरेण समयेन संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवास अन्तरापत्तेः <पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर्<अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलापकर्षपर्युषितो भिक्षूणामारोचयति <।> अहमस्म्यायुष्मन्त उदायी भिक्षु<ः> संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिता<म्> अर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थितायाः अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽहं पारिवासिक एव संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽहं मूल<पारि>वासिक एव सन् संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया<ः> संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः <।> सोऽहमस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपाया <प्रतिच्छन्नाया> मूलापकर्षपर्युषितः <।> किं मया करणीयम् <इति> शेतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति श्भगवानाह श्ददत यूयं भिक्षव उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया (२९८ १ = ग्ब्म् ६.९०९) अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः <पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर्<अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलापक<र्ष>पृष्ठअर्युषितस्य षड्रात्रं मानाप्यमिति <।> यो वा पुनरन्योऽप्येवंजातीय<ः ।>

 ७.४.२ एवं च पुनर्दातव्य<ः ।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुके<न> स्थित्वा अंजलिं प्रगृह्य इदं स्याद्वचनीयं <।>

 ७.४.३ शृणोतु भदन्ताः संघ<ः ।> अहमुदायी भिक्षुः संघावशेषामापत्तिमापन्न<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽहं पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया<ः> संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽहं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* <।> तेन मया भिक्षुणा अस्याः संघावशेषा<याः> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेः अन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलापकर्षः <।> सोऽहमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेर्<पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर्<अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलापकर्षपर्युषितः संघात्षड्रात्रं मानाप्यं याचे <।> ददातु भदन्ताः संघो ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः <पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर्<अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यमनुकंपक अनुकंपामुपादाय <।> एवं द्विरपि त्रिरपि <।>

 ७.४.४ ततः पश्चादेकेन भिक्षुणा ज्ञप्ति<ं> कृत्वा कर्म कर्तव्यम्* <।> शृणोतु भदन्ताः संघ<ः ।> अयमुदायी भिक्षु<ः> संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिता<म्> अर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघादर्धमासं परिवासो याचितः <।> दत्तोऽस्य संघेन (२९९ १ = ग्ब्म् ९१०) उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नोऽन्तरापत्ति<ं> पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासो याचितः <।> दत्तः संघेनास्योदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया <मूलपरिवासः । सोऽयं> मूलपारिवासः एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्ति<मन्तरापत्ति>पृष्ठरतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिनो भिक्षुणा अस्याः संघावशेषाया <आपत्तेः> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नायाः संघान्मूलापकर्षो याचितः । दत्तः संघ्<ए>नास्योदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः <।> सोऽयमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवास अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं मानाप्यं याचते <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषित<स्य> षड्रात्रं मानाप्यं दद्यादित्येषा ज्ञप्ति<ः ।>

 ७.४.५ एवं च कर्म कर्तव्यम्* <।> शृणोतु भदन्ताः संघः <।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्र<ति>च्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघादर्धमासं परिवासो याचितः <।> दत्तोऽस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव सन्* संघावशेषाम् <आपत्तिम्> आपन्नोऽन्तरापत्तिं पूर्वापत्ति<प्रतिरूपा>ं प्रतिच्छन्नां <।> तेनानेनोदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः <प्रतिच्छन्नायाः> संघान्मूलपरिवासो याचितः <।> दत्तः संघेनास्योदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽयं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः प्रत्य्<अन्तरापत्तेर्> अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षो (२९९ १ = ग्ब्म् ९११) याचितः <।> दत्तः संघेनास्योदायिनो भिक्षोरस्याः संघावशेषायाः <प्रत्य्>अन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः <।> सोऽयमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवास अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्ते<र्> अन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं मानाप्यं याचते <।> तत्संघ उदायिनो भिक्षोरस्याः संघावशेषाया आपत्ते<ः> संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं ददाति <।> येषामायुष्मतां क्षमन्ते उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्ति<प्रति>रूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं दातुं ते तूष्णीं न क्षमते भाषन्तां <।> इयं प्रथमा कर्मवाचना <।> एवं द्वितीया तृतीया कर्मवाचना वक्तव्या ॥ दत्तः संघेनोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि श् ॥ ॥

 ७.५.१ सोऽपरेण समयेन संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चीर्णमानाप्यो भिक्षूणामारोचयत्य्<।> अहमस्<म्>यायुष्मन्नुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया <अर्धमासप्रतिच्छन्नायाः संघाद्> अर्धमासपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासपरिवासः <।> सोऽहं पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नो अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेरन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः (३०० १ = ग्ब्म् ९१२) प्रतिच्छन्नायाः संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासः <।> सोऽहं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्ति<मन्तरापत्ति>पृष्ठरतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषायाः <आपत्तेर्> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः <।> तेन मया उदायिना भिक्षुणा संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमाप्रतिच्छन्नायाः पर्युषितपरिवासेन अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितेन संघात्षड्रात्रं मानाप्यं याचितं <।> दत्तं संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं <।> सोऽहमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानापयं <।> किं मया करणीयं <इत्य् ।> एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति <।> भगवानाह । आवर्हत यूयं भिक्षव उदायिनं भिक्षुमस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासमान्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं
चरितमानाप्यमिति <।> यो वा पुनरन्योऽप्येवंजातीय<ः ।>

पाण्ड्-व्७.५.२ एवं च पुनरवहितव्यः <।> शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद्वचनीय<म् श्>

पाण्ड्-व्७.५.३ शृणोतु भदन्तः संघ<ः ।> अहमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः (३०० १ = ग्ब्म् ९१३) संघावशेषाया आपत्तेः संचिन्त्यशु<क्र>विसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः अर्धमासं परिवासः <।> सोऽहं पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः <अन्तरापत्तेः> पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलपरिवासो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेरन्तर्>आपत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः <।> सोऽहं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषायाः <आपत्तेः> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षो याचितः <।> दत्तः संघेन ममोदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेः <अन्तरापत्ति>पृष्ठरतिरूपाया<ः> प्रतिच्छन्नाया मूलापकर्ष<ः ।> तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासेन अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलापकर्षपर्युषितेन षड्रात्रं मानाप्यं याचितं <।> दत्तं संघेन ममोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रमानाप्यं <।> सोऽहमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषित<ः> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्र<ं> चीर्णमानाप्य<ं> संघादावर्हणं याचे । आवर्हतु मां भदन्ताः संघः उदायिनं भिक्षुमस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवासमान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं <प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं> षड्रात्रं चीर्णमानाप्यमनुकंपकः अनुकंपामुपादायेति शेवं द्विरपि त्रिरपि ।

पाण्ड्-व्७.५.४ ततः पश्चादेकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं <।> शृणोतु भदन्ताः संघ<ः ।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितामर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा (३०१ १ = ग्ब्म् ९१४) अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासपरिवासो याचितः <।> दत्तोऽस्य संघेनोदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः <।> सोऽयं पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः अन्तरापत्ति<ं> पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासो याचितः <।> दत्तोऽस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषाया <आपत्तेर्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासः <।> सोऽयं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया<ः> संघान्मूलापकर्षो याचितः <।> दत्तोऽस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवासेनान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितेन संघात्* षड्रात्रमानाप्यं याचितं <।> दत्तमस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवासस्यान्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः <प्रतिच्छन्नाया> मूलापकर्षपर्युषितस्य षड्रात्रं चीर्णमानाप्यं <।> सोऽयमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानाप्यं संघादावर्हणं याचते <।> सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघः उदायिनं भिक्षुमस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासमन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चरितमानाप्यमावर्हेदिति । एषा ज्ञप्तिः ॥

पाण्ड्-व्७.५.५ ततः पश्चादवसादयितव्यः <।> न (३०१ १ = ग्ब्म् ९१५) साधूदायि<न्> कृतं न सुष्ठु कृतं <।> कथमिदानीं त्वं तस्य भगवतस्तथागतस्यार्हतः सम्यक्संबुद्धस्यैवं रागविरागाय चेतोविमुक्तप्रज्ञाविमुक्ते धर्मे देश्यमाने द्वेषविरागाय मोहविरागाय चेतोविमुक्तप्रज्ञाविमुक्ते धर्मे देश्यमाने इदमेवंरूपमप्रासादिकं कृतमकार्षी<ः ।> वरं खलु ते मोहपुरुष आशीविषो घोरविषः कृष्णसर्पस्तीक्ष्णविषः उभाभ्यां पाणिभ्यां प्रतिगृहीतोऽभविष्यत्* न त्वेवमिदमेवंरूपमप्रासादिकं कृतं <।>

पाण्ड्-व्७.५.६ द्वाविमौ धर्मोल्का<ं> निर्वापयतः धर्मालोकं धर्माभां धर्मप्रभा<ं धर्मावभा>सं धर्मप्रदीपं धर्मप्रद्योतं <।> कतमौ द्वौ <।> यश्चापत्तिमापद्यते यश्चापत्तिमापन्नो यथाधर्मं न प्रतिकरोति ॥ द्वावघमूलं न खनतः प्रतिस्रोतो <न> व्यायच्छतो न सरितां लतां शोषयतो न मारं योधयतो न मारध्वजं पातयतो न धर्मध्वजमुच्छ्रापयतो <न पापीयसः श्रोतश्छेदयतो> न तथागतस्य धर्म्यं धर्मचक्रं प्रवर्तितमनुप्रवर्तयतः <।> कतमौ द्वौ <।> यश्चापत्तिमापद्यते यश्चापत्तिमापन्नो यथाधर्मं न प्रतिकरोति ।

पाण्ड्-व्७.५.७ अनया त्वमुदयिन्नापत्त्या अदेशितया अप्रतिदेशितया अभव्योऽनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे अनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञाया<ः> सर्वलोके अनभिरतिसंज्ञाया आदीनवसंज्ञाया<ः> प्रहाणसंज्ञाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया <अशुभसंज्ञाया> विनीलकसंज्ञाया विपूयकसंज्ञाया व्याध्मातकसंज्ञाया विपडुमकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया अस्थिसंज्ञाया विक्षिप्तकसंज्ञाया<ः> शून्यताप्रत्यवेक्षणसंज्ञायाः <।> अभव्य<ः> प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य ध्यानस्य चतुर्थस्य मैत्र्याः करुणाया मुदिताया उपेक्षाया आकाशानन्त्यायतनस्य विज्ञानानन्त्यायतनस्य आकिंचन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य स्रोतआपत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य ऋद्धिविषयस्य दिव्यस्य श्रोत्रस्य चेतःपर्यायस्य पूर्वनिवासस्य च्युत्युपपादस्यास्रवक्षयस्य ।

पाण्ड्-व्७.५.८ अनया ते उदायिन्नापत्त्या अदेशितया अप्रतिदेशितया द्वयोर्गत्योरन्यतरान्यतरा गतिः प्रतिका<ं>क्षितव्या नरका वा तिर्यंचो वा ॥ उक्तं भगवता द्वे प्रतिच्छन्नकर्मान्तस्य गती नरका वा तिर्यंचो वा <।> ये मे भाषितं न श्रद्धास्यन्ति ते प्रतिच्छा<दयि>तव्यं मंस्यन्ते श्

पाण्ड्-व्७.५.९ शृणोतु भदन्ताः संघः <।> अयमुदायी भिक्षुः संघावशेषामापत्तिमापन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिता<म्> अर्धमासप्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> संघादर्धमासं परिवासो याचितः <।> दत्तोऽस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवास<ः ।> सोऽयं पारिवासिक एव सन्* संघावशेषामापत्तिमापन्नोऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेः> अन्तरापत्तेः (३०२ १ = ग्ब्म् ९१६) पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया<ः संघान्> मूलपरिवासो याचितः <।> दत्तोऽस्य संघेन उदाय्<इ>नो भिक्षोरस्याः संघावशेषाया <आपत्तेः> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासः <।> सोऽयं मूलपारिवासिक एव सन्* संघावशेषामापत्तिमापन्नः प्रत्यन्तरापत्तिमन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां <।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया <आपत्तेः> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान्मूलापकर्षो याचितः <।> दत्तोऽस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषायाः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्ष<ः ।> तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासेनान्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेः अन्तरापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलापकर्षपर्युषितेन संघात्षड्रात्रं मानाप्यं याचितं <।> दत्तमस्य संघेन उदायिनो भिक्षोरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्यान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं <।> सोऽयमुदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्ना<या>ः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपाया<ः> प्रतिच्छन्नाया मूलपरिवासपर्युषित<ः> प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानाप्य<ं> संघादावर्हणं याचते <।> तत्संघ उदायिनं भिक्षुमस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवास<म्> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चरितमानाप्यमावर्हति <।> येषामायुष्मतां क्षमते उदायिनं भिक्षुमस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासमन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया <मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया> मूलापकर्षपर्युषितं
षड्रात्रं चरितमानाप्यमावर्हितुं ते तूष्णीं न क्षमते भाष<न्>तां <।> इयं प्रथमा कर्मवाचना <। एवं> द्वितीया तृतीया कर्मवाचना कर्तव्या शावर्हित<ः> संघेन उदायी भिक्षुरस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया (३०२ १ = ग्ब्म् ९१७) अर्धमासप्रतिच्छन्नाया<ः> पर्युषितपरिवास<ः> अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेरन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानाप्यं <।> क्षान्तमनुज्ञातं संघेन यस्मात्तूष्णीमेवमेतद्धारयामि ॥

पाण्ड्-व्७.५.१० ततः पश्चादुत्साहयितव्यः <।> साधु उदायि<न्> कृतं सुष्ठु कृतं <।> द्वौ पण्डितौ द्वौ व्यक्तौ द्वौ सत्पुरुषौ <।> यश्चापत्तिं नापद्यते यश्चापत्तिमापन्नो यथाधर्मं प्रतिकरोति <।> द्वौ धर्मोल्कां प्रज्वालयतो धर्मालोकं धर्माभां धर्मप्रभां धर्मावभासं धर्मप्रदीपं धर्मप्रद्योतं <।> कतमौ द्वौ <।> यश्चापत्तिं नापद्यते यश्चापत्तिमापन्नो यथाधर्मं प्रतिकरोति ॥ द्वावघमूलं खनतः प्रतिस्रोतो व्यायच्छतः सरितां लतां शोषयतो मारं योधयतो मारध्वजं पातयतो धर्मध्वजमुच्छ्रापयतः पापीयसः स्रोतः <छेदयतस्> तथागतस्य धर्म्यं धर्मचक्रं प्रवर्तितमनुप्रवर्तयतः <।> कतमौ <द्वौ ।> यश्चापत्तिं नापद्यते यश्चापत्तिमापन्नो यथाधर्मं प्रतिकरोति <।>

पाण्ड्-व्७.५.११ अनया त्वमुदयिन्नापत्त्या देशितया प्रतिदेशतया भव्योऽनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे अनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञाया<ः> सर्वलोके अनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंज्ञाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया विपडुमकसंज्ञाया व्याध्मातकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया विक्षिप्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञाया<ः> श्भव्य<ः> प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य <ध्यानस्य> चतुर्थस्य मैत्र्या<ः> करुणाया मुदिताया उपेक्षाया आकाशानन्त्यायतनस्य विज्ञानानन्त्यायतनस्य आकिञ्चन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य स्रोतआपत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य रिद्धिविषयस्य दिव्यस्य श्रोत्रस्य चेतःपर्यायस्य पूर्वनिवास<स्य> च्युत्युपपादस्यास्रवक्षयस्य ।

पाण्ड्-व्७.५.१२ अनया ते उदायिन्नापत्त्या देशितया प्रतिदेशितया द्वयोर्गत्योरन्यतरान्यतरा गतिः प्रतिकांक्षितव्या देवा वा मौष्या वा ॥ उक्तं भगवता द्वे अप्रतिच्छन्नकर्मान्तस्य गती देवा <वा> मनुष्या वा <।> ये मे भाषितमभिश्रद्धास्यन्ति न ते प्र<ति>च्छादयितव्यं मन्यन्त इति <।> पुनश्चोक्तं <।>

छन्नमेवाभिवर्षति विवृतं नाभिवर्षति श्
तस्माच्छन्नं विवृणुयादेवं तं नाभिवर्षति ॥

आवर्हितस्त्वमुदायि संघेन <।> अप्रमादेन संपादय ॥

॥ पाण्डुलोहितकवस्तु समाप्तः ॥

"https://sa.wikisource.org/w/index.php?title=पाण्डुलोहितकवस्तु&oldid=370130" इत्यस्माद् प्रतिप्राप्तम्