पातञ्जलयोगसूत्रभाष्यविवरणम्/कैवल्यपादः
श्रीः
॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥
। चतुर्थः कैवल्यपादः ।
[ पातञ्जलयोगसूत्रम् ]
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥
[ व्यासभाष्यम् ]
देहान्तरिता जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादिः।
[ विवरणम्
प्रथमे पादे समाधिः प्राधान्येन निर्दिष्टः । द्वितीये तत्साधनानि व्याख्यातानि । तृतीये तु सम्यग्दर्शनार्थयोगाङ्गानुष्ठानानुषङ्गजज्ञानैश्चर्यानुक्रमणं कृतम् । तच्च सर्वं दु:खस्येति जैगीषव्याख्यानेन प्रतिपादितम् । दु:खहानं चात्यान्तिकगुणोपरम इल्युक्तम् । तथैव ‘तद्वैराग्यादपि'१ दोषबीजक्षये कैवल्यम्। ” प्राप्तविवेकज्ञानस्याप्राप्तविवेकज्ञानस्यवा २“सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्' इत्यनन्तरमुक्तम् । तच्च कैवल्यं प्रतिपक्षनिवर्तनेन प्रतिपादनीयमितीदं कैवल्यपादानुक्रमणं क्रियते ।
तथा अनेकजन्मान्तरोपार्जितवासनोच्छेदप्रकाराश्व कैवल्यार्थमेव प्रदर्शनीयाः । तथा कैवल्योपयोगिसमाधिसिद्धिस्तुत्यर्थं पूर्वत्रानुक्तं सिद्धयन्तरं प्रक्रियते । तुल्यजातीयानामन्यतमनिन्दनेनान्यतमस्तुतिर्भवति ।। तत्र ३*ध्यानजमनाशयम्’ 'कर्माशुक्लाकृष्र्णं योगिनस्त्रिविधमितंरेषाम्” इति वक्ष्यमाणेन स्तुत्यर्थता आविष्करिष्यते ।
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः । देहान्तरिता यथा योगादिना देहान्तरेषु स्वर्गादिषु जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेन
1. यो. सू. पा. ३*. सू. 50. 2- यो. सू. पा. 3. सू. 55 3. यो. t qT。 4, 6- 7.
[भाष्यम् ]
मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः, कामरूपी यत्र*१ कामगमन इत्येवमादिः ! समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥
तत्र कायेन्द्रियाणामन्यजाति'२परिणतानाम्
[ सूत्रम् ]
जात्यन्तरपरिणामःप्रकृत्यापूरात् ॥ २ ॥
[ भाष्यम् ]
पूर्वपरिणामापाये उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशेन'३ भवति । कायेन्द्रिय कृतयश्च स्वं स्वं विकारमनुगृह्वत्यापूरेण धर्मादिनिमित्तमवेक्षमाणा इति ॥ २ ॥
[सूत्रम् ]
निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥३॥
[विवरणम् ]
सोमामलकादिभक्षणेन पूर्वदेहानपनयेनैव । मन्त्रैः उपजप्यमानैः आकाशगमनादि । तपसा संकल्पसिद्धिः कामरूपी यत्र कामगमन इत्येवमादिः । समाधिजाः सिद्धयः पूर्वमेव व्याख्याताः ॥१॥
तत्र सिद्धिः कार्यकरणानामुत्कर्षः । जन्मसिद्धौ तु पतितपूर्वोपार्जित- कार्यकरणस्य_शरीरान्तरमुपादायेिष्यत इति नास्ति_तत्र_संशयः।__अपतितशरीरस्य तु जात्यन्तरपरिणामे किं तदेव कार्यकरणमुपादानमुतान्यदपीति-- तत्र कार्येन्द्रियाणामन्यजातिपरिणतानां-जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥
पूर्वपरिणामापाये समवस्थितानामेव पूर्वकार्यकरणानामु उत्तरपरिणामोप-- - जनः अपूर्ववयवानुप्रवेशेन भवति । कस्मात् ? अल्पपरिमाणस्योपादानस्य महापरिमाणकार्यांनुपपतेः । न_हि_दशपलात्तपनीयपिण्डादशीतिपला पत्री जनिष्यते ?
कायेन्द्रियप्रकृतयः स्वं स्वं विकारं कायमिन्द्रियं वा अनुगृह्वन्त्यापूरेण धर्मादिनिमित्तम् आदिग्रहणादधर्ममपि निमित्तम् अपेक्षमाणाः ॥
धर्मादिनिमित्तमपेक्षमाणाः स्वं स्वं विकारमनुगृह्णन्ति इत्युक्तम् । तत्र किं धर्मादिनिमित्तं प्रकृतीनां प्रयोजक, किं वा नेति, तदाह-निमित्तमप्रयोजकं
1. यत्रतत्र 2. जातीय 3. शाद्भ
[भाष्यम् ]
न हि धर्मादि निमित्तं प्रयोजके प्रकृतीनां भवति । न कार्येण कारणं प्रवर्त्यत इति । कथं तर्हि? वरणभेदस्तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षति, आवरणं 'तु तासां भिनत्ति । तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति, तथा धर्म: प्रकृतीनामावरणमधर्मं भिनत्ति, तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि ? मुद्गतिन्दुक*२गवीथुकश्यामाकादिस्ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति,
[ विवरणम् ]
प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । न हि धर्मादिनिमित्तं प्रयोजकं प्रकृतीनाम् । कस्मात् ? न हि कार्येण धर्मादिना निमित्तेन कारणं कार्यकरणप्रतिरूपं प्रवर्त्यते ।
कथं तर्हि? वरणभेदस्तु ततः धर्मादिनिमित्तात् भवति । क्षेत्रकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात् केदारान्तरं पिप्लावयिषुः नापः पाणिना अपकर्षति । आवरणं तु तासां भिनत्ति । तस्मित् भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति ॥
तथा धर्मः प्रकृतीनामावरणमधर्भं भिनत्ति । धर्ममधर्मोऽपि /भिनत्त्यावरणम् । तस्मिन् भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लाव यन्ति पूरयन्ति ॥
यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान् भौमान् वा रसान् धान्यमूलान्यनुप्रवेशयेितुम् । किं तु मुद्भतिन्दुकगवीथुकश्यामाकादीन् तस्मात् धान्यमूलात् अपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति ॥
1. त्वासf 2. गवेधुक
[ भाष्यम् ]
तथा धर्मों निवृतिमात्रे कारणमधर्मस्य शुद्धयशुद्धयोरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र नन्दीश्वर१'प्रभृतयः उदाहार्याः । विपर्यंयेणाप्यधर्मो धर्मं बाधते । ततश्चाशुद्धिपरिणाम इति । तत्रापि नहुषाजगरादय उदाहार्या: ॥ ३॥ यदा तु योगी बहून्कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति-
[ सूत्रम् ]
निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥
[ भाष्यम् ]
अस्मितामात्रं चितकारणमुपादाय निर्माणचित्तानि करोति, ततः २*सचित्ताः भवन्तीति॥ ४ ॥
[ विवरणम् ]
तथा धमाँ निवृतिमात्रे कारणमधर्मस्य। अधर्मोंऽपि धर्मस्य । शुद्धयशुद्धयोरत्यन्तविरोधात् । न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति ॥
अत्र नन्दीश्वरप्रभृतय उदाहार्याः । विपर्ययेणा[प्यjधर्मो धर्मं बाधते । ततश्चाशुद्विपरिणाम इति । अत्रापि नहुषादय उदाहार्याः ॥ ३ ॥
यदा तु योगी बहून् कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्ति, अथानेकमनस्का इति समाधिसिद्धौ कश्चिदनुक्तो विशेष उच्यते-निर्माणचित्तान्यस्मितामात्रात् । सोऽहंकारं चित्तकारणमुपादाय निर्माणचित्तानि निर्मितानि-चित्तानि-अप्राकृतानीश्वरचित्तानि नवानि करोति योगी । चित्तग्रहणमुदाहरणमात्रम् । इन्द्रियाण्यप्यस्मितामात्रादेव ! ततः ते सचित्ताः सकारणांश्च भवन्ति ||
चित्तेन्द्रियाभावे च मृतदेशीयः कायो निरर्थकः स्यात् । एकचित्तत्वे तु गुणप्रधानभावः प्रवृत्तिभेदेश्च नोपकल्पते । तत्र विभुत्वादेकक्षेत्रज्ञत्वेऽपि बृहुकायारम्भत्वमुपपद्यते । गुणप्रधानानेकप्रवृत्तिभेदार्थं तु करणभेद एषितव्यः ॥ केचित्तु क्षेत्रज्ञा अप्यन्ये प्रतिकायभेदं भवन्तीति मन्वते । केचिदत्र चोदयन्ति अकृताभ्यागमम् । अन्ये तु तदनुरूपोपार्जितकर्माणः क्षेत्रज्ञा भवन्तीति परिहारमाहुः ॥ ४ ॥
1. रादय; 2. सचित्तानि
[सूत्रमू ]
प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५ ॥
[ भाष्यम् ]
बहूनां चित्तानां कथमेकचित्ताभिप्रायपुरःसरा प्रवृत्तिरिति सर्वचित्तानां प्रयोजकं चित्तमेकं निर्मिमीते, ततः प्रवृत्तिभेदः ॥ ५ ॥
[सूत्रम् ]
तत्र ध्यानजमनाशयम् ॥ ६ ॥
[भाष्यम् ]
पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं, तस्यैव नास्त्याशयो रागादिप्रवृत्तिः, नातः पुण्यपापाभिसंबन्धः, क्षीणक्लेशत्वाद्योगिन इति । इतरेषां तु विद्यते कर्माशयः ।। ६ ॥
[विवरणम् ]
यद्येवं कथं बहूनां चितानाम् एकचिताभिप्रायपुरस्सरा प्रवृतिरिति । तत्रोच्यते-प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । प्रवृत्तिभेदे सत्यपि सर्वचित्तानां प्रयोजकं चित्तमेकं फलाधिकृतदेशीयं शरीरान्तरे निर्मिमीते ॥
तञ्च योगिबुद्धिमनुवर्तते । अन्यानि च निर्माणचित्तानि भिन्नानेकप्रवृत्तीनि । तन्नायकचित्तानुवर्तीनि भवन्ति । ततश्च तेषां प्रवृत्तिः 'निवृत्तिः उपेक्षा इत्येवमादिप्रवृतिभेदः उपपद्यते । राजप्रकृतिप्रवृतिभेदवत् । एवमेकचित्ताभिप्रायपुरःसरा च प्रवृतेिरवकल्पते ॥ ५ ॥
तत्र ,ध्यानजमनाशयम् । पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपस्समाधिसामर्थ्यनिर्मितम् । तत्र तेषु "यदेव ध्यानजं चित्तं तदेव 'अनाशयं क्लेशकर्माशयापवर्जितम् । तस्यैव नास्त्याशयः रागादिप्रवृत्तिः, अतो न पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्योगिनः ।। *क्लेशमूलो हि ‘कर्माशयः? इत्युक्तम् ।तदभावाच्च कर्माशयानुपपत्तिः । अपरे* तु जन्मादिसिद्धानां कर्माशयः अक्षीणक्लेशत्वाद्विद्यते एव ॥ ६ ॥
1. अत्र आदर्शकोशे इत उपरि “वायुस्तथा” इत्यादिवाक्यं लिखितम् । तस्यानन्वयात्, 2. पुटाभ्यां पश्चात् लिखितं ‘अनाशयं” इत्यादि वाक्यं योजितम् ।
[भाष्यम् ]
यतः-
[सूत्रम् ]
कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥
[भाष्यम् ]
चतुष्पदी खल्वियं कर्मजातिः । कृष्णा, शुक्लकृष्णा, शुक्ला,अशुक्लाकृष्णा
[विवरणम् ]
कुत एतयोगिन एव न कर्माशयः ? इतरेषां स्वस्तीति । यतः कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् । सिद्धासिद्धसामान्याविषयमिदं सूत्रम् ॥
ननु च पूर्वसूत्रमपि सामान्यविषयमेव । न । समाधेिसिद्धिस्तुल्यर्थत्वात् । सामान्यविषयत्वे तु समाधिसिद्धिस्तुतिरनुपपन्ना स्यात् । सिद्धिपरिसंख्यानेन तु विशेषविषयत्वे, तुल्यजातीयजन्मादिसिद्विचतुष्टयसावद्यत्वसंकीर्तनात् समाधिसिद्धेः स्तुतिरुपपद्यते॥
किं च, जन्मादिसिद्धिसाधनानां कैवल्यार्थताप्रतिषेधश्चार्थादिति विशिष्टविषयमेव पूर्वसूत्रम् । इदं तु सामान्यविषयमेव पूर्वसूत्रहेतुत्वेनोपादानात् ॥
चतुष्पदी खल्वियं कर्मजातिः । कृष्णा दुरात्मनां शास्त्रमार्गातिवर्तिदुष्टचेतसामशुद्धतरा । या तु बाहिस्साधनसाध्या जायापुत्रपशुयाजकादिनिष्पाद्या सा शुक्लकृष्णा । काsसौ * यत्र [पर]पीडाऽनुग्रहद्वारेण कर्माशयप्रचयः सा क्लेशबाहुलकनिष्पादनीयत्वात् कृष्णा च शुक्ला च ॥
ननु ज्योतिष्टोमादिकर्मशास्त्रसमधिगतत्वान्न कृष्ण, शुक्लमेव तु तत् । अत्रोच्यते-न-काम्यैरनैकान्तिकत्वात् । तान्येव चार्थानर्थोभयकारणानेि । अथ तत्फलस्य स्वर्गादेराभिमतत्वादर्थत्वमेवेति चेन्न-परदाराभिमर्शनस्यापि वाञ्छितत्वादर्थत्वप्रसङ्गात् ॥
अथ परदाराभिसरणादावभ्युग्रदोषसम्पातात्, प्रतिषिद्धत्वाश्च रागादिनियोगप्रवृतेश्वासमानमिति चेन्न-तत्रापि समानत्वात् । कामात्मतानिषेधादनिष्टयोगश्च । जन्ममरणयोरभ्युग्रदोषभूतयोरवश्यंभावित्वादिष्टानिष्टद्वयहेतुत्वमेब ।। स चानिष्टयोगः परपीडादेरित्यवसीयते । तत्प्रतिषेधोपपत्तेः ॥
अवश्यं हि जन्ममरणद्वयेन विना स्वर्गादिफलमुपभोक्तुं न शक्यम् । तच्चेदस्ति तस्य दुःखरूपत्वादायातं तहिं ज्योतिष्टोमादीनामुभयात्मकत्वम् । अथ कर्मान्तरमेव प्रतिषिद्धं जन्ममरणारम्भकारणमिति चेन्न-तद्भावभावित्वात् । तस्मिन् हि सति जन्ममरणभावात् ॥ अथ तु भवत्पक्षे नित्यमेव कुर्वीत, न जन्ममरणे प्रवर्तेयाताम् । कुर्वत एव ते भवतो नाकुर्वतः । तस्मान्निमित्तत्वमवगम्यते । किं च---येन जन्ममरणमारप्स्यते स्वर्गादौ तत् कर्म यदि जन्मान्तरगतं, तत्रानिर्मोक्षप्रसङ्गः । । काम्यप्रतिषिद्धाक्रियायामपि पूर्वजन्मकृतफलस्यावश्यप्रापणीयत्वात् ॥
अथ प्राक्तनजन्मकर्मक्षयार्थानि नित्यानीति चेत्-तन्न-नियमानुपपत्तेः । अनिष्टफलान्येवारब्धकार्योणि पूर्वकर्माणि, न त्विष्टफलानीति नि}- नियन्तुं शक्यते । अदृष्टफलेषु हि सत्सु नित्यान्येव कुर्वतोऽपि मोक्षानुपपत्तिर्जन्मारम्भित्वं च ॥
तत इष्टानामप्युभयहेतुत्वं सिद्धम् । बाह्यसाधनानां कर्मणां पीडानुग्रहरूपत्वात् । न वै खल्वपि नित्येन पूर्वकृतकर्मणामिष्टानां ज्योतिष्टोमादीनां निवृतिरुपकल्पते । विरोधाभावात् । अविरोधश्चोभयेषां शुद्धिरूपत्वातू । तन्त्रसिद्धेश्च ॥
अथापि ब्रूयादे(दने)कजन्मारब्धानेि कर्मणि जन्मै(कै)कमारभन्ते, नानारब्धकार्यमवशिष्यत इति । तथाऽपि पूर्वजन्मकर्मण इदानीन्तनजन्मफलदानेन क्षयङ्गतत्वादधुनातनजन्मनिष्पादितानामभिनवानामेव काम्यानां स्वर्गफलजन्ममरणदुःखारम्भित्वमिति शुक्लकृष्णरूपापत्तिः ॥
ततश्च जन्ममरणदुःखस्य स्वर्गाभिधानायाः प्रीतेश्च " दर्शनात् तत्कारणस्य द्विरूपत्वमनुमास्यामहे । तथा च सिद्धे प्रतिषिद्धभूतहिंसाचरणं क्रत्वर्थमप्यग्नीषोमीयादौ प्रवर्तमाने कृष्णरूपामित्यनुमास्यामहे । क्रत्वर्थापि सती हिंसा अनिष्टभूतैव तदर्थतां प्रतिपद्यते ॥
यदुक्तम्-अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरमिति, तत्र शिरेवदित्येवंजातीयकदृष्टन्तासिद्धत्वम् । अविशेषेण यच्छास्त्रमिति तु होमस्वरूपस्य विरोधाद्वाध्यबाधकत्वमुपपद्यते । हिंसायास्तु विरोधाभावादुभयोर्हेतुत्वं भोजनस्येव सुखशरीरस्थितिद्वयहेतुत्वम् । यथा च तीर्थस्नानस्य ह्रादादृष्टार्थत्वं तथा हिंसाऽप्यनिष्टफलत्वमपरित्यजन्ती महाफलं क्रतुं नैव नाभिनिर्वर्तयति ॥
अथ बाह्यसाधनसाध्यमपि नित्यं केवलं कामसंयोगाभावाच्छुक्लमेवेति चेदेवमुच्यते-न-दोषवत्त्वेन नित्यकाम्यानामविशेषात्। यथा कामिनः काम्यानीति कामसंयोगेन काम्यानां दोषवत्वमेवं कामादिहेतुभूतविद्यादोषवत्त्वमविशिष्टमिति नित्यानामप्युभयात्मकत्वमेव । अविद्यावत्त्वं च नित्येषु प्रवृत्तस्य प्रायश्चित्तनिमित्तोत्पत्तेरवश्यंभावित्वात् ॥[भाष्यम् ]
चेतेि । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिःसाधनसाध्या । तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपःस्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहि:साधना'१न परान्पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानामिति। तत्राशुक्लं योगेिन एव फलसंन्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वमिव त्रिविधमिति ॥ ७ ॥
[सूत्रम् ]
ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८ ॥
[विवरणम् ]
अपि चाविदुष एव सर्वं कर्म । विदुषः कर्मानुत्पत्तेः । विद्वान् हि पुरुषः स्वरूपावस्थानव्यतिरेकेण फलं नाभिमन्यते । स्वरूपमात्रावस्थानं च समस्तव्यापारविरामेण प्रवर्तते । न चैवं विदुषः क्रियाऽनुष्ठानं घटते । न हि स्थलपथेनाभिप्रतिष्ठासमानो जलमार्गाभिप्रस्थानसाधनं नावादिकमनुतिष्ठति ।
ननु (न च)नित्यकाम्ययोरेवं सत्यविशेषः स्यात्। अत्रोच्यते-कामेितफल(तन्मात्रं नि)कर्ममात्रनिवृतिप्रयोजनत्वान्नित्यानामदोषः । यो हि काम्याद्विनिवृत्तस्तस्य बहुलं कर्मणां कामरहितेन शुद्धेन कर्त्रा कृतत्वादतिशुद्धफलत्वं शुक्लत्वबहुत्वाञ्च संस्कारार्थत्वम् । अपि च कामनिवृतिरेव महत् फलम् ।
किं च, नित्यं कुर्वतः किमर्थं करोमि, किं वाऽस्य फलं, के वास्यानुष्ठाने दोषाः, इति सम्यम्दर्शनरूपः परामर्शो जायत इति नित्यस्यास्ति विशेषः । शुक्लकृष्णात्मकत्वं त्वविशिष्टमुभयेषामपि कर्मणाम् । बाह्मसाधनसाधनीयत्वेन परपीडोपपतेः । [इति] तस्मादुच्यते ॥
शुक्ला कर्मजातिः तपस्स्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहिस्साधना बाह्यसाधानानपेक्षा न परान् पीडयित्वा भवति ॥
अशुक्लाकृष्णा संन्यासिनां क्षीणक्लेशानां चरमदेहानाम् । एषाम् आरब्धैकशरीराणाम् अशुक्ला संन्यासात् अकृष्णा च अनुपादानात् अकरणात्। नापि शुक्लकृष्णविमिश्रा, बाह्मसंन्यासानुपादानाभ्यां हेतुभ्याम् । तथा चोक्तम्-
1. नाधीना
[भाष्यम् ]
तत इति त्रिविधात्कर्मण:, तद्विपाकानुगुणानामेवेतेि यज्जातीयस्य कर्मणो १'यादृशो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति । किंतु दैवानुगुणा एवास्य वासना २अभिव्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥
[विवरणम्]
अनिष्टाभिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥ भवत्य(त्यत्यागिनां)योगिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ इति ॥
इतरेषां तु भूतानां जन्मौषधिमन्त्रतपस्सिद्धानामन्येषां च त्रिविधं शुक्लं कृष्णं मिश्रं च पूर्वमिव यथा द्वितीये पादे 'क्लेशमूल: इत्यादौ ॥ ७ ॥
कैवल्यस्य प्रस्तुतत्वात् तस्य च प्रतिबन्धहेतवः क्लेशाः, कर्माणि, वासानाश्च, [व्याख्यातव्याः] ।। क्लेशानां तु व्यापारः, प्रतिपक्षः, निवृत्तिश्च तेषां, विस्तरेण व्याख्याताः । एवं कर्मणामपि वासनानां तुल्यव्यापारावस्थानप्रतिपक्षनिवृत्तयो निर्वर्णनीया इत्यत उत्तराणि सूत्राण्यारभ्यन्ते-यतस्तन्निवृत्तौ कैवल्यमुपपद्यते नान्यथा । ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥
ततः तस्मात् त्रिविधात् उक्त्तलक्षणात् कृष्णशुक्लविमिश्ररूपात् कर्मणः प्रविपच्यमानाद्धेतुभूतात् तद्विपाकानुगुणानां तस्यैव कर्मणो विपाकः फलं तदनुगुणानां तदनुरूपाणां तादृशीनाम् एव वासनानामभिव्यक्तिः ॥
एतदुक्तं भवति-देवतिर्यङ्मनुष्यविपाकहेतुषु कर्मसु मध्ये यञ्जातीयस्य कर्मणो यादृशो विपाकः तस्य विपाकस्य अनुगुणा वासनाः तत् कर्मविपाकमनुशरेते अनूत्पद्यन्ते, तासामेवाभिव्यक्तिः । तत्सदृशेन कर्मविपाकेन संस्कृतत्वात् । यथा मातृसदृशीं प्रविलोक्य वत्सोऽनुधावति । नान्यासामतदनुगुणानामभिव्यक्तिः ॥
न हि दैवं कर्म विपच्यमानं फलाभिमुखीभावमापद्यमानं नारकतिर्यङ्मनुषवासनाभिव्यक्तिनिमित्तं(सं]भवति । निमित्तनैमित्तिकयोः प्रतिनियतानुगुणत्वात् । किं तु दैवानुगुणा एवास्याभिव्यज्यन्ते । नारकतिर्यङ्मानुषेष्वेवं समानश्चर्चः समाधिः ॥
1. यो वि- 2 ब्यज्य- 3. यो. सू- पा 2. सू. 12
[ सूत्रम् ]
जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥
[भाष्यम् ]
वृषदंशविपा'१कादयः २‘स्वकर्मव्यञ्जकाञ्जनाः°३ । ४ ‘यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहिताः°५ पुनश्च स्वव्यञ्जकाञ्ज°६नोदयाः
[विवरणम् ]
नारके कर्मणि विपच्यमाने तत्कर्मानुगुणा वासनाः प्रादुर्भवन्ति । तथा तैर्यग्योनकर्मणि विपच्यमाने तद्विपाकानुरूपा वासना व्यज्यन्ते। तथा मानुषेऽपि समानो न्यायः । न हि स्वविपाकसदृशीरनुपादाय वासनास्तस्य तस्य कर्मणो विपाकः संभवति । नापि वासनानामात्मनिष्पादकविपाकारम्भिकर्मतुल्यरूपाणि कर्मान्तराणि विपाकाभिमुखान्यन्तरेणाभिव्यक्तिः । एवं कर्मणां वासनानां च परस्परहेतुहेतुमद्भावोऽनादिभूतः ॥ ८ ॥
तत्र वासनानामनेकजातिकालदेशव्यवधानेन दवीयसीनामानन्तर्यं विपच्यमानेन कर्मणा सह नास्ति । यथा दवीयसां मित्रस्वजनादीनाम् । यथैव · च नेदीयसी वासना पटीयसी, न तथा दवीयसी पटीयमानमासीदति । तस्मान्नास्ति दवीयसीनामानन्तर्यं वासनानाम् ।
तदभावे चायं दोषः प्राप्नोति-यथा कल्पशतान्तारितः वृषदंशविपाकः भविष्यतः वृषदंशविपाकस्वानन्तरातीतो दैवविपाकः । तत्र नेदीयसी दैववासना विरुद्धत्वात् वृषदंशविपाकभिव्यक्तिहेतुतां न प्रतिपद्यते । कल्पशतव्यवहितानामपि वृषदंशवासनानां विप्रकर्षादनुपादाने वृषदंशविपाकहेतोः कर्मणो विपाको नावकल्पेत । ततश्च कर्मणां वासनानां चानर्थक्यं प्रसज्यतेति ॥
अत्रोच्यते-जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । वृषदंशविपाकादयः स्वकर्मव्यञ्जकाञ्जनाः व्यञ्जकेन स्वेन कर्मणा व्यज्यमानाः यदि जातिशतेन वा दूरदेशतया वा कल्पसहस्रेण वा व्यवहिताः ॥
1. कोद- 4. --स यदि 2. स्वव्य- 5.हिता: .
3, -ञ्जनाभिव्यक्तः 6. --न एवोदियाद् [ भाष्यम् ]
१"स्मृतिभ्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलामः*२वशावेशादभिव्यज्यन्ते ।
अतश्च व्यवहितानामपि निमित्तेनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥
[ सूत्रम् ]
तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥
[भाष्यम् ]
तासां वासनानामाशिषो नित्यत्वादनादित्वम् येयमात्माशीः ३*मरणं मा नु भूत् भूयासमिति सर्वस्य दृश्यते, सा न स्वाभाविकी ।
[विवरणम् ]
तथा चोक्तम्*४ **ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः?' इत्यादि । जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतयः , स्मृतिम्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशावेशादभिव्यज्यन्ते । कर्माशयस्यापि वृत्तिलाभो देशादिनिमित्तापेक्षयेति प्रतिपादितम्॥
अतश्च व्यवहितानामपि निमित्तनैमितिकभावानुच्छेदादानन्तर्यमेव ! यादृशः संस्कारस्तादृशी, स्मृतिः । प्रतिनियतव्यञ्जकत्वाच्च तयोर्न विप्रकर्षः कारणम् । यतः कल्पशतव्यवहितादपि संस्कारादेव तुल्यजातीया स्मृतिरिति, आनन्तर्यमेव सिद्धम् ॥ ९ ॥
इदानीं वासनानामनादित्वेन विपाकनिर्वतकत्वममिदर्शयति-संस्कारस्य चानादित्वमेकैकस्य चासंङ्ख्ययोनिगमनं वैराग्यप्रतिपत्यर्थं प्रतिपादयति- तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीः ‘मरणं मा नु भूत् ? एवमाशीर्वा इति,*भूयासम्' ‘इति सर्वस्य दृश्यते {-सा-न-स्वाभाविकी-स्वरसप्रवृत्ताऽपि निरूढाऽपि ॥
1. स्मृतेश्च 2. वशाद्व्य 3. मा न भूवे 4. अत्र आदर्शकोशे इत उपरेि “सर्वथाप्यस्ति” इत्यादिवाक्यं लिखितम् । तस्यानन्वयात्, 13. पुटेभ्यः पश्चात् लिखितं **ग्राह्योपरक्तः?” इत्यादिवाक्यं योजितम् ॥}}}}
[ भाष्यम् ]
कस्मात्? जातमात्रस्य जन्तोरननुभूत१'जननमरणधर्मकस्य द्वेषदुःखानुस्मृतिनिमित्तो मरणत्रासः कथं भवेत् ? न च स्वाभाविकं वस्तु निमित्तमुपादत्ते । २*यस्मादनादिवासनानुविद्धमिदं चित्तं निमित्तवशात् काश्चिदेव वासनाः प्रतिलभ्य पुरुषस्य भोगायोपावर्तत इति ॥
घटप्रासादप्रदीपकल्पं संकोचविकासेि चित्तं शरीरपरिमाणाकार
[ विवरणम् ]
कस्मात्? जातमात्रस्य अननुभूतजननमरणधर्मकस्य द्वेषानुस्मृतिनिमित्तो दुःखानुस्मृतिहेतुको वा मरणत्रासः कथं भवेत् ? न हि कथञ्चन दु:खस्मरणादिनिमित्तोपादानं स्वाभाविकस्योपपद्यते । न च स्वाभाविकं वस्तु - निमित्तमुपादत्ते । न हि ज्वलनस्योष्णत्वं स्वाभाविकं सदात्मीयकार्ये निमित्तमीक्षेत ।
न चाननुभूते विषये स्मृतिरिष्टेऽनिष्टे वा कस्यचिदुपप्लोष्यते । अनुभूतप्रियाननुस्मरणे, न च तद्विषयवाञ्छा । तथा अनुभूताप्रियाननुस्मरणे, न तद्विषयो द्वेषस्रासश्व लोके परिदृश्यते । तथा च यो यो जातस्तस्य तस्येह जन्मन्यननुभूतजन्ममरणस्य जन्मानन्तरमेवात्माशीरभिदृश्यते । तस्मात् तदाशीर्नित्यत्वात् पूर्वजन्ममरणानुभवोऽनुमीयते । ततः पूर्वस्ततोऽपि पूर्वं इति, स्मृतिसंस्काराणां तत्कारणानां च जन्ममरणानुभवानामनादित्वमनुमिमीमहे ॥
तथैव एकैकस्य प्राणभृतोऽनेकयोनिगमनसिद्विः । एवमेता वासना दुरवहना अविहानीयाः । कुत एवम् ? यस्मादनादिवासनानुविद्धं चित्तमिदं निमित्तवशात् कर्मनिमित्तवशात् काश्चिदेव वासनाः प्रविपच्यमानकर्मतुल्यजातीयक्रियाविपाकाभि(न्न)निष्पादिताः प्रतिलभ्य पुरुषस्य भोगायोपावर्तते यावदवसिताधिकारमेिति ॥
तदेतच्चित्तं घटप्रासादप्रदीपकल्पं संकोचविकासि हस्तिमशकादिशरीरपरिमाणाकरं यथा दीपो घटप्रासादादिषु । तदेवम् अपरे प्रतिपन्नाः । तत्र च युक्तिमाह-३*तथा चेति । तथा च संकोचविकसित्वे च अन्तराभावः
1. तमरण- 2. तस्मा
3. 'अत्र आदर्शकोशे इत उगरिं *अभावाविशेषात्? इत्यादि वाक्यं लिखितम् । तस्यानन्वयात्, 13. पुटेभ्यः पूर्वे लिखितं **तथा चेति । तथा च संकोचविकासित्वे च” इत्यादिवाक्यं योजितम् ॥[भाष्वम ]
मात्रमित्यपरे प्रतिपन्नाः । तथा चान्तराभावः "१संसरणञ्च युक्तं इति ॥
वृत्तिरेवास्य विभुनश्चितस्य संकोचविकासिनीत्याचार्याः ॥
तच्च धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विविधम्-बाह्ममाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं २ स्तुत्यभिवादनादि, चित्तमात्राधीनं श्रद्धाद्याध्यात्मिकम् । तथा चोक्त्तम्-ये चैते मैत्र्यादयो ध्यायिनां विहारास्ते, बाह्यसाधननिरनुग्रहाः°३ प्रकृष्टं धर्ममभिनिर्वर्तयन्ति । तयोर्मानसं बलीयः । कथं? ज्ञानवैराग्ये केनातिशय्येते ? दण्डकारण्यं च
[ विवरणम् ]
मरणादुत्तरकालं जन्मनश्च प्रागेतस्मिन् अन्तराले भवतीत्यन्तराभावः संसरणं सञ्चरणं येन सञ्चरति तदपि शरीरमातिवाहिकं चित्तस्याविभुत्वे युक्तमिति ब्रुवन्ति। वृत्तिरेवास्य विभुनश्चित्तस्य सङ्कोचविकासिनीत्याचार्याः । आचार्यग्रहणम् उपपत्तिमत्वात् पूजार्थम् । चित्तस्य स्थितिर्गतिश्च परिणामित्वाद्विभुत्वेऽपी न्द्रियाणां चोपपद्यते योगिनां च विकरणभावः सर्वज्ञत्वं विभुत्वे घटते ।
न चोपभोगशून्यस्यातिवाहिकशरीरस्य कल्पनायामस्ति प्रमाणम् । शशविषाणवदनुपलभ्यमानत्वात् ।। "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” इति श्रुतेः । तथा ** अथ यो हैताननन्तानुपास्ते ” इति श्रुतिः करणव्यापित्वं ख्यापयति ॥
तच्च संकोचविकासित्वं वृत्तेः धर्मादिनिमित्तापेक्षम् । निमित्तं च द्विधा बाह्ममाध्यात्मिकं च । शरीरादिसाधनापेक्षं बाह्यं स्तुत्यभिवादनादि कर्म । किं पुनराध्यात्मिकम्? आह-केवलचित्तमात्राधीनं श्रद्धादि ॥
तथा चोक्त्तम्-ये चैते मैत्र्यादयो ध्यायिनां विहारा: चित्तव्यापाराः चेष्टितानि ते बाह्यसाधननिरनुग्रहाः बाह्यसाधननिरपेक्षाः केवलचित्तमात्रनिर्वृत्ताः प्रकृष्टं धर्ममाभिनिर्वर्तयन्ति ॥
तयोः बाह्याध्यात्मिकयोर्निमित्तयोः मानसम् आध्यात्मिकं मैत्र्यादिचित्ताभिनिष्पन्नं निमित्तं बलीयः । कथम् इति ? ज्ञानवैराग्ये केनातिशय्येते ? न केनापीत्यर्थः । यतस्तृतीयपादानुक्रान्ताविभूतजातं ज्ञानवैराग्यसाध्यम् । दण्डकारण्यं
1. संसारश्च युक्त 2. स्तुतिदानाभि- 3. -हात्मान:
[भाष्यम् ]
चितबलव्यतिरेकेण शारीरेण कर्मणा शून्यं क: कर्तमुत्सहेत ? समुद्रमगस्त्यवद्वा पिबेत् ॥ १० ॥
[सूत्रम् ]
हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥११॥
[ भाष्यम् ]
हेतुर्धर्मात्सुखमघर्माद्दुःखं, सुखानुश्यी १'रागो दुःखानुशयी'२ द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परंमनुगृह्णात्युपहन्ति वा । ततः पुनर्धर्माधर्मौ सुखदु:खे रागद्वेषाविति प्रवृतमिदं षडरं संसारचक्रम् ।
[विवरणम् ]
चित्तबलव्यतिरेकेण कः कर्तुं शक्नोति । कश्च पिबेत् समुद्रमगस्त्यवत् .. इति । अतो मानसबलमेव बलम् । न शारीरम् ।। **तस्मात् मानसं परमं वदन्ति' इति श्रुतेः । तथा च भगवानाबभाषे-- "श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।।" "सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते" इति ॥ १० ॥
कथं पुनस्तासां वासनानां निवृत्तिः । अनादिरूढत्वात् न निवृत्तिरासां घटामाढौकते । न च तन्निवृत्तिमन्तरेण कैवल्योपपत्तिरित्यत उच्यते-हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदमावः । हेतुश्च फलं चाश्रयश्वालम्बनं च हेतुफलाश्रयालम्बनानि । तैः संगृहीतत्वादुपग्रथितत्वादेषां हेत्वादीनामभावे तदभावे वासनानामभावः । तस्मादुपपद्यते वासनानां निवृतिः ॥
कोऽसैी हेतुः? इत्याह-धर्मस्तावदविद्याविनमितचेतसाम्। ततो धर्मात् सुखम् । सुखानुशयी रागः । एवमविद्यात एव निषिद्धाचरणात् अधर्मः । ततो दु:खम् | दुःखानुशयी द्वेषः । ततः सुखोपार्जने दु:खपरिहारे च पूर्ववदेव प्रयत्नः । तेन प्रयत्नेन वाचा कायेन परिस्पन्दमानः परमनुगृह्णात्युपहन्ति च । पुनश्च ततः परानुग्रहपरपीडनाम्यां धर्माधर्मौ । ताभ्यां सुखदुःखे। ताभ्यां च रागद्वेषौ पूर्ववदेव । ततः प्रयत्नः ॥
1. सुखाद्रा 2. दु:खाद्
[ भाष्यम् ]
अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामेित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसेि निराश्रया वासनाः स्थातुमुत्सहन्ते | यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । एषाममावे तत्संश्रयाणामपि वासनानामभावः॥ ११ ॥}}}}
[विवरणम् ]
इत्येवमनवरतप्रारब्धपरिभ्रमणं प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्यविद्या नेत्री रथचकस्य तुरङ्ग:युवतिरिव ॥
सा मूलं सर्वक्लेशानामिति यदेतदविद्यानेतृकं षडरं चक्रम् एष हेतुः वासनानाम् । एतश्चक्रावृतिकृता हि ताः । अविद्यायास्त्वभावे विशीर्णनाभिबन्धनमिव चक्रं, धर्मादिहेतुचक्रमपि विशीर्यते । तद्विशरणे च चक्रावृतेि. कृतजन्मनां वासनानामकार्यक्षमत्वम् ॥
फलं तु यम् अर्थम् आश्रित्य यस्य प्रत्युत्पन्नता तत् तस्य फलम् । तदपि वासनानां संग्राहकम् । तदभावे वासनाभिव्यक्त्यभावात् । सुखादिफलस्य वासनाधायित्वात् । न ह्यपूर्वोपजनः । नात्यन्तमसदुत्पद्यते ॥
मनः साधिकारं कर्तव्यतावत् न पुरुषार्थशून्यम् । कृतपुरुषार्थस्वरूपज्ञानं विनिवृत्ताविद्याकमिति साधिकारमाश्रयो वासनानाम् । तदाश्रित्य हेि हेतुचक्रपरिभ्रमणम् । न ह्मवसिताधिकारे करणीयपुरुर्षाथशून्ये मनसेि निराश्राया वासनाः स्थातुमुत्सहन्ते ।
यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् ।एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । तेषां हेत्वादीनाम् अभावे तत्संश्रयाणामपि वासनानामभावः छत्राभावे छायानिवृतिवत् ॥
एषां चाभावोपायो द्वितीयपादे व्याख्यातः । तस्मातू न वासना सम्यग्दर्शने सति कैवल्यप्रतिबन्धिनी । भवत्येवाविद्यानिवृत्तौ कैवल्यमिति ॥ ११॥[ भाष्यम् ]
नास्त्यसतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथे निवर्तिष्यते वासना इति--
[ सूत्रम् ]
अतीतानागतं स्वरूपत्तोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२
[ भाष्यम्]
भविष्यद्व्यक्त्ति कमनागतं1, भूतव्यक्तिकमतीतं, स्वव्यापारोपारूढं वर्तमानं, त्रयं चैतद्वस्तु ज्ञानस्य ज्ञेयम् । यदि चैतत्स्वरूपतो नाभविष्यन्नेदं
निर्विषयं ज्ञानमुदपत्स्यत । तस्मादतीतानागतं स्वरूपतोऽस्तीति । किंच
[ विवरणम् ]
ननु चैषामभावे तदभाव इत्युक्तम् । तथा च सिद्धान्तहानिः ! कथम् ? एवं हि सिद्धान्तः नास्त्यसतः सम्भवः उत्पत्तिः । न चास्ति सते विनाश इति । अथ पुनः सन्ति वासनास्तदा, द्रव्यत्वेन (वस्तुसत्यः) [सम्भवन्त्यः] कथं निवर्तिष्यन्ते । नैव निवर्तिष्यन्त इत्यर्थः । तत्र कथमुक्तमेषामभावे तदभाव इति । कथं वा कैवल्यमनिवृत्तासु हेतुकृतजन्मसु वासनास्वित्यत उत्तरं पठति-अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्मणाम् ॥
एवं वैतत् । अथ वा सिद्धान्तपक्षेणैव नेयं भाष्यम् । कथम् ? एषामभावे तदभावः इति हेत्वादीनां वासनानां च नात्यन्ताभाव उच्यते । कस्मात् ? नास्त्यसतः सम्भवो न चास्ति सतो विनाश इति द्रव्यत्वेन वस्तुतया सम्भवन्त्यः कथं निवर्तिष्यन्ते वासनाः । शब्दविकल्पितत्वे वासना नात्यन्तं निवर्तिष्यन्ते । सन्त्येवातीतस्वरूपेणेत्यर्थः ॥
भविष्यद्व्यक्त्तिकं भविष्यति व्यक्तिः यस्य तत् भविष्यद्व्यक्तिकम् । । यथा पिण्डावस्थायां घटरूपम् । प्रवृत्तेतिकर्तव्यतासाधनं तत् अनागतम् । भूतव्यक्तिकमतीतं भूता अतिक्रान्ता व्यक्तिरुपलब्धिर्विषयत्वापत्तिर्यस्य । यथा प्रभग्नो घटः तदतीतमित्युच्यते । अव्यङ्ग्यमभविष्यत् यस्य व्यञ्जने साधनमुपादेयम् । अनतीतव्यक्तिकमभूतम् ! किं तर्हि? व्यापारोपारूढं तत् वर्तमानम् । यथा घटः स्वक्रियायाः ॥
1. तमनुभूत
[ भाष्यम् ]
भोगभागीयस्य वाऽपवर्गभागीयस्य वा कर्मणः फलमुत्पित्सु यदि निरुपाख्यमिति तदुद्देशेन तेन निमितेन कुशला1नुज्ञानं न युज्येत । सतश्च}}
[ विवरणम् ]
{{gap}}त्रयं चैतत् अतीतानागतवर्तमानलक्षणकं वर्तमाने धर्मिणि वर्तमानं धर्मरूपं वस्तु समस्तलोकविनिश्चितरूपस्याव्यभिचारिणो ज्ञानस्य प्रमाणभूतस्य ज्ञेयम् इति सङ्गिरामहे ! कस्मात्? निश्चितज्ञानोत्पत्तिविषयत्वात् ॥
{{gap}}यदि चैतद्वस्तु स्वरूपतो नाभविष्यत् नेदं निर्विषयं ज्ञानमुदपत्स्यत । यथा शशविषाणादि निश्चितज्ञानोत्पत्तिकारणं न भवति । न च तथेह निश्चितवस्तुज्ञानोत्पत्तिहेतुविषयत्वं न विद्यते । सकलजनानुभवविषयमिदं ज्ञानं वर्तते । घटो भविष्यति घटो भूत इति च । तस्माद्वस्त्वेव कालत्रयसम्बन्धि । परिनिश्चितज्ञानोत्पत्तिविषयत्वात् ॥
अथ वा नावस्तुविषयमतीते भविष्यति च घटादौ ज्ञानम् । शब्दविकल्पितत्वे सति निश्चितरूपेण उत्पद्यमानत्वात्, वर्तमानघटादिविषयज्ञानवत् । अव्यभिचाराञ्च, । लिङ्गानुमेयत्वाच्च, धूमेन अग्न्यादिज्ञानवत् । लिङ्गदर्शनानन्तरोत्पत्तेर्वा ।
यद्वा, अतीतमनागतं च वस्तु सत् स्वरूपेण, लिङ्गदर्शनानन्तरबुद्विविषयत्वात्, प्रसिद्धानुमेयवत् । तस्मादतीतानागतं स्वरूपतोऽस्ति ॥
किं च-भोगभागीयस्य भोगहितस्य यागादे:, अपवर्गभागीयस्य वा अपवर्गहितस्यं समाध्यादेः कर्मणः फलमुत्पित्सु यस्य नास्ति तस्य वादिनः तत् निरुपाख्यं प्राप्नोति शशविषाणवत् । न हि शशविषाणं भविष्यतीत्युपाख्यायते । न तथेह । किं तर्हिं? यागेन स्वर्गो भविष्यति समाध्यादिना मोक्षो भविष्यति इति च कुशलैः अतिकठोरमतिभिरुपाख्यायते ॥
तस्मात् निरुपाख्यत्वात् तदुद्देशेन फलोद्देशेन । निरुपाख्यत्वात् तेन फलेन निमित्तेन कुशलानुज्ञानम् इदं कुरु भविष्यति चानेनादः इति स्वयमप्रतिपद्यमानाः कुशलाः कथमनुजानीयुः उपदिशेयुर्वा। किं च, दृष्टमात्रप्रतिपत्तौ कुशलाकुशलाविशेषश्व प्राप्नोति । कुशलानां वा मिथ्याप्रतिपत्तिः "अकुशलाः समीचीनदर्शनाः" इति |
1. नुष्ठानं
[ भाष्यम् ]
फलस्य निमित्तं वर्तमानीकरणे समर्थं नापूर्वोपजनने । सिद्धं निमित्तं नैमेितिकस्य विशेषानुग्रह1 कुरुते नापूर्वमुत्पादयतीति ॥
धर्मी चानेकधर्मस्वभावस्तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः । न च यथा वर्तमानं व्यक्तिविशेषापन्नं द्रव्यतोऽस्त्येवमतीतमनागतञ्च । किं2 तर्हि ? स्वेनैव व्यङ्ग्येन स्वरूपेणानागतमस्ति । स्वेन चानुभूतव्यक्तिकेन
[ विवरणम् ]
किं च, अभावज्ञानात् कुशला अपि फलाय नाभिसमीहेरन्3 । अभावाविशेषाञ्च कारणनियमो नाकल्पिष्यत । (न) सर्वतो वा सर्वमुदपत्स्यत । नापि कारणमुपादास्यत । उपादाने वा तैलार्थी सैकतमप्युपादास्यत किं तिलैरनेकायासनिष्पाद्यैः । अत्यन्तासदपूर्वं चेदमजनिष्यत । न चैतद् दृष्टम् ॥
तस्मात्तद्भोगभागीयमपवर्गभागीयं वा कर्म निमित्तं कारणं विद्यमानस्यैव तस्य फलस्य वर्तमानीकरणे समर्थं नापूर्वोपजने । सिद्धं हि स्वेनात्मना निमित्तं स्थाली क्षीरघर्मातञ्चनादि दध्यादिकस्य नैमित्तिकस्य कर्कशतरभावाद्यभिव्यक्तिद्वारेण विशेषानुग्रहं कुरुते-नापूर्वमेव दधेि उत्पादयति तथेह भोगभागीयादिकर्म ॥
किं च, धर्मी चानेकधर्मस्वभावोऽनेकधर्मात्मा । यथा कनकपिण्डः शान्तोदिताव्यपदेश्यरुचककुण्डलादिधर्मात्मकः । तस्य धर्मिणः अध्वभेदेन अतीतादिलक्षणभेदेन धर्माः प्रत्यवस्थिताः ॥
यथा वर्तमानं वस्तु व्यक्तिविशेषापन्नं कुण्डलादिव्यक्तिप्राप्तं द्रव्यतः कार्यरूपतः अस्ति व्यापाराधिरूढतया, नैवमतीतमनागतं च । किं तर्हि? स्वेनैव व्यङ्येन स्वरूपेण भविष्यता अनागतमस्ति । स्वेन चानुभूतव्यक्तिकेन अतिक्रान्तोपलब्धिकेन अतीतमस्ति ॥
1.हर्ण
2.कथं
3. अत्र आदर्शकोशे इत उपरेि ‘बहिर्देशान्तरे।” इत्यादि वाक्यं लिखितम्।तस्यानन्वयात्, 9. पुटेम्यः पश्चात् लिखितं "अभावाविशष्षाञ्च” इत्यादि वाक्यं योजितम् ।[ भाष्यम ]
स्वरूपेणातीतमिति । वर्तमानस्यैवाध्वनः स्वरूपव्यक्तिरिति. न सा भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये द्वावध्वानौ धर्मिसमन्वागतौ[न]भवत एवेति नाभूत्वा भावस्त्रयाणामध्वनामिति ॥ १२ ॥
[ विवरणम् ]
{{gap}}वर्तमानस्यैव त्वध्वनः स्वरूपतो व्यक्तिरिति न सा व्यक्तिः भवत्यतीतानागतयोरध्वनोः । एकस्य चाध्वनः समये कालेद्वावध्वानौ धर्मिसमन्तागातौ विरोधात् न भवत एवेति । तथा चोक्तोऽध्वसंकरपरिहारः ॥ यस्य पुनरतीतमनागतं च लक्षणं स्वरूपेण नास्ति, तस्य धर्माणामध्वमेदो न प्राप्नोति । कथम् ? न हि तस्य घटो भविष्यन्नतीतो वा विद्यते । न हि कपालानि पिण्डो वा घटः । इत्येकस्य वर्तमानस्यैवाध्वनः. समये त्रयाणामध्वनां धर्मत्वेन समागमः स्यात् । अतश्च वर्तमान एव घटोऽतीतोऽनागत इतेि चोच्येत पिण्डकपालयोरघटत्वात मृदि च घटस्याभावाद्भविष्यति घटोऽतीतो घट इति च पिण्डकपाले निरुच्येयाताम् । तथा च विवक्षतो गौरप्यश्च इति स्यादश्वोऽपि गौरिति ॥
अथोच्येत, घटस्य प्रगभावप्रध्वंसाभावावतीतानागतत्वेनाभिधीयेते इति । ततोऽप्येष पापीयानभ्युपगमः । तत्र युक्तमपि गौरश्च इति वस्तुत्वादेतयोः । न त्विह वस्तुवाचिना शब्देन घटोऽतीतोऽनागत इति चाभावस्याभिधानं युज्यते स[त्य]त्ववादिनाम् ॥
नापि नियम उपपद्यते । घटेनैव व्यपदिश्यते, घटोऽतीतो घटो भविष्यतीति च । न पुनः कुलालादिभिरपदिश्यते कुलालादयोऽतीता भविष्यन्ति वेति ।
अथ घटस्यैव तत्रानुपलभ्यमानत्वादिति चेत्-न-हस्तिशार्दूलादीनामपि तत्रानुपलम्भे व्यपदेशप्रसङ्गात् । अथोपलब्धपूर्वस्यैव व्यपदेश इति चेत-न- घटक्रियादिष्वपि प्रसङ्गात् ॥
अथ घटस्य तेन क्रियाद्यभाव इति चेत्-न-अभावस्य सम्बन्धविशेषानुपपत्तेः । न हि समवायलक्षणः प्राप्तिलक्षणो वा सम्बन्धो भावाभावयोरवकल्पते।। येनासौं घटस्य अभावो न पुनः क्रियादीनाम्। अन्यतरसम्बन्धे च अभावस्य वस्तुत्वप्रसङ्गः ।
अथ वस्त्वेवेति चेत्, सिद्धस्तर्हि भविष्यन्नतीतश्च पदार्थः॥[ सूत्रम् ]
ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥
[भाष्यम्]
त स्वल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मनोऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः ।
[ विवरणम् ]
अथोपचारात् सिद्धकपालावस्था अवयवा भविष्यति घटो भूतो घट इति चापदिश्येरन् सम्बन्धात्, तद्यथा-अन्नं प्राणा इति, अत्रपि यथा कुलालचक्रदण्डसूत्रादिषु घटो नास्ति, तथा पिण्डकपालेष्वपीति तदभावाविशेषे च कपालेषु घटोऽतीत इति व्यपदेशो न कुलालादिष्विति नियमानुपपत्तिः ॥
न चापि विद्यमानानां साधनानां घटादिनिष्पादिनामप्यविद्यमानैरुत्पाद्यैर्घटादिभिः सम्बन्ध उपपद्यते । न चासति सम्बन्धे घटोत्पादनाभिप्रायेण कारकप्रवृत्तिः ॥
अथायुतसिद्धः समवायलक्षणः सम्बन्धो जन्यानां कारणानां च न प्रतिषिध्यत इति चेत्-न-युतसिद्धायुतसिद्धत्वस्य समानकालभाविनां वस्तूनां दर्शनात् । न भावाभावयोः कचिदपि युतसिद्धत्वमयुतासिद्धत्वं वा दृश्यते ॥
तस्माज्जन्यजनकानामपि सम्बन्धाभ्युपगमाद्विद्यमानत्वमेवेति, उत्पत्तेः प्रागूर्ध्वं च विद्यते कार्यम्, वस्त्वन्तरसम्बन्धात्, प्रसिद्धघटादिवत् । उपलप्स्यमानत्वादुपलब्धत्वाञ्च, अपवरकस्थघटदिवत् । उद्दिश्य कर्त्रा प्राप्यत्वात्, देशान्तरवत् । तथा कर्तृव्यापारप्राप्यत्वाच्चेति ॥
किं च, न लौकिका अतीतानागतशब्दाभ्यां गगनकमलिनविदविद्यमानमर्थ प्रतियन्ति प्रतिपादयन्ति वा । तस्मादतीतमनागतं च स्वरूपतो विद्यत एव । नाभूत्वा भावस्त्रयाणामध्वनाम् । किं तर्हि ? विद्यमानानामेवाभिव्यक्तिः ॥
तस्माद्यक्तिरूपेण वासनानामत्यन्ताविनिवृत्तिः । गुणरूपेण तु सतीनामपि कार्यासमर्थत्वान्न कैवल्याभावदोषः । नापि सिद्धान्तविरोधः || १२ ॥
अतीतानागतवर्तमानधर्मा: केन पुना रूपेण सन्तीति तत्प्रतिपादनार्थमाह- ते व्यक्तसूक्ष्मा गुणात्मानः । ते खल्वमी त्र्यध्वानः अतीतानागतवर्तमानाध्वत्रयोपारूढाः धर्माः वर्तमानाः वर्तमानलक्षणोपारूढाः व्यक्तात्मानः
43[ भाष्यम् ]
सर्वमिदं गुणानां संनिवेशाविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्-
"गुणानां परम रूपं न दृष्टिपथमृच्छति ॥
यतु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम्” इति ॥ १३ ॥ यदा तु सर्वे गुणाः, कथमेकः शब्द एकमिन्द्रियमिति--
[ सूत्रमू ]
परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४ ॥
[ विवरणम्]
लोकप्रत्ययविषयीभूतस्वभावाः । अतीतानागताः सूक्ष्मात्मानः लोकप्रत्ययविषयभावमप्राप्ताः षडविशेषस्वरूपाः अस्मितादिस्वभावाः । ततश्च व्यक्तात्मानः षोडशविकाराः कार्यकारणलक्षणाः ॥
सर्वमिदम् आध्यात्मिकं कार्यकारणरूपं व्यक्तात्मकं, यच्च सूक्ष्ममविशेषलक्षणमस्मितादि, यच्च लिङ्गमात्रं सूक्ष्मत्वाविशेषात्, सर्वमिदं जगत् गुणानां सत्त्वरजस्तमसां प्रख्याप्रवृत्तिस्थितिशीलानां सन्निवशविशेषमात्रामति परमार्थतो गुणात्मानः गुणस्वभावाः|
तथा च शास्त्रानुशासनम्-गुणानां परमं रूपं स्वं परमार्थरूपमनपायोपजनात्मकमेकैकस्य । तच्च न दृष्टिपथमृच्छति । न दृष्टिगोचरीभवति । यत्तु दृष्टिपथं प्राप्तं गुणापरिमर्देन विषमभावकृतसन्निवेशलक्षणं, तन्मायेव न तु मायैव, असारत्वात्तु मायावदिति । सुतुच्छकम् अत्यल्पमेकदेशमात्रपरिणामत्वात् साम्यावंस्थानां गुणानाम् ॥ १३ ॥
यदा सर्वे गुणाः पृथिव्यादयः, तदा कथमेकः शब्दः शङ्खादिजनितः । एकमिन्द्रियं श्रेोत्रादिकमित्येकबुद्ध्यालम्बनत्वं भवेत् । न खलु भवितव्यम् । त्रिगुणत्वेन हि कारणेन त्रय इति प्रत्ययः स्यात् । एवमिन्द्रियाणां च प्रत्येकं त्रित्वम् । तथा च नियमो न प्राप्नोति । न हि ग्राह्यत्वमेकस्यैव शब्दस्य, ग्राहकत्वं चैकस्य श्रोत्रस्य, इति नियम उपकल्पते । तथा स्पर्शादिषु, त्वगिन्द्रियादिषु च योज्यम्।
नियमश्च दृश्यते । कारणं तत्र वचनीयमित्याह-}}परिणामैकत्वाद्वस्तुतत्वम् ॥[ भाष्यम् ]
प्रख्या 1प्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानां करणभावेनैकः परिणामः श्रोत्रे2न्द्रियं, ग्राह्यात्मकानां 3शब्दभावेनैकः परिणामः शब्दो विषय इति । शब्दादीनां मूर्तिसमानजातीयानामेकः परिणामः पृथिवीपरमाणुस्तन्मात्रावयवस्तेषां चैकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिर्भूतान्तरेष्वपि स्नेहौष्ण्यप्रणामित्वावकाशदानान्युपादाय सामान्यमेकविकारारम्भः समाधेयः ॥
[ विवरणम् ]
प्रख्याप्रवृत्तिस्थितिशीलानां गुणानां ग्रहणात्मकानां'सत्त्वप्राधान्यात् बोधात्मनामस्मितासंस्थानानां करणभावेनैकः परिणामः श्रोत्रेन्द्रियम् । यथा विरुद्धानां तैलवर्तितेजसां प्रदीपः । तथा त्वगादीन्द्रियेषु पुरुषार्थेतिकरणीये प्रयुक्तानामेकैकमेिन्द्रियं परिणाम इति योज्यम्।
तथा ग्राह्यात्मकानां गुणानां तमःप्रधानानां शब्दभावेनैकः परिणामः शब्दो विषयः । तथा शब्दादीनां मूर्तिसमानजातीयानां समानाम् एक: गन्धतन्मात्रावयवः परिणामः पृथिवीपरमाणुः । तेषां परमाणूनाम् एकः परिणामः पृथिवी गौर्वृक्षः पर्वत इत्येवमादिः ॥
भूतान्तरेष्वपि योज्यम् । शब्दत्स्पर्शरूपरसानां स्नेहसमानजातीयानाम् [एकः परिणामः रसतन्मात्रावयवः जलपरमाणुः । तेषांपरमाणूनामेकः परिणामो जलम्] ॥ शब्दस्पर्शरूपाणामुष्णत्वसमानजातीयानामेकः परिणामो रूपतन्मात्रावयवः तेजःपरमाणुः । तेषां परमाणूनामेकः परिणामो वह्निः सलिलेन्धनो दारुशकलदीपनश्च ॥
तथा शब्दस्पर्शयोः प्रणामित्वसमानजातीययोः स्पर्शतन्मात्रावयवः वायुपरमाणुरेकः परिणामः । तेषां परमाणूमामेकः परिणामः वायुः सप्त मरुद्भणाश्च ॥ आकाशः । इत्येवमुक्रेन मार्गेण स्नेहौष्ण्यप्रणामित्वाद्युपादाय सामान्यमेकविकारारम्भः समाधेयः योज्यः । तस्माद्बहूनामप्येकपरिणामित्वादेकविषयत्वं, ग्राह्यग्रहणनियमश्च सर्वमुपपद्यते ॥
1.क्रियास्थि - 2.त्रमि- - 3. शब्दतन्मात्र
[ भाष्यम् ]
नास्त्यर्थो विज्ञानविसहचरः, अस्ति तु विज्ञानमर्थविसहचरं स्वप्नादौ कल्पितमित्य1मुया दिशा ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमं न परमार्थतोऽस्तीति य आहुस्ते तथेति प्रत्युपस्थित-
[ विवरणम् ]
ननु च नास्येवासौ एकप्रत्ययविषयः शब्दादिः । एतत्तु सर्वं विज्ञानपरिजृम्भित्वपिव, विज्ञानभावभावत्वात् । कथं तद्भावभावित्वमित्याह-नास्त्यर्थो विज्ञानविसहचर: पृथग्विज्ञानादुपलब्ध: पृथग्भावी वा ! विज्ञानमर्थविसहचरं पृथक्त्वेनोपलब्धं पृथग्भावि वा अस्ति। तस्मादर्थो विज्ञानव्यतिरेकेण नास्तीति प्रतिजानीमहे ।
प्रमाणमप्यत्र भवति- विज्ञानव्यतिरेकेण नास्ति ग्राह्यं वस्तु, विज्ञानव्यतिरेकेणानुपलभ्यमानत्वात्, विज्ञानस्वरूपवत् । बाह्यार्थशून्यानि जाग्रद्विज्ञानानि, विज्ञानत्वात्, स्वप्नसमय विज्ञानवत् । विज्ञानपरिकल्पिता वा जाग्रद्विषयाः, विषयत्वात्, स्वप्नविषयवत् । विज्ञानं वा विषयाव्यतिरेकि, विज्ञानत्वात्, स्वप्नविज्ञानवदिति ॥
यद्येवं स्यात् किं नश्छिन्नं स्यात् ? पुरुषस्य दृश्यवियोगात् कैवल्यं प्रस्तुतं न सिद्धं स्यात् ॥
यथा उपलभ्यमानस्य स्तम्भादेरभावः एवमुपलभ्यमानत्वाद्विज्ञानस्याप्यभावः । तदभावे च लिङ्गाभावादुपलब्धुरप्यभावः प्राप्नुयादिति, कस्य कैवल्यम् ? केन दृश्येन वियोगः स्यात् ? केन सम्प्रयोगे वा बन्धः प्रतिज्ञायेत ? बन्धाभावे चाभ्युदयनिःश्रेयसार्थप्रवृत्तिफलता न प्रसज्येत ।
किं चान्यत्-विज्ञानव्यतिरेकेणार्थों नास्तीति ब्रुवता विज्ञानमर्थ इति चैकः पदार्थेऽभ्युपगतो भवति, यथा-अग्निरनल इति । एवं च सति विज्ञानं ग्राह्यं ग्राहकम्, अर्थेः ग्राह्येो ग्राहकश्चेति नाममात्रे त्रिप्रतिपत्तिः, न पुनरेकस्य ग्राह्मग्राहकभावः प्रत्याख्यायते । तथा च सतेि पुरुषस्यापि ग्राह्मग्राहकभावः प्राप्तः । तथाऽपि विप्रमोक्षानवक्लृप्तिः, इत्येवमादयो भूयांसो दोषाः प्राप्नुवन्ति ॥
तस्मात् अमुया दिशा अनेन न्यायाभासबलेन ये वस्तुस्वरूपमपह्नुवते ज्ञानपरिकल्पनामात्रं वस्तु स्वप्नविषयोपमम्, न तु परमार्थतोऽस्तीति,
1. -नया
[ भाष्यम् ]
मिदं स्वमाहात्म्येन वस्तु कथमप्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु 1स्वयमुपगृह्य तदेवापलपन्तः श्रद्धेयवचनाः स्युः ॥ १४ ॥}}
कुतश्चैतदन्याय्यम्-
सूत्रम्
वस्तुसाम्ये चित्तभेदात्तयो र्विविक्त्तः पन्थाः ॥ १५ ॥
[ विवरणम् ]
ते स्वयं तथेति अभ्युपगम्य स्वमाहात्म्येन प्रत्युपस्थितं वस्तुं कथम- प्रमाणात्मकेन विकल्पज्ञानबलेन वस्तु स्वयमुपगृह्य अभ्युपगम्य तदेव अभ्युपगतं अपलपन्तः इदमित्यभ्युपेत्य इदं नास्तीत्यपह्नुवानाः श्रद्धेयवचनाः स्युः । न हि स्वानुभवप्रत्याख्यायिनः श्रद्धानीयवचनविस्तारा भवितुमर्हन्ति ॥
तत्र विज्ञानव्यतिरेकेणार्थो नास्तीति प्रत्यक्षविरोधिनी प्रतिज्ञा । संवेदनीकारकं विज्ञानं प्रतीयामः । पृथुबुध्नाद्याकारमर्थं प्रतिपद्येमहि। ग्राहकं च विज्ञानमवभासकं, अवभासनीयश्चार्थः । स्वलक्षणभेदेनार्थज्ञानयोरुपलभ्यमानत्वान्नाव्यतिरेकगन्धोऽपि । ततश्च व्यतिरेकेणानुपलभ्यमानत्वादित्यसिद्धो हेतुस्तव ॥
न च ज्ञानस्यैव पृथुबुध्नाद्याकारता । ज्ञानस्यैकस्यावभास्यावभासकत्वानुपपत्तेः प्रदीपस्येव केवलस्य । भिन्नयोः प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपलम्भादेकस्य च स्वात्मनि प्राप्त्यसम्भवात्, एवं ज्ञानस्य ॥
अपिचानैकान्तिकश्व बुद्धेन प्रतिपक्षवादिना च । न चासौं नास्तीति शक्यं प्रतिज्ञातुं, यं प्रति सिसाधयिषसि, स चेत्तद्विज्ञानव्यतिरिक्तः, तथा घटादिरपि सिध्यति ॥
स्वप्नज्ञानमपि उपलब्धार्थविषयत्वात् न निरालंबनम् । प्रतिज्ञायाः प्रत्यक्षविरोधो लोकविरोधश्व । सर्व ज्ञानं सालम्बनं, ज्ञानत्वात्, प्रतिवादिदुष्टवाक्यज्ञानवत्, स्ववाक्यगुणज्ञानवच्च । ततश्च ज्ञानत्वादीनां निरालंबनत्वहेतूनामेवमादिभिरनैकान्तिकता ॥ १४ ॥
कुतचैतदन्याय्यं गृह्ममाणं वस्तु नास्तीति ? वस्तुसाम्ये चित्तेमदात्तयोर्विविक्त्तः पन्थाः । बहुचित्तालम्बनीभूतं अनेकचित्तविषयीभूतं एकं वस्तु
1. स्वरूपमुत्सृज्य 2. -र्विभक्तः
[ भाष्यम् ]
बहुचित्तालम्बनीभूतमेकं वस्तु साधारणं, तत्खलु नैकाचित्तपरिकल्पितं, नाप्यनेकचित्तपरिकल्पितं, किं तु 1खरूपप्रतिष्ठम् । कथम् ? वस्तुसाम्ये चित्तभेदात् । घर्मपेक्षं चित्तस्य वस्तुसाम्येऽपि सुखज्ञानं भवति । अधर्मापेक्षं तत एव दु:खज्ञानम् । अविद्यापेक्षं तत एव मूढज्ञानम् । सम्यग्दर्शनापेक्षं तत एव माध्यस्थ्यज्ञानमिति । कस्य तच्चित्तेन परिकल्पितम् । न चान्याचेत्तपरिकल्पितेनार्थेनान्यस्य चित्तोपरागो युक्तः ! तस्माद्वस्तु ज्ञानयोर्ग्राह्यग्रहणभेदभिन्नयोर्विभक्तः पन्थाः । नानयोः संकरगन्धोऽप्यस्तीति ॥
[ विवरणम् ]
पुत्रादिकं साधारणं समानम् । तत् खलु नैकचित्ततन्त्रं भवति । एकचित्ततन्त्रत्वाभावादनेकचित्तपरिकल्पतमपि न भवति ।
किन्तु स्वरूपप्रतिष्ठं चित्तानिरपेक्षं स्वतन्त्रतया व्यवस्थितम् । कथम् ? वस्तुसाम्ये वस्तुनः पुत्रादेरेकत्वे चित्तभेदात् एकस्मिन् पुत्रादिविषये विषयिणां ज्ञानानामेंनकत्वात् । कथं चित्तभेद इत्याह-धर्मापेक्षं चित्तस्य वस्तुसाम्येऽपि यथा पुत्रत एव मातापित्रोः सुखज्ञानं भवति । तत एव पुत्रादेः अधमापेक्षं अहितानां दु:खज्ञानं उपजनिष्यते ॥
तस्मोदवाविद्यापेक्षं कामुकानां मूढ़ज्ञानम् । तत एव पुत्रादेः सम्यग्ज्ञानोपक्षं योगिनां माध्यस्थ्यज्ञानं हेयोपादेयशून्यमुत्पद्यते । कौलेयादीनां तत एव लोभापेक्षया भक्ष्यज्ञानम् । तत एव पुत्रादेर्विरक्तस्य कुणपादिज्ञानम् ।
यदि कस्यचिच्चित्तेन परिकल्पितमभविष्यत् (न) अन्यचित्तपरिकल्पितेनान्येषां चित्तमुपारंक्ष्यत । नैतद्युक्तं, अत्यन्तासम्बद्धानामदर्शनात् । यदि चान्यपरिकल्पितेनाप्यन्यचित्तोपरागोऽभविष्यत्, तदा सर्वेऽपि सर्वै समज्ञास्यन्त । न चेदं दृष्टम् । तस्मात् न चित्तपरिकल्पितं वस्त्विति, वस्तुज्ञानयोः ग्राह्यग्रहणभेदाद्भिन्नयोर्विविक्त्तः पन्थाः । नानयोः सङ्करगन्धोऽप्यस्ति ॥
1. स्वप्र
[भाष्यम् ]
साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिपित्तापेक्षं चितैरभिस्संबध्यते । निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनाऽत्मना हेतुर्भवति । केचिदाहुः-ज्ञानसहभूरेवार्थों भोग्यत्वात् सुखादिवादिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरक्षणेषु वस्तुरूमेवापह्नुते ॥ १५ ॥
[ विवरणम् ]
सुखज्ञानालम्बनीभूतं पुत्रादिवस्तु न तज्ज्ञानपरिकल्पितम्। तदुरुद्धानेकचितोपरञ्जकत्वात्, वादिप्रतिवदिप्रतिज्ञागुणदोषतदाभासवत् । वादिप्रतिवादिप्रभृतीनामपि विज्ञानमात्रत्वे साध्यसाधनादिव्यवहारविलोपः स्यात् ॥ अथ स्वविज्ञानव्यतिरेकेण तेषां ज्ञानरूपाणामेव पृथक्त्वमिति चेत्-अस्तु । तदेव वस्तु ज्ञानान्तरविषयत्वादर्थान्तरं सिद्धम् । संज्ञामात्रे विप्रतिपत्तिः । विषयविषयभेदस्तु न साध्यः । तस्मान्नानयोः संकरगन्धोऽपीति ॥ अथ वस्तुनि स्वरूपप्रतिष्ठेऽपि सुखादिभिन्नप्रत्ययालम्बनता न समीचीनरूपेति चेत्-अत्रोच्यते-वस्तु पुनस्त्रिगुणं चलं गुणवृत्तमिति धर्मादिनिमित्तं चापेक्ष्य चित्तैः सुखदुःखादिभेदरूपेण अभिसंबध्यते परिण्मात्वादनेकशक्तित्वाञ्च ॥ धर्मादिनिमित्तानुरूपस्य चोत्पद्यमानस्य प्रत्ययस्य तेन तेन निमित्तेन आत्मना हेतुर्भवति । सत्वात्मना धर्मादिनिमित्तापेक्षं पुत्रादिवस्तु सुखहेतुर्भवति । रजआत्मना त्वधर्मनिमित्तापेक्षं दुःखहेतुर्भवति । तमअत्मना त्वविद्यापेक्षं तदेव वस्तु मोहहेतुर्भवति । सत्तामात्रात्मना सम्यग्दर्शनापेक्षं तदेव माध्यस्थ्यज्ञानहेतुर्भवति ॥
केचिदाहुः एषमेव बौद्धानामन्यतमे बाह्यमर्थमभ्युपगच्छन्त आहु:- ज्ञानसहभूरेवार्थः, यथा विज्ञानं प्रतिक्षणं धर्मिशून्यं उत्पद्यते विनश्यति च, तथा सहँव ज्ञानेनार्थो विज्ञायते विनश्यति च, भोग्यत्वात्, सुखादिवत् । तद्यथा-सुखदु:खादिरूपं भोग्यं विज्ञानसहोत्पतिविनाशमसाधारणम्, एवं घटादिरर्थोऽपि विज्ञानसमानसमयजन्मविनाश एव, भोग्यत्वादिति ॥
तेऽपि तथैव विज्ञानवादिवत् साधारणत्वं अनेकसुखादिचित्तालम्बनत्वं बाधमानाः पूर्वोत्तरक्षणेषु स्वकीयविज्ञानोत्पतेः पौरस्येषु क्षणेषु पाश्चात्येषु च वस्तु नास्तीति वस्तुस्वरूपमेवापह्नुवते ॥
[ सूत्रम् ]
न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥
[ भाष्यम् ]
एकचित्ततन्त्रं चेद्वस्तु स्यात्तदा 1तच्चित्ते व्यग्रे निरुद्धे वाऽस्वरूप-
[ विवरणम् ]
तस्मात् न हि वस्तुनः स्वरूपं विज्ञानसहभावि, तदेवेदमिति प्रत्यभिज्ञात्वात् । नाचिरजन्मप्रलयं तदेवेदमिति प्रत्यभिज्ञायेत, यथा विज्ञानम् । न हि तदेवांदो मे विज्ञानमिति भवति ! वस्तु पुनस्तदेवेदमिति प्रत्यभिज्ञायते । अर्थज्ञानयोरेकसमयभवित्वेऽप्येक[परिशेषः]विशेषः स्यात् ।
नापि सादृश्यात् प्रत्यभिज्ञानम् । ग्राह्यग्राहकयोर्युगपदुत्पत्तिविनाशवत्वात् । व्यवस्थिते हि वस्त्वन्तरदृश्ये अन्यतत्सदृशवस्तुदर्शनेन सादृश्यप्रत्ययः । एवं तत्सदृशं वा द्रक्ष्यामीत्युत्तराभिलाषः । न हि तदहर्निश्चितमरणस्यापरेद्युरर्थदर्शनाकांक्षा जायते । नापि मत्सदृश ईक्षिष्यत इत्यभिलषति । न चैवं दृष्टम् । सर्वो हि स्वार्थमीहते । भिन्नसन्ततिष्वदर्शनात् ॥
तस्मादिदानीतनोऽर्थः नेदार्नीन्तनज्ञानसहभूरेवेति, ग्राह्यत्वात् , अतीतार्थवत् । अतीतो वा नातीतज्ञानसहनाशजन्मा, ग्राह्यत्वात्, इदानीन्तनार्थवत् । भूतभविष्यज्ज्ञानग्राह्या अर्था अधुनाऽपि सन्ति, ग्राह्यत्वात्, अधुनातनप्रत्ययग्राह्मवत् ।। इदानीन्तनमपि वस्तु पूर्वोत्तरक्षणेषु तथैव ॥
अथ सुखदु:खज्ञानादिभिरनैकान्तिकमिति चेत्-न-अतीतानागतं स्वरूपतोऽस्तीति साधितत्वात् [ एवं च सति सुखादीनां च स्वरूपेण सद्भावात् सुखादिवदिति साध्यसमानो दृष्टान्तः ।
अथ वर्तमानरूपविशेषेणातीतानागतलक्षणयोरर्थस्य सुखादिवदभाव इति चेत्, सिद्धसाध्यता । न हि कुमारभाव एव वृद्धत्वं विद्यते ॥ १५ ॥
इतश्च चित्ततन्त्रता वस्तुनो नावकल्पते । एकचित्ततन्त्रं वा वस्तु भवेदनेकचित्ततन्त्रं वा ? एकचित्ततन्त्रत्वे ब्रूमः--न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ? न तावदेकचित्ततन्त्रे, एकचित्ततन्त्रं चेद्वस्तु स्यात् यदिचेदमुच्यते, तच्चित्ते यच्चित्ततन्त्रं वस्तु तस्मिश्चित्ते व्यग्रे परासक्ते
1. चित्ते
[ भाष्यम् ]
मेव तेनापरासृष्टमन्यस्याविषयीभूतभप्रमाणकमगृहीतस्वभावकं केनचित्तदानीं किं तत्स्यात् । संबध्यमानं1 वा पुनश्चित्तेन कुत उत्पद्येत । ये चास्यानुपस्थिता भागास्ते चास्य न स्युः । एवं नास्ति पृष्ठमित्युदरमपि 2न स्यादेव ।
[ विवरणम् ]
नेिरुद्धे वा विनष्टे वा तेन प्रमाणचित्तेन अपरामृष्टं च अन्यस्य चाविषयीभूतं एकचित्ततन्त्रतयैव, तदा तत् वस्तु अप्रमाणकमगृहीतस्वभावं प्रप्राणचित्तनिरोधादेव तदानीं किं तत् स्यात्। न हि किंचिदपि स्यात्। श्वित्तप्रमाणकं तत् तदभावे न तेन भवितव्यम् ॥
ननु च यथा तत्प्रमाणचित्तं निरुध्यते, तथैव तदपि क्षणिकत्वान्निरुद्धमेव । किं तत्राभिधानीयं स्यात् । उच्यते-न-व्यवहारविलोपान्नियमानुपपत्तेश्च । अग्निरयं मास्प्राक्षींः, इमं गृहाण, अदः प्रदेहीति व्यवहारो विलुप्येत । एकचित्तसहक्षयत्वाद्वस्तुनः ॥
तत्सन्ततिजमत्यन्तसदृशं व्यवहारप्रतिपत्तये भवेदिति चेत्---अत्रापि तत्सन्तानादेव तत्समानेनान्येनानुभवनीयं परप्रमाणस्य च तद्विषयभूतमिति को नियच्छेत् । न हि नियमहेतुरास्ति ।
अपि च एकचित्ततन्त्रत्वाद्व्यवहारवेलायामन्यत(न)रेदंप्रत्ययविषयालम्बनो नान्यत(न)रप्रत्ययो युज्यते । न हि खल्वपि वहुचित्ततन्त्रं वस्तु । ततश्च गृहाणेदं प्रयच्छाद इति कथं व्यवहरेमहि ॥
नाप्येवंदर्शनशालिनः शिष्याचार्योपदेशप्रदानादिभिरन्योन्यं व्यवहरेरन् । तस्मान्न चैकचित्ततन्त्रं वस्तु । प्रमाणचित्तविनाशे तद्व्यग्रभावे वा अनवधृतस्वभाववाद्वस्तुन: ॥
संबध्यमानं वा वस्तु पुनश्चित्तेन कुत उत्पद्येत । न कुतश्चिदुत्पत्तिस्रुपपद्यते तत्सन्तानादिति हि प्रत्यवोचाम ॥
किंञ्च, अस्य वस्तुनः अनुपस्थिताः एकस्य प्रत्ययस्याविषयीभूता[ये] भागास्तेचास्य न स्यु: । एको हि वस्तुभागो विषयीभूतश्चित्ततन्त्रो नान्यः इति । नास्ति पृष्ठमिति उदरमपि अभिमुखीभूतं न स्यादेव ॥
1. च
2. न गृह्येत ।[ भाष्यमू ]
तस्मात् स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः संबन्धादुपलब्धिः पुरुषस्य भोग इति ॥ १६ ॥
[सूत्रम्]
तदुपरागापे क्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥
[ भाष्यम् ]
अयस्कान्तमणिकल्पा विषया अयःसधर्मकं चित्तमभिसंबध्योपरञ्जयन्ति । येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः ततोऽन्यः पुनरज्ञातः । वस्तुनो ज्ञाताज्ञातस्रूपत्वात् परिणांमि चित्तम् ॥ १७ ॥
[ विवरणम् ]
अथापि काकतालीयन्यायेन भूयांसि चित्तानि युगपदुत्पद्येरन् तद्विषयं च वस्तु तत्समानकालमुन्मज्जतीति, तदेतेनैव पृष्ठोदराभावनिदर्शनेन प्रत्याख्यायि । नापि काकताळीयवृत्तान्तेनानादिसमयाधीनो व्यवहारसागर उत्तीर्यंते । सर्वे च विज्ञानदर्शनश्लाधिषु दोषा इहापि समाना एव ॥
तस्मात् आह--स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः यस्मिन्नवस्थिते समस्तलोकव्यवहार उपकल्पिष्यते । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोश्च अर्थचित्तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोगः । तस्माद्भोक्ता पुरुषः चित्तं करणम् अर्थो विषयः कर्मभूत इयेतेषां भोक्तृकरणकर्मणां विविक्त्तः पन्थाः ॥ १६ ।।
कथं चित्ततद्विषययोः सम्बन्धात् पुरुषस्य भोग इत्याह-यद्वा, यस्य चित्तव्यतिरेकेण वस्तु नास्ति, चित्ततन्त्रमेव वा वस्तु, तस्य ज्ञाताज्ञातविषयत्वमनुपपन्नमित्याह--तदुपरागापेक्षत्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । तेन विषयेण चित्तस्योपरागः तं प्रति अपेक्षा यस्य [तत् ] चित्तं तदुपरागापेक्षम्, तस्य भावः तदुपरागापेक्षत्वं तस्मात् तदुपरागापेक्षत्वाचित्तस्य वस्तु ज्ञाताज्ञातम् ।।
1. -क्षित्वा
[ भाष्यम् ]
यस्य तु तदेव चित्तं विषयस्तस्य
[सूत्रम् ]
सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥
[ विवरणम् ]
येन वस्तुना चित्तमुपरज्यते तत् ज्ञातं, येन च नोपरज्यते तत् अज्ञातम् । स चोपरागश्चित्तपरिणामापेक्षः । इन्द्रियमार्गेण चित्तं बाह्याकारेण परिणममानं हि सम्बध्यते ।
किं पुनश्चित्तपरिणामनिमितमित्याह-अयस्कान्तमणिकल्पा अयस्कान्तसमानाः विषयाः, अयस्सधर्मकं चित्तम्--अयस्सधर्मकत्वं च विषयसन्निधाने विक्रियत इति । विषयाणामप्ययस्कान्तमणिकल्पत्वं सन्निधिमात्रेण चित्तविक्रियापादनसामर्थ्यात् । अतो विषया आत्माकोरण परिणतं चित्तम् अभिसंबध्योरञ्जयन्ति ॥
{{gap}}येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः । ततोऽन्यः(ऽन्ये) पुनः अनुपरञ्जको (का)विषयः(या)अज्ञातः (ताः) ! तस्मात् वस्तुनो ज्ञाताज्ञातस्वरूप(विषय)त्वात् परिणामि चित्तम्। अथ पुनश्चित्ततन्त्र एव विषयश्चित्तमेव वा विषयः, तस्य वादिनः सर्वविषयज्ञत्वमविषयज्ञत्वं वा भवेत् । अज्ञातस्य चित्तस्याभावात् । न चेदं दृश्यते । किं तर्हि ? ज्ञाताज्ञातविषयत्वमेव चित्तस्य प्रतिपद्यामहे । तचैतत् स्थिरावस्थानानां विषयाणां प्राप्त्यभावादन्यथा च संबन्धानवकल्पनाचित्तपरिणामापेक्षमेवेति परिणामित्वम् ॥ १७ ॥
यस्य तु स्वामिनो भोक्तुः तदेव ज्ञाताज्ञातविषयं चित्तं वृत्तिरूपेण विषयः न हि निरुद्धवृत्तिनचेतसो विषयत्वमिति, तस्य पुरुषस्य सदा। ज्ञाताश्चत्तवृत्तय:[तत्प्रभोः पुरुषस्यापरिणामित्वात्] । तासां प्रत्यक्षत्वात् सदा ज्ञातविषयत्वमप्रसाध्यम् ॥
यद्वा प्रत्यक्षगम्याश्चित्तवृत्तयः, उपलब्धत्वेन शब्दलिङ्गानपेक्षं स्मर्यमाणत्वात्, प्रत्यक्षोपलब्धघटवत् । निश्चितरूपत्वाच्च तथैव । संशयाविषयत्वाच्च । यदि हि सदैवाप्रत्यक्षाश्चित्तवृत्तयः, ता बाह्यविषयवत् संशयिता अपि कदाचित् काश्वन भवेयुः । न हि काश्वन कदाचन संशयमार्गसंपातिन्यो दृष्ट्राः ॥[ भाष्यम् ]
यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत् ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥
[ विवरणम् ]
अपि च, भवति हि कदाचिज्ज्ञातः सन्नर्थो ज्ञात इति [प्रतीयमानः] । चित्तवृतिप्रत्यक्षाग्राह्मत्वे ‘ [तत] नोपपद्यते । न च फलद्वारेणानुमातुं तत्र शक्यते फलस्यानवधारणात् ॥
तस्मात् संशयस्य चाविषयत्वात्, पृथक् च विषयाचित्तवृत्तीनां स्वरूपमात्रेणैव स्मर्यमाणत्वात्, सर्वदा सर्वः प्रत्यक्षाश्चित्तवृत्तयः । तथा प्रतिपत्तुरवभासकत्वात् , करणत्वात्, अभिव्यञ्जकत्वाच्च, प्रदीपादिवत् । न तु चक्षुरादिभिरनैकान्तिकत्वम् । तत्रापि प्रत्यक्षग्राह्यत्वात् । यथा प्रदीपाद्यालोकविशिष्टा घटादयो गृह्मन्ते, तथा श्रोत्नादिस्वालोकविशिष्टा एव शब्दादयो गृह्मन्ते ॥
न च विविच्याग्रहणादप्रत्यक्षत्वमिति शक्यं वक्तुम् । यथा प्रदीपयोः परस्परव्यतिभिन्ना रश्मयः, न चास्यायं रश्मिरस्य चायमिति विविच्यते, न च तावता तेषामप्रत्यक्षत्वम् , [एवं] इहापि चक्षुरादीनां तुल्यजातीयबाह्यालोकादिव्यतिषङ्गाद्विविच्याग्रहणम्। न च तावन्मात्रेण तेषामप्रत्यक्षत्वम्। यो हि प्रत्यक्षावसीयमानचित्तवृत्यप्रलापं करोति, नूनमसावात्मानमप्यपलपेदिति सर्वोपलब्धेश्चित्तवृत्यधीनत्वात् रूपोपलब्धेरिवालोक(प्रत्यायकं तत्त्वम्) प्रत्ययाधीनत्वम । तस्मादाह--सदा ज्ञाताश्चित्तवृत्तयः पुरुषस्येति ॥
यच्चैतत् सदा ज्ञातविषयत्वम्, तत्प्रभोः पुरुषस्यापरिणामत्वात् । निल्योपलब्धृस्वरूपप्रयुक्तं हि तदिति । यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत, ततस्तद्विषयाश्चित्तवृत्तयः चित्तस्येव शब्दादिविषयाः, ज्ञाता अज्ञाता अपि स्युः ॥
यत्तु ज्ञाताज्ञातं शब्दादिविषयजातं, तत् परिणामिनश्चित्तस्य परिणामापेक्षं द्रष्टव्यम् । तथैवेन्द्रियाणामपि परिणामापेक्षमेव ज्ञाताज्ञातविषयत्वं दृश्यते । न च तथा चित्तवृत्तीनामन्यतमासामपि ज्ञातत्वमज्ञातत्वं च । नित्यतस्तज्ज्ञाता एव चित्तवृत्तयः । तस्माद्यद्वृत्तिरूपेण सदा ज्ञातत्वं मनसः तत् प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥[ भाष्यम् ]
स्यादाशङ्का-चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत्
[ सूत्रम् ]
न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥
[ भाष्यम् ]
यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि, तथा मनोऽपि प्रत्येतव्यम् ।
[ विवरणम् ]
अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्येण चित्तमिन्द्रियाणि च दृष्टान्तः । उपलब्धुश्च विषयिणः प्रकृतत्वात् सदा ज्ञातविषयत्वप्रतिषेधाय मुक्तात्मवदिति दृष्टान्तो नोपपद्यते । मुक्तस्याविषयित्वात् ॥ १८ ॥
{{gap}}स्यादाशङ्का-चित्तमेव स्वाभासं विषयाभासं च भविष्यतीति । ग्राह्यं ग्राहकं चेति । स्वसंविदिताकारा एव हि वृत्तयः । यथा प्रदीपः प्रकाशयति घटादीनात्मानं च । किं पुरुषेण चित्तवृत्त्युपलम्भिना चित्तव्यतिरिक्तेन कल्पितेनेति ॥
अत्रेच्यते-न तत् स्वाभासं दृश्यत्वात् । यथेतराणीन्द्रियाणि श्रेात्रादीनि विषयाश्व शब्दादयः । न स्वाभासानेि इन्द्रियाणि । नापि स्वाभासाः शब्दादयः । दृश्यत्वात् । तथा मनोऽपि प्रत्येतव्यम् ! न स्वाभासं चित्तं दृश्यत्वादिति प्रतिपत्तव्यम् ।
ननु च अग्निवदेव स्वाभासत्वं विषयाभासत्वं च भवतु, यथैव घटादयः प्रकाश्याः स्वरूपेपलम्भनार्थमालोकान्तरमपेक्षन्ते, न तथा प्रदीपः । यथा प्रदीपः स्वाभासो विषयाभासश्च । तथा मनोऽप्यवभासकत्वादेवं भवतु किमात्मना? न हि प्रदीपप्रतिपत्तये प्रदीपान्तरमाददते लौकिकाः ॥
यदि चोपादयेरन् अनवस्थैव स्यात् ! एवं विज्ञानस्यापि व्यतिरिकेन ग्राहत्वे तस्य चान्येन ग्रहणं तस्य चान्येनेत्येवं प्रसज्येत । किं च विज्ञानस्यावभासात्मकत्वात् ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः । तद्यथा प्रदापयोर्द्वयोः । तस्मात् कल्पितोऽपि विज्ञानस्य ग्रहीता अनर्थक इति, भवतु ज्ञानं स्वाभासं पराभासं चेति ॥[ भाष्यम् ]
न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति । प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः ।
[ विवरणम् ]
अत्रोच्यते-तदेतद्दृष्टान्तापशदावष्टम्भेन सकललोकप्रसिद्धमार्गोपारोहिण आत्मनो निराकरणमशक्यम् । कस्मात् ? न चाग्निरत्र दृष्टन्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति, यदि चाग्निरप्रकाशः सन् आत्मनैव घटादिवत् प्राकाशयिष्यत, तत उपापत्स्यत दृष्टान्तः । न त्वेवम् । न हि कदाचिदग्निरप्रकाशः ॥
प्रकाशश्चायम् । स च प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । द्वयोर्हि संयोगः । नासति संयोगे स्वरूपावभासकत्वम् ॥
यदप्युच्यते--घटादिवत् प्रकाशान्तरं नाग्निरपेक्षत इति । तत् प्रकाश्यरूपाभावात् । न तु तस्य घटादिवत् प्रकाश्यं रूपमस्ति ! न तावता व्यतिरिक्ताग्राह्मत्वम् । चक्षुषा तुल्यव्यातिरिक्तेन गृह्यत एव ॥
प्रकाश्यस्य घटांदेरवतमसतिरस्काराष्य प्रकाश उपादायेष्यते । न त्वप्रकाश्यरूपत्वात् । अग्नेरालोकान्तरानाकाङ्क्षणं तु भवतैवाभिहितं-द्वयोः प्रदीपयोर्नास्ति परस्परोपकार इति । यत्र नाम भेदेऽपि द्वयोः प्रदीपयोर्नास्त्यप्रकाश्यरूपत्वादन्योन्योपकारः, किमुत असति भेदेऽत्र प्रकाशान्तरमेव नापेक्षते इति ॥
न तु व्यतिरिक्तग्राह्यत्वं व्यभिचरति, प्रदीपयोदृश्यवाद्घटादिवत्। एतेन व्यतिरिक्तग्राह्यत्वं ज्ञानस्य दृश्यत्वात् प्रदीपादिवत् सिद्धं भवति । प्रदीपादिवच्च ज्ञानस्य प्रकाशस्वरूपत्वात् करणान्तरानपेक्षापि सिद्धा । तथा च अनवस्थादोषगन्धो न विद्यते ॥
यदप्युच्यते-ज्ञानस्यावभासात्मकत्वात् तद्ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः प्रदीपयोरिव द्वयोरिति । नासौ दोषः । चक्षुःप्रदीपवदात्मज्ञानयोर्जात्यन्तरत्वात् ॥
[ भाष्यम् ]
किं च स्वाभासं चित्तमित्यग्राह्यमेव 1चित्तं स्यादिति शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकाशम् 2अप्रतिष्ठम् इत्यर्थ: । स्वबुद्धिप्रचारप्रतिसेवेदनात् सत्वानां प्रवृत्तिर्दृश्यते--क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥
[ सूत्रम् ]
एकसमये चाभयानवधारणम् ॥ २० ॥
[ विवरणम् ]
सस्वात्मिकया वृत्या समालम्ब्येत, हस्तेनेव शरीरं कण्डूयमानम् । तत्राप्युपलब्धा वेिषयी भिन्न एव पुरुषः । एतेन जात्यन्तरग्राह्यग्राहकत्वेन निरवयवत्वेन पुरुषश्च स्वयमेव ग्राह्यः ग्राहकश्चेत्येतत् प्रत्यवोचाम ॥
किम् च-स्वाभासं चित्तमिति उच्यमाने च अग्राह्यमेव चित्तं स्यादिति । एवं शब्दार्थः । स्वाभासमिति ह्युक्ते अन्येन नावभास्यते न गृह्यत इत्यर्थः । न तु स्वयमात्मानं गृह्वातीत्युच्यते । एवमादिशब्दप्रयोगेषु शब्दस्य विपरीतार्थत्वम् ॥
तद्यथा--स्वात्मप्रतिष्ठमाकाशम्, अप्रतिष्ठमिति शब्दार्थः । तथा स्वस्थो देवदत्त इति, नीरोग इत्यर्थः, न तु स्वात्मनि स्थित इति । तत्र दृश्यत्वादिति हेतोरसिद्धिमाचक्षाणस्य प्रत्यक्षविरोधी लोकविरोधो व्यवहारविलोपश्चेत्याह-स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्राणिनां प्रवृत्तिर्द्दश्यते ॥
क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति स्वां स्वां बुद्धिमेवं चरन्तीं प्रतिसंवेद्य दृष्ट्वा क्रोधलोभादिपरिहाराय विवेकवतां प्रवृतिरुपलभ्यते । तथा प्रसन्नं मे चित्तं कळुषितं मूढमिति च । तत् एतत् स्वबुद्धेरग्रहणे, न युक्तमिति । न हि निशाम्य परिस्पन्दिनीं बुद्धिरदृयेति युक्तं वक्तुम् ॥ १९ ॥
अभ्युपगम्य वादोऽयम्-यद्यपि स्वाभासं विषयाभासं च मनो भवतु । तत्र दूषणम् एकसमये चोभयानवधारणम् । विषयपरिच्छेदकत्वे, नानाक्षणत्वादात्मपरिच्छेदो न युज्यते । अथ पुनरात्मानमवधारयति, न तदा विषयाभिमुखं, स्वात्मपरिच्छेदकत्वे नानाक्षणत्वात्॥
1.कस्यचिदि
2.न परप्रति [ भाष्यम् ]
न चैकस्मिन् क्षणे 1स्वपरोभयावधारणं युक्तं, 2क्षणवादिनो यद्भवनं सैव क्रिया, तदेव च कारकमित्यभ्युपगमः ॥ २० ॥
स्यान्मतिः-स्वरसनिरुद्धं चित्तं चित्तान्तरेण समनन्तरेण गृह्यत इति--
[ सूत्रम् ]
चित्तान्तरदृश्ये बुद्धिबुद्धेरातिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥
[ भाष्यम् ]
अथ चित्तं चेच्चित्तान्तरेण गृह्येत, बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसंकरश्च, यावन्तो बुद्धिबुद्धी-
[ विवरणम् ]
अथोभयपरिच्छित्तरेकैवेति चेन्न, निरवयवत्वात् परिच्छित्तेः । न हि निरवयवायाश्चित्तवृत्तेः प्रदीपवदनेकावभासकत्वे युक्तम् । अवयवभेदात्तु प्रदीपस्यानेकप्रकाशकत्वं संभवति । न तु ज्ञानस्य सावयवत्वं परैरभ्युपेयते ॥
किं च, ज्ञानमेकमेकस्मिन् क्षणे उभयमवधारयतीति चाभ्युपगमे क्रियाकारकभेदप्रसङ्गः । यदुभयावधारणं सा क्रिया । यदवधारयति तत् कारकम् । न चैकस्मिन् क्षणे स्वपरोभयावधारणं क्षणवादिनो युक्तम् । कस्मात् ? उक्तं हि क्षणिकत्वसिद्धये यद्भवनम् उत्पत्तिः सैव क्रिया तदेव च कारकमित्यभ्युपगमः । क्रियाकारकभेदे च क्षणभङ्गभङ्गः स्यात् । कारकेण हि क्रियाक्षणमवस्थानीयम् ॥ २० ॥
स्यान्मतिः कस्यापि-स्वरससन्निरुद्धं चित्तं चित्तान्तेरण गृह्यते इति भावेन विनष्टं भङ्गुरतरं चित्तं चित्तान्तरेण समनन्तरेण संजायमानेन गृह्यत इति, अथापि नित्यावस्थितपुरुषपरिकल्पना निरर्थकैव । अत्रोच्यते— चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥
यदि चित्तं चित्तान्तरेण स्वरसनिरुद्धं पौरस्त्यं पाश्चात्येन जायमानेन समनन्तरेण गृह्येत , बुद्धिबुद्धिः घटविषया बुद्धिः बुद्धिरुच्यते, तद्विषया तु बुद्विबुद्धिः, सा केन गृह्यते व्यवस्थितग्राहकाभावात् । साऽप्यन्यया ग्रहीतव्या साऽप्यन्ययेत्यतिप्रसङ्गः ॥
1. स्वपररूपा
2. क्षणिक[ भाष्यम् ]
नामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्तिं । तत्संकराचैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र कञ्चन कल्पयन्तो न न्यायेन संगच्छन्ते । केचितु सत्त्वमात्रमपि परिकल्प्य, अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश्च प्रतिसंदधातीत्युक्त्वा, तत एव पुनस्रस्यन्ति ।
[ विवरणम् ]
न चागृहीतासु बुद्धिबुद्धिषु संव्यवहारो घटते स्मृतिसंस्कारानुपपत्तेः । तत्रैकजातीयानामेव घटबुद्धिबुद्धनां दाशतयी माला स्यादनवस्थिता, न घटबुद्धिः । परिसमाप्तौ च घटबुद्धिबुद्धीनां असत्यां कथं घटादिबुद्धिरुपतिष्ठेत ॥
अयं चापरो दोषः स्मृतिसंकरश्च् इति । बुद्धिबुद्धीनां तत्संस्काराणां चैकरूपत्वात् स्मृतिसंकरः प्राप्नोति । यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः संकीर्णाः प्राप्नुवन्ति । तत्सङ्करात् स्मृतिसङ्करात् स्मृत्यनवधारणं इयमस्या बुद्धेः स्मृतिरित्यनवधारयन्तः कथं व्यवहरेमहि । तथा च सरूपत्वात् स्मृतिसंकरः प्राप्नोति ॥
यावन्तो बुद्धिबुद्धीनां विदानाः स्वबुद्धिस्मृतिपूर्वव्यवहारासम्भवात् सर्वे संमोहेन सङ्गच्छेमहि । यदि चानवस्थापरिजिहासया क्वचित् बुद्धयन्तरे समवतिष्ठेमहि, तमेव बुद्धिप्रतिसंवेदिनं बुद्धिप्रतिसंवेदनलिङ्गेन स्पष्टतरमपि पुरुषमपलपद्भिर्वैनाशिकैराकुलीकृतं जगदिति ॥
ननु चालयविज्ञानकल्पनयाऽनवस्थादोषं परिहरेमहि । तथा चात्मकल्पनामपलपेमहीत्येवं ते भोक्तृस्वरूपं यत्र कचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते । तस्याप्यालयविज्ञानस्य ग्राह्मत्वादनवस्थितत्वाच्चाभिहितसकलदोषानुषङ्गः ॥
केचित् वैनाशिकविशेषाः सत्त्वमात्रमपि शब्दान्तरेण सत्त्वमात्रं भोक्तृस्वरूपं परिकल्प्य अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणान् निक्षिप्य परित्यज्य अन्यांश्च स्कन्धान् प्रतिसन्दधाति गृह्णाति इत्युक्त्वा तत एव भूतानागतस्कन्धप्रतिसन्धात्रेकसत्त्वपरि
कल्पनातः त्रस्यान्ति ॥[ भाष्यम् ]
तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्णुवते । साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति। २१ ॥ कथम्-- {{c|सूत्रम्
चितेरप्रतिसंक्रमायास्तदाकाराष्पत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥
[ भाष्यम् ]
अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपतन्ती' ॥
[ विवरणम् ]
तथा तेषामन्या विरुद्धकल्पना-स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरामीत्युक्त्वा पुनस्तमेवाभ्युगतं सत्वस्य सत्त्व(साध्यसाधनसम्बन्ध)मपह्णुवते । विज्ञानमात्रं क्षणिक शून्यं चेति आत्मानमपलपन्ति । (नमभिसन्दधीमहि । तदेवं) साङ्ख्ययोगादयस्तु प्रवादाः । स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमभ्युपयन्ति इति ॥ २१ ॥
कथं भोक्तारं स्वशब्देनैवाभ्युपयन्ति ? यतः चितेरप्रतिसंक्रमायास्तदाकारापतौ सत्यां स्वबुद्धिसंवेदनं भवति । चितिः चैतन्यं पुरुष इत्यर्थः । सा चापरिणामित्वात् अप्रतिसंक्रमा । तस्याः अप्रतिसंक्रमायाः अपि सत्याश्चितेः तदाकारापत्तिः । तदिति प्रकृतं चित्तं प्रत्याम्नायते तस्याकारापत्तिस्तदाकारापत्तिः । तस्याश्चितेस्तदाकारापत्तौ सत्यां स्वबुद्विसंवेदनं भवति । स्वस्य बौद्धस्य प्रत्ययस्योपलब्धिर्भवति । तदर्थमेव हि सा बुद्धिः शब्दादिप्रत्ययरूपेण परिणामते ॥
तदेतत् प्रतिपादयति(प्रतीत्य)-अपरिणामिनी हि भोक्तृशक्तिः दृक्शक्तिः यथाव्याख्याता । अप्रतिसंक्रमा च सती परिणामिन् भोयर्थे बौद्धप्रत्यये प्रतिसंक्रान्तेव प्रत्ययिविषयत्वात्त् तद्वृत्तिमनुपतन्तीवानुपतन्ती । बौद्धः प्रत्ययो जायमान एव तस्याः कर्मतामापद्यते । तं बौद्धं प्रत्ययं वृत्तिमनुपतन्त्युपलभमाना भोक्तृशक्तिः ॥
1. -तति ।
[ भाष्यम् ]
तस्याश्च प्राप्तचैतन्योपग्रहस्वरूपायां बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्तविशिष्टा हि 'ज्ञवृत्ति'रित्याख्यायते । तथा चोक्तम् --
" न पातालं नो विवरं गिरीणां
नैवान्धकारः कुक्षयो नोदधीनाम् । गुहा, यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिमविशिष्टां कवयो वेदयन्ते ॥" इति ॥ २२ ॥
अतश्चैतदभ्युपगम्यते --
[ सुत्रम् ]
द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥
[ विवरणम् ]
तस्याश्च प्राप्तचैतन्योपग्रह[स्व]रूपायाः प्राप्तं चैतन्येपग्रहरूपं पुरुषोपप्रहरूपं यया बुद्धिवृत्या समासादितपावकोपग्रहरूपतप्तलोहपिण्डवत् दृशिकर्मत्वादेव अनुकारमात्रतया, बुद्धिवृत्तिसारूप्यमात्रतया । बुद्धिवृत्यविशिष्टा ज्ञवृत्तिरिति । ज्ञ एवोपलब्धिरेव वृत्तिरिति आख्यायते ।। **वृत्तिसारूप्यमितरत्र' इति हि व्याख्यातम् । तथा “प्रत्ययाविशेषो भोगः' इति प्रख्यापितम् ॥
भोक्तृभोग्यभेदे च सति चित्ताकारापतिरूपपद्यते । न चासति व्यतिरिक्ते भोक्तरि चित्तस्यैव दृष्टृदृश्योभयाभासत्वमकस्मादुपकल्पते । तस्मात् सुष्टूच्यते-'साङ्ख्ययोगादय एव पुरुषं स्वशब्देनाभ्युपयन्ति' इति । अन्ये तु शब्दान्तरेणोपयन्तोऽपि तत एव बिभ्यति ॥
तथा चोक्तम्-बुद्धिवृत्यनुकारमात्रतया बुद्धावेव ज्ञवृतिरुपलभ्यते, नान्यत्रेति । न पातालं नो विवरं गिरीणां नैवान्धकारः कुक्षयो नोदधीनाम् , एवमादीनि न गुहा । यस्यां गुहायां निहितं ब्रह्म शाश्चतं सा गुहा, न पाताळादीनि । कस्यां पुनर्गुहायां निहितमित्याह-बुद्धावेव गुहायां वृत्तिम् आत्माख्यां ब्रह्माख्याम् अविशिष्टाम् अपृथग्भूतां बुद्धिवृत्यविशिष्टाम् वेदयन्ते विवेकिनः ॥ २२ ॥
1. ज्ञान 4.कारं 2. राख्या 5. यो. सू. 1-4.
3. न च 6. यो. स. 3-35.[ भाष्यम् ]
मनोऽभिमन्तव्येनार्थेनोपरक्तं, स्वयं च विषयत्वाद्विषयिणा पुरुषेणाऽऽत्मीयया वृत्याऽभिसंबद्धं, तदेतच्चित्तमेव द्रष्टृदृश्योपरक्तं विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्म'कमेिवाचेतनं चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते ॥ तदनेन " चित्तसारूप्येण भ्रान्ताः केचित् तदेव चेतनमित्याहुः ।
[ विवरणम् ]
कामात् पुनः कारणात् पुरुषस्य चेत्ताकारापत्तिः । तस्यां वा सत्यां स्वबुद्धिसंवेदनम् । कुतो वैनाशिकानां चित्तमेव ग्राह्यं ग्राहकं चेति भ्रान्तिरित्याह-दृष्टृदृश्योपरक्तं चित्तं सर्वार्थम् । द्रष्टा पुरुषो दृश्यं शब्दादि ताभ्याम् उपरक्तं चित्तं सर्वार्थं पुरुषस्य भोगापवर्गार्थं भवति ।मनोऽभिमन्तव्येनार्थेन अयस्कान्तमणिदेशीयेन विषयेण उपरक्तं स्वयं च विषयत्वात् पुरुषस्य विषयिणा पुरुषेण सन्निहितेन आत्मीयया वृत्त्या मानसेन प्रत्ययेन विषयतया अभिसम्बद्धम् ॥
तदेतच्चित्तम् आत्मवृत्तिद्वरेण पुरुषेण सम्बन्धाद्द्रष्टुः स्वरूपोपरक्तं शब्दादिना च मन्तव्येनोपरक्तमिति द्रष्टृदृश्योपरक्तं चित्तमेव न पुरुषः । द्रष्टृदृश्योपरक्तम् इत्यस्य व्याख्यानं करोति-विषयविषयिनिर्भासं चेतनाचेतनस्वरूपापन्नम् ॥
कथं पुनः स्वयमचेतनं सच्चेतनस्वरूपाप्न्नमिति ? नैष दोषः--पुरुषेण नित्यसन्निधानाच्चेतनमिव । तदेवाविवेकिभिश्चेतनमित्युच्यते । न तथा विषयाः । नित्यमचेतनात्मका हि ते । स्वतस्तु चित्तमचेतनमेवेति चेतनाचेतनस्वरूपापन्नं इत्युच्यते ॥
विषयात्मकमिव शब्दादिस्वरूपमात्रमिव चेत्यर्थः । अचेतनं चेतनामिव पुरुषस्वरूपापन्नमिव चेत्यर्थः । स्फटिकमणिकल्पं यथा स्फटिकमणिरलक्तकादिसन्निधौ तदाकारतां बिभर्ति, तथैव तत् सर्वार्थं चित्तम् उच्यते ॥
तस्मात् अनेन चित्तसारूप्येण भ्रान्ताः केचित् । एतत्तु चित्तसारूप्यं वैशेषिकाणां प्रमोहकारणम् । वैशेषिकादयस्तु चितसारूप्यमाहेन्द्रजालव्यामोहितचेतसः तदेव चित्तं चेतनभित्याहुः । कथम् ? यस्मान्मनःपुरुषसंयोगजं चैतन्ये गुणः उच्छेदनीय इति मन्यन्ते । वैनाशिकेभ्यस्त्वयं विशेषः-स्थिरमेकं धर्मिणमिच्छन्तीति ॥
1. मनो हि 2. तत्स्वयं 3. कमप्यविषयात्मकमि
[ भाष्यम् ]
अपरे चित्तमात्रमेवेदं सर्वं नास्ति खल्वयं गवादिर्घटादिश्च 'स्वाकारेण लोक इति । अनुकम्पनीयास्ते । कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चित्तमिति । समाधिप्रज्ञायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः °तस्यामालम्बनीभूतत्वादन्यः । स चेदर्थश्चित्तमात्रं स्यात्, कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । तस्मात् प्रतिबिम्बीभूतोऽर्थः प्रज्ञायां येनावधार्यते, स पुरुषः । इत्येवं ग्रहीतृग्रहणग्राह्यस्वरूपचित्तभेदात् त्रयमेप्यतञ्जातितः प्रविभजन्ते ते सम्यग्दर्शिनस्तैरधिगतः पुरुषः ॥ २३ ॥
[ विवरणमू ]
अपरे बौद्धाः चित्तमात्रमेवेदं सर्वम् , नास्ति गवादिर्घटादिश्च स्वाकारेण विशिष्टः सर्वेषां प्रत्ययस्य साधारणो लोकः इति स्वानुभवमप्यपलपन्ति । ते एवं भ्रान्ताः सुकुमारतरबुद्धयो वैनाशिका अनुकम्पनीयाः ॥
कस्मात् ? अस्ति हि तेषां भ्रान्तिबीजं सर्वरूपाकारनिर्भासं चितमिति । सनिमित्ता हि तेषां भ्रान्तिः न लोकायतिकानां शून्यवादिनामिव निर्बीजा । केवलजगद्वञ्चनार्थप्रवृत्तत्वात्तु नैतेष्वनुकम्पा कर्तव्या । तस्मायुक्तमुक्तं तेषां वराकाणां सबीजभ्रत्रान्तचेतसामनुकम्पनीयमिति ॥
के पुनरभ्रान्ता इत्याह -समाधिप्रज्ञायामिति । समाधिप्रज्ञाग्रहणमभ्रान्तचित्तग्रहणार्थम् । विक्षिप्तचेतसो हि भ्रान्ताः । समाधिप्रज्ञायाम् अभ्रान्तायां विशुद्धायां विवेकवत्यां प्रसन्नगम्भीरतरायां प्रज्ञेयोऽर्थः प्रतिबिम्बीभूतः निर्मलदर्पणमण्डल इव तस्यां समाधिप्रज्ञायां करणभूतायाम् आलम्बनीभूतत्वादन्यः प्रज्ञातः सकाशाज्जातिस्वरूपक्रियादिभिरन्यः॥
फलकम्:Gap'''स चेत् अन्यः चित्तमात्रं स्यात् कथं प्रज्ञयैव प्रज्ञारूपमवधार्येत । स्वात्मनि क्रियाविरोधात् न हि कथञ्चिदवधार्येत । तस्मात् प्रज्ञायाः अन्योऽसावर्थः सः, यस्याः प्रज्ञायां प्रतिबिम्बीभूतोऽर्थो येनावधार्यते सः तस्याः प्रज्ञाया आलम्बनीभूताच्चार्थादन्यः कर्तृकारकभूतः । स पुरुषः ॥
इत्येवं ये ग्रहीतृग्रहणग्राह्यस्वरूपभेदात् कर्तृकरणकर्मभेदोपपतेः, न हि निरवयवमेकमेवैकस्मिन् क्षणे वस्तु कर्तृ च कर्म च भवति, ततो ये त्रयमप्येतत् जातितः प्रविभजन्ते, ते सम्यग्दर्शिनः तैरधिगतः पुरुषः, प्राप्त इत्यर्थः । सामर्थ्यात्तु ज्ञात इति गम्यते ॥ २३ ॥
1. सकारणो 2. तस्याऽऽल
[ भाष्यम् ]
कुतश्च--
[ सूत्रम् ]
तदसङ्ख्येयवास'नाचित्रमपि परार्थं संहत्यकारित्वात ॥२४॥
[ भाष्यम् ]
तदेतचित्तमसङ्ख्येयामिर्वासनाभिरेव चित्रीकृतमपि परार्थं परस्य भोगापवर्गार्थं, न स्वार्थं संहत्यकारित्वाद्गृहवत् । संहत्यकारिणा चितेन न स्वार्थेन भवितव्यम्। न हि सुखचितं सुखार्थं, न ज्ञानचितं ज्ञानार्थं, उमयमप्येतत्परार्थम् । यश्च भोगेनापवर्गेण चार्थेनार्थवान् पुरुषः, स एव परो न परसामान्यमात्रम् ।
[ विवरणम् ]
कुतश्च अस्ति पुरुषश्चित्तव्यतिरिक्तः ? पूर्वं चित्तस्य दृश्यत्वेन व्यतिरिक्तपुरुषसिद्धिरापादिता । तस्यैव तु चित्तस्य संहत्यकारित्वेनाधुना स्वामिसिद्धयर्थमाह-तदसङ्ख्ययवासनाचित्रमपि परार्थं संहत्यकारित्वात् ॥
यद्यपि तदेव चित्तमसंख्येयाभिर्वासनाभिः अनादिसमयाभिः चित्रीकृतं भ्रान्तकारणमुक्तं, तथापि परार्थं परस्य भोगार्थमेवेति प्रतिज्ञायते । संहत्यकारित्वात् कार्यकरणविषयादिव्यापारापेक्षमर्थसाधकत्वात् सैहत्यकारित्वम्, अतः संहत्यकारित्वात् गृहादिवत् इति पारार्थ्यं चित्तस्य । न हि किंचन लोके संहत्यकारि दृष्टं स्वार्थम् ॥
तस्मात् संहत्यकारिणी,चितेन न स्वार्थेन भवितव्यम् । न हि सुखचितं, सुखार्थं सुखचितार्थ वा । नापि ज्ञानचित्तं ज्ञानार्थं वा ज्ञानचितार्थं वा। कि तहिं? सुखचित्तं ज्ञानचित्तमपि एतदुभयं परार्थम् ॥
यश्च भोगेन सुखचित्तेन ज्ञानचित्तेन च अपवर्गेणार्थेनार्थवान् पुरुषः स एव परः । न परसामान्यमात्रं शरीरमिन्द्रियाणि विषया वा । नहि वैनाशिकः सुखचित्तं शरीरेन्द्रियविषयार्थमिच्छति । तथा चेच्छन्नभ्युपगतं विरुन्धीत । विज्ञानस्यैव हि सुखापवर्गाभ्यामर्थित्वमभिमन्यते । तस्मात् य एव शरीरेन्द्रियविषयव्यतिरिक्तः पुरुषो भोगापवर्गाभ्यामर्थवानन्यो विज्ञानादभ्युपगमनीयः ॥
1. नाभिश्चि 2. शार्न यदि यत्किंचित् परसामान्यमात्रम् उदाहरेद्वैनाशिकः, यदि तु वैनाशिकः संहत्यकारिणां गृहादीनां देवदत्तादिसंहतपरार्थत्वमिति व्यामोहादभिमन्यमानः कंचन विशिष्टं न परमिच्छेत्, एवं चेन्मन्वीत, स इदं वक्तव्यः--यः परः शरीरेन्द्रियविषयप्रत्ययानां सामान्यम्, उत सर्वे एवेति, किमेषामन्यतमः, किं वा कश्विदेवैतेभ्यो भिन्नजातीय इति ॥
न तावत् सामान्यम् । न हि भोगापवर्गार्थेनार्थि सामान्यवस्तु वैनाशिकोऽभ्युपैति, स्वसमयविरोधात्। नापि शरीरादीनि समस्तानि भोगापवर्गाभ्यामर्थीनीति वाञ्छति । विज्ञानसन्ततेरेव भोगापवर्गार्थित्वाभिमानात् ॥
न चापि ज्ञानसन्ततिरित्येकं वस्तु(सन्ततेः क्षणिकत्वम् !) न चापि सन्तानस्यावस्तुतया शशविषाणकल्पस्य भोगापवर्गाभ्यामर्थित्वम् । नापि शरीरेन्द्रियादीनामन्यतमत्वमिच्छति । विज्ञानव्यतिरितानाम् आत्मयसमये भोगापवर्गार्थित्वानभ्युपगमात् ॥
नापि शरीरेन्द्रियाणां सङ्घातो नाम वस्तुतो भवतो विद्यते, येन चित्तं संहतपरार्थं प्रार्थयेथाः । अवस्तुनो हि कथमर्थित्वम् । नापि शरिरेन्द्रियादिभ्योऽन्य संहतभिन्नजातीर्य प्रतिजानीषे । यदि भिन्नजातीयं भोगापवर्गाभ्यामर्थवन्तमदृष्टं परिकल्पयेथाः, स एवास्माभिरुक्तः पर इति । तस्य च संहृतत्वे परत्वं दृष्टानात्मवन्नोपकल्पते । परिशेषात्तु असंहतो भोगापवर्गाभ्यामर्थी पर इति ॥
[ भाष्यम् ]
यतु किंचित्परसामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकः'स सर्वः संहत्यकारित्वात् परार्थ एव स्यात् , यस्त्वसौ परो विशेषः स नं संहत्यकारी पुरुष इति ॥ २४ ॥
[ सूत्रमू ]
विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥
[ भाष्यम् ]
यथा प्रावृषि तृणाङ्कुरस्योद्धेदेन तद्वीजसत्ताऽनुमीयते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्त्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते । तस्याऽऽत्मभावभावना [
[ विवरणम् ]
तस्मादुच्यते---यत्किंचित् परसामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकः स सर्वः संहत्यकारित्वात् परार्थ एव स्यात् । न देवदत्तार्दिसंहतार्थत्वम् । उभाभ्यामावाभ्यामनभ्युपगमात् । त्वमपि विज्ञानव्यतिरेकेण नान्यमभ्युपैषि । वयमपि पुरुषव्यतिरेकेण नान्यार्थत्वमभिवाञ्छामः । विज्ञानमात्रत्वं च नोपपद्यत इत्युक्तम् । अतो यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुषः स्वार्थ इति सिद्धः । तस्मादस्ति भोक्ता तस्य स्वार्थस्य स्वेन दृश्येन परार्थेन यन्निमित्तः संयोगः । तद्वियोगात् कैवल्यमुपकल्पते ॥ २४ ॥
गुणपुरुषयोगास्याविद्या निमित्तमुत्तम् । सा च विशेषदर्शिन आत्मानं विजिज्ञासमानस्य विनिवर्तते । तन्निवृत्तौ च लिङ्गमाह-विशेषदर्शिन आत्मभावभावनानिवृत्तिः । व्यक्ताव्यक्तसामान्याद्विशिष्टः पुरुषः असाधारणो विशेषः । तं विशेषं व्यक्ताव्यक्तसामान्यात् प्रविविच्य द्रष्टुं शीलं यस्य स विशेषदशीं । तस्य आत्मभावभावना निवर्तते । सा च सम्यग्दर्शनाभिमुखा ॥ कैवल्यप्रापिकर्मनिमित्ता ॥
कथं पुनरात्मभावभावना अस्यास्तीति विज्ञायत इत्याह-यथा प्रावृषि तृणस्याङ्कुरोद्भेदेन लिङ्गेन तद्वीजसद्भावोऽनुमीय(गम्य)ते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमिति रोमहर्षाश्रुपातादिलिङ्गेन अनुमीयते ॥
1. तत्सर्वं 2. -मेव कैवल्यपादः चतुर्थः ३६१
(भाष्यम्) स्वाभाविकी प्रवर्तते । "तस्याभावादिदमुक्तंं ‘स्वभावदोषादेषां
पूर्वपक्षे रुचिर्भवत्यरुचिश्व निर्णये भवति । तत्राऽऽत्मभावभावना ‘कोऽहमासं कथमहमास किंस्विदिदं कर्थस्विदिद के भविष्यामः कथं वा भविष्यामः' इति । सा तु विशेषदर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामाविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । *तस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥
| सूत्रम् }
- तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ।।
[ भाष्यम्] तदानीं यदस्य चित्तं *अज्ञानप्राग्भारं *विषयनिम्नमासीत्तदस्यान्यथा भवति कैवल्यप्राग्भारं विवेक °निम्नमिति ॥ २६ ॥ [ विवरणम् ] तस्य विशेषदर्शिन: आत्मभावभावना कैवल्यभागीयकर्मनिमित्ता स्वाभाविकी जन्मान्तरकर्मनिमित्ता इहजन्मापरिग्रहस्थैर्यकारणा वा । सा ह्याचार्योपदेशानपेक्षा स्वाभाविकी प्रवर्तते। तस्य कर्मणस्तादृशस्य अभावात् इदमुक्तम्- स्वभावदोषात् अशुद्धकर्मयोगातू एषां पूर्वपक्षे सम्यग्दर्शनतदुपायविपर्यये रुचिर्भवति, अरुचिश्व निर्णये सम्यग्दर्शने ॥
तत्रात्मभावभावना का पुनरित्याह---कोऽहमासं, कथमहमासं, किंस्विादद, कथंस्विदिदं, के भविष्याम:, कर्थ भविष्यामः, इति। सा तु विशेषदर्शिनो निवर्तते । यद्विषया हि जिज्ञासा, तस्मिन्नधिगते तद्विषया जिज्ञासा विनिवर्तते । कुतः एतदवम् ? यतः चित्तस्यैवैषः के भविष्यामं इत्यादिः चित्रः परिणामः न पुरुषस्य । पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । यस्मादेवमत एवं विशेषदर्शनः तस्यात्मभावभावना कुशलस्य निवर्तते ॥ २५॥ यदा च विशेषदर्शनमुदपादि, तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।यदस्य चित्तं विषयनिग्नं विषयप्रवणम् अज्ञानप्राग्भारम् अज्ञाननिष्ठं संसाराभिमुखम् आसीत् , तदस्य विशेषदर्शिनः तदानीमन्यथा भवति, कैवल्यप्राग्भारं विवेकनिम्नम् इति प्रतिस्रोतोवृत्तिर्ज्ञायते ॥ २६ ॥ 1- यस्या- 4. विषय 2. स्वभावं मुक्त्वा दोषाचेषां 5. अज्ञान 3. ततोऽस्याऽऽ 6. विवेकजज्ञान 46 3 R पातञ्जलयोगसूत्रभाष्यविवरणे [ सूत्रम् ]
तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥
[ भाष्यम् ] 'विवेकनिम्नस्य सत्त्वपुरुषान्यताख्याति प्रवाहाधेिरोहिणश्चित्तस्य तच्छिद्वेषु प्रत्ययान्तराण्यस्मीति वा ममेति' वा । कुतः ? क्षीयमाणबीजस्य' पूर्वसंस्कारेभ्य इति ॥ २७ ॥ [ सूत्रम ] * हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ [ भाष्यम् ] यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति, तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति । ज्ञानसंस्कारास्तु चित्ताधिकारसमाप्तिमनु शेरत इति न चिन्त्यन्ते ॥ २८ ॥ { विवरणम् ]
तच्छिद्वेषु प्रत्ययान्तराणि संस्कारेभ्यः । विवेकनिम्नस्य उत्तरोत्तरविवेकप्रवणचेतसः पुरुषस्य ज्ञानिनः अन्यताख्यातिप्रवाहाधिरोहिणः सत्त्वपुरुषान्यतास्रोतःप्लाविनः चित्तस्य तच्छिद्वेषु विवेकप्रत्ययप्रवाहान्तरालेषु प्रत्ययान्तराणि विपर्ययलक्षणानि अस्मीति वा ममेति वा । कुतः तानि
भवन्तीत्याह--क्षीयमाणक्लेशादिबीजस्य चित्तस्य पूर्वेपचितविपरीतसंस्कारेभ्यः प्रत्ययान्तराणि जायन्ते ॥ २७ । हानमेषां क्लेशवदुक्तम्। यथा क्लेशा दग्धबीजभावा न प्ररोहसमर्था भवन्ति इति *° ते प्रतिप्रसवहेयाः सूक्ष्माः इत्यत्रोक्तम्, एवं ज्ञानाग्निदग्धबीजभावा: अस्मि ममेत्यादिप्रत्ययसंस्कारा न प्ररोहसमर्था भवन्ति । दग्धशालिबीजवत् पूर्वसंस्कारो न प्रत्ययप्रसूर्भवतीत्यर्थः ॥ ज्ञानसंस्कारास्तु कथमप्रतिपक्षाः सन्तश्चित्तमधिकारे न(विज)योजयिष्यन्तीति ? ते तु सम्यग्दर्शनसंस्काराश्चिताधिकारपरिसमाप्तिमनुशेरते । सहैवाश्रयेणावसितप्रयोजनेन चित्तेन प्रलीयन्ते । न पुनश्चित्तमधिकारप्रवणं कुर्वन्ति । अधिकारहेतोरविद्यायाः प्रतिपक्षत्वाज्ज्ञानस्य । तत्र निष्फलत्वात् न चिन्त्यन्ते ! न हि स्वयं पततः पतनहेतुरन्वेषणीयः ॥ २८ ॥
1. प्रत्ययविवेक 4. बीजेभ्यः 2. मात्रप्रंवाहिणः 5. यो. सू. 2-10. 3. वा जानामीति वा न जानामीति वा ।कैवल्यपादः चतुर्थः
[ सूत्रम् ]
प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ॥ २९ ॥
[ भाष्यम् ]
यदाऽयं ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदस्ततोऽपि न किंचित् प्रार्थयते। तत्रपि विरक्तः१ सर्वथाविवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नास्य प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो, नाम समाधिर्भवति ॥ २९ ॥
[ सूत्रम् ]
ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥
[ भाष्यम् ]
तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति ।
[ विवरणम् ]
विवेकख्यातिप्रवणान्तःकरणस्य ब्राह्मणस्य प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः । स यदा अयं ब्राह्मणः प्रसंख्याने विवेकदर्शनशीलितेऽप्यकुसीदः अवृद्धिको भवति, ततोऽपि प्रसंख्यानप्रसादविशेषादधिकं न किंचित् प्रार्थयते । अपिशब्दात् प्रसंख्यानेऽपि न प्रार्थना तत्रापि प्रसंख्याने विरक्तः। सर्वथा सर्वेण प्रकारेण विवेकख्यातिर्यस्य स सर्वथाविवेकख्यातिरेव भवति ॥
क्लेशसंस्कारबीजक्षयात् नास्य शरीरादौ शून्यवेश्मनीव अस्मि ममेति वा ज्ञानप्रसादमात्रैकायतनस्य प्रत्ययान्तराण्युत्पद्यन्ते । तदाऽस्य ब्राह्मणस्य सर्वथाविवेकख्याते: धर्ममेघो नाम समाधिर्भवति । कैवल्याख्यं परं धर्मं वर्षतीति धर्ममेघः इति संज्ञा ॥ २९ ॥
ततः क्लेशकर्मनिवृत्तिः । तस्य धर्ममेघनाम्नः समाधेः सम्यग्दर्शनपाकाभिरूपस्य [ लाभात् ] भावात् अविद्यादयः क्लेशाः समूलकाषं कषिताः वासनाभिः सह समस्ताः प्रलीनाः भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । मूलैः क्लेशैः सहोच्छिन्ना भवन्ति ॥
१. क्तस्य ३६४ पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ] क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित् केनचित्क्वचिञ्जातो दृश्यत इति ॥ ३० ॥ [ सूत्रम् ] तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम्॥ ३१ ॥ [ भाष्यम् ] सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्याऽऽनन्त्यं भवति । आवरकेण तमसाऽभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थं भवति । तत्र यदा सर्वैरावरणमलैरपगतं भवति, तदा भवत्यस्याऽऽनन्त्यम् । ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पं संपद्यते । यथाऽऽकाशे खद्योतः । [विवरणम् ] {{gap}}क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् मुक्तो भवति । कस्मात् एवम् ? यतो विपर्ययः मिथ्याज्ञानं भवस्य जन्मनः कारणम् । न हि क्षीणविपर्येयः कश्चित् क्कचिञ्जातो दृश्यते ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्यात् ज्ञेयमल्पम् । तदा धर्ममेघसमाधिसमये, सर्वैः क्लेशकर्मावरणैः रजस्तमोजन्मभिः विमुक्तस्य, ज्ञानस्य सत्त्वपुरुषान्यताख्यातिमात्रस्य भवत्यानन्त्यम्। तत् कथमिति ? तमसा(न)sभिभूतमनन्तं ज्ञानसत्त्वं, तस्य तिरस्कृतरजोमलस्यानन्तस्य निस्तरङ्गमहोदधिदेशीयस्य निरहितस्याविक्रियस्य कथं तद्ग्रहणसामर्थ्यमित्याह-क्वचिद्रजसा प्रवर्तितं चित्तसत्त्वम् उद्घाटितं वायुनेव महापयोदमण्डलमाह्रतं सूचितं ग्रहणसमर्थं भवति । स्वतः सत्त्वस्याप्रवर्तनात् रजसो हि प्रवृत्तिसामर्थ्यमिति ॥ तदाऽस्य चित्तस्य भवत्यानन्त्यम्, अशेषज्ञेयविषयत्वमम्बरतलमध्यवर्तिनो जलधरनरोधनिर्गतस्य रवेरिव । तस्य ज्ञानस्यानन्त्यात् अशेषविषयत्वात् ज्ञेयमल्पं सम्पद्यते । यथा आकाशे खद्योत: इति । यथा आकाशापेक्षया खद्योतो न किंचिदेवमेतज्ज्ञानाभिसमीक्षया ज्ञेय न किंचिदिति । ३६६ पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ] क्षणानन्तर्यात्मा परिणामस्यापरान्तेनावसानेन निगृह्यते१ क्रमः । न ह्यननुभूतक्रमा२ पुराणता वस्त्रस्यान्ते भवति । नित्येषु च क्रमो दृष्टः ॥ द्वयी चेयं नित्यता कूटस्थनित्यता परिणामनित्यता च । तत्र कूटस्थनित्यता पुरुषस्य । परिणामनित्यता गुणानाम् । यस्मिन् परिणममाने तत्त्वं न विहन्यते तन्नित्यम् । उभयत्र३ च ४तत्त्वस्याविघातान्नित्यत्वम् । [ विवरणम् ] क्षणानन्तर्यात्मा क्षणस्यानन्तरता क्षणानन्तर्यं तदात्मा तत्स्वभावः । क्षणानन्तर्यमेव '५क्षणतत्क्रमयोः' इति व्याख्यातम् ॥ किं पुनरस्य ग्रहणे लिङ्गमित्याह—परिणामस्यापरान्तेन विनाशावस्थारूपेण अवसानेन लिङ्गेन निगृह्यते सः क्रमः । कथमपरान्तेन निर्ग्रहणमिति ? उच्यते--न ह्यननुभूतक्रमा क्रममनवलम्बमाना क्षणे क्षणे पुराणता वस्त्रस्यान्ते विनाशकाले भवति इति । न हि कदाचिद्भूतमात्रस्यैव वस्त्रस्य पुराणता दृश्यते । तस्मात् पुराणताभिव्यक्तिलिङ्गेनाभ्यूह्मते--येनेयं पुराणता वस्रस्याभिव्यक्तिमुपसंप्रापिता स क्रमः ॥ तत्र यदि लब्धावसानत्वमलब्धावसानत्वं च क्रमस्य स्यात्, ततो युक्तं कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानाम् इति वक्तुम् । तच्च लब्धलब्धावसानत्वं क्रमस्य नित्यानित्यत्वे घटते । तत्रानित्येषु वस्त्रादिषु क्रमो दृष्ट:, न तु नित्येषु । ततश्च गुणानां नित्यानां परिणामक्रमपरिसमाप्तिरयुक्ता स्यादित्याशङ्कमान आह-नित्येषु च क्रमो दृष्टः । किं सर्वत्र ? नेत्याह-द्विविघेयं नित्यता, परिणामनित्यता गुणानां, कूटस्थनित्यता पुरुषस्येति || ननु परिणामिनां गुणानां कथं नित्यता स्यादिति ब्रवीति---यस्मिन् परिणममाने तत्त्वं न विहन्यते । यस्य यद्रूपं प्रमाणेनोपलब्धं, तस्य तत् तत्त्वम्। तद्यस्मिन् न विहन्यते न व्यभिचरति, तदपि नित्यम् । गुणानामपि सुखदु:खमोहात्मता प्रकाशक्रियास्थितिशीलता च तत्वं न विहन्यते । तस्मादेतेsपि परिणामनित्याः । उभयत्र च गुणपुरुषेषु तत्त्वस्याविघातान्नित्यत्वम् । ततो गुणेष्वपि नित्येषु परिणामो दृष्ट इति लब्धलब्धपर्यवसान्त्वं स्थितम् । १. गृह्यते ४. तस्वानभि २. मक्षणा ५. यो. सू. 3-52. ३. स्य च कैवल्यपादः चतुर्थः ३६७ [ भाष्यम् ] तत्र गुणधर्मेषु १महदादिषु परिणामापरान्तनिर्ग्राह्मः क्रमो लब्धपर्यवसानो नित्येषु धर्मिषु गुणेष्वलब्धपर्यवसानः । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयत इति तत्राप्यलब्धपर्यवसानः शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पित इति ॥ अथाऽस्य संसारस्य स्थित्या गत्या च गुणेषु वर्तमानस्यास्ति क्रमसमाप्तिर्न वेति ? । अवचनीयमेतत् । कथम् ? अस्ति प्रश्न एकान्तवचनीयः सर्वो जातो मरिष्यतीति । ॐ भो इति ॥ अथ सर्वो मृत्वा जनिष्यत इति ? विभज्यवचनीयमेतत् । प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरस्तु जनिष्यते । तथा, [ विवरणम् ] तत्र गुणधर्मेषु महदादिषु परिणामापरान्तनिर्ग्राह्यः क्रमो लब्धपर्यवसानः शरीरादिष्विव । नित्येषु तु गुणेषु धर्मिष्वलब्धपर्यवसानः नित्यत्वादेषाम् । कूटस्थनित्येषु स्वरूपमात्रप्रतिष्ठेषु मुक्तपुरुषेषु स्वरूपास्तिता क्रमेणैवानुभूयते । तेन मुक्तपुरुषेष्वसन्नप्यनुभवद्वारेण, शब्दपृष्ठेनास्तिक्रियामुपादाय विकल्पितः इति अलब्धपर्यवसान एव । परमार्थतः पुरुषेष्वपरिणामित्वान्नास्ति क्रम इत्यर्थः ॥ अथास्य संसारस्य स्थित्या प्रधानरूपेण, गत्या विकारात्मना, द्वयं च गुणात्मकमिति गुणेषु च वर्तमानस्य अस्ति क्रमपरिसमाप्तिः न वेति ? अवचनीयमेतत् । अस्त्येवेत्यवधारणं न शक्यं कर्तुम् । नापि नास्त्येवेति । किं तु विभज्य, कस्यचिदस्ति कस्यापि नास्तीति वचनीयमेव ॥ कथम् ? अस्ति प्रश्न एकान्तवचनीयः अप्रविभज्यापि । यथा सर्वो जातो मरिष्यति अज्ञानी इति । ननु ज्ञानवानपि मरिष्यत्येव । उच्यते- अज्ञस्य हि मरणमित्यभिमानः, न ज्ञानिनः । तथा चोक्तम्-'मिथ्यैतदाहुर्म्रियतीति मूढाः' इति ॥ अथ सर्वो मृत्वा जनिष्यत इति ? विभज्य वचनीयमेतत् एकान्तानुपपत्तेः । कथम् ? प्रत्युदितख्यातिः क्षीणतृष्णः कुशलो न जनिष्यते, इतरः अज्ञः जनिष्यते ॥ १. बुद्ध्या पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम ] मनुष्यजातिः श्रेयसी न वा श्रेयसीत्येवं परिपृष्टे, विभज्य वचनीयः प्रश्नः - पशूनधिकृत्य श्रेयसी, देवानृषींश्चाधिकृत्य नेति । अयं त्ववचनीयः प्रश्नः - संसारोऽयमन्तवानथानन्तः ? इति । कुशलस्यास्ति संसार१ चक्रसमाप्तिर्नेतरस्येति अन्यतरावधारणे दोषः ।तस्मा२ दव्याकरणीय एवायं प्रश्नः इति ॥ ३३ ॥ गुणाधिकार३परिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते [ सूत्रम् ] पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ ॥ इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ॥ [ विवरणम् ] तथा मनुष्यजातिः श्रेयसी एव नैव वेत्यवचनीयः प्रश्नः । प्रविभज्य तु वचनीय एव । कथम् ? पशूनुद्दिश्य श्रेयसी भवति । देवानृषीश्चाधिकृत्य न श्रेयसी भवति ॥ अयं त्ववचनीय एव अप्रविभज्य सामान्येन प्रश्नः - यथा संसारोऽयमन्तवानेवेति अनन्त एवेति वा । बन्धमोक्षानुपपत्तेः । प्रविभज्य तु वचनीय एव । यथा कुशलस्यास्ति संसारचक्रपरिसमाप्तिर्नेतरस्येति । अन्यतरावधारणे दोषः । संसारोऽन्तवानेवानन्त एवेति वान्यतरावधारणे दोषः । तस्मादव्याकरणीय एवायं सामान्येनाप्रविभज्य प्रश्नः, यथा-सर्वो मृत्वा जनिष्यते इति, एवं मनुष्यजातिः श्रेयस्येवेति च । तस्मात् सुष्ठूक्तं कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानामिति विशेषणम् ॥ ३३ ॥ गुणाधिकारपरिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते । कैवल्यं प्रति विप्रतिपत्तेः। केषांचिद्विज्ञानसन्तानस्यात्यन्तोपरामः कैवल्यम् । केषांचित्तु नवानामात्मगुणानां बुद्धीच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्मसंस्काराणामुच्छेदेनाचेतनस्य द्रव्यमात्रस्य पुरुषस्यावस्थानम्। केषांचिदीश्वरसायुज्यम् । केषांचित् सर्वज्ञत्वादीश्वरतुल्यधर्मत्वप्राप्तिः कैवल्यमिति भिन्ना मतिः ॥ १. क्रमस- २. द्वयाक ३. क्रमस कैवल्यपादः चतुर्थः ३६९ [ भाष्यम् ] कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकरणात्मकानां गुणानां तत् कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभि१संबन्धिनी पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यम् ओमिति ॥ ३४ ॥ इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते ॥ चतुर्थः कैवल्यपादः ॥ [ विवरणम् ] इहापि विप्रतिपत्तिप्रणोदाय कैवल्यस्वरूपमवधार्यते-पुरुषार्थशून्यानां गुणानां यः प्रतिप्रसवः प्रतिसंसर्गः स्वकारणे प्रत्यस्तमय इत्यर्थः, कार्यकरणात्मकतया परिणतानाम्, तत् कैवल्यं पुरुषस्य केवलत्वं गुणैरमिश्रीभाव इत्यर्थः ॥ स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । बुद्धिसत्त्वानभिसंबन्धिनी या पुरुषस्य चितिशक्तिः अमिश्रा केवला तस्याः सदा । तथैव अवस्थानं केवलायाः भावः कैवल्यम् ॥ ननु कैवल्यस्यैकत्वे कथं विकल्पः ? क्रियायां हि विकल्पो न तु वस्तुनि | वस्तुस्वरूपस्य भेदानुपपत्तेः । कैवल्यमपि वस्तु, कथं तद्विकल्प्यत इति । नैष दोषः । निमित्तनैमित्तिकयोः प्रभेदोपपत्तेः । निमित्तनैमित्तिकभेदोपचरितोऽपि विकल्पो न वस्तुस्वरूपभेदकृतः । या तु गुणानां परिणामिता पुरुषस्य विमिश्रता वृतिसरूपता, सा कार्यकरणात्मकानां पुरुषार्थशून्यानां गुणानां प्रतिसंसर्गान्निमित्तादपगच्छतीति निमित्तमेव प्रतिप्रसवाख्यं कैवल्यशब्देनोपचरितं पूर्वम् ॥ द्वितीयं तु गुणप्रतिप्रसवनिमित्तभावि यत् स्वरूपावस्थानं पुरुषस्य गुणैरमिश्रिततया, तत् कैवल्यमिति विशेषः । गुणपुरुषान्तरस्वरूपतत्त्वनिर्धारणेन तन्त्रान्तरीयतत्वस्वरूपनिराकरणेन च कैवल्यान्तराणि निवेदितव्यानि ॥ तत्रोङ्कारो मङ्गलार्थः प्रयुक्तः परमेश्वरनामाङ्कितमस्तकतया तन्त्रप्रचयार्थं शान्त्यर्थं वा वेदारण्यकवदिति ओम् इति ॥ १. संबन्धात्पु- 47 ३૭૦ पातञ्जलयोगसूत्रभाष्यविवरणे ओङ्कारो यस्य वक्ता समचरत फलैः कर्म यस्मादशेषं निष्कर्मक्लेशपाको घटयति सकलं यः फलेन क्रियाणाम् । ईशानामीश्वरो यः स्थितिभवनिधनप्रक्रियाणां विधाता ध्यायन्नः शुक्लिमानं व्यपनुदतु तरां कृष्णिमानं स कृष्णः ॥ यात्राकृतस्त्रिजगतां यदचिन्त्यशक्ति लेशान् दशाहुरेह मीनमुखावतारान् । क्लेशोद्भवत्रिविधतापपरम्परार्ता: तं नागनाथशयनं शरणं व्रजामः ॥ फणरत्नौधाविद्योति [ पृथिवी ] धुनभोदिशे । योगीन्द्राय फणीन्द्रय तत्पतञ्जलये नमः ॥ योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ स जयति पतञ्जलिमुनिः येन श्रेयोऽर्थिसार्थसस्यानाम् । विहितो हर्षस्तापत्रितयहृता धर्ममेघेन ॥ यस्ततान भवमार्गलङ्घिनां क्लेशकर्ममयधर्मनुत्तये । धर्ममेघमुखयोगतोयदम् [तं पतञ्जलिमृर्षि प्रणतोऽस्मि] ॥ १वदनाहितपूर्णचन्द्रकं गुरुमीशानमभूतिभूषणम् । प्रणमाम्यमुजङ्गसङ्ग्रहं भगवत्पादमपूर्वशङ्करम् ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतौ पातञ्जलयोगसूत्र(शास्त्र)भाष्यविवरणे चतुर्थः कैवल्यपादः ॥ ॥ समाप्तं चेदं विवरणम् ॥ 1. अयं कस्यचित् भगवत्पादशिष्यस्य गुरुप्रणामरूपः श्लोकः अन्ते निवेशितः लेखकेन । अथवा शिष्यप्रार्थनया तत्प्रीत्यर्थे भगवत्पादैरेव शिप्यकृतस्वस्तुतिरूपोऽयं श्लोकः ग्रन्थान्ते निबद्धः स्यात् । यथा भामत्यां मिश्रशिष्यस्य सनातननानाम्नः कृते: मिश्रस्तुतिरूपपद्यस्य ग्रन्थे निवेश इति, वेदान्तकल्पतरौ चतुर्थाध्यायारम्भे "आाचार्यस्य शिष्यः सनातननामा, तत्कृतां स्तुतिं तत्प्रीत्यर्थे प्रबन्धमधिरोपयति-'शङ्के' इति |" इति वाक्येनोक्तम् । श्रीवैष्णवग्रन्थेषु ग्रन्थोपक्रम एव ईदृशी रीतिः बहुलं दरीदृश्यते । तदवलोकिनां नैतद्विस्मयकरम्-कथं स्वस्यैव स्वेनैव स्तुतिः क्रियेत ? इति ॥ |