पादुकाष्टकम्
अज्ञातः
१९५३

॥ पादुकाष्टकम् ॥

श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरं भेदवर्जितमप्रमेयमनन्तमुझ्झितकल्मषम् । निर्मलं निगमान्तमद्भुतमप्यतर्क्यमनुत्तमं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १ नादबिन्दुकलात्मकं दशनादवेदविनोदितं मन्त्रराजपराजितं निजमण्डलान्तरभासितम् । पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २ हन्तचारुमखण्डनादमनेकवर्णमरूपकं शब्दजालमयं चराचरजन्तुदेहनिरासिनम् । चक्रराजमनाहतोद्भवंमेघवर्णमतत्परं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३ बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं निश्चयं निरतप्रकाशमनेकसद्रुचिरूपकम् । पादुकाष्टकम् ५२३

पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४ पञ्च पञ्च हृषीकदेहमनश्चतुष्क परस्परं पञ्चभूतनिकामषट्कसमीरशब्दमभीकरम् । पञ्चकोशगुणत्रयादिसमस्तधर्मविलक्षणं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ५ पञ्चमुद्रसुलक्ष्यदर्शनभावमात्रनिरूपणं विद्युदादिदगद्धगितविनोदकान्ति विवर्तनम् । चिन्मयत्रयवर्तिनं सदसद्विवेकममायिकं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ६ पञ्चवर्णशुकं समस्तरुचिर्विचित्रविचारिणं चन्द्रसूर्यचिदग्निमण्डलमण्डितं घनचिन्मयम् । चित्कलापरिपूर्णमण्डलचित्समाधिनिरीक्षितं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ७ स्थूलसूक्ष्मसकारणान्तरखेलनं परिपालनं विश्वतैजसप्राज्ञचेतसमन्तरात्मनिजस्थितिम् । ५२४ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सर्वकारणमीश्वरं निटलान्तरालविहारिणं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ८ तप्तकाश्चनदीप्यमान महानुरूपमरूपकं चन्द्रकान्तरतारकैरवमुज्जवलं परमं पदम् । नीलनीरदमध्यमस्थितविद्युदाभविभासितं प्रातरेव हिमानसे गुरुपादुकाद्वयमाश्रये ॥ ९

॥ इति पादुकाष्टकम् ॥

"https://sa.wikisource.org/w/index.php?title=पादुकाष्टकम्&oldid=320255" इत्यस्माद् प्रतिप्राप्तम्