पाराशरगीता ८
२८६
[पराज़र]
पिता सुखायो गुरवः स्त्रियश् च न निर्गुणा नाम भवन्ति लोके।
अनन्यभक्ताः प्रियवादिनश् च हिताश्च वश्याश्च तथैव राजन्॥१॥
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति।
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति॥२॥
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते।
प्रयाति लोकानमरैः सुदुर्लभान् निषेवते स्वर्गफलं यथासुखम्॥३॥
श्रान्तं भीतं भ्रष्ट शस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम्।
अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन्॥४॥
परिबर्हैः सुसम्पन्नमुद्यतं तुल्यतां गतम्।
अतिक्रमेत नृपतिः सङ्ग्रामे क्षत्रियात्मजम्॥५॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः।
निहीनात्कातराच्चैव नृपाणां गर्हितो वधः॥६॥
पापात्पापसमाचारान्निहीनाच्च नराधिप।
पाप एव वधः प्रोक्तो नरकायेति निश्चयः॥७॥
न कश्चित्त्राति वै राजन्दिष्टान्त वशमागतम्।
सावशेषायुषं चापि कश्चिदेवापकर्षति॥८॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्।
हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा॥९॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षिताम्।
निधनं शोभनं तात पुलिनेषु क्रियावताम्॥१०॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति।
नाकारणात्तद्भवति कारणैरुपपादितम्॥११॥
तथा शरीरं भवति देहाद्येनोपपादितम्।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्॥१२॥
द्वितीयं कारणं तत्र नान्यत्किं चन विद्यते।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते॥१३॥
सिरा स्नाय्वस्थि सङ्घातं बीभत्सा मेध्य सङ्कुलम्।
भूतानामिन्द्रियाणां च गुणानां च समागतम्॥१४॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः।
पुनैरपि परिक्षीणं शरीरं मर्त्यतां गतम्॥१५॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्।
भूतैः प्रकृतमापन्नैस्ततो भूमौ निमज्जति॥१६॥
भावितं कर्मयोगेन जायते तत्र तत्र ह।
इदं शरीरं वैदेह म्रियते यत्र तत्र ह।
तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा॥१७॥
न जायते तु नृपते कं चित्कालमयं पुनः।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्॥१८॥
स पुनर्जायते राजन्प्राप्येहायतनं नृप।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः॥१९॥
द्विविधानां च भूतानां जङ्गमाः परमा नृप।
जङ्गमानामपि तथा द्विपदाः परमा मताः।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः॥२०॥
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः।
प्राज्ञानामात्मसम्बुद्धाः सम्बुद्धानाममानिनः॥२१॥
जातमन्वेति मरणं नृणामिति विनिश्चयः।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः॥२२॥
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्॥२३॥
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम्।
मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः॥२४॥
विषमुद्बन्धनं दाहो दस्यु हस्तात्तथा वधः।
दंस्त्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते॥२५॥
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसन्धिजैः।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि॥२६॥
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्रानाः पुण्यकृतां नृप।
मध्यतो मध्यपुण्यानामधो दुष्कृत कर्मणाम्॥२७॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुर् अज्ञानतुल्यः पुरुषस्य राजन्।
येनावृतः कुरुते सम्प्रयुक्तो घोराणि कर्माणि सुदारुणानि॥२८॥
प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्द्धानुपास्यं च भवेत यस्य।
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति॥२९॥
अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या संनिसृज्येह पञ्च।
वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम्॥३०॥
उपभोगैरपि त्यक्तं नात्मानमवसादयेत्।
चन्दालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम्॥३१॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः॥३२॥
कथं न विप्रनश्येम योनीतोऽस्या इति प्रभो।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामान्य दर्शनात्॥३३॥
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते॥३४॥
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति।
दीपोपमानि भूतानि यावदर्चिर्न नश्यति॥३५॥
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत।
समदुःखसुखो भूत्वा स परत्र महीयते॥३६॥
दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम्।
सरस्वती नैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्॥३७॥
गृहेषु येषामसवः पतन्ति तेषामथो निर्हरनं प्रशस्तम्।
यानेन वै प्रापनं च श्मशाने शौचेन नूनं विधिना चैव दाहः॥३८॥
इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः।
शक्त्या पित्र्यं यच्च किं चित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति॥३९॥
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप।
श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्ट कर्मणः॥४०॥
[भी]
एवद्वै सर्वमाख्यातं मुनिना सुमहात्मना।
विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप॥४१॥