पिङ्गलछन्दःसूत्रम्/प्रथमोऽध्यायः

पिङ्गलछन्दःसूत्रम्
अध्यायः १
अध्यायः २ →

मयरसत जभनलगसंमितं भ्रमति वाङ्मयं जगति यस्य।
स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः॥

त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम्।
लघुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम्॥

लघ्वन्त्यं हि तकारं जकारमुभयोर्लघुं विजानीयात्।
आदिगुरुं च भकारं नकारमिह पैङ्गले त्रिलघुम्॥

दीर्घसंयोग परं तथा स्वर व्यञ्जनान्तमूष्मान्तम्।
सानुस्वारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम्॥

आदिमध्यावसानेषु यरता यान्ति लाघवम्।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्॥

त्रिविरामं दशवर्षं षण्मात्रमुवाच पिङ्गलः सूत्रम्।
छन्दोवर्ग पदार्थ प्रत्ययहेतोश्च शास्त्रादौ॥ । १.१ ।


धीश्रीस्त्रीम् । १.१ ।

वरासाय् । १.२ ।

कागुहार् । १.३ ।

वसुधास् । १.४ ।

सातेक्वत् । १.५ ।

कदासज् । १.६ ।

किंवदभ् । १.७ ।

नहसन् । १.८ ।

गृल् । १.९ ।

गन्ते । १.१० ।

ध्रादिपरः । १.११ ।

हे । १.१२ ।

लौसः । १.१३ ।

ग्लौ । १.१४ ।

अष्टौ वसव इति॥ । १.१५ ।