पिण्डीक्रमः
पिण्डीक्रमः [[लेखकः :|]] |
पिण्डीक्रमः
आचार्यनागार्जुनप्रणीतः
पिण्डीक्रमः
नमः सर्वज्ञाय
त्रैलोक्याचारमुक्तं गगनसमगतं सर्वभावस्वभावम्,
शुद्धं शान्तं विविक्तं परमशिवमयं योगिनामेव गम्यम् ।
दुर्बोधं दुर्विचारं स्वपरहिततमं व्यापिनं निर्निमित्तम्,
वन्दे कायं जिनानां सुखमसमसमं निर्विकल्पैकमूर्तिम् ॥ १ ॥
श्रीमत्समाजतन्त्रस्य षट्कोट्यर्थावबोधतः ।
पिण्डीक्रममहं वक्ष्ये सर्वसत्त्वहितोदयम् ॥ २ ॥
विकल्पवासनादोषान् जगत्त्रयविमोहकान् ।
समभिवीक्ष्य तान् धीमान् योगतन्त्रेण शोधयेत् ॥ ३ ॥
पञ्च कामान् परित्यज्य तपोभिर्न च पीडयेत् ।
सुखेन धारयेद्वोधिं योगतन्त्रानुसारतः ॥ ४ ॥
तेनेह संवरस्थोऽयमभेदस्तु सदा व्रती ।
कायवाक्चित्तवज्रस्य साधनं तु समारभेत् ॥ ५ ॥
महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते ।
पर्वते विजते साध्यं सर्वसिद्धिसमुच्चयम् ॥ ६ ॥
मृद्वासनसमासीनः सत्त्वपर्यङ्कसंस्थितः ।
द्वेषवज्रसमाधिस्थः स्थानरक्षां विचिन्तयेत् ॥ ७ ॥
दशक्रोधान् समुत्सृज्य ज्वालाभासुरभीषणान् ।
हूंकारोद्भूतभानुस्थान् प्रत्यालीढपदे स्थितान् ॥ ८ ॥
दशदिग्मण्डलाग्रे तु सञ्चिन्त्यैवं यथाक्रमम् ।
सर्वविध्नविनाशार्थं सुम्भमाज्ञाय कीलयेत् ॥ ९ ॥
अं सुम्भ निसुम्भ हूं गृह्ण गृह्ण हूं गृह्णापय गृह्णापय हूमानय हो भगवन् विद्याराज हूं फट् ।
अनेन क्रोधरूपेण आकृष्यैवं विनायकान् ।
कीलयेद्विधिवत्सर्वान् प्रयोगेण तु बुद्धिमान् ॥ १० ॥
वज्रामृतमहाराजं व्रजकीलं विभावयेत् ।
नीलोत्पलदलश्यामं ज्वालामालाकुलप्रथम् ॥ ११ ॥
नाभिदेशादधोओभागं शूलाकारं विभावयेत् ।
ऊर्ध्वं क्रोधाकृतिं चैव त्रिमुखाकारषड्भुजम् ॥ १२ ॥
अधो विघ्नगणान् वीक्ष्य तान्मन्त्रं समुदाहरन् ।
निखनेत्वज्रकीलं तु विघ्नदेहेषु निश्चलम् ॥ १३ ॥
ओं घ घ घातय घातय सर्वदुष्टान् फट्फट्कीलय कीलय सर्वपापान् फट्फठूं हूं हूं वज्रकील वज्रधर आज्ञापयति सर्वविघ्नानां कायवाक्चित्तवज्रं कीलय हूं हूं हूं फट् ।
वज्रमुद्गरहस्तं च सुम्भराजं विभावयेत् ।
वज्रवह्निं समन्ताच्च विस्फरन्तं विचिन्त्य वै ।
दुष्टान् प्रलपितांश्चिन्तेद्दह्यमानानितस्ततः ॥ १४ ॥
दशदिक्कीलयित्वा तु अध ऊर्ध्वमधिष्य च ।
भावयेत्परमार्थेन निःस्वभावभवत्रयम् ॥ १५ ।
अभावे भावनाभावो भावना नैव भावना ।
इति भावो न भावः स्याद्भावना नोपलभ्यते ॥ १६ ॥
अनया गाथया शून्यं ध्यात्वा स्थिरचरात्मकम् ।
अनेन विधियोगेन ज्ञानभूमिरधिष्यते ॥ १७ ॥
आकाशधातुमध्यस्थं भावयेद्वायुमण्डलम् ।
द्वि-हूं यं बीजनिष्पन्नं वज्रद्वयसमायुतम् ॥ १८ ॥
अग्निमण्डलकं चापि तस्योपरि विभावयेत् ।
द्वि-हूं रं बीजनिष्पन्नं वज्रद्वयसमाङ्कितम् ॥ १९ ॥
वारिमण्डलकं चापि तस्योपरि विभावयेत् ।
द्वि-हूं वं बीजनिष्पन्नं वज्रद्वयसमायुतम् ॥ २० ॥
पृथ्वीमण्डलकं चापि तस्मोपरि विभावयेत् ।
द्वि-हूं लं बीजनिष्पन्नं वज्रद्वयसमन्वितम् ॥ २९ ॥
चतुर्मण्डलसंहारे वज्रभूभागमण्डलम् ।
तत्र भ्रूंकारनिष्पत्रं कूटागारं विभावयेत् ॥ २२ ॥
चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितम् ।
चतुःसूत्रसमायुक्तमष्टम्भोपशोभितम् ॥ २३ ॥
हारार्द्धहाररचितं मणिवज्रार्धचन्द्रकम् ।
खचितं वज्ररत्नैस्तु द्वारनिर्यूहसन्धिषु ॥ २४ ॥
कुम्भस्तम्भमहावज्रं क्रमशीर्षस्तु पक्षिणी ।
घण्टापताकसंशोभं चामरादिविभूषितम् ॥ २५ ॥
मध्यमण्डलके ध्यायादात्मानं मुद्रया युतम् ।
त्रिमुखं षड्भुजाकारमिन्द्रनीलसमप्रथम् ॥ २६ ॥
श्रीवैरोचन-रत्नौ च अमिताभश्च कर्मराट् ।
पूर्वादिदिक्षु सञ्चिन्त्यास्त्रिमुखाकारषड्भुजाः ॥ २७ ॥
मोहरत्यादिका देव्यस्त्रिमुखाकारषड्भुजाः ।
आग्नेयीं दिशामारभ्य सन्निवेश्या यथाक्रमम् ॥ २८ ॥
रूपवज्रादिकास्तद्वद्बाह्यकोणचतुष्टये ।
स्थितैव स्पर्शवज्रा तु वज्रसत्त्वसमायुता ॥ २९ ॥
पट्टिकायां न्यसेत्पूर्वे मैत्रेयं क्षितिगर्भकम् ।
वज्रपाणिं खगर्भं च न्यसेद्दक्षिणतो व्रती ॥ ३० ॥
लोकेशं मञ्चुघोषं च पश्चिमायां न्यसेत्पुनः ।
सर्वावरणविष्कम्भिं समन्तभद्रञ्चोत्तरे ॥ ३१ ॥
यमान्तकश्च प्राग्द्वारे दक्षिणे त्वपराजितः ।
पश्चिमे तु हयग्रीव उत्तरेऽमृतकुण्डलिः ॥ ३२ ॥
अचलष्टक्किराजश्च नीलदण्डो महाबलः ।
पूर्वादिकोणमारभ्य प्रविचिन्त्या यथायथम् ॥ ३३ ॥
सुम्भराजमहाक्रोधमधस्तात्प्रविचिन्तयेत् ।
उष्णीषचक्रवर्ती च प्रविचिन्त्यस्तथोपरि ॥ ३४ ॥
ध्यात्वैवमधिमुक्तया वै माण्डलेयान् यथाविधि ।
पुनः सम्पुटयोगेन स्वकाये तान् प्रवेशयेत् ॥ ३५ ॥
कायचक्रगतान् बुद्धान् सञ्चिन्त्यैवं यथायथम् ।
पारमार्थिकचक्रेण तथतायां प्रवेशयेत् ॥ ३६ ॥
मारयेत्त्वागतं व्यूहं सुतरां सिद्धिमाप्नुयात् ।
अस्यार्थो वज्रमालायां विस्तृतो विस्फुटं यथा ॥ ३७ ॥
रूपस्कन्धगतादर्शो भूधातुर्नयनेन्द्रियम् ।
रूपं च पञ्चमं याति क्रोधमैत्रेयसंयुतम् ॥ ३८ ॥
वेदना स्कन्धसमता अब्धातुः श्रवणेन्द्रियम् ।
शब्दश्च पञ्चमं याति क्रोधद्वयसमन्वितम् ॥ ३९ ॥
संज्ञा च प्रत्यवैक्षण्यं हुतभुग्नासिकेन्द्रियम् ।
गन्धश्च पञ्चं याति क्रोधद्वयसमन्वितम् ॥ ४० ॥
संस्कारः कृत्यानुष्टानं मारुतो रसनेन्द्रियम् ।
रसश्च पञ्चमं याति क्रोधद्वयसमन्वितम् ॥ ४१ ॥
उर्ध्वाधः क्रोधसंयुक्तं प्रकृत्याभासमेव च ।
विज्ञानस्कन्धमायाति विज्ञानं च प्रभास्वरम् ॥ ४२ ॥
निर्वाणं सर्वशून्यं च धर्मकायश्च गद्यते ।
दृढीकरणहेतुत्वान्मन्त्रमेतदुदाहरेत् ॥ ४३ ॥
ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम् ।
परमार्थमण्डलं ह्येतन्निराभासमलक्षणम् ।
परमार्थसत्यनामापि सर्वताथागतालयः ॥ ४४ ॥
प्रभास्वरप्रविष्टस्य व्युत्थानं च प्रदर्शते ।
मन्त्रमूर्तिप्रयोगेण देवतालम्बनं प्रति ॥ ४५ ॥
आकाशधातुमध्यस्थं भावयेत्सूर्यमण्डलम् ।
तस्योपरि पुनर्मन्त्री चन्द्रबिम्बं विभावयेत् ॥ ४६ ॥
तत्र चाष्टदलं पद्मं रक्तवर्णं विभावयेत् ।
पद्मोपरि महामन्त्रं त्र्यक्षरं भावयेत्पुनः ॥ ४७ ॥
मन्त्रं पद्मं तथा सूर्यं प्रविष्टं चन्द्रमण्डले ।
चन्द्रमण्डलमापूर्णं बोधिचित्तं विभावयेत् ॥ ४८ ॥
स्थावरं जङ्गमं सर्वं तत्रैव प्रविचिन्तयेत् ।
दृढीकरणहेतुत्वान्मन्त्रमेतदुदाहरेत् ॥ ४९ ॥
ओं धर्मधातुस्वभावात्मकोऽहम् ।
योगमेवं समालम्ब्य अनुयोगं समाचरेत् ।
पुनश्च त्र्यक्षरं योगी चन्द्रमध्ये विचिन्तयेत् ॥ ५० ॥
ततस्त्र्यक्षरसम्भूतं सितकुन्देन्दुसन्निभम् ।
आदिनाथं विचिन्त्याथ अतियोगं समारभेत् ॥ ५१ ॥
अक्षोभ्यानुप्रवेशेन त्रिमुखं षड्भुजोज्ज्वलम् ।
इन्द्रनीलप्रभं दीप्तं वज्रसत्त्वं विभावयेत् ॥ ५२ ॥
वज्रं चक्रं तथा पद्मं सव्यहस्तेषु भावयेत् ।
घण्टां रत्नं तथा खङ्गं वामहस्तेषु भावयेत् ॥ ५३ ॥
ततो न्यासं प्रकुर्वीत स्कन्धादीनां विभागवित् ।
वैरोचनादिसुम्भान्तं बीजन्यासेन तत्त्वतः ॥ ५४ ॥
वैरोचनीयबीजं तु ओंकारं शुक्लवर्णकम् ।
रूपस्कन्धस्वभावेन न्यसेन्मूर्धनि मन्त्रवित् ॥ ५५ ॥
आःकारममित्ताभस्य संज्ञास्कन्धस्वभावकम् ।
रक्तवर्णं मुखे ध्यात्वा वागैश्वर्यमवाप्नुयात् ॥ ५६ ॥
अक्षोभ्यस्य तु हूकारं राजावर्तकसुप्रभम् ।
विन्यसेद्धृदये मन्त्री विज्ञानस्कन्धरूपतः ॥ ५७ ॥
स्वाकारं रत्ननाथस्य वेदनास्कन्धरूपतः ।
पीतवर्णं न्यसेन्नाभौ वेदनाशुद्धिहेतुकम् ॥ ५८ ॥
पादद्वये तु हाःकारं संस्काअस्कन्धभावतः ।
हरिताभं न्यसेन्मन्त्री कर्मनाथस्य तत्त्वतः ॥ ५९ ॥
मोहरत्यादिकैर्मन्त्री पृथिव्यादीन् प्रवेशयेत् ।
खरत्वं द्रवता औष्ण्यमीरणत्वं च ते क्रमात् ॥ ६० ॥
थ्लींकारं चक्षुषि न्यस्य क्षितिगर्भं विभावयेत् ।
ओंकारं कर्णयोर्न्यस्य वज्रपाणिं विभावयेत् ॥ ६१ ॥
ओंकारं विन्यसेद्घ्राणे खगर्भं तु विभावयेत् ।
ओंकारं रसने ध्यात्वा लोकेशं च विकल्पयेत् ॥ ६२ ॥
हूंकारं मनसि ध्यात्वा मञ्जुघोषं प्रभावयेत् ।
ओंकारं सर्वकाये च ध्यात्वा विष्कम्भिणं स्मरेत् ॥ ६३ ॥
मैं-कारेण शिरःसंस्थं मैत्रेयं परिकल्पयेत् ।
भद्रं समन्ततो ध्यात्वा सर्वसन्धिषु सन्न्यसेत् ॥ ६४ ॥
यमान्तकः सव्यभुजे अपसव्येऽपराजितः ।
हयग्रीवो मुखे भाव्यो वज्रे चामृतकुण्डलिः ॥ ६५ ॥
अचलं दक्षिणे भागे वामे च टक्किराजकम् ।
जानौ च दक्षिणे चिन्तेन्नीलदण्डं महोज्जवलम् ॥ ६६ ॥
वामजानौ महाबलं मूर्ध्नि चोष्णीषज्रिणम् ।
पादान्तद्वयविन्यस्तं सुम्भराजं विचिन्तयेत् ॥ ६७ ॥
न्यासं कृत्वा ततो मन्त्री स्कन्धादीनां यथाविधि ।
कायमण्डलमापन्नो महायोगं समारभेत् ॥ ६८ ॥
मूर्ध्नि मध्यगतं चिन्तेत्सम्पूर्णं चन्द्रमण्डलम् ।
तत्र ओंकारं शुक्लाभं प्रस्फुरत्-पञ्चरश्मिकम् ॥ ६९ ॥
ततो देवीं विनिश्चार्य आधिपत्यप्रयोगतः ।
लोचनां विविधां चिन्तेत्सर्वव्योम्नि प्रपूरिताम् ॥ ७० ॥
कायवज्रं विचिन्त्याथ व्योमापूर्य व्यवस्थितम् ।
तन्मध्येऽधिपतिं चिन्तेदात्मनश्च पुरःस्थितम् ॥ ७१ ॥
द्वात्रिंशल्लक्षणधरं व्यञ्चनाशीतिभूषितम् ।
प्रार्थयेत्तु ततो मन्त्री गाथाद्वयमुदाहरन् ॥ ७२ ॥
बुद्धकायधरः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मेऽद्य करोतु कायवज्रिणः ॥ ७३ ॥
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मेऽद्य कुर्वन्तु कायवज्रिणः ॥ ७४ ॥
लोचनासहसंयुक्तं शाश्चतं च विभावयेत् ।
तत्प्रवेश्याधितिष्ठेत पञ्चुस्कन्धप्रपूरितम् ॥ ७५ ॥
यत्कायं सर्वबुद्धानां पञ्चस्कन्धप्रपूरितम् ।
बुद्धाकायस्वभावेन ममापि तादृशं भवेत् ॥ ७६ ॥
ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहम् ।
जिह्वाब्जमध्यगतं चिन्तेदाःकारं रक्तवर्णकम् ।
पाण्डराख्यां च सगणां संस्फरेत्व्योमपूरिताम् ॥ ७७ ॥
वाग्वज्रं च तथा मन्त्री व्योमापूर्य व्यवस्थितम् ।
प्रार्थयेत्तु ततो मन्त्री गाथाद्वयमुदाहरन् ॥ ७८ ॥
धर्मो वै वाक्पथः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मेऽद्य करोतु वाग्वज्रिणः ॥ ७९ ॥
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मेऽद्य कुर्वन्तु वाग्वज्रिणः ॥ ८० ॥
स्वनायकेन संयुक्तां पाण्डरां सहसैव तु ।
जिह्वाप्रविष्टां सञ्चिन्त्य वागधिष्ठानमारभेत् ॥ ८१ ॥
यदेव वज्रधर्मस्य वाचा निरुक्तिसम्पदा ।
ममापि तादृशी वाचा भवेद्धर्मधरोपमा ॥ ८२ ॥
ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहम् ।
विन्यस्य हृदये मन्त्री शशिबिम्बं समुज्ज्वलम् ।
राजावर्तनिभं तत्र हूंकारं पञ्चरश्मिकम् ॥ ८३ ॥
ततो निश्चारयेद्देवीं मामकीं सगणां ततः ।
चित्तवज्रं तथा ध्यात्वा प्रार्थयेत यथा पुरः ॥ ८४ ॥
चित्तवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मेऽद्य करोतु चित्तवज्रिणः ॥ ८४ ॥
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः ॥ ८४ ॥
चित्तवज्रसमायुक्तं हृदये सम्प्रवेश्य च ।
मामकीव्यूहमखिलं चित्ताधिष्ठानमारभेत् ॥ ८७ ॥
यच्चित्तं समन्तभद्रस्य गुह्यकेन्द्रस्य धीमतः ।
ममापि तादृशं चित्तं भवेद्वज्रधरोपमम् ॥ ८८ ॥
ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहम् ।
एवं पृथगधिष्ठाय कुलत्रयविभागतः ।
पुनः सर्वात्मकं कुर्यान्मन्त्रेणानेन बुद्धिमान् ॥ ८९ ॥
ओं सर्वतथागतकायवाक्चित्तवज्रस्वभावात्मकोऽहम् ।
अधिष्ठायैवमात्मानं शशिमण्डलमध्यगम् ।
षड्भिश्चिह्नैः समायुक्तं चिन्तेत्समयसत्त्वकम् ॥ ९० ॥
हृन्मध्यसंस्थितं सूक्ष्मं ज्ञानसत्त्वं विभावयेत् ।
समाधिसत्त्वसंज्ञं च हूंकारं तद्दृढी न्यसेत् ॥ ९१ ॥
निष्पाद्यैवं महायोगं त्रिसत्त्वात्मकमात्मवान् ।
अनेन विधियोगेन महासाधानमारभेत् ॥ ९२ ॥
प्राप्य कन्यां विशालाक्षीं रूपयौवनमण्डिताम् ।
नीलोत्पलदलश्यामां रजकस्य महात्मनः ॥ ९३ ॥
सुशिक्षितां समादाय साधके भक्तिवत्सलाम् ।
ओंकारं शिरसि ध्यात्वा आःकारं वाक्यथे न्यसेत् ॥ ९४ ॥
हूंकारं हृदये ध्यात्वा स्वा नाभौ हा द्विपादयोः ।
लोचनां मामकीं चापि तथा पाण्डरवासिनीम् ॥ १५ ॥
तारां चापि तथा मन्त्री पृथिव्यादिषु सन्न्यसेत् ।
रूपवज्रादिका देवीस्तस्यामेव विभावयेत् ॥ ९६ ॥
क्षितिगर्भादिभिस्तासां समापत्तिं विभावयेत् ।
दक्षिणे वज्रवेतालीं भुजे वामेऽपराजिताम् ॥ ९७ ॥
भृकुटिं च मुखे तस्या एकजटां च गुह्यके ।
भूयो दक्षिणपार्श्वस्थां विश्ववज्रीं तथागतीम् ॥ ९८ ॥
विश्वरत्नां च वामे तु मुद्रायाः प्रविभावयेत् ।
पुर्नदक्षिणजानुस्थां विश्वपद्मां तथागतीम् ॥ ९९ ॥
विश्वकर्मां च वामे तु मूर्ध्नि गगनवज्रिणीम् ।
पादान्तद्वयविन्यस्तां धरणीन्धरदेवतीम् ॥ १०० ॥
एवं संस्कृत्य तां योगी वज्रपद्मथारभेत् ।
मन्त्री हूंकारजं वज्रं ध्यायाद्वै पञ्चसूचिकम् ॥ १०१ ॥
मध्यसूचौ तथा तस्य प्रणवं व विभावयेत् ।
तथैवाष्टदलं पद्ममाःकारेण तु भावयेत् ।
पञ्चरश्मिसमाकीर्णं ततः साधनमारभेत् ॥ १०२ ॥
ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहम् ।
हूंकारगीतेन तु चालयेत समुद्वहन् वज्रधरस्य गर्वम् ।
स्वबोधिचित्तोदयकाल एव फट्कारमन्त्रं समुदीरयेत्सः ॥ १०३ ॥
विसर्गान्ते पुनर्मन्त्री बोधिचित्तेन पूजयेत् ।
दशदिक्संस्थितान् बुद्धान्मन्त्रमेतदुदीरयेत् ॥ १०४ ॥
ओं सर्वतथागतपूजाज्रस्वभावात्मकोऽहम् ।
स्वमन्त्राक्षरनिष्पन्नं त्रिवज्राधिष्ठितस्वकम् ।
पद्ममध्ये तु निष्पाद्य द्वेषवज्रो भवेत्पुनः ॥ १०५ ॥
वज्रधृग्-मन्त्रनिष्पन्नं पश्येदक्षोभ्यवज्रिणम् ।
जटामुकुटधरं नाथमक्षोभ्यकृतशेखरम् ॥ १०६ ॥
नृपावर्तकसङ्काशं कृष्णरक्तसिताननम् ।
सर्वालङ्कारसम्पूर्णं षड्भुजं तु विभावयेत् ॥ १०७ ॥
वज्रं चक्रं तथा पद्मं सव्यहस्तेषु धारयेत् ।
घण्टां चिन्तामणिं खड्गं तस्य वामेषु भावयेत् ॥ १०८ ॥
निष्क्रम्य हृदयादेष व्यवलोक्य दिशो दश ।
बुद्धर्द्धिमखिलां कृत्वा धर्मचक्रं प्रवर्त्य च ॥ १०९ ॥
संशोध्य निखिलान् सत्त्वान् द्वेषवज्रपदे स्थितान् ।
आगत्य वज्रनाथस्य पुरतोऽभिनिषीदति ॥ ११० ॥
अनुप्रवेश्य तन्मन्त्री हृद्यात्मानं विभावयेत् ।
पूर्वरूपं परावृत्त्य द्वेषवज्रपदे स्थितः ॥ १११ ॥
इन्द्रनीलप्रभं दीप्तं सूर्यमण्डलमध्यगम् ।
स्वमुद्रालिङ्गितं वीरं सर्वालङ्कारभूषितम् ॥ ११२ ॥
रौद्रशान्तमहारागं मुखत्रयविराजितम् ।
द्वेषवज्रसमाधिस्थः प्रोत्सृजेत्सर्वमण्डलम् ॥ ११३ ॥
जिनजिग्-मन्त्रनिष्पन्नं सृजेद्वैरोचनं विभुम् ।
शरच्चन्द्रांशुसङ्काशं जटामुकुटमण्डितम् ॥ ११४ ॥
सितरक्तकृष्णवदनं षड्भुजं शान्तरूपिणम् ।
चक्रवज्रसिताम्भोजं दक्षिणेषु विचिन्तयेत् ॥ ११५ ॥
घण्टां चिन्तामणिं खड्गं वामेष्वस्य विभावयेत् ।
हृदयात्तथैव निर्गत्य मोहचर्यास्थिताः प्रजाः ॥ ११६ ॥
संशोध्य पुनरागत्य पुनश्चके निषीदति ।
रत्नधृग्-मन्त्रनिष्पन्नं रत्नकेतुं सृजेद्बुधः ॥ ११७ ॥
जटाजूटधरं सौम्यमक्षोभ्यकृतशेखरम् ।
पीतकृष्णसितास्यं च षड्भुजं चापि चिन्तयेत् ॥ ११८ ॥
तस्य चिन्तामणिं वज्रं चक्रं सव्येषु भावयेत् ।
घण्टां च पीतकमलं खड्गं वामेषु भावयेत् ॥ ११९ ॥
हृदयात्तथैव निर्गत्य अहङ्कारपदे स्थितान् ।
संशोध्य दक्षिणे भागे रत्नमध्ये निषीदति ॥ १२० ॥
आरोलिग्-मन्त्रनिष्पन्नं सृजेदमितवज्रिणम् ।
पद्मरागप्रभं सौम्यमक्षोभ्यकृतशेखरम् ॥ १२१ ॥
जटामुकुटधरं नाथं रक्तकृष्णसिताननम् ।
शृङ्गाररससंयुक्तं षड्भुजं तु विभावयेत् ॥ १२२ ॥
पद्मनालं गृहीत्वा तु वामेन सह घण्टया ।
हृत्प्रदेशस्थितं पद्मं दक्षिणेन विकाशयेत् ॥ १२३ ॥
सव्ययोर्वज्रचक्रे तु वामयोः रत्नखड्गकौ ।
पूर्ववद्रागिणः शोध्य पृष्ठतोऽब्जे निषीदती ॥ १२४ ॥
अमोघवज्रिणं मन्त्री प्रज्ञाधृग्-मन्त्रनिर्मितम् ।
हरिताभं सृजेन्नाथं जटामुकुटमण्डितम् ॥ १२५ ॥
हरितकृष्णसितास्यं च षड्भुजं रश्मिभासुरम् ।
खड्गं च विश्ववज्रं च चक्रं सव्येषु भावयेत् ॥ १२६ ॥
घण्टामपसव्यहस्तेषु हरितपद्मं मणिं तथा ।
अभूतवचसः सत्त्वान् विशोध्य पुनरागतः ॥ १२७ ॥
उत्तरस्यां दिशि तथा विश्ववज्रे निषीदति ।
द्वेषो मोहस्तथा रागश्चिन्तामणिः समयस्तथा ॥ १२८ ॥
कुला ह्येते तु वै पञ्च काममोक्षप्रसाधकाः ।
मन्त्रान्मोहरतेर्जातां सृजेद्देवीं तु लोचनाम् ॥ १२९ ॥
श्वेतां शान्तरसोपेतां मूर्ध्नि वैरोचनाङ्किताम् ।
सितरक्तकृष्णवदनां षड्भुजां तु विभावयेत् ॥ १३० ॥
सव्ये चक्रं व वज्रं च तथैव सितमुत्पलम् ।
वामे घण्टां तथा रत्नं खड्गं चापि विभावयेत् ॥ १३९ ॥
हृदयात्तु विनिर्गत्य व्यवलोक्य दिशो दश ।
ग्रहव्याध्यातुरे लोके शान्तिं कृत्वा महाकृपा ॥ १३२ ॥
आगत्य चक्रमध्ये तु पूर्वकोणे निषीदति ।
मन्त्राद्द्वेषरतेर्जाता सृजेद्देवीं तु मामकीम् ।
नीलोत्पलदलश्यामां चारुवक्त्रां मनोरमाम् ।
कृष्णरक्तसितास्यां च अक्षोभ्यकृतशेखराम् ॥ १३४ ॥
सव्येषु वज्रं चक्रं च नीलरक्तोत्पलं तथा ।
घण्टां रत्नं च खड्गं च वाहस्तेषु धारयेत् ॥ १३५ ॥
महाविघ्नभयार्तानां रक्षां कृत्वा महाकृपा ।
निष्क्रम्य पुनरागत्य नैरृत्यां सा निषीदति ॥ १३६ ॥
मन्त्राद्रागरतेर्जाता सृजेत्पाण्डरवासिनीम् ।
रक्तकृस्णसितास्यां वै पद्मरागमणिप्रभाम् ॥ १३७ ॥
सामिताभजटाजूटां षड्भुजां तु विभावयेत् ।
गृहीत्वोल्पलनालं तु वामेन सह घण्टया ॥ १३८ ॥
उत्पलं हृत्प्रदेशस्थं रक्त सव्येन बोधयेत् ।
वज्रं चक्रं च सव्याभ्यां मणिं खड्गं च वामतः ॥ १३९ ॥
धारयन्ती विनिर्गत्य शान्तिं कृत्वा महातुरे ।
आगत्य पद्ममध्ये वै वायुकोणे निषीदति ॥ १४० ॥
मन्त्राद्वज्ररतेर्जातां सृजेत्तारां मनोरमाम् ।
हरितकृष्णसितास्यां च दूर्वापत्रसमप्रभाम् ॥ १४१ ॥
अमोघेन कृतोस्णीषां षड्भुजां तु विभावयेत् ।
विश्ववज्रं च चक्रं च सव्यतोऽसितमुत्पलम् ॥ १४२ ॥
वामेषु विन्यसेद्घण्टां रत्नं खड्गं तथा व्रती ।
सर्वसत्त्वान् वशीकृत्य विश्ववज्रासना पुनः ॥ १४३ ॥
निर्गतासौ समागम्य शिवस्थाने निषीदति ।
द्वितीये तु पुटे योगी रूपवज्रादिकं सृजेत् ॥ १४४ ॥
अग्निकोणे सृजेद्देवीं रूपवज्रां मनोरमाम् ।
त्रिमुखां षड्भुजां श्वेतां श्रीवैरोचनमौलिकाम् ॥ १४५ ॥
गृहीतदर्पणां द्वाभ्यां शेषं मोहरतेरिव ।
नैरृत्यां विन्यसेद्देवीं शब्दवज्रां तु षड्भुजाम् ॥ १४६ ॥
पीतवर्णां त्रिवक्त्रां च रत्नसम्भवमौलिकाम् ।
वीणाव्यग्रद्विहस्तां च शेषं मामकीवद्भवेत् ॥ १४७ ॥
वायुस्थाने न्यसेद्देवीं गन्धवज्रां तु षड्भुजाम् ।
रक्तवर्णां त्रिवक्त्रां च अमिताभजटाधराम् ॥ १४८ ॥
शङ्खव्यग्रद्विहस्तां च शेषैः पाण्डरवासिनीम् ।
ऐशान्यां विन्यसेद्देवीं रसवज्रां तु षड्भुजाम् ॥ १४९ ॥
त्रिमुखां श्यामवर्णा च दन्दुभिस्वरमौलिकाम् ।
हस्तस्थरसभाण्डां च शेषैस्तारासमाकृतिम् ॥ १५० ॥
वज्रसत्त्वं समालिङ्ग्य चक्रमध्ये व्यवस्थिताम् ।
चिन्तयेत्स्पर्शवज्रां तु पतितुल्यां मुखादिभिः ॥ १५१ ॥
तृतीये तु पुटे पूर्वे पट्टिकायां सृजेद्व्रती ।
मैं-थ्लीं बीजविनिष्पनौ मैत्रेयक्षितिगर्भकौ ॥ १५२ ॥
प्रणवेन समुत्पन्नौ वज्रपाणिखगर्भकौ ।
पट्टिकायां सृजेन्मन्त्रीं दक्षिणायां यथाक्रमम् ॥ १५३ ॥
ओ-हूंकारविनिष्पन्नं लोकेशं मञ्चुघोषकम् ।
पश्चिमायां सृजेदेतावुत्तरस्यां पुनः सृजेत् ॥ १५४ ॥
ओं-सं-बीजविनिष्पन्नं सविष्कम्भिसमन्तकम् ।
एते स्वनाथमुकुटा वर्नाद्यैस्तत्समाः पुनः ॥ १५५ ॥
भुजैः प्रहरणैश्चापि स्वस्वाधिपतिभिः समाः ।
मैत्रेयः केवलं सव्ये नागपुष्पं बिभर्ति च ॥ १५६ ॥
संशोध्यायतनान्येते दिव्यनेत्रादिदायकाः ।
सत्त्वानां पुनरागत्य निषीदन्त्यासनेषु वै ॥ १५७ ॥
यमान्तकृन्मन्त्रभवं कृष्णरक्तसिताननम् ।
यमान्तकं सृजेन्मन्त्री सुलिङ्गगहनाकुलम् ॥ १५८ ॥
दण्डं चक्रं तथा वज्रं सव्यहस्तेषु धारयन् ।
हृद्देशे तर्जनीपाशं घण्टा परशुं च वामतः ॥ १५९ ॥
विघ्नान् सन्त्रासयन् घोरानिन्द्रादीन् सगणानपि ।
पद्मसूर्यं समाक्रम्य पूर्वस्यां दिशि तिष्ठति ॥ १६० ॥
प्रज्ञान्तकृन्मन्त्रभवं रत्नसम्भवमौलिकम् ।
अपराजितं सृजेन्मन्त्री श्वेताभमहिभूषणम् ॥ १६१ ॥
सितकृष्णरक्तवदनं बृहत्कुक्षिं त्रिलोचनम् ।
दंष्ट्राकरालविकटं स्फुलिङ्गगहनाकुलम् ॥ १६२ ॥
वज्रं दण्डं तथा खड्गं सव्यहस्तेषु धारयन् ।
हृद्देशे तर्जनीपाशं घण्टां परशुं च वामतः ॥ १६३ ॥
विघ्नान् सन्त्रासयन् घोरान् प्रत्यालीढपदेन तु ।
पद्मसूर्यं समाक्रम्य याम्यां दिशि स तिष्ठतिओ ॥ १६४ ॥
यमान्तकृन्मन्त्रभवं हयग्रीवं सृजेद्व्रती ।
पद्मरागनिभं त्र्यक्षं रक्तकृष्णसिताननम् ॥ १६५ ॥
करालास्यं बृहत्कुक्षिममिताभकिरीटिनम् ।
प्रत्यालीढपदं वीरं स्फुलिङ्गगहनाकुलम् ॥ १६६ ॥
पद्मं खङ्गं च मुसलं सव्यहस्तेषु भावयेत् ।
घण्टां सगर्वपरशुं पाशं सव्येतरेषु च ॥ १६७ ॥
पद्मसूर्यं समारुह्य व्यवलोक्य दिशो दश ।
विध्नसन्त्रासनं कृत्वा वारुण्यां दिशि तिष्ठति ॥ १६८ ॥
विध्नान्तकृन्मन्त्रभवं दुन्दुभिस्वरमौलिकम् ।
नीलोत्पलदलश्यामं सृजेदमृतकुण्डलिम् ॥ १६९ ॥
नीलरक्तसितास्यं च करालमुखविभ्रमम् ।
बृहत्कुक्षिं त्रिनयनं रक्तज्वालाविभूषितम् ॥ १७० ॥
विश्ववज्रं तथा वक्रं मुसलं चापि सव्यतः ।
धारयंस्तर्जनीपाशं घण्टां परशुं च वामतः ॥ १७१ ॥
विध्नसन्त्रासनं कृत्वा प्रत्यालीढपदेन तु ।
पद्मसूर्यं समारुह्य कौबेर्यां दिशि तिष्ठति ॥ १७२ ॥
स्वमन्त्राक्षरनिष्पन्नमचलं च सृजेत्पुनः ।
इन्द्रनीलप्रभं त्र्यक्षं श्रीवैरोचनमौलिकम् ॥ १७३ ॥
दंष्ट्राकरालवदनं कृष्णरक्तसिताननम् ।
अट्टहासरवं घोरं बृहत्कुक्षिं महाबलम् ॥ १७४ ॥
खङ्कं वज्रं तथा चक्रं सव्यहस्तेषु धारयेत् ।
तर्जनीं चापि परशुं पाशं वामेषु पाणिषु ॥ १७८ ॥
विघ्नान् ज्वरादिकान् हत्वा प्रत्यालीढपदेन तु ।
पद्मसूर्यं समारुह्य वह्निस्थाने स तिष्ठति ॥ १७६ ॥
स्वमन्त्राक्षरनिष्पन्नं टक्किराजं सृजेद्व्रती ।
इन्द्रनीलप्रभं वीरं रत्नसम्भमौलिकम् ॥ १७७ ॥
कृष्णरक्तसितास्यं च बृहत्कुक्षिं भयानकम् ।
दधानं वज्रं हूंकारमुद्रां पणिद्वयेन तु ॥ १७८ ॥
वज्रं खड्गं च सव्याभ्यां वामतः पाशमङ्कुशम् ।
प्रत्यालीढेन सूर्यस्थो नैरृत्यां विध्ननाशकः ॥ १७९ ॥
स्वमन्त्राक्षरनिस्पन्नं नीलद्ण्डं सृजेद्व्रती ।
नीलमेघनिभं त्र्यक्षममिताभकिरीटिनम् ॥ १८० ॥
नीलरक्तसितास्यं च बृहत्कुक्षिं भयावहम् ।
दण्डं खङ्गं तथा सव्यहस्तेषु धारयन् ॥ १८१ ॥
हृदेशे तर्जनीपाशं पद्मं परशुं च वामतः ।
हत्वेत्युपद्रवभयं प्रत्यालीढपदे स्थितः ॥ १८२ ॥
पद्मसूर्यं समारुह्य वायव्यां दिशि तिष्ठति ।
स्वमन्त्राक्षरनिष्पन्नं दुन्दुभिस्वरमौलिकम् ॥ १८३ ॥
महाबलं सृजेन्मन्त्री नीलोत्पलदलप्रभम् ।
कृण्णरक्तसितास्यं च त्र्यक्षं भैरवनादितम् ॥ १८४ ॥
नागभूषितसर्वाङ्गं बृहत्कुक्षिं भयानकम् ।
दण्डं खड्गं तथा चक्रं सव्यहस्तेषु धारयन् ॥ १८५ ॥
हृद्देशे तर्जनीपाशं पद्मं परशुं च वामतः ।
डाकिन्यादिभयध्वंसी प्रत्यालीढपदेन सः ॥ १८६ ॥
पद्मसूर्यं समारुह्य ऐशान्यां दिशि तिष्ठति ।
स्वमन्त्राक्षरनिष्पन्नं सृजेदुष्णीषचक्रिणम् ॥ १८७ ॥
आकाशश्यामकं घोरमक्षोभ्यकृतशेखरम् ।
कृष्णरक्तसितास्यं च त्र्यक्षं लम्बोदरं विभुम् ॥ १८८ ॥
वामदक्षिणहस्ताभ्यामुष्णीषं मूर्ध्निं धारयन् ।
वज्रं पद्मं च सव्याभ्यां तर्जनीखड्गमन्यतः ॥ १८९ ॥
सर्वोपद्रवविध्वंसी प्रत्यालीढपदोद्यतः ।
पद्मसूर्यं समारुह्य ब्रह्मस्थाने स तिष्ठति ॥ १९० ॥
स्वमन्त्राक्षरनिष्पन्नं सुम्भराजं सृजेद्व्रती ।
आकाशसुप्रभं त्र्यक्षं कृष्नरक्तसिताननम् ॥ १९१ ॥
बृहत्कुक्षिं करालास्यमक्षोभ्यकृतशेखरम् ।
वज्रं चक्रं तथा रत्नं सव्यहस्तेषु धारयन् ॥ १९२ ॥
हृद्देशे तर्जनीपाशं पद्मखड्गं च वामतः ।
कालकूटादिकं सर्वविषं स्थावरजङ्गमम् ॥ १९३ ॥
हत्वा विनायकान् सर्वान् शान्तिं कृत्वा तु सर्वतः ।
आज्ञां सम्पाद्य निखिलां प्रत्यालीढपदे स्थितः ।
पद्मसूर्यं समारुह्य भुवोऽधस्तात्स तिष्ठति ॥ १९४ ॥
उत्सृज्य मण्डलं सर्वं द्वात्रिंशद्देवतामयम् ।
चक्रमध्यस्थितो भूत्वा सूक्ष्मयोगमथारभेत् ॥ १९४ ॥
नासग्रे सर्षपं चिन्तेत्सर्षपे सचराचरम् ।
भावयेज्ज्ञानपदं रम्यं रहस्यं ज्ञानकल्पितम् ॥ १९६ ॥
स्थिरं तु स्फारयेद्रत्नमस्थिरं नैव स्फारयेत् ।
स्फारयेत्प्रवरैर्मेघैबुद्धज्वालासमप्रभैः ॥ १९७ ॥
भिक्षाशिना न जप्तप्यं न च भैक्षरतो भवेत् ।
जपेन्मन्त्रमभिन्नाङ्गं सर्वकामोपभोगकृत् ॥ १९८ ॥
उच्चार्य संस्फरेद्वज्रं समाप्तौ संहारमादिशेत् ।
इदं तत्सर्वबुद्धानां जपोक्तं परमार्थतः ॥ इति । १९९ ॥
सूक्ष्मयोगजपं चापि द्विधा कृत्वा यथारुचि ।
आत्मानं च पुनर्मन्त्री तथतायां प्रवेशयेत् ॥ २०० ॥
मण्डलस्थाश्चतुर्देव्यो न पश्यन्त्यस्ततः पतिम् ।
गाथाचतुष्टयेनेत्थं बोधयन्ति महासुखम् ॥ २०१ ॥
त्वं वज्रसत्त्व भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिनोज्ञमहार्थकामैः ।
कामाहि मां जनक सत्त्वमहाग्रबन्धो यदीच्छसे जीवतु मह्य नाथ ॥ २०२ ॥
त्वं वज्रकाय बहुसत्त्वप्रियाग्रचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शीम् ।
रागेण रागसमयां मम कामयस्व यदीच्छसे जीवतु मह्य नाथ ॥ २०३ ॥
त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सद सम्प्रवृत्तः ।
कामाहि मां सुगतचर्य समन्तभद्र यदीच्छसे जीवतु मह्य नाथ ॥ २०४ ॥
त्वं वज्रकाम समयाग्र महाहितार्थ संबुद्धवंशतिलकः समतानुकम्पी ।
कामाहि मां गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवतु मह्य नाथ ॥ २०५ ॥
एवमुत्थापितं नाथं सद्भूतगुणकीर्तनैः ।
अक्षोभ्यादिस्वभावेन संस्तुवन्ति तथागताः ॥ २०६ ॥
अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध ।
त्रिमण्डल त्रिवज्राग्र भाष गुह्यं नमोऽस्तु ते ॥ २०७ ॥
वैरोचन महाशुद्ध वज्रशान्त महारते ।
प्रकृतिप्रभास्वरान् धर्मान् देश वज्र नमोऽस्तु ते ॥ २०८ ॥
रत्नराज सुगम्भीर खवज्राकाशनिर्मल ।
स्वभावशुद्ध निर्लेप भाष गुह्यं नमोऽस्तु ते ॥ २०९ ॥
वज्रामितमहाराज निर्विकल्प खवज्रिण ।
राजपारमिताप्राप्त भाष वज्र नमोऽस्तु ते ॥ २१० ॥
अमोघवज्र संबुद्ध सर्वाशापरिपूरक ।
शुद्धस्वभावसम्भूत वज्रसत्त्व नमोऽस्तु ते ॥ २११ ॥
नुत्वाथ बुद्धैअरनुराग्य चक्रं प्रकाश्य गुह्यं परमं यथायथम् ।
स्वकायचक्रे विनिवेश्य चक्रं महासुखस्तिष्ठति नाथ एकः ॥ २१२ ॥
एवं चतुर्योगकरस्तु योगी हूंकारगर्भं प्रविचिन्त्य लोकम् ।
दृष्ट्वा जपत्तद्भववज्रसत्त्वं व्युत्थाय तद्धीर्विचरेद्यथावद् ॥ इति । २१३ ॥
समाधिमालम्बयन्मन्त्री शुष्कमूर्तिर्यदा भवेत् ।
विचिन्तयेदिमं योगं कायवाक्चित्तप्रीणनम् ॥ २१४ ॥
वितस्तिमात्रमाक्रम्य मूर्ध्नि मण्डलकल्पना ।
ओंकारं तत्रगं ध्वात्वा पञ्चामृतनिपातनम् ॥ २१५ ॥
अनेन वज्रयोगेन तेजस्वी भवति क्षणात् ।
कायवाक्चित्तसौस्थित्यं लभते नात्र संशयः ॥ २१६ ॥
एवमभ्यासतो मन्त्री शोधयेद्बोधयेत्यथा ।
हृत्कण्ठं चैव संशोध्यं प्रीणयेच्च तथागतान् ॥ २१७ ॥
हूंकारेण च संशोध्य आःकारेण तु बोधयेत् ।
ज्वालयेत्प्रणवाक्रान्तमियमाहारशोधना ॥ २१८ ॥
कण्ठे शङ्खं विचिन्त्यादौ तस्मिन् ह्रीःकारसम्भवम् ।
पद्ममष्टदलं चिन्तेधूंकारं कर्णिकोपरि ॥ २१९ ॥
हूंकारजं महावज्रं पञ्चशूकं विभावयेत् ।
मध्यशूकाग्रे सञ्चिन्तेदोंकारं कण्ठशोधनम् ॥ २२० ॥
मेघनादं हृदि ध्यात्वा त्रिशिखाग्निं ततः स्फरेत् ।
तत्राहारं च जुहुयाधोममाध्यात्मिकं त्विदम् ॥ २२१ ॥
वायव्यं दीपयेदग्निं वारुणं पचते तु सः ।
माहेन्द्रमण्डलं स्थानं यत्र सञ्चरते हविः ॥ २२२ ॥
अन्नं पानं च यत्किञ्चित्तत्सर्वं वारुणेन तु ।
अशनं मुखपद्मेन हृत्पद्यं सम्प्रवेशयेत् ॥ २२३ ॥
नाभिपद्मगतं पश्चात्सम्पुटीकरणयोगतः ।
गुदपद्माद्विनिर्गत्य भश्मान्तं च विनिर्दिशेत् ॥ २२४ ॥
न जरा नापि रोगश्च न मृत्युर्न विषादिकम् ।
नाकालमरणं तस्य सर्वोपद्रवनाशनम् ॥ इति । २२५ ॥
श्रीवज्रमालावरमन्थनेन गूढं समाजाम्बुनिधिं मथित्वा ।
यत्सादनाङ्गामृतमापि तेन लोकः समस्तोऽमरतामुपैतु ॥ २२६ ॥
॥ पिण्डीक्रमसाधनं समाप्तम् ॥
। कृतिराचार्यश्रीनागार्जुनपादानाम् ।