पिण्डोपनिषत्
ॐ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् ।
मृतस्य दीयते पिण्डं कथं गृह्णन्त्यचेतसः ।।
भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा ।
हंसस्त्वस्त्वा गतो देहं कस्मिन् स्थाने व्यवस्थितः ।।
त्र्यहं वसति तोयेषु त्र्यहं वसति चाग्निषु ।
त्र्यहमाकाशगो भूत्वा दिनमेकन्तु वायुगः ।।
प्रथमेन तु पिण्डेन कलानां तस्य सम्भवः ।
द्वितीयेन तु पिण्डेन मासत्वक्च्छोणितोद्भवः ।।
तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते ।
चतुर्थेन तु पिण्डेन अस्थि मज्जा प्रजायते ।।
पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ।
षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ।।
सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते ।
अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ।।
नवमेन तु पिण्डेन सर्वेन्द्रियसमाहृतिः ।
दशमेन तु पिण्डेन भावनं प्लावनं तथा ।
पिण्डे पिण्डे शरीरस्य पिण्डदानेन सम्भवः ।।
इति पिण्डोपनिषत् समाप्ता

"https://sa.wikisource.org/w/index.php?title=पिण्डोपनिषत्&oldid=321620" इत्यस्माद् प्रतिप्राप्तम्