पुरुषोत्तम प्रपत्तिष्टकम्

रामिति बीजवान् नाथ मन्त्रराजो हि तारकः

तं जपामि तब प्रीत्यै पाहि मां पुरुषोत्तम ॥ १ ॥

राम ! दोनोऽनुकूलोऽहं विश्वस्तोऽप्रातिकूल्यवान् ।

त्वयि न्यस्यामि चात्मानं पाहि मां पुरुषोत्तम ॥२॥

मामनाथे स्वशेषं च न्यासितं स्वार्थमेव हि ।

निर्भरं स्वभरत्वेन पाहि मां पुरुषोत्तम ॥३॥

यस्मिन् देहेऽहमानीतः कर्मणा स्वेन राघव ! ।

तदन्ते देहि सायुज्यं पाहि मां पुरुषोत्तम ॥४॥

न गतिजनकीनाथ! त्वां बिना परमेश्वर ।

परां गति प्रपन्नं त्वां पाहि मां पुरुषोत्तम ॥५॥

मोहितो मायया तेऽहं दैव्या गुणविशिष्टया ।

शरण्यं त्वां प्रपन्नोऽस्मि पाहि मां पुरुषोत्तम ॥६॥

-इति महर्षिबौधायनकृत पुरुषोत्तम प्रपत्तिष्टकम् सम्पूर्णम्