पृष्ठम्:अग्निपुराणम्.pdf/४७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ अग्निपुराणे [२६७ अध्यायः । अनुलेपस्त्रिशक्तस्तु कर्पूरीशीरचन्दनः ॥१७॥ चन्दनागुरुकर्पूरमृगदर्यैः सकुङ्ग मैः । पञ्चामुलेपनं विष्णोः सर्वकामफलप्रदं ॥ १८ ।। त्रिसुगन्धञ्च कर्पूरं तथा चन्दनकङ्ग मैः । मृगदर्प' सकर्पूरं मलयं सर्वकामदम् ॥ १८ ॥ जातीफलं सकर्पूरं चन्दनञ्च विधीतकम् । पीतानि शुक्लवर्णानि तथा शुक्लानि भार्गव ।। २० ॥ कृष्णानि चैव रक्तानि पञ्चवर्णानि निर्दिशेत् । उत्पन्नं पद्मजाती च विशीतं हरिपूजने ॥ २१ ॥ कुकुम रक्तपद्मानि त्रिरक्त रक्तमुत्पलं । धूपदीपादिभिः प्रार्य विष्णु शान्तिर्भवेवणां ॥ २२ ॥ चतुरस्त्रकरे कुण्डे प्राह्मणाचाष्ट शोडश । लवडोमवोटिहोमन्तिलाज्ययवधान्यकैः ।। २३ ।। ग्रहानभ्यर्थे गायत्रया सर्वशान्तिः क्रमाद्भवेत् । इत्याग्नेये महापुराण माहेश्वरनामलक्षकोटिहोमादयो नाम षटषध्यधिकदिशततमोऽध्यायः । अथ सप्तषष्टयधिकदिशततमोऽध्यायः । नौराजनाविधिः । पुष्कर उवाच। कम सांवत्सरं राजा जन्मः पूजयेच्च तं । मासि मासि च संक्रान्तो सूर्यासोमादिदेवता ॥ १ ॥