५२अ०] देवीप्रतिमालचणकथनम् । १३० क्षेत्रपाला शूलवन्त प्रेता महोदरा कशा ॥ १७ ॥ इत्यादिमहापुराणे आग्नेये प्रतिमालचण नाम एकपञ्चाशत्तमोऽध्याय । अथ द्विपञ्चाशत्तमोऽध्याय' । देवोप्रतिमालचणम् | भगवानुवाच । योगिन्यष्टाष्टक वये ऐन्द्रादीशान्तत क्रमात् अक्षोभ्य रुचकर्णी च राक्षसी कृपणाक्षया ॥ १ ॥ पिनाची च तया चेमा इला लोलालया तथा । लोना लक्ता बलाकेशौ लालसा विमला पुन ॥ २ ॥ हताशा च विशालाक्षी हुद्वारा वडवामुखी । महारा क्रोधना तु भयङ्करी महानना ॥ ३ ॥ सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना । सारख्या रुद्रसङ्गग्राही सम्बरा तालजविका ॥ ४ ॥ रक्ताची सुप्रसिद्धा तु विद्यज्जिह्वा करङ्गिणी । मेघनादा प्रचण्डीया कालकर्णी वरप्रदा ॥ ५ ॥ चन्द्रा चन्द्रावली चैव प्रपञ्चा प्रलयान्तिका । शिणवक्ता पिशाची च पिशिताशा च लोलुपा ॥ ६ ॥ धमनी तापनी चैव रागियो विकृतानना । वायुवेगा बृहत्कुतिर्विकता विश्वरूपिका ॥ ७ ॥ यमजिता जयन्ती च दुर्जया व जयन्तिका । विडाली रेवती चैव पूतना विजयान्तिका ॥ ८ ॥ अष्टहस्ताश्चतुर्हस्ता इच्छास्त्रा सर्वसिद्धिदा ।
पृष्ठम्:अग्निपुराणम् सम्पादकः जीवानन्दविद्यासागरभट्टाचार्यः (१८८२).pdf/१४७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति